Friday, December 19, 2025

अयोध्याकाण्ड - Ayōdhyākāṇḍa (भाग - ४ ;;; Part – 4)

 

अयोध्याकाण्ड - Ayōdhyākāṇḍa (भाग - ;;; Part – 4)

Sarga number as per Ramayana

Shlokas extracted

No. of shlokas

Cumulative number of shlokas in this Kanda

10

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 11

 

 

 

 

 

 

 

 

 


















 

 12

आज्ञाप्य तु महाराजो राघवस्याभिषेचनम् |
प्रियार्हां प्रियमाख्यातुं विवेशान्तःपुरं वशी || १||

तां तत्र पतितां भूमौ शयानामतथोचिताम् |
प्रतप्त इव दुःखेन सोऽपश्यज्जगतीपतिः || २||

स वृद्धस्तरुणीं भार्यां प्राणेभ्योऽपि गरीयसीम् |
अपापः पापसङ्कल्पां ददर्श धरणीतले || ३||

करेणुमिव दिग्धेन विद्धां मृगयुणा वने |
महागज इवारण्ये स्नेहात्परिममर्श ताम् || ४||

परिमृश्य च पाणिभ्यामभिसन्त्रस्तचेतनः |
कामी कमलपत्राक्षीमुवाच वनिताम् इदम् || ५||

न तेऽहमभिजानामि क्रोधमात्मनि संश्रितम् |
देवि केनाभियुक्तासि केन वासि विमानिता || ६||

यदिदं मम दुःखाय शेषे कल्याणि पांसुषु |
भूमौ शेषे किमर्थं त्वं मयि कल्याण चेतसि |
भूतोपहतचित्तेव मम चित्तप्रमाथिनी || ७||

सन्ति मे कुशला वैद्या अभितुष्टाश्च सर्वशः |
सुखितां त्वां करिष्यन्ति व्याधिमाचक्ष्व भामिनि || ८||

कस्य वा ते प्रियं कार्यं केन वा विप्रियं कृतम् |
कः प्रियं लभतामद्य को वा सुमहदप्रियम् || ९||

अवध्यो वध्यतां को वा वध्यः को वा विमुच्यताम् |
दरिद्रः को भवत्वाढ्यो द्रव्यवान्वाप्यकिञ्चनः || १०||

अहं चैव मदीयाश्च सर्वे तव वशानुगाः |
न ते कं चिदभिप्रायं व्याहन्तुमहमुत्सहे || ११||

आत्मनो जीवितेनापि ब्रूहि यन्मनसेच्छसि |
यावदावर्तते चक्रं तावती मे वसुन्धरा || १२||

तथोक्ता सा समाश्वस्ता वक्तुकामा तदप्रियम् |
परिपीडयितुं भूयो भर्तारमुपचक्रमे || १३||

नास्मि विप्रकृता देव केन चिन्न विमानिता |
अभिप्रायस्तु मे कश्चित्तमिच्छामि त्वया कृतम् || १४||

प्रतिज्ञां प्रतिजानीष्व यदि त्वं कर्तुमिच्छसि |
अथ तद्व्याहरिष्यामि यदभिप्रार्थितं मया || १५||

एवमुक्तस्तया राजा प्रियया स्त्रीवशं गतः |
तामुवाच महातेजाः कैकेयीमीषदुत्स्मितः || १६||

अवलिप्ते न जानासि त्वत्तः प्रियतरो मम |
मनुजो मनुजव्याघ्राद्रामादन्यो न विद्यते || १७||

भद्रे हृदयमप्येतदनुमृश्श्योद्धरस्व मे |
एतत्समीक्ष्य कैकेयि ब्रूहि यत्साधु मन्यसे || १८||

बलमात्मनि पश्यन्ती न मां शङ्कितुमर्हसि |
करिष्यामि तव प्रीतिं सुकृतेनापि ते शपे || १९||

तेन वाक्येन संहृष्टा तमभिप्रायमात्मनः |
व्याजहार महाघोरमभ्यागतमिवान्तकम् || २०||

यथाक्रमेण शपसि वरं मम ददासि च |
तच्छृण्वन्तु त्रयस्त्रिंशद्देवाः सेन्द्रपुरोगमाः || २१||

चन्द्रादित्यौ नभश्चैव ग्रहा रात्र्यहनी दिशः |
जगच्च पृथिवी चैव सगन्धर्वा सराक्षसा || २२||

निशाचराणि भूतानि गृहेषु गृहदेवताः |
यानि चान्यानि भूतानि जानीयुर्भाषितं तव || २३||

सत्यसन्धो महातेजा धर्मज्ञः सुसमाहितः |
वरं मम ददात्येष तन्मे शृण्वन्तु देवताः || २४||

इति देवी महेष्वासं परिगृह्याभिशस्य च |
ततः परमुवाचेदं वरदं काममोहितम् || २५||

वरौ यौ मे त्वया देव तदा दत्तौ महीपते |
तौ तावदहमद्यैव वक्ष्यामि शृणु मे वचः || २६||

