Thursday, December 25, 2025

अयोध्याकाण्ड - Ayōdhyākāṇḍa (भाग - २३ ;;; Part – 23)

 

अयोध्याकाण्ड - Ayōdhyākāṇḍa (भाग - ;;; Part – 23)

Sarga number as per Ramayana

Shlokas extracted

No. of shlokas

Cumulative number of shlokas in this Kanda

99

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 100

निविष्टायां तु सेनायामुत्सुको भरतस्तदा |
जगाम भ्रातरं द्रष्टुं शत्रुघ्नमनुदर्शयन् || १||

ऋषिं वसिष्ठं सन्दिश्य मातॄर्मे शीघ्रमानय |
इति तरितमग्रे स जागम गुरुवत्सलः || २||

सुमन्त्रस्त्वपि शतुघ्नमदूरादन्वपद्यत |
रामदार्शनजस्तर्षो भरतस्येव तस्य च || ३||

गच्छन्नेवाथ भरतस्तापसालयसंस्थिताम् |
भ्रातुः पर्णकुटीं श्रीमानुटजं च ददर्श ह || ४||

शालायास्त्वग्रतस्तस्या ददर्श भरतस्तदा |
काष्टानि चावभग्नानि पुष्पाण्यवचितानि च || ५||

ददर्श च वने तस्मिन्महतः सञ्चयान्कृतान् |
मृगाणां महिषाणां च करीषैः शीतकारणात् || ६||

गच्छनेव महाबाहुर्द्युतिमान्भरतस्तदा |
शत्रुघ्नं चाब्रवीद्धृष्टस्तानमात्यांश्च सर्वशः || ७||

मन्ये प्राप्ताः स्म तं देशं भरद्वाजो यमब्रवीत् |
नातिदूरे हि मन्येऽहं नदीं मन्दाकिनीमितः || ८||

उच्चैर्बद्धानि चीराणि लक्ष्मणेन भवेदयम् |
अभिज्ञानकृतः पन्था विकाले गन्तुमिच्छता || ९||

इदं चोदात्तदन्तानां कुञ्जराणां तरस्विनाम् |
शैलपार्श्वे परिक्रान्तमन्योन्यमभिगर्जताम् || १०||

यमेवाधातुमिच्छन्ति तापसाः सततं वने |
तस्यासौ दृश्यते धूमः सङ्कुलः कृष्टवर्त्मनः || ११||

अत्राहं पुरुषव्याघ्रं गुरुसत्कारकारिणम् |
आर्यं द्रक्ष्यामि संहृष्टो महर्षिमिव राघवम् || १२||

अथ गत्वा मुहूर्तं तु चित्रकूटं स राघवः |
मन्दाकिनीमनुप्राप्तस्तं जनं चेदमब्रवीत् || १३||

जगत्यां पुरुषव्याघ्र आस्ते वीरासने रतः |
जनेन्द्रो निर्जनं प्राप्य धिन्मे जन्म सजीवितम् || १४||

मत्कृते व्यसनं प्राप्तो लोकनाथो महाद्युतिः |
सरान्कामान्परित्यज्य वने वसति राघवः || १५||

इति लोकसमाक्रुष्टः पादेष्वद्य प्रसादयन् |
रामस्य निपतिष्यामि सीतायाश्च पुनः पुनः || १६||

एवं स विलपंस्तस्मिन्वने दशरथात्मजः |
ददर्श महतीं पुण्यां पर्णशालां मनोरमाम् || १७||

सालतालाश्वकर्णानां पर्णैर्बहुभिरावृताम् |
विशालां मृदुभिस्तीर्णां कुशैर्वेदिमिवाध्वरे || १८||

शक्रायुध निकाशैश्च कार्मुकैर्भारसाधनैः |
रुक्मपृष्ठैर्महासारैः शोभितां शत्रुबाधकैः || १९||

अर्करश्मिप्रतीकाशैर्घोरैस्तूणीगतैः शरैः |
शोभितां दीप्तवदनैः सर्पैर्भोगवतीम् इव || २०||

महारजतवासोभ्यामसिभ्यां च विराजिताम् |
रुक्मबिन्दुविचित्राभ्यां चर्मभ्यां चापि शोभिताम् || २१||

गोधाङ्गुलित्रैरासाक्तैश्चित्रैः काञ्चनभूषितैः |
अरिसङ्घैरनाधृष्यां मृगैः सिंहगुहाम् इव || २२||

प्रागुदक्स्रवणां वेदिं विशालां दीप्तपावकाम् |
ददर्श भरतस्तत्र पुण्यां रामनिवेशने || २३||

निरीक्ष्य स मुहूर्तं तु ददर्श भरतो गुरुम् |
उटजे राममासीनां जटामण्डलधारिणम् || २४||

