Friday, December 19, 2025

अयोध्याकाण्ड - Ayōdhyākāṇḍa (भाग - ३ ;;; Part – 3)

 

अयोध्याकाण्ड - Ayōdhyākāṇḍa (भाग - ;;; Part – 3)

Sarga number as per Ramayana

Shlokas extracted

No. of shlokas

Cumulative number of shlokas in this Kanda

7

ज्ञातिदासी यतो जाता कैकेय्यास्तु सहोषिता |
प्रासादं चन्द्रसङ्काशमारुरोह यदृच्छया || १||

सिक्तराजपथां कृत्स्नां प्रकीर्णकमलोत्पलाम् |
अयोध्यां मन्थरा तस्मात्प्रासादादन्ववैक्षत || २||

पताकाभिर्वरार्हाभिर्ध्वजैश्च समलङ्कृताम् |
सिक्तां चन्दनतोयैश्च शिरःस्नातजनैर्वृताम् || ३||

अविदूरे स्थितां दृष्ट्वा धात्रीं पप्रच्छ मन्थरा |
उत्तमेनाभिसंयुक्ता हर्षेणार्थपरा सती || ४||

राममाता धनं किं नु जनेभ्यः सम्प्रयच्छति |
अतिमात्रं प्रहर्षोऽयं किं जनस्य च शंस मे |
कारयिष्यति किं वापि सम्प्रहृष्टो महीपतिः || ५||

विदीर्यमाणा हर्षेण धात्री परमया मुदा |
आचचक्षेऽथ कुब्जायै भूयसीं राघवे श्रियम् || ६||

श्वः पुष्येण जितक्रोधं यौवराज्येन राघवम् |
राजा दशरथो राममभिषेचयितानघम् || ७||

धात्र्यास्तु वचनं श्रुत्वा कुब्जा क्षिप्रममर्षिता |
कैलास शिखराकारात्प्रासादादवरोहत || ८||

सा दह्यमाना कोपेन मन्थरा पापदर्शिनी |
शयानामेत्य कैकेयीमिदं वचनमब्रवीत् || ९||

उत्तिष्ठ मूढे किं शेषे भयं त्वाम् अभिवर्तते |
उपप्लुतमहौघेन किमात्मानं न बुध्यसे || १०||

अनिष्टे सुभगाकारे सौभाग्येन विकत्थसे |
चलं हि तव सौभाग्यं नद्यः स्रोत इवोष्णगे || ११||

एवमुक्ता तु कैकेयी रुष्टया परुषं वचः |
कुब्जया पापदर्शिन्या विषादमगमत्परम् || १२||

कैकेयी त्वब्रवीत्कुब्जां कच्चित्क्षेमं न मन्थरे |
विषण्णवदनां हि त्वां लक्षये भृशदुःखिताम् || १३||

मन्थरा तु वचः श्रुत्वा कैकेय्या मधुराक्षरम् |
उवाच क्रोधसंयुक्ता वाक्यं वाक्यविशारदा || १४||

सा विषण्णतरा भूत्वा कुब्जा तस्या हितैषिणी |
विषादयन्ती प्रोवाच भेदयन्ती च राघवम् || १५||

अक्षेमं सुमहद्देवि प्रवृत्तं त्वद्विनाशनम् |
रामं दशरथो राजा यौवराज्येऽभिषेक्ष्यति || १६||

सास्म्यगाधे भये मग्ना दुःखशोकसमन्विता |
दह्यमानानलेनेव त्वद्धितार्थमिहागता || १७||

तव दुःखेन कैकेयि मम दुःखं महद्भवेत् |
त्वद्वृद्धौ मम वृद्धिश्च भवेदत्र न संशयः || १८||

यथा हि कुर्यात्सर्पो वा शत्रुर्वा प्रत्युपेक्षितः |
राज्ञा दशरथेनाद्य सपुत्रा त्वं तथा कृता || १९||

मन्थराया वचः श्रुत्वा शयनात्स शुभानना |
एवमाभरणं तस्यै कुब्जायै प्रददौ शुभम् || २०||

