अयोध्याकाण्ड - Ayōdhyākāṇḍa (भाग - २३
;;; Part – 23)
|
Sarga
number as per Ramayana |
Shlokas
extracted |
No. of shlokas |
Cumulative number of shlokas in this
Kanda |
|
99
100 |
निविष्टायां तु सेनायामुत्सुको भरतस्तदा | ऋषिं
वसिष्ठं सन्दिश्य मातॄर्मे शीघ्रमानय | सुमन्त्रस्त्वपि शतुघ्नमदूरादन्वपद्यत | गच्छन्नेवाथ भरतस्तापसालयसंस्थिताम् | शालायास्त्वग्रतस्तस्या ददर्श भरतस्तदा | ददर्श
च वने तस्मिन्महतः सञ्चयान्कृतान् | गच्छनेव महाबाहुर्द्युतिमान्भरतस्तदा | मन्ये
प्राप्ताः स्म तं देशं भरद्वाजो यमब्रवीत् | उच्चैर्बद्धानि चीराणि लक्ष्मणेन भवेदयम् | इदं
चोदात्तदन्तानां कुञ्जराणां तरस्विनाम् | यमेवाधातुमिच्छन्ति तापसाः सततं वने | अत्राहं पुरुषव्याघ्रं गुरुसत्कारकारिणम् | अथ
गत्वा मुहूर्तं तु चित्रकूटं स राघवः | जगत्यां पुरुषव्याघ्र आस्ते वीरासने रतः | मत्कृते व्यसनं प्राप्तो लोकनाथो महाद्युतिः | इति
लोकसमाक्रुष्टः पादेष्वद्य प्रसादयन् | एवं
स विलपंस्तस्मिन्वने दशरथात्मजः | सालतालाश्वकर्णानां पर्णैर्बहुभिरावृताम् | शक्रायुध निकाशैश्च कार्मुकैर्भारसाधनैः | अर्करश्मिप्रतीकाशैर्घोरैस्तूणीगतैः शरैः | महारजतवासोभ्यामसिभ्यां च विराजिताम् | गोधाङ्गुलित्रैरासाक्तैश्चित्रैः काञ्चनभूषितैः | प्रागुदक्स्रवणां वेदिं विशालां दीप्तपावकाम् | निरीक्ष्य स मुहूर्तं तु ददर्श भरतो गुरुम् | तं
तु कृष्णाजिनधरं चीरवल्कलवाससं | सिंहस्कन्धं महाबाहुं पुण्डरीकनिभेक्षणम् | उपविष्टं महाबाहुं ब्रह्माणमिव शाश्वतम् | तं
दृष्ट्वा भरतः श्रीमान्दुःखमोहपरिप्लुतः | दृष्ट्वा च विललापार्तो बाष्पसन्दिग्धया गिरा | यः
संसदि प्रकृतिभिर्भवेद्युक्त उपासितुम् | वासोभिर्बहुसाहस्रैर्यो महात्मा पुरोचितः | अधारयद्यो विविधाश्चित्राः सुमनसस्तदा | यस्य
यज्ञैर्यथादिष्टैर्युक्तो धर्मस्य सञ्चयः | चन्दनेन महार्हेण यस्याङ्गमुपसेवितम् | मन्निमित्तमिदं दुःखं प्राप्तो रामः सुखोचितः | इत्येवं विलपन्दीनः प्रस्विन्नमुखपङ्कजः | दुःखाभितप्तो भरतो राजपुत्रो महाबलः | बाष्पापिहित कण्ठश्च प्रेक्ष्य रामं यशस्विनम् | शत्रुघ्नश्चापि रामस्य ववन्दे चरणौ रुदन् | ततः
सुमन्त्रेण गुहेन चैव तान्पार्थिवान्वारणयूथपाभान् आघ्राय रामस्तं मूर्ध्नि परिष्वज्य च राघवः | क्व
नु तेऽभूत्पिता तात यदरण्यं त्वमागतः | चिरस्य बत पश्यामि दूराद्भरतमागतम् | कच्चिद्दशरथो राजा कुशली सत्यसङ्गरः | स
कच्चिद्ब्राह्मणो विद्वान्धर्मनित्यो महाद्युतिः | तात
कच्चिच्च कौसल्या सुमित्रा च प्रजावती | |
47 |
1925 |
|
Bharata, observing various indications, and moving forward, reaches finally Shri Rama's hermitage and beholds Shri Rama seated in the hut, wearing matted locks. Bharata and Shatrughna touch Shri Rama's feet in salutation. Shri Rama embraces them both. Then, Shri Rama enquires
about their father and the reason for his sudden appearance in the Forest. |
|||
|
101
102 |
रामस्य वचनं श्रुत्वा भरतः प्रत्युवाच ह | शाश्वतोऽयं सदा धर्मः स्थितोऽस्मासु नरर्षभ | स
