Wednesday, December 24, 2025

अयोध्याकाण्ड - Ayōdhyākāṇḍa (भाग - १९ ;;; Part – 19)

 

अयोध्याकाण्ड - Ayōdhyākāṇḍa (भाग - ;;; Part – 19)

Sarga number as per Ramayana

Shlokas extracted

No. of shlokas

Cumulative number of shlokas in this Kanda

75

तथैव क्रोशतस्तस्य भरतस्य महात्मनः |
कौसल्या शब्दमाज्ञाय सुमित्रामिदमब्रवीत् || १||

आगतः क्रूरकार्यायाः कैकेय्या भरतः सुतः |
तमहं द्रष्टुमिच्छामि भरतं दीर्घदर्शिनम् || २||

एवमुक्त्वा सुमित्रां सा विवर्णा मलिनाम्बरा |
प्रतस्थे भरतो यत्र वेपमाना विचेतना || ३||

स तु रामानुजश्चापि शत्रुघ्नसहितस्तदा |
प्रतस्थे भरतो यत्र कौसल्याया निवेशनम् || ४||

ततः शत्रुघ्न भरतौ कौसल्यां प्रेक्ष्य दुःखितौ |
पर्यष्वजेतां दुःखार्तां पतितां नष्टचेतनाम् || ५||

भरतं प्रत्युवाचेदं कौसल्या भृशदुःखिता |
इदं ते राज्यकामस्य राज्यं प्राप्तमकण्टकम् |
सम्प्राप्तं बत कैकेय्या शीघ्रं क्रूरेण कर्मणा || ६||

प्रस्थाप्य चीरवसनं पुत्रं मे वनवासिनम् |
कैकेयी कं गुणं तत्र पश्यति क्रूरदर्शिनी || ७||

क्षिप्रं मामपि कैकेयी प्रस्थापयितुमर्हति |
हिरण्यनाभो यत्रास्ते सुतो मे सुमहायशाः || ८||

अथ वा स्वयमेवाहं सुमित्रानुचरा सुखम् |
अग्निहोत्रं पुरस्कृत्य प्रस्थास्ये यत्र राघवः || ९||

कामं वा स्वयमेवाद्य तत्र मां नेतुमर्हसि |
यत्रासौ पुरुषव्याघ्रस्तप्यते मे तपः सुतः || १०||

इदं हि तव विस्तीर्णं धनधान्यसमाचितम् |
हस्त्यश्वरथसम्पूर्णं राज्यं निर्यातितं तया || ११||

एवं विलपमानां तां भरतः प्राञ्जलिस्तदा |
कौसल्यां प्रत्युवाचेदं शोकैर्बहुभिरावृताम् || १२||

आर्ये कस्मादजानन्तं गर्हसे मामकिल्बिषम् |
विपुलां च मम प्रीतिं स्थिरां जानासि राघवे || १३||

कृता शास्त्रानुगा बुद्धिर्मा भूत्तस्य कदा चन |
सत्यसन्धः सतां श्रेष्ठो यस्यार्योऽनुमते गतः || १४||

प्रैष्यं पापीयसां यातु सूर्यं च प्रति मेहतु |
हन्तु पादेन गां सुप्तां यस्यार्योऽनुमते गतः || १५||

कारयित्वा महत्कर्म भर्ता भृत्यमनर्थकम् |
अधर्मो योऽस्य सोऽस्यास्तु यस्यार्योऽनुमते गतः || १६||

परिपालयमानस्य राज्ञो भूतानि पुत्रवत् |
ततस्तु द्रुह्यतां पापं यस्यार्योऽनुमते गतः || १७||

बलिषड्भागमुद्धृत्य नृपस्यारक्षतः प्रजाः |
अधर्मो योऽस्य सोऽस्यास्तु यस्यार्योऽनुमते गतः || १८||

संश्रुत्य च तपस्विभ्यः सत्रे वै यज्ञदक्षिणाम् |
तां विप्रलपतां पापं यस्यार्योऽनुमते गतः || १९||

हस्त्यश्वरथसम्बाधे युद्धे शस्त्रसमाकुले |
मा स्म कार्षीत्सतां धर्मं यस्यार्योऽनुमते गतः || २०||

उपदिष्टं सुसूक्ष्मार्थं शास्त्रं यत्नेन धीमता |
स नाशयतु दुष्टात्मा यस्यार्योऽनुमते गतः || २१||