दत्त्वा त्वाभरणं तस्यै कुब्जायै प्रमदोत्तमा |
कैकेयी मन्थरां हृष्टा पुनरेवाब्रवीदिदम् || २१||

इदं तु मन्थरे मह्यमाख्यासि परमं प्रियम् |
एतन्मे प्रियमाख्यातुः किं वा भूयः करोमि ते || २२||

रामे वा भरते वाहं विशेषं नोपलक्षये |
तस्मात्तुष्टास्मि यद्राजा रामं राज्येऽभिषेक्ष्यति || २३||

न मे परं किं चिदितस्त्वया पुनः
प्रियं प्रियार्हे सुवचं वचो वरम् |
तथा ह्यवोचस्त्वमतः प्रियोत्तरं
वरं परं ते प्रददामि तं वृणु || २४||

24

162

Manthara, a housemaid who was residing with Kaikeyi since her birth, comes to know that king Dasaratha was going to anoint Shri Rama as the Prince Regent.  When she informs this news  to Kaikeyi, expressing her anguish about anointing Shri Rama, instead of Bharata - the son of Kaikeyi, as the Prince Regent.

To her surprise, instead of getting angry, Kaikeyi expresses happiness on Shri Rama being anointed as the Prince Regent. 

8

मन्थरा त्वभ्यसूय्यैनामुत्सृज्याभरणं च तत् |
उवाचेदं ततो वाक्यं कोपदुःखसमन्विता || १||

हर्षं किमिदमस्थाने कृतवत्यसि बालिशे |
शोकसागरमध्यस्थमात्मानं नावबुध्यसे || २||

सुभगा खलु कौसल्या यस्याः पुत्रोऽभिषेक्ष्यते |
यौवराज्येन महता श्वः पुष्येण द्विजोत्तमैः || ३||

प्राप्तां सुमहतीं प्रीतिं प्रतीतां तां हतद्विषम् |
उपस्थास्यसि कौसल्यां दासीव त्वं कृताञ्जलिः || ४||

हृष्टाः खलु भविष्यन्ति रामस्य परमाः स्त्रियः |
अप्रहृष्टा भविष्यन्ति स्नुषास्ते भरतक्षये || ५||

तां दृष्ट्वा परमप्रीतां ब्रुवन्तीं मन्थरां ततः |
रामस्यैव गुणान्देवी कैकेयी प्रशशंस ह || ६||

धर्मज्ञो गुरुभिर्दान्तः कृतज्ञः सत्यवाक्षुचिः |
रामो राज्ञः सुतो ज्येष्ठो यौवराज्यमतोऽर्हति || ७||

भ्रातॄन्भृत्यांश्च दीर्घायुः पितृवत्पालयिष्यति |
सन्तप्यसे कथं कुब्जे श्रुत्वा रामाभिषेचनम् || ८||

भरतश्चापि रामस्य ध्रुवं वर्षशतात्परम् |
पितृपैतामहं राज्यमवाप्स्यति नरर्षभः || ९||

सा त्वमभ्युदये प्राप्ते वर्तमाने च मन्थरे |
भविष्यति च कल्याणे किमर्थं परितप्यसे |
कौसल्यातोऽतिरिक्तं च स तु शुश्रूषते हि माम् || १०||

कैकेय्या वचनं श्रुत्वा मन्थरा भृशदुःखिता |
दीर्घमुष्णं विनिःश्वस्य कैकेयीमिदमब्रवीत् || ११||

अनर्थदर्शिनी मौर्ख्यान्नात्मानमवबुध्यसे |
शोकव्यसनविस्तीर्णे मज्जन्ती दुःखसागरे || १२||

भविता राघवो राजा राघवस्य च यः सुतः |
राजवंशात्तु भरतः कैकेयि परिहास्यते || १३||

न हि राज्ञः सुताः सर्वे राज्ये तिष्ठन्ति भामिनि |
स्थाप्यमानेषु सर्वेषु सुमहाननयो भवेत् || १४||