तं तु कृष्णाजिनधरं चीरवल्कलवाससं |
ददर्श राममासीनमभितः पावकोपमम् || २५||

सिंहस्कन्धं महाबाहुं पुण्डरीकनिभेक्षणम् |
पृथिव्याः सगरान्ताया भर्तारं धर्मचारिणम् || २६||

उपविष्टं महाबाहुं ब्रह्माणमिव शाश्वतम् |
स्थण्डिले दर्भसस्म्तीर्णे सीतया लक्ष्मणेन च || २७||

तं दृष्ट्वा भरतः श्रीमान्दुःखमोहपरिप्लुतः |
अभ्यधावत धर्मात्मा भरतः कैकयीसुतः || २८||

दृष्ट्वा च विललापार्तो बाष्पसन्दिग्धया गिरा |
अशक्नुवन्धारयितुं धैर्याद्वचनमब्रवीत् || २९||

यः संसदि प्रकृतिभिर्भवेद्युक्त उपासितुम् |
वन्यैर्मृगैरुपासीनः सोऽयमास्ते ममाग्रजः || ३०||

वासोभिर्बहुसाहस्रैर्यो महात्मा पुरोचितः |
मृगाजिने सोऽयमिह प्रवस्ते धर्ममाचरन् || ३१||

अधारयद्यो विविधाश्चित्राः सुमनसस्तदा |
सोऽयं जटाभारमिमं सहते राघवः कथम् || ३२||

यस्य यज्ञैर्यथादिष्टैर्युक्तो धर्मस्य सञ्चयः |
शरीर क्लेशसम्भूतं स धर्मं परिमार्गते || ३३||

चन्दनेन महार्हेण यस्याङ्गमुपसेवितम् |
मलेन तस्याङ्गमिदं कथमार्यस्य सेव्यते || ३४||

मन्निमित्तमिदं दुःखं प्राप्तो रामः सुखोचितः |
धिग्जीवितं नृशंसस्य मम लोकविगर्हितम् || ३५||

इत्येवं विलपन्दीनः प्रस्विन्नमुखपङ्कजः |
पादावप्राप्य रामस्य पपात भरतो रुदन् || ३६||

दुःखाभितप्तो भरतो राजपुत्रो महाबलः |
उक्त्वार्येति सकृद्दीनं पुनर्नोवाच किं चन || ३७||

बाष्पापिहित कण्ठश्च प्रेक्ष्य रामं यशस्विनम् |
आर्येत्येवाभिसङ्क्रुश्य व्याहर्तुं नाशकत्ततः || ३८||

शत्रुघ्नश्चापि रामस्य ववन्दे चरणौ रुदन् |
तावुभौ स समालिङ्ग्य रामोऽप्यश्रूण्यवर्तयत् || ३९||

ततः सुमन्त्रेण गुहेन चैव
समीयतू राजसुतावरण्ये |
दिवाकरश्चैव निशाकरश् च
यथाम्बरे शुक्रबृहस्पतिभ्याम् || ४०||

तान्पार्थिवान्वारणयूथपाभान्
समागतांस्तत्र महत्यरण्ये |
वनौकसस्तेऽपि समीक्ष्य सर्वेऽप्य्
अश्रूण्यमुञ्चन्प्रविहाय हर्षम् || ४१||

आघ्राय रामस्तं मूर्ध्नि परिष्वज्य च राघवः |
अङ्के भरतमारोप्य पर्यपृच्छत्समाहितः || ४२||

क्व नु तेऽभूत्पिता तात यदरण्यं त्वमागतः |
न हि त्वं जीवतस्तस्य वनमागन्तुमर्हसि || ४३||

चिरस्य बत पश्यामि दूराद्भरतमागतम् |
दुष्प्रतीकमरण्येऽस्मिन्किं तात वनमागतः || ४४||

कच्चिद्दशरथो राजा कुशली सत्यसङ्गरः |
राजसूयाश्वमेधानामाहर्ता धर्मनिश्चयः || ४५||

स कच्चिद्ब्राह्मणो विद्वान्धर्मनित्यो महाद्युतिः |
इक्ष्वाकूणामुपाध्यायो यथावत्तात पूज्यते || ४६||

तात कच्चिच्च कौसल्या सुमित्रा च प्रजावती |
सुखिनी कच्चिदार्या च देवी नन्दति कैकयी || ४७||

47

2100

Bharata, observing various indications, and moving forward, reaches finally Shri Rama's hermitage and beholds Shri Rama seated in the hut, wearing matted locks. Bharata and Shatrughna touch Shri Rama's feet in salutation. Shri Rama embraces them both.

Then, Shri Rama enquires about their father and the reason for his sudden appearance in the Forest.

