Thursday, December 25, 2025

अयोध्याकाण्ड - Ayōdhyākāṇḍa (भाग - २१ ;;; Part – 21)

 

अयोध्याकाण्ड - Ayōdhyākāṇḍa (भाग - ;;; Part – 21)

Sarga number as per Ramayana

Shlokas extracted

No. of shlokas

Cumulative number of shlokas in this Kanda

85

एवमुक्तस्तु भरतो निषादाधिपतिं गुहम् |
प्रत्युवाच महाप्राज्ञो वाक्यं हेत्वर्थसंहितम् || १||

ऊर्जितः खलु ते कामः कृतो मम गुरोः सखे |
यो मे त्वमीदृशीं सेनाम् एकोऽभ्यर्चितुमिच्छसि || २||

इत्युक्त्वा तु महातेजा गुहं वचनमुत्तमम् |
अब्रवीद्भरतः श्रीमान्निषादाधिपतिं पुनः || ३||

कतरेण गमिष्यामि भरद्वाजाश्रमं गुह |
गहनोऽयं भृशं देशो गङ्गानूपो दुरत्ययः || ४||

तस्य तद्वचनं श्रुत्वा राजपुत्रस्य धीमतः |
अब्रवीत्प्राञ्जलिर्वाक्यं गुहो गहनगोचरः || ५||

दाशास्त्वनुगमिष्यन्ति धन्विनः सुसमाहिताः |
अहं चानुगमिष्यामि राजपुत्र महायशः || ६||

कच्चिन्न दुष्टो व्रजसि रामस्याक्लिष्टकर्मणः |
इयं ते महती सेना शङ्कां जनयतीव मे || ७||

तमेवमभिभाषन्तमाकाश इव निर्मलः |
भरतः श्लक्ष्णया वाचा गुहं वचनमब्रवीत् || ८||

मा भूत्स कालो यत्कष्टं न मां शङ्कितुमर्हसि |
राघवः स हि मे भ्राता ज्येष्ठः पितृसमो मम || ९||

तं निवर्तयितुं यामि काकुत्स्थं वनवासिनम् |
बुद्धिरन्या न ते कार्या गुह सत्यं ब्रवीमि ते || १०||

स तु संहृष्टवदनः श्रुत्वा भरतभाषितम् |
पुनरेवाब्रवीद्वाक्यं भरतं प्रति हर्षितः || ११||

धन्यस्त्वं न त्वया तुल्यं पश्यामि जगतीतले |
अयत्नादागतं राज्यं यस्त्वं त्यक्तुमिहेच्छसि || १२||

शाश्वती खलु ते कीर्तिर्लोकाननुचरिष्यति |
यस्त्वं कृच्छ्रगतं रामं प्रत्यानयितुमिच्छसि || १३||

एवं सम्भाषमाणस्य गुहस्य भरतं तदा |
बभौ नष्टप्रभः सूर्यो रजनी चाभ्यवर्तत || १४||

संनिवेश्य स तां सेनां गुहेन परितोषितः |
शत्रुघ्नेन सह श्रीमाञ्शयनं पुनरागमत् || १५||

रामचिन्तामयः शोको भरतस्य महात्मनः |
उपस्थितो ह्यनर्हस्य धर्मप्रेक्षस्य तादृशः || १६||

16

1896

Bharata expresses gratitude to Guha for having come forward to offer hospitality to him and his army. He enquires about the proper route to proceed to the hermitage of Sage Bharadvaja. Guha assures Bharata that he along with some of his ferrymen would follow him as guides. When Guha queries Bharata whether he is harbouring any evil intention towards Shri Rama, Bharata clarifies him that he is proceeding to Shri Rama’s place to bring him back to Ayodhya. When night falls Bharata along with Shatrughna and his army take rest.