पायसं कृसरं छागं वृथा सोऽश्नातु निर्घृणः |
गुरूंश्चाप्यवजानातु यस्यार्योऽनुमते गतः || २२||

पुत्रैर्दारैश्च भृत्यैश्च स्वगृहे परिवारितः |
स एको मृष्टमश्नातु यस्यार्योऽनुमते गतः || २३||

राजस्त्रीबालवृद्धानां वधे यत्पापमुच्यते |
भृत्यत्यागे च यत्पापं तत्पापं प्रतिपद्यताम् || २४||

उभे सन्ध्ये शयानस्य यत्पापं परिकल्प्यते |
तच्च पापं भवेत्तस्य यस्यार्योऽनुमते गतः || २५||

यदग्निदायके पापं यत्पापं गुरुतल्पगे |
मित्रद्रोहे च यत्पापं तत्पापं प्रतिपद्यताम् || २६||

देवतानां पितॄणां च माता पित्रोस्तथैव च |
मा स्म कार्षीत्स शुश्रूषां यस्यार्योऽनुमते गतः || २७||

सतां लोकात्सतां कीर्त्याः सज्जुष्टात्कर्मणस्तथा |
भ्रश्यतु क्षिप्रमद्यैव यस्यार्योऽनुमते गतः || २८||

विहीनां पतिपुत्राभ्यां कौसल्यां पार्थिवात्मजः |
एवमाश्वसयन्नेव दुःखार्तो निपपात ह || २९||

तथा तु शपथैः कष्टैः शपमानमचेतनम् |
भरतं शोकसन्तप्तं कौसल्या वाक्यमब्रवीत् || ३०||

मम दुःखमिदं पुत्र भूयः समुपजायते |
शपथैः शपमानो हि प्राणानुपरुणत्सि मे || ३१||

दिष्ट्या न चलितो धर्मादात्मा ते सहलक्ष्मणः |
वत्स सत्यप्रतिज्ञो मे सतां लोकानवाप्स्यसि || ३२||

एवं विलपमानस्य दुःखार्तस्य महात्मनः |
मोहाच्च शोकसंरोधाद्बभूव लुलितं मनः || ३३||

लालप्यमानस्य विचेतनस्य
प्रनष्टबुद्धेः पतितस्य भूमौ |
मुहुर्मुहुर्निःश्वसतश्च दीर्घं
सा तस्य शोकेन जगाम रात्रिः || ३४||

34

1723

Bharata reproached her mother in the midst of the ministers that he never desired for the kingdom nor consulted about this matter with even his mother and that he was not aware of the proposed coronation, as he was living in a distant land.

On hearing and recognising the voice of Bharata, crying out in that manner, Kausalya proceeded to his place. Bharata, the younger brother of Rama on his part, along with Shatrughna started out to Kausalya's place.

When Kausalya uttered harsh words blaming his mother and himself, Bharata convinced that he was not aware of the plans of Kaikeyi.

76

तमेवं शोकसन्तप्तं भरतं केकयीसुतम् |
उवाच वदतां श्रेष्ठो वसिष्ठः श्रेष्ठवागृषिः || १||

अलं शोकेन भद्रं ते राजपुत्र महायशः |
प्राप्तकालं नरपतेः कुरु संयानमुत्तरम् || २||

वसिष्ठस्य वचः श्रुत्वा भरतो धारणां गतः |
प्रेतकार्याणि सर्वाणि कारयामास धर्मवित् || ३||

उद्धृतं तैलसङ्क्लेदात्स तु भूमौ निवेशितम् |
आपीतवर्णवदनं प्रसुप्तमिव भूमिपम् || ४||

निवेश्य शयने चाग्र्ये नानारत्नपरिष्कृते |
ततो दशरथं पुत्रो विललाप सुदुःखितः || ५||

किं ते व्यवसितं राजन्प्रोषिते मय्यनागते |
विवास्य रामं धर्मज्ञं लक्ष्मणं च महाबलम् || ६||

क्व यास्यसि महाराज हित्वेमं दुःखितं जनम् |
हीनं पुरुषसिंहेन रामेणाक्लिष्टकर्मणा || ७||

योगक्षेमं तु ते राजन्कोऽस्मिन्कल्पयिता पुरे |
त्वयि प्रयाते स्वस्तात रामे च वनमाश्रिते || ८||