अभिषेक समारम्भो राघवस्योपकल्पितः |
अनेनैवाभिषेकेण भरतो मेऽभिषिच्यताम् || २७||

नव पञ्च च वर्षाणि दण्डकारण्यमाश्रितः |
चीराजिनजटाधारी रामो भवतु तापसः || २८||

भरतो भजतामद्य यौवराज्यमकण्टकम् |
अद्य चैव हि पश्येयं प्रयान्तं राघवं वने || २९||

ततः श्रुत्वा महाराज कैकेय्या दारुणं वचः |
व्यथितो विलवश्चैव व्याघ्रीं दृष्ट्वा यथा मृगः || ३०||

असंवृतायामासीनो जगत्यां दीर्घमुच्छ्वसन् |
अहो धिगिति सामर्षो वाचमुक्त्वा नराधिपः |
मोहमापेदिवान्भूयः शोकोपहतचेतनः || ३१||

चिरेण तु नृपः संज्ञां प्रतिलभ्य सुदुःखितः |
कैकेयीमब्रवीत्क्रुद्धः प्रदहन्निव चक्षुषा || ३२||

नृशंसे दुष्टचारित्रे कुलस्यास्य विनाशिनि |
किं कृतं तव रामेण पापे पापं मयापि वा || ३३||

सदा ते जननी तुल्यां वृत्तिं वहति राघवः |
तस्यैव त्वमनर्थाय किंनिमित्तमिहोद्यता || ३४||

त्वं मयात्मविनाशाय भवनं स्वं प्रवेशिता |
अविज्ञानान्नृपसुता व्याली तीक्ष्णविषा यथा || ३५||

जीवलोको यदा सर्वो रामस्येह गुणस्तवम् |
अपराधं कमुद्दिश्य त्यक्ष्यामीष्टमहं सुतम् || ३६||

कौसल्यां वा सुमित्रां वा त्यजेयमपि वा श्रियम् |
जीवितं वात्मनो रामं न त्वेव पितृवत्सलम् || ३७||

परा भवति मे प्रीतिर्दृष्ट्वा तनयमग्रजम् |
अपश्यतस्तु मे रामं नष्टा भवति चेतना || ३८||

तिष्ठेल्लोको विना सूर्यं सस्यं वा सलिलं विना |
न तु रामं विना देहे तिष्ठेत्तु मम जीवितम् || ३९||

तदलं त्यज्यतामेष निश्चयः पापनिश्चये |
अपि ते चरणौ मूर्ध्ना स्पृशाम्येष प्रसीद मे || ४०||

अथ जीज्ञाससे माम् त्वम् भरतस्य प्रियाप्रिये |

अस्तुयत्तत्त्वयाअपूर्वम् व्याहृतम्राघवम्प्रति ||४१||

स भूमिपालो विलपन्ननाथवत्
स्त्रिया गृहीतो दृहयेऽतिमात्रता |
पपात देव्याश्चरणौ प्रसारिताव्
उभावसंस्पृश्य यथातुरस्तथा || ४२||

42

253

Having been thus preached by Manthara, Kaikeyi lied down on the floor. King Dasaratha ordered for various arrangements to be made for Shri Rama's coronation, took permission to leave from the elders and entered his palace but could not find his beloved Kaikeyi.

After entering the house, king Dasaratha came to know that Kaikeyi went into her chamber of wrath with much anger. King Dasaratha having been disturbed in mind tried his best to know the reason for her anger.

Kaikeyi spoke to the king, who was struck by cupid's arrows and yielded to hasty lust, and made him take oath on his dearest son Shri Rama that whatever her desire is, that will be fulfilled.

Then she revealed her desire of redeeming her 2 boons. (1) All arrangements that have been made to undertake Shri Rama's coronation, should be used to coronate her son, as the prince regent, on that occasion itself, and (2) Shri Rama has to take refuge in the forest of Dandaka for fourteen years and by living like an ascetic, wearing rags, deer skin and matted hair.

King Dasaratha felt a great pain when he heard her demands.  He was awestruck as to how she can go against Shri Rama, who treated her like his mother, prayed with tears and tried to convince her that Shri Rama, being elder and superior in all characteristics, is fit to be coronated, but invain.  And, finally he swooned.

13

अतदर्हं महाराजं शयानमतथोचितम् |
ययातिमिव पुण्यान्ते देवलोकात्परिच्युतम् || १||

अनर्थरूपा सिद्धार्था अभीता भयदर्शिनी |
पुनराकारयामास तमेव वरमङ्गना || २||

त्वं कत्थसे महाराज सत्यवादी दृढव्रतः |
मम चेमं वरं कस्माद्विधारयितुमिच्छसि || ३||

एवमुक्तस्तु कैकेय्या राजा दशरथस्तदा |
प्रत्युवाच ततः क्रुद्धो मुहूर्तं विह्वलन्निव || ४||

मृते मयि गते रामे वनं मनुजपुङ्गवे |
हन्तानार्ये ममामित्रे रामः प्रव्राजितो वनम् || ५||

यदि सत्यं ब्रवीम्येतत्तदसत्यं भविष्यति |
अकीर्तिरतुला लोके ध्रुवं परिभवश् च मे || ६||