89

व्युष्य रात्रिं तु तत्रैव गङ्गाकूले स राघवः |
भरतः काल्यमुत्थाय शत्रुघ्नमिदमब्रवीत् || १||

शत्रुघोत्तिष्ठ किं शेषे निषादाधिपतिं गुहम् |
शीघ्रमानय भद्रं ते तारयिष्यति वाहिनीम् || २||

जागर्मि नाहं स्वपिमि तथैवार्यं विचिन्तयन् |
इत्येवमब्रवीद्भ्रात्रा शत्रुघ्नोऽपि प्रचोदितः || ३||

इति संवदतोरेवमन्योन्यं नरसिंहयोः |
आगम्य प्राञ्जलिः काले गुहो भरतमब्रवीत् || ४||

कच्चित्सुखं नदीतीरेऽवात्सीः काकुत्स्थ शर्वरीम् |
कच्चिच्च सह सैन्यस्य तव सर्वमनामयम् || ५||

गुहस्य तत्तु वचनं श्रुत्वा स्नेहादुदीरितम् |
रामस्यानुवशो वाक्यं भरतोऽपीदमब्रवीत् || ६||

सुखा नः शर्वरी राजन्पूजिताश्चापि ते वयम् |
गङ्गां तु नौभिर्बह्वीभिर्दाशाः सन्तारयन्तु नः || ७||

ततो गुहः सन्त्वरितः श्रुत्वा भरतशासनम् |
प्रतिप्रविश्य नगरं तं ज्ञातिजनमब्रवीत् || ८||

उत्तिष्ठत प्रबुध्यध्वं भद्रमस्तु हि वः सदा |
नावः समनुकर्षध्वं तारयिष्याम वाहिनीम् || ९||

ते तथोक्ताः समुत्थाय त्वरिता राजशासनात् |
पञ्च नावां शतान्येव समानिन्युः समन्ततः || १०||

अन्याः स्वस्तिकविज्ञेया महाघण्डा धरा वराः |
शोभमानाः पताकिन्यो युक्तवाताः सुसंहताः || ११||

ततः स्वस्तिकविज्ञेयां पाण्डुकम्बलसंवृताम् |
सनन्दिघोषां कल्याणीं गुहो नावमुपाहरत् || १२||

तामारुरोह भरतः शत्रुघ्नश्च महाबलः |
कौसल्या च सुमित्रा च याश्चान्या राजयोषितः || १३||

पुरोहितश्च तत्पूर्वं गुरवे ब्राह्मणाश् च ये |
अनन्तरं राजदारास्तथैव शकटापणाः || १४||

आवासमादीपयतां तीर्थं चाप्यवगाहताम् |
भाण्डानि चाददानानां घोषस्त्रिदिवमस्पृशत् || १५||

पताकिन्यस्तु ता नावः स्वयं दाशैरधिष्ठिताः |
वहन्त्यो जनमारूढं तदा सम्पेतुराशुगाः || १६||

नारीणामभिपूर्णास्तु काश्चित्काश्चित्तु वाजिनाम् |
कश्चित्तत्र वहन्ति स्म यानयुग्यं महाधनम् || १७||

ताः स्म गत्वा परं तीरमवरोप्य च तं जनम् |
निवृत्ताः काण्डचित्राणि क्रियन्ते दाशबन्धुभिः || १८||

सवैजयन्तास्तु गजा गजारोहैः प्रचोदिताः |
तरन्तः स्म प्रकाशन्ते सध्वजा इव पर्वताः || १९||

नावश्चारुरुहुस्त्वन्ये प्लवैस्तेरुस्तथापरे |
अन्ये कुम्भघटैस्तेरुरन्ये तेरुश्च बाहुभिः || २०||

सा पुण्या ध्वजिनी गङ्गां दाशैः सन्तारिता स्वयम् |
मैत्रे मुहूर्ते प्रययौ प्रयागवनमुत्तमम् || २१||

आश्वासयित्वा च चमूं महात्मा
निवेशयित्वा च यथोपजोषम् |
द्रष्टुं भरद्वाजमृषिप्रवर्यम्
ऋत्विग्वृतः सन्भरतः प्रतस्थे || २२||

22

1918

Spending the night on the banks of Ganga, Bharata asks Guha to make arrangements for their troops to cross the river by boats. Accordingly, Guha has kept ready five hundred boats with their ferry-men for the purpose. All of them reach the other bank of the river Ganga. Encamping the army at the shore in the magnificent woods of the confluence point of Ganga and Yamuna rivers, Bharata along with the priests and king's counsellors, approach the hermitage of Sage Bharadwaja.