विधवा पृथिवी राजंस्त्वया हीना न राजते |
हीनचन्द्रेव रजनी नगरी प्रतिभाति माम् || ९||

एवं विलपमानं तं भरतं दीनमानसं |
अब्रवीद्वचनं भूयो वसिष्ठस्तु महानृषिः || १०||

प्रेतकार्याणि यान्यस्य कर्तव्यानि विशाम्पतेः |
तान्यव्यग्रं महाबाहो क्रियतामविचारितम् || ११||

तथेति भरतो वाक्यं वसिष्ठस्याभिपूज्य तत् |
ऋत्विक्पुरोहिताचार्यांस्त्वरयामास सर्वशः || १२||

ये त्वग्रतो नरेन्द्रस्य अग्न्यगाराद्बहिष्कृताः |
ऋत्विग्भिर्याजकैश्चैव ते ह्रियन्ते यथाविधि || १३||

शिबिलायामथारोप्य राजानं गतचेतनम् |
बाष्पकण्ठा विमनसस्तमूहुः परिचारकाः || १४||

हिरण्यं च सुवर्णं च वासांसि विविधानि च |
प्रकिरन्तो जना मार्गं नृपतेरग्रतो ययुः || १५||

चन्दनागुरुनिर्यासान्सरलं पद्मकं तथा |
देवदारूणि चाहृत्य चितां चक्रुस्तथापरे || १६||

गन्धानुच्चावचांश्चान्यांस्तत्र दत्त्वाथ भूमिपम् |
ततः संवेशयामासुश्चितामध्ये तमृत्विजः || १७||

तथा हुताशनं हुत्वा जेपुस्तस्य तदर्त्विजः |
जगुश्च ते यथाशास्त्रं तत्र सामानि सामगाः || १८||

शिबिकाभिश्च यानैश्च यथार्हं तस्य योषितः |
नगरान्निर्ययुस्तत्र वृद्धैः परिवृतास्तदा || १९||

प्रसव्यं चापि तं चक्रुरृत्विजोऽग्निचितं नृपम् |
स्त्रियश्च शोकसन्तप्ताः कौसल्या प्रमुखास्तदा || २०||

क्रौञ्चीनामिव नारीणां निनादस्तत्र शुश्रुवे |
आर्तानां करुणं काले क्रोशन्तीनां सहस्रशः || २१||

ततो रुदन्त्यो विवशा विलप्य च पुनः पुनः |
यानेभ्यः सरयूतीरमवतेरुर्वराङ्गनाः || २२||

कृतोदकं ते भरतेन सार्धं
नृपाङ्गना मन्त्रिपुरोहिताश् च |
पुरं प्रविश्याश्रुपरीतनेत्रा
भूमौ दशाहं व्यनयन्त दुःखम् || २३||

23

1746

The sage Vasishta advised Bharata to perform the last rites to his father’s body.  Hence, Bharata performed the funeral rites of King Dasarath.  All concerned gathered and gave water oblations to the departed King Dasaratha.

77

ततो दशाहेऽतिगते कृतशौचो नृपात्मजः |
द्वादशेऽहनि सम्प्राप्ते श्राद्धकर्माण्यकारयत् || १||

ब्राह्मणेभ्यो ददौ रत्नं धनमन्नं च पुष्कलम् |
बास्तिकं बहुशुक्लं च गाश्चापि शतशस्तथा || २||

दासीदासं च यानं च वेश्मानि सुमहान्ति च |
ब्राह्मणेभ्यो ददौ पुत्रो राज्ञस्तस्यौर्ध्वदैहिकम् || ३||

ततः प्रभातसमये दिवसेऽथ त्रयोदशे |
विललाप महाबाहुर्भरतः शोकमूर्छितः || ४||

शब्दापिहितकण्ठश्च शोधनार्थमुपागतः |
चितामूले पितुर्वाक्यमिदमाह सुदुःखितः || ५||

तात यस्मिन्निषृष्टोऽहं त्वया भ्रातरि राघवे |
तस्मिन्वनं प्रव्रजिते शून्ये त्यक्तोऽस्म्यहं त्वया || ६||

यथागतिरनाथायाः पुत्रः प्रव्राजितो वनम् |
तामम्बां तात कौसल्यां त्यक्त्वा त्वं क्व गतो नृप || ७||