101

 

 

 

 

 

 

 

 

 

 

 

 102

रामस्य वचनं श्रुत्वा भरतः प्रत्युवाच ह |
किं मे धर्माद्विहीनस्य राजधर्मः करिष्यति || १||

शाश्वतोऽयं सदा धर्मः स्थितोऽस्मासु नरर्षभ |
ज्येष्ठ पुत्रे स्थिते राजन्न कनीयान्भवेन्नृपः || २||

स समृद्धां मया सार्धमयोध्यां गच्छ राघव |
अभिषेचय चात्मानं कुलस्यास्य भवाय नः || ३||

राजानं मानुषं प्राहुर्देवत्वे संमतो मम |
यस्य धर्मार्थसहितं वृत्तमाहुरमानुषम् || ४||

केकयस्थे च मयि तु त्वयि चारण्यमाश्रिते |
दिवमार्य गतो राजा यायजूकः सतां मतः || ५||

उत्तिष्ठ पुरुषव्याघ्र क्रियतामुदकं पितुः |
अहं चायं च शत्रुघ्नः पूर्वमेव कृतोदकौ || ६||

प्रियेण किल दत्तं हि पितृलोकेषु राघव |
अक्षय्यं भवतीत्याहुर्भवांश्चैव पितुः प्रियः || ७||

तां श्रुत्वा करुणां वाचं पितुर्मरणसंहिताम् |
राघवो भरतेनोक्तां बभूव गतचेतनः || ८||

वाग्वज्रं भरतेनोक्तममनोज्ञं परन्तपः |
प्रगृह्य बाहू रामो वै पुष्पिताग्रो यथा द्रुमः |
वने परशुना कृत्तस्तथा भुवि पपात ह || ९||

तथा हि पतितं रामं जगत्यां जगतीपतिम् |
कूलघातपरिश्रान्तं प्रसुप्तमिव कुञ्जरम् || १०||

भ्रातरस्ते महेष्वासं सर्वतः शोककर्शितम् |
रुदन्तः सह वैदेह्या सिषिचुः सलिलेन वै || ११||

स तु संज्ञां पुनर्लब्ध्वा नेत्राभ्यामास्रमुत्सृजन् |
उपाक्रामत काकुत्स्थः कृपणं बहुभाषितुम् || १२||

किं नु तस्य मया कार्यं दुर्जातेन महात्मना |
यो मृतो मम शोकेन न मया चापि संस्कृतः || १३||

अहो भरत सिद्धार्थो येन राजा त्वयानघ |
शत्रुघेण च सर्वेषु प्रेतकृत्येषु सत्कृतः || १४||

निष्प्रधानामनेकाग्रं नरेन्द्रेण विनाकृताम् |
निवृत्तवनवासोऽपि नायोध्यां गन्तुमुत्सहे || १५||

समाप्तवनवासं मामयोध्यायां परन्तप |
को नु शासिष्यति पुनस्ताते लोकान्तरं गते || १६||

पुरा प्रेक्ष्य सुवृत्तं मां पिता यान्याह सान्त्वयन् |
वाक्यानि तानि श्रोष्यामि कुतः कर्णसुखान्यहम् || १७||

एवमुक्त्वा स भरतं भार्यामभ्येत्य राघवः |
उवाच शोकसन्तप्तः पूर्णचन्द्रनिभाननाम् || १८||

सीते मृतस्ते श्वशुरः पित्रा हीनोऽसि लक्ष्मण |
भरतो दुःखमाचष्टे स्वर्गतं पृथिवीपतिम् || १९||

सान्त्वयित्वा तु तां रामो रुदन्तीं जनकात्मजाम् |
उवाच लक्ष्मणं तत्र दुःखितो दुःखितं वचः || २०||

आनयेङ्गुदिपिण्याकं चीरमाहर चोत्तरम् |
जलक्रियार्थं तातस्य गमिष्यामि महात्मनः || २१||

सीता पुरस्ताद्व्रजतु त्वमेनाम् अभितो व्रज |
अहं पश्चाद्गमिष्यामि गतिर्ह्येषा सुदारुणा || २२||

ततो नित्यानुगस्तेषां विदितात्मा महामतिः |
मृदुर्दान्तश्च शान्तश्च रामे च दृढ भक्तिमान् || २३||

सुमन्त्रस्तैर्नृपसुतैः सार्धमाश्वास्य राघवम् |
अवातारयदालम्ब्य नदीं मन्दाकिनीं शिवाम् || २४||

ते सुतीर्थां ततः कृच्छ्रादुपागम्य यशस्विनः |
नदीं मन्दाकिनीं रम्यां सदा पुष्पितकाननाम् || २५||

शीघ्रस्रोतसमासाद्य तीर्थं शिवमकर्दमम् |
सिषिचुस्तूदकं राज्ञे तत एतद्भवत्विति || २६||