90

भरद्वाजाश्रमं दृष्ट्वा क्रोशादेव नरर्षभः |
बलं सर्वमवस्थाप्य जगाम सह मन्त्रिभिः || १||

पद्भ्यामेव हि धर्मज्ञो न्यस्तशस्त्रपरिच्छदः |
वसानो वाससी क्षौमे पुरोधाय पुरोहितम् || २||

ततः सन्दर्शने तस्य भरद्वाजस्य राघवः |
मन्त्रिणस्तानवस्थाप्य जगामानु पुरोहितम् || ३||

वसिष्ठमथ दृष्ट्वैव भरद्वाजो महातपाः |
सञ्चचालासनात्तूर्णं शिष्यानर्घ्यमिति ब्रुवन् || ४||

समागम्य वसिष्ठेन भरतेनाभिवादितः |
अबुध्यत महातेजाः सुतं दशरथस्य तम् || ५||

ताभ्यामर्घ्यं च पाद्यं च दत्त्वा पश्चात्फलानि च |
आनुपूर्व्याच्च धर्मज्ञः पप्रच्छ कुशलं कुले || ६||

अयोध्यायां बले कोशे मित्रेष्वपि च मन्त्रिषु |
जानन्दशरथं वृत्तं न राजानमुदाहरत् || ७||

वसिष्ठो भरतश्चैनं पप्रच्छतुरनामयम् |
शरीरेऽग्निषु वृक्षेषु शिष्येषु मृगपक्षिषु || ८||

तथेति च प्रतिज्ञाय भरद्वाजो महातपाः |
भरतं प्रत्युवाचेदं राघवस्नेहबन्धनात् || ९||

किमिहागमने कार्यं तव राज्यं प्रशासतः |
एतदाचक्ष्व मे सर्वं न हि मे शुध्यते मनः || १०||

सुषुवे यम मित्रघ्नं कौसल्यानन्दवर्धनम् |
भ्रात्रा सह सभार्यो यश्चिरं प्रव्राजितो वनम् || ११||

नियुक्तः स्त्रीनियुक्तेन पित्रा योऽसौ महायशाः |
वनवासी भवेतीह समाः किल चतुर्दश || १२||

कच्चिन्न तस्यापापस्य पापं कर्तुमिहेच्छसि |
अकण्टकं भोक्तुमना राज्यं तस्यानुजस्य च || १३||

एवमुक्तो भरद्वाजं भरतः प्रत्युवाच ह |
पर्यश्रु नयनो दुःखाद्वाचा संसज्जमानया || १४||

हतोऽस्मि यदि मामेवं भगवानपि मन्यते |
मत्तो न दोषमाशङ्केर्नैवं मामनुशाधि हि || १५||

अंश्चैतदिष्टं माता मे यदवोचन्मदन्तरे |
नाहमेतेन तुष्टश्च न तद्वचनमाददे || १६||

अहं तु तं नरव्याघ्रमुपयातः प्रसादकः |
प्रतिनेतुमयोध्यां च पादौ तस्याभिवन्दितुम् || १७||

त्वं मामेवं गतं मत्वा प्रसादं कर्तुमर्हसि |
शंस मे भगवन्रामः क्व सम्प्रति महीपतिः || १८||

उवाच तं भरद्वाजः प्रसादाद्भरतं वचः |
त्वय्येतत्पुरुषव्याघ्रं युक्तं राघववंशजे |
गुरुवृत्तिर्दमश्चैव साधूनां चानुयायिता || १९||

जाने चैतन्मनःस्थं ते दृढीकरणमस्त्विति |
अपृच्छं त्वां तवात्यर्थं कीर्तिं समभिवर्धयन् || २०||

असौ वसति ते भ्राता चित्रकूटे महागिरौ |
श्वस्तु गन्तासि तं देशं वसाद्य सह मन्त्रिभिः |
एतं मे कुरु सुप्राज्ञ कामं कामार्थकोविद || २१||

ततस्तथेत्येवमुदारदर्शनः
प्रतीतरूपो भरतोऽब्रवीद्वचः |
चकार बुद्धिं च तदा महाश्रमे
निशानिवासाय नराधिपात्मजः || २२||

22

1940

Bharata along with Sage Vasishta proceeded to visit Sage Bharadwaja, who welcomes both of them. After exchanging pleasantries Sage Bharadwaja asks Bharata whether he is harbouring any harmful intentions towards Shri Rama and Lakshmana. Bharata replies that he is coming to the forest for the purpose of taking back Shri Rama to Ayodhya. 