तस्माज्ज्येष्ठे हि कैकेयि राज्यतन्त्राणि पार्थिवाः |
स्थापयन्त्यनवद्याङ्गि गुणवत्स्वितरेष्वपि || १५||

असावत्यन्तनिर्भग्नस्तव पुत्रो भविष्यति |
अनाथवत्सुखेभ्यश्च राजवंशाच्च वत्सले || १६||

साहं त्वदर्थे सम्प्राप्ता त्वं तु मां नावबुध्यसे |
सपत्निवृद्धौ या मे त्वं प्रदेयं दातुमिच्छसि || १७||

17

179

Manthara, becoming indignant with Kaikeyi, taunts her for showing apathy towards her own son Bharata.  She further provokes Kaikeyi that when Shri Rama becomes the king, Bharata and she had serve Kausalya and Shri Rama.  She added that if Shri Rama becomes king, his son will become the king after him in succession and Bharata and his sons will forever remain in sidelines.

Kaikeyi gets provoked by these words and asks for advise of Manthara. 

9

एवमुक्ता तु कैकेयी क्रोधेन ज्वलितानना |
दीर्घमुष्णं विनिःश्वस्य मन्थरामिदमब्रवीत् || १||

अद्य राममितः क्षिप्रं वनं प्रस्थापयाम्यहम् |
यौवराज्येन भरतं क्षिप्रमेवाभिषेचये || २||

इदं त्विदानीं सम्पश्य केनोपायेन मन्थरे |
भरतः प्राप्नुयाद्राज्यं न तु रामः कथं चन || ३||

एवमुक्ता तया देव्या मन्थरा पापदर्शिनी |
रामार्थमुपहिंसन्ती कैकेयीमिदमब्रवीत् || ४||

हन्तेदानीं प्रवक्ष्यामि कैकेयि श्रूयतां च मे |
यथा ते भरतो राज्यं पुत्रः प्राप्स्यति केवलम् || ५||

श्रुत्वैवं वचनं तस्या मन्थरायास्तु कैकयी |
किं चिदुत्थाय शयनात्स्वास्तीर्णादिदमब्रवीत् || ६||

कथय त्वं ममोपायं केनोपायेन मन्थरे |
भरतः प्राप्नुयाद्राज्यं न तु रामः कथं चन || ७||

एवमुक्ता तया देव्या मन्थरा पापदर्शिनी |
रामार्थमुपहिंसन्ती कुब्जा वचनमब्रवीत् || ८||

तव देवासुरे युद्धे सह राजर्षिभिः पतिः |
अगच्छत्त्वामुपादाय देवराजस्य साह्यकृत् || ९||

दिशमास्थाय कैकेयि दक्षिणां दण्डकान्प्रति |
वैजयन्तमिति ख्यातं पुरं यत्र तिमिध्वजः || १०||

स शम्बर इति ख्यातः शतमायो महासुरः |
ददौ शक्रस्य सङ्ग्रामं देवसङ्घैरनिर्जितः || ११||

तस्मिन्महति सङ्ग्रामे राजा दशरथस्तदा |
अपवाह्य त्वया देवि सङ्ग्रामान्नष्टचेतनः || १२||

तत्रापि विक्षतः शस्त्रैः पतिस्ते रक्षितस्त्वया |
तुष्टेन तेन दत्तौ ते द्वौ वरौ शुभदर्शने || १३||

स त्वयोक्तः पतिर्देवि यदेच्छेयं तदा वरौ |
गृह्णीयामिति तत्तेन तथेत्युक्तं महात्मना |
अनभिज्ञा ह्यहं देवि त्वयैव कथितं पुरा || १४||

तौ वरौ याच भर्तारं भरतस्याभिषेचनम् |
प्रव्राजनं च रामस्य त्वं वर्षाणि चतुर्दश || १५||