दृष्ट्वा भस्मारुणं तच्च दग्धास्थिस्थानमण्डलम् |
पितुः शरीर निर्वाणं निष्टनन्विषसाद ह || ८||

स तु दृष्ट्वा रुदन्दीनः पपात धरणीतले |
उत्थाप्यमानः शक्रस्य यन्त्र ध्वज इव च्युतः || ९||

अभिपेतुस्ततः सर्वे तस्यामात्याः शुचिव्रतम् |
अन्तकाले निपतितं ययातिमृषयो यथा || १०||

शत्रुघ्नश्चापि भरतं दृष्ट्वा शोकपरिप्लुतम् |
विसंज्ञो न्यपतद्भूमौ भूमिपालमनुस्मरन् || ११||

उन्मत्त इव निश्चेता विललाप सुदुःखितः |
स्मृत्वा पितुर्गुणाङ्गानि तानि तानि तदा तदा || १२||

मन्थरा प्रभवस्तीव्रः कैकेयीग्राहसङ्कुलः |
वरदानमयोऽक्षोभ्योऽमज्जयच्छोकसागरः || १३||

सुकुमारं च बालं च सततं लालितं त्वया |
क्व तात भरतं हित्वा विलपन्तं गतो भवान् || १४||

ननु भोज्येषु पानेषु वस्त्रेष्वाभरणेषु च |
प्रवारयसि नः सर्वांस्तन्नः कोऽद्य करिष्यति || १५||

अवदारण काले तु पृथिवी नावदीर्यते |
विहीना या त्वया राज्ञा धर्मज्ञेन महात्मना || १६||

पितरि स्वर्गमापन्ने रामे चारण्यमाश्रिते |
किं मे जीवित सामर्थ्यं प्रवेक्ष्यामि हुताशनम् || १७||

हीनो भ्रात्रा च पित्रा च शून्यामिक्ष्वाकुपालिताम् |
अयोध्यां न प्रवेक्ष्यामि प्रवेक्ष्यामि तपोवनम् || १८||

तयोर्विलपितं श्रुत्वा व्यसनं चान्ववेक्ष्य तत् |
भृशमार्ततरा भूयः सर्व एवानुगामिनः || १९||

ततो विषण्णौ श्रान्तौ च शत्रुघ्न भरतावुभौ |
धरण्यां संव्यचेष्टेतां भग्नशृङ्गाविवर्षभौ || २०||

ततः प्रकृतिमान्वैद्यः पितुरेषां पुरोहितः |
वसिष्ठो भरतं वाक्यमुत्थाप्य तमुवाच ह || २१||

त्रीणि द्वन्द्वानि भूतेषु प्रवृत्तान्यविशेषतः |
तेषु चापरिहार्येषु नैवं भवितुमर्हति || २२||

सुमन्त्रश्चापि शत्रुघ्नमुत्थाप्याभिप्रसाद्य च |
श्रावयामास तत्त्वज्ञः सर्वभूतभवाभवौ || २३||

उत्थितौ तौ नरव्याघ्रौ प्रकाशेते यशस्विनौ |
वर्षातपपरिक्लिन्नौ पृथगिन्द्रध्वजाविव || २४||

अश्रूणि परिमृद्नन्तौ रक्ताक्षौ दीनभाषिणौ |
अमात्यास्त्वरयन्ति स्म तनयौ चापराः क्रियाः || २५||

25

1771

After completion of funeral rites, as laid down in the scriptures, Bharata and Shatrugna started weeping in the burial grounds.  And, Sage Vasistha consoled them.

78

अत्र यात्रां समीहन्तं शत्रुघ्नो लक्ष्मणानुजः |
भरतं शोकसन्तप्तमिदं वचनमब्रवीत् || १||

गतिर्यः सर्वभूतानां दुःखे किं पुनरात्मनः |
स रामः सत्त्व सम्पन्नः स्त्रिया प्रव्राजितो वनम् || २||

बलवान्वीर्य सम्पन्नो लक्ष्मणो नाम योऽप्यसौ |
किं न मोचयते रामं कृत्वापि पितृनिग्रहम् || ३||

पूर्वमेव तु निग्राह्यः समवेक्ष्य नयानयौ |
उत्पथं यः समारूढो नार्या राजा वशं गतः || ४||

इति सम्भाषमाणे तु शत्रुघ्ने लक्ष्मणानुजे |
प्राग्द्वारेऽभूत्तदा कुब्जा सर्वाभरणभूषिता || ५||