When enquired by Bharata about the whereabouts of Shri Rama, Bharadwaja informs that Shri Rama along with Seetha and Lakshmana are staying on the Chitrakuta mountain. Thereafter, at the request of Bharadwaja, Bharata along with his routine decides to make a night halt on that day at that hermitage and to proceed to Chitrakuta on the following morning.

91

कृतबुद्धिं निवासाय तथैव स मुनिस्तदा |
भरतं कैकयी पुत्रमातिथ्येन न्यमन्त्रयत् || १||

अब्रवीद्भरतस्त्वेनं नन्विदं भवता कृतम् |
पाद्यमर्घ्यं तथातिथ्यं वने यदूपपद्यते || २||

अथोवाच भरद्वाजो भरतं प्रहसन्निव |
जाने त्वां प्रीति संयुक्तं तुष्येस्त्वं येन केन चित् || ३||

सेनायास्तु तवैतस्याः कर्तुमिच्छामि भोजनम् |
मम प्रितिर्यथा रूपा त्वमर्हो मनुजर्षभ || ४||

किमर्थं चापि निक्षिप्य दूरे बलमिहागतः |
कस्मान्नेहोपयातोऽसि सबलः पुरुषर्षभ || ५||

भरतः प्रत्युवाचेदं प्राञ्जलिस्तं तपोधनम् |
ससैन्यो नोपयातोऽस्मि भगवन्भगवद्भयात् || ६||

वाजि मुख्या मनुष्याश्च मत्ताश्च वर वारणाः |
प्रच्छाद्य महतीं भूमिं भगवन्ननुयान्ति माम् || ७||

ते वृक्षानुदकं भूमिमाश्रमेषूटजांस्तथा |
न हिंस्युरिति तेनाहमेक एवागतस्ततः || ८||

आनीयतामितः सेनेत्याज्ञप्तः परमर्षिणा |
तथा तु चक्रे भरतः सेनायाः समुपागमम् || ९||

अग्निशालां प्रविश्याथ पीत्वापः परिमृज्य च |
आतिथ्यस्य क्रियाहेतोर्विश्वकर्माणमाह्वयत् || १०||

आह्वये विश्वकर्माणमहं त्वष्टारमेव च |
आतिथ्यं कर्तुमिच्छामि तत्र मे संविधीयताम् || ११||

इह मे भगवान्सोमो विधत्ताम् अन्नमुत्तमम् |
भक्ष्यं भोज्यं च चोष्यं च लेह्यं च विविधं बहु || १२||

विचित्राणि च माल्यानि पादपप्रच्युतानि च |
सुरादीनि च पेयानि मांसानि विविधानि च || १३||

एवं समाधिना युक्तस्तेजसाप्रतिमेन च |
शिक्षास्वरसमायुक्तं तपसा चाब्रवीन्मुनिः || १४||

मनसा ध्यायतस्तस्य प्राङ्मुखस्य कृताञ्जलेः |
आजग्मुस्तानि सर्वाणि दैवतानि पृथक्पृथक् || १५||

ततो भुक्तवतां तेषां तदन्नममृतोपमम् |
दिव्यानुद्वीक्ष्य भक्ष्यांस्तानभवद्भक्षणे मतिः || १६||

व्यस्मयन्त मनुष्यास्ते स्वप्नकल्पं तदद्भुतम् |
दृष्ट्वातिथ्यं कृतं तादृग्भरतस्य महर्षिणा || १७||

इत्येवं रममाणानां देवानाम् इव नन्दने |
भरद्वाजाश्रमे रम्ये सा रात्रिर्व्यत्यवर्तत || १८||

18

1958

Having been instructed by Sage Bharadwaja to bring the army to his place, Bharata allowed his army also to come to the hermitage. Then, Sage Bharadwaja invokes Visvakarma, the divine architect and other divinities and requests them to arrange for a appropriate hospitality to Bharata and his followers.

इत्यार्षे श्री रामायणे अयोध्याकाण्डे एकविंशतिः भाग:

 

Ayōdhyākāṇḍa Part-20

Ayōdhyākāṇḍa Part-22

No comments:

Post a Comment