क्रोधागारं प्रविश्याद्य क्रुद्धेवाश्वपतेः सुते |
शेष्वानन्तर्हितायां त्वं भूमौ मलिनवासिनी |
मा स्मैनं प्रत्युदीक्षेथा मा चैनमभिभाषथाः || १६||

दयिता त्वं सदा भर्तुरत्र मे नास्ति संशयः |
त्वत्कृते च महाराजो विशेदपि हुताशनम् || १७||

न त्वां क्रोधयितुं शक्तो न क्रुद्धां प्रत्युदीक्षितुम् |
तव प्रियार्थं राजा हि प्राणानपि परित्यजेत् || १८||

न ह्यतिक्रमितुं शक्तस्तव वाक्यं महीपतिः |
मन्दस्वभावे बुध्यस्व सौभाग्यबलमात्मनः || १९||

मणिमुक्तासुवर्णानि रत्नानि विविधानि च |
दद्याद्दशरथो राजा मा स्म तेषु मनः कृथाः || २०||

यौ तौ देवासुरे युद्धे वरौ दशरथोऽददात् |
तौ स्मारय महाभागे सोऽर्थो मा त्वाम् अतिक्रमेत् || २१||

यदा तु ते वरं दद्यात्स्वयमुत्थाप्य राघवः |
व्यवस्थाप्य महाराजं त्वमिमं वृणुया वरम् || २२||

रामं प्रव्राजयारण्ये नव वर्षाणि पञ्च च |
भरतः क्रियतां राजा पृथिव्यां पार्थिवर्षभः || २३||

एवं प्रव्राजितश्चैव रामोऽरामो भविष्यति |
भरतश्च हतामित्रस्तव राजा भविष्यति || २४||

येन कालेन रामश्च वनात्प्रत्यागमिष्यति |
तेन कालेन पुत्रस्ते कृतमूलो भविष्यति |
सङ्गृहीतमनुष्यश्च सुहृद्भिः सार्धमात्मवान् || २५||

प्राप्तकालं तु ते मन्ये राजानं वीतसाध्वसा |
रामाभिषेकसङ्कल्पान्निगृह्य विनिवर्तय || २६||

तथा प्रोत्साहिता देवी गत्वा मन्थरया सह |
क्रोधागारं विशालाक्षी सौभाग्यमदगर्विता || २७||

अनेकशतसाहस्रं मुक्ताहारं वराङ्गना |
अवमुच्य वरार्हाणि शुभान्याभरणानि च || २८||

ततो हेमोपमा तत्र कुब्जा वाक्यं वशं गता |
संविश्य भूमौ कैकेयी मन्थरामिदमब्रवीत् || २९||

न सुवर्णेन मे ह्यर्थो न रत्नैर्न च भूषणैः |
एष मे जीवितस्यान्तो रामो यद्यभिषिच्यते ||३०||

अथैतदुक्त्वा वचनं सुदारुणं
निधाय सर्वाभरणानि भामिनी |
असंवृतामास्तरणेन मेदिनीं
तदाधिशिश्ये पतितेव किन्नरी || ३१||

उदीर्णसंरम्भतमोवृतानना
तथावमुक्तोत्तममाल्यभूषणा |
नरेन्द्रपत्नी विमना बभूव सा
तमोवृता द्यौरिव मग्नतारका || ३२||

32

211

Then, Kaikeyi asks Manthara to tell a plan to make her son Bharata the King.

Manthara reminds her of the two boons that she had received, but not yet utilised, from King Dasaratha, when she saved him in a war with Demons.

Manthara’s plan is :

Kaikeyi should ask her husband those two boons now,ie. (i) anointing Bharata for princely kingdom and (ii) sending Shri Rama to exile for fourteen years."

As per the adivse of Manthara, Kaikeyi entered the chamber of wrath along with Manthara, lied on the floor there like a golden creeper waiting for her husband to arrive.

इत्यार्षे श्री रामायणे अयोध्याकाण्डे तृतीय: भाग:

 

Ayōdhyākāṇḍa Part-2

Ayōdhyākāṇḍa Part-4

No comments:

Post a Comment