समृद्धां मया सार्धमयोध्यां गच्छ राघव | राजानं मानुषं प्राहुर्देवत्वे संमतो मम | केकयस्थे च मयि तु त्वयि चारण्यमाश्रिते | उत्तिष्ठ पुरुषव्याघ्र क्रियतामुदकं पितुः | प्रियेण किल दत्तं हि पितृलोकेषु राघव | तां
श्रुत्वा करुणां वाचं पितुर्मरणसंहिताम् | वाग्वज्रं भरतेनोक्तममनोज्ञं परन्तपः | तथा
हि पतितं रामं जगत्यां जगतीपतिम् | भ्रातरस्ते महेष्वासं सर्वतः शोककर्शितम् | स
तु संज्ञां पुनर्लब्ध्वा नेत्राभ्यामास्रमुत्सृजन् | किं
नु तस्य मया कार्यं दुर्जातेन महात्मना | अहो
भरत सिद्धार्थो येन राजा त्वयानघ | निष्प्रधानामनेकाग्रं नरेन्द्रेण विनाकृताम् | समाप्तवनवासं मामयोध्यायां परन्तप | पुरा
प्रेक्ष्य सुवृत्तं मां पिता यान्याह सान्त्वयन् | एवमुक्त्वा स भरतं भार्यामभ्येत्य राघवः | सीते
मृतस्ते श्वशुरः पित्रा हीनोऽसि लक्ष्मण | सान्त्वयित्वा तु तां रामो रुदन्तीं जनकात्मजाम् | आनयेङ्गुदिपिण्याकं चीरमाहर चोत्तरम् | सीता
पुरस्ताद्व्रजतु त्वमेनाम् अभितो व्रज | ततो
नित्यानुगस्तेषां विदितात्मा महामतिः | सुमन्त्रस्तैर्नृपसुतैः सार्धमाश्वास्य राघवम् | ते
सुतीर्थां ततः कृच्छ्रादुपागम्य यशस्विनः | शीघ्रस्रोतसमासाद्य तीर्थं शिवमकर्दमम् | प्रगृह्य च महीपालो जलपूरितमञ्जलिम् | एतत्ते राजशार्दूल विमलं तोयमक्षयम् | ततो
मन्दाकिनी तीरात्प्रत्युत्तीर्य स राघवः | ऐङ्गुदं बदरीमिश्रं पिण्याकं दर्भसंस्तरे | इदं
भुङ्क्ष्व महाराजप्रीतो यदशना वयम् | ततस्तेनैव मार्गेण प्रत्युत्तीर्य नदीतटात् | ततः
पर्णकुटीद्वारमासाद्य जगतीपतिः | तेषां
तु रुदतां शब्दात्प्रतिश्रुत्काभवद्गिरौ | विज्ञाय तुमुलं शब्दं त्रस्ता भरतसैनिकाः | अथ
वासान्परित्यज्य तं सर्वेऽभिमुखाः स्वनम् | हयैरन्ये गजैरन्ये रथैरन्ये स्वलङ्कृतैः | अचिरप्रोषितं रामं चिरविप्रोषितं यथा | भ्रातॄणां त्वरितास्ते तु द्रष्टुकामाः समागमम् | सा
भूमिर्बहुभिर्यानैः खुरनेमिसमाहता | तेन
वित्रासिता नागाः करेणुपरिवारिताः | वराहमृगसिंहाश्च महिषाः सर्क्षवानराः | रथाङ्गसाह्वा नत्यूहा हंसाः कारण्डवाः प्लवाः | तेन
शब्देन वित्रस्तैराकाशं पक्षिभिर्वृतम् | तान्नरान्बाष्पपूर्णाक्षान्समीक्ष्याथ सुदुःखितान् | स
तत्र कांश्चित्परिषस्वजे नरान् ततः
स तेषां रुदतां महात्मनां |
47 |
1972 |
|
Bharata replies that it is an established practice for the eldest son to become a king and requests Shri Rama to come to Ayodhya and get crowned in the kingdom for the welfare of Ikshvaku race. Bharata informs that their father had passed away and requests Shri Rama to offer traditional libations of water to their deceased father. Shri Rama fainted away,
after hearing the news of his father's death and is brought back to
consciousness by Bharata and others who sprinkle water on him. Shri Rama
laments in various ways. Bharata consoles him. Shri Rama in turn consoles
Seetha who is weeping. Shri Rama painfully reaches the River Mandakini,
offers water and balls of food to the spirit of his departed father and
returns to the hut. |
|||
इत्यार्षे श्री रामायणे अयोध्याकाण्डे त्रयोविंशतिः भाग:
No comments:
Post a Comment