लिप्ता चन्दनसारेण राजवस्त्राणि बिभ्रती |
मेखला दामभिश्चित्रै रज्जुबद्धेव वानरी || ६||

तां समीक्ष्य तदा द्वाःस्थो भृशं पापस्य कारिणीम् |
गृहीत्वाकरुणं कुब्जां शत्रुघ्नाय न्यवेदयत् || ७||

यस्याः कृते वने रामो न्यस्तदेहश्च वः पिता |
सेयं पापा नृशंसा च तस्याः कुरु यथामति || ८||

शत्रुघ्नश्च तदाज्ञाय वचनं भृशदुःखितः |
अन्तःपुरचरान्सर्वानित्युवाच धृतव्रतः || ९||

तीव्रमुत्पादितं दुःखं भ्रातॄणां मे तथा पितुः |
यया सेयं नृशंसस्य कर्मणः फलमश्नुताम् || १०||

एवमुक्ता च तेनाशु सखी जनसमावृता |
गृहीता बलवत्कुब्जा सा तद्गृहमनादयत् || ११||

ततः सुभृश सन्तप्तस्तस्याः सर्वः सखीजनः |
क्रुद्धमाज्ञाय शत्रुघ्नं व्यपलायत सर्वशः || १२||

अमन्त्रयत कृत्स्नश्च तस्याः सर्वसखीजनः |
यथायं समुपक्रान्तो निःशेषं नः करिष्यति || १३||

सानुक्रोशां वदान्यां च धर्मज्ञां च यशस्विनीम् |
कौसल्यां शरणं यामः सा हि नोऽस्तु ध्रुवा गतिः || १४||

स च रोषेण ताम्राक्षः शत्रुघ्नः शत्रुतापनः |
विचकर्ष तदा कुब्जां क्रोशन्तीं पृथिवीतले || १५||

तस्या ह्याकृष्यमाणाया मन्थरायास्ततस्ततः |
चित्रं बहुविधं भाण्डं पृथिव्यां तद्व्यशीर्यत || १६||

तेन भाण्डेन सङ्कीर्णं श्रीमद्राजनिवेशनम् |
अशोभत तदा भूयः शारदं गगनं यथा || १७||

स बली बलवत्क्रोधाद्गृहीत्वा पुरुषर्षभः |
कैकेयीमभिनिर्भर्त्स्य बभाषे परुषं वचः || १८||

तैर्वाक्यैः परुषैर्दुःखैः कैकेयी भृशदुःखिता |
शत्रुघ्न भयसन्त्रस्ता पुत्रं शरणमागता || १९||

तां प्रेक्ष्य भरतः क्रुद्धं शत्रुघ्नमिदमब्रवीत् |
अवध्याः सर्वभूतानां प्रमदाः क्षम्यताम् इति || २०||

हन्यामहमिमां पापां कैकेयीं दुष्टचारिणीम् |
यदि मां धार्मिको रामो नासूयेन्मातृघातकम् || २१||

इमामपि हतां कुब्जां यदि जानाति राघवः |
त्वां च मां चैव धर्मात्मा नाभिभाषिष्यते ध्रुवम् || २२||

भरतस्य वचः श्रुत्वा शत्रुघ्नो लक्ष्मणानुजः |
न्यवर्तत ततो रोषात्तां मुमोच च मन्थराम् || २३||

सा पादमूले कैकेय्या मन्थरा निपपात ह |
निःश्वसन्ती सुदुःखार्ता कृपणं विललाप च || २४||

शत्रुघ्नविक्षेपविमूढसंज्ञां
समीक्ष्य कुब्जां भरतस्य माता |
शनैः समाश्वासयदार्तरूपां
क्रौञ्चीं विलग्नामिव वीक्षमाणाम् || २५||

25

1796

Thereafter, Shatrughna the younger brother of Lakshmana, caught hold of Manthara and dragged on the floor and brought to the place where Bharata stood.  Kaikeyi tried to stop Shatrugna from harming Manthara, but invain.  Finally, told him to pardon Manthara and hence, she was let off.

इत्यार्षे श्री रामायणे अयोध्याकाण्डे एकोनविंश: भाग:

 

Ayōdhyākāṇḍa Part-18

Ayōdhyākāṇḍa Part-20

 

 

No comments:

Post a Comment