प्रगृह्य च महीपालो जलपूरितमञ्जलिम् |
दिशं याम्यामभिमुखो रुदन्वचनमब्रवीत् || २७||

एतत्ते राजशार्दूल विमलं तोयमक्षयम् |
पितृलोकगतस्याद्य मद्दत्तमुपतिष्ठतु || २८||

ततो मन्दाकिनी तीरात्प्रत्युत्तीर्य स राघवः |
पितुश्चकार तेजस्वी निवापं भ्रातृभिः सह || २९||

ऐङ्गुदं बदरीमिश्रं पिण्याकं दर्भसंस्तरे |
न्यस्य रामः सुदुःखार्तो रुदन्वचनमब्रवीत् || ३०||

इदं भुङ्क्ष्व महाराजप्रीतो यदशना वयम् |
यदन्नः पुरुषो भवति तदन्नास्तस्य देवताः || ३१||

ततस्तेनैव मार्गेण प्रत्युत्तीर्य नदीतटात् |
आरुरोह नरव्याघ्रो रम्यसानुं महीधरम् || ३२||

ततः पर्णकुटीद्वारमासाद्य जगतीपतिः |
परिजग्राह पाणिभ्यामुभौ भरतलक्ष्मणौ || ३३||

तेषां तु रुदतां शब्दात्प्रतिश्रुत्काभवद्गिरौ |
भ्रातॄणां सह वैदेह्या सिंहानां नर्दताम् इव || ३४||

विज्ञाय तुमुलं शब्दं त्रस्ता भरतसैनिकाः |
अब्रुवंश्चापि रामेण भरतः सङ्गतो ध्रुवम् |
तेषामेव महाञ्शब्दः शोचतां पितरं मृतम् || ३५||

अथ वासान्परित्यज्य तं सर्वेऽभिमुखाः स्वनम् |
अप्येक मनसो जग्मुर्यथास्थानं प्रधाविताः || ३६||

हयैरन्ये गजैरन्ये रथैरन्ये स्वलङ्कृतैः |
सुकुमारास्तथैवान्ये पद्भिरेव नरा ययुः || ३७||

अचिरप्रोषितं रामं चिरविप्रोषितं यथा |
द्रष्टुकामो जनः सर्वो जगाम सहसाश्रमम् || ३८||

भ्रातॄणां त्वरितास्ते तु द्रष्टुकामाः समागमम् |
ययुर्बहुविधैर्यानैः खुरनेमिसमाकुलैः || ३९||

सा भूमिर्बहुभिर्यानैः खुरनेमिसमाहता |
मुमोच तुमुलं शब्दं द्यौरिवाभ्रसमागमे || ४०||

तेन वित्रासिता नागाः करेणुपरिवारिताः |
आवासयन्तो गन्धेन जग्मुरन्यद्वनं ततः || ४१||

वराहमृगसिंहाश्च महिषाः सर्क्षवानराः |
व्याघ्र गोकर्णगवया वित्रेषुः पृषतैः सह || ४२||

रथाङ्गसाह्वा नत्यूहा हंसाः कारण्डवाः प्लवाः |
तथा पुंस्कोकिलाः क्रौञ्चा विसंज्ञा भेजिरे दिशः || ४३||

तेन शब्देन वित्रस्तैराकाशं पक्षिभिर्वृतम् |
मनुष्यैरावृता भूमिरुभयं प्रबभौ तदा || ४४||

तान्नरान्बाष्पपूर्णाक्षान्समीक्ष्याथ सुदुःखितान् |
पर्यष्वजत धर्मज्ञः पितृवन्मातृवच्च सः || ४५||

स तत्र कांश्चित्परिषस्वजे नरान्
नराश्च के चित्तु तमभ्यवादयन् |
चकार सर्वान्सवयस्यबान्धवान्
यथार्हमासाद्य तदा नृपात्मजः || ४६||

ततः स तेषां रुदतां महात्मनां
भुवं च खं चानुविनादयन्स्वनः |
गुहा गिरीणां च दिशश्च सन्ततं
मृदङ्गघोषप्रतिमो विशुश्रुवे || ४७||

47

2147

Bharata replies that it is an established practice for the eldest son to become a king and requests Shri Rama to come to Ayodhya and get crowned in the kingdom for the welfare of Ikshvaku race. Bharata informs that their father had passed away and requests Shri Rama to offer traditional libations of water to their deceased father.

Shri Rama fainted away, after hearing the news of his father's death and is brought back to consciousness by Bharata and others who sprinkle water on him. Shri Rama laments in various ways. Bharata consoles him. Shri Rama in turn consoles Seetha who is weeping. Shri Rama painfully reaches the River Mandakini, offers water and balls of food to the spirit of his departed father and returns to the hut.

इत्यार्षे श्री रामायणे अयोध्याकाण्डे त्रयोविंशतिः भाग:

 

Ayōdhyākāṇḍa Part-22

Ayōdhyākāṇḍa Part-24

No comments:

Post a Comment