तथा विलपतस्तस्य परिभ्रमितचेतसः |
अस्तमभ्यगमत्सूर्यो रजनी चाभ्यवर्तत || ७||

स त्रियामा तथार्तस्य चन्द्रमण्डलमण्डिता |
राज्ञो विलपमानस्य न व्यभासत शर्वरी || ८||

तथैवोष्णं विनिःश्वस्य वृद्धो दशरथो नृपः |
विललापार्तवद्दुःखं गगनासक्तलोचनः || ९||

न प्रभातं त्वयेच्छामि मयायं रचितोऽञ्जलिः |
अथ वा गम्यतां शीघ्रं नाहमिच्छामि निर्घृणाम् |
नृशंसां कैकेयीं द्रष्टुं यत्कृते व्यसनं महत् || १०||

एवमुक्त्वा ततो राजा कैकेयीं संयताञ्जलिः |
प्रसादयामास पुनः कैकेयीं चेदमब्रवीत् || ११||

साधुवृत्तस्य दीनस्य त्वद्गतस्य गतायुषः |
प्रसादः क्रियतां देवि भद्रे राज्ञो विशेषतः || १२||

शून्येन खलु सुश्रोणि मयेदं समुदाहृतम् |
कुरु साधु प्रसादं मे बाले सहृदया ह्यसि || १३||

विशुद्धभावस्य हि दुष्टभावा
ताम्रेक्षणस्याश्रुकलस्य राज्ञः |
श्रुत्वा विचित्रं करुणं विलापं
भर्तुर्नृशंसा न चकार वाक्यम् || १४||

ततः स राजा पुनरेव मूर्छितः
प्रियामतुष्टां प्रतिकूलभाषिणीम् |
समीक्ष्य पुत्रस्य विवासनं प्रति
क्षितौ विसंज्ञो निपपात दुःखितः || १५||

15

268

Inspite of King Dasaratha’s wailings, Kaikeyi did not relent.  She wanted her demands to be fulfilled. 

14

पुत्रशोकार्दितं पापा विसंज्ञं पतितं भुवि |
विवेष्टमानमुदीक्ष्य सैक्ष्वाकमिदमब्रवीत् || १||

पापं कृत्वेव किमिदं मम संश्रुत्य संश्रवम् |
शेषे क्षितितले सन्नः स्थित्यां स्थातुं त्वमर्हसि || २||

आहुः सत्यं हि परमं धर्मं धर्मविदो जनाः |
सत्यमाश्रित्य हि मया त्वं च धर्मं प्रचोदितः || ३||

संश्रुत्य शैब्यः श्येनाय स्वां तनुं जगतीपतिः |
प्रदाय पक्षिणो राजञ्जगाम गतिमुत्तमाम् || ४||

तथ ह्यलर्कस्तेजस्वी ब्राह्मणे वेदपारगे |
याचमाने स्वके नेत्रे उद्धृत्याविमना ददौ || ५||

सरितां तु पतिः स्वल्पां मर्यादां सत्यमन्वितः |
सत्यानुरोधात्समये वेलां खां नातिवर्तते || ६||

समयं च ममार्येमं यदि त्वं न करिष्यसि |
अग्रतस्ते परित्यक्ता परित्यक्ष्यामि जीवितम् || ७||

एवं प्रचोदितो राजा कैकेय्या निर्विशङ्कया |
नाशकत्पाशमुन्मोक्तुं बलिरिन्द्रकृतं यथा || ८||

उद्भ्रान्तहृदयश्चापि विवर्णवनदोऽभवत् |
स धुर्यो वै परिस्पन्दन्युगचक्रान्तरं यथा || ९||

विह्वलाभ्यां च नेत्राभ्यामपश्यन्निव भूमिपः |
कृच्छ्राद्धैर्येण संस्तभ्य कैकेयीमिदमब्रवीत् || १०||

यस्ते मन्त्रकृतः पाणिरग्नौ पापे मया धृतः |
तं त्यजामि स्वजं चैव तव पुत्रं सह त्वया || ११||

ततः पापसमाचारा कैकेयी पार्थिवं पुनः |
उवाच परुषं वाक्यं वाक्यज्ञा रोषमूर्छिता || १२||

किमिदं भाषसे राजन्वाक्यं गररुजोपमम् |
आनाययितुमक्लिष्टं पुत्रं राममिहार्हसि || १३||

स्थाप्य राज्ये मम सुतं कृत्वा रामं वनेचरम् |
निःसपत्नां च मां कृत्वा कृतकृत्यो भविष्यसि || १४||

स नुन्न इव तीक्षेण प्रतोदेन हयोत्तमः |
राजा प्रदोचितोऽभीक्ष्णं कैकेयीमिदमब्रवीत् || १५||

धर्मबन्धेन बद्धोऽस्मि नष्टा च मम चेतना |
ज्येष्ठं पुत्रं प्रियं रामं द्रष्टुमिच्छामि धार्मिकम् || १६||

इति राज्ञो वचः श्रुत्वा कैकेयी तदनन्तरम् |
स्वयमेवाब्रवीत्सूतं गच्छ त्वं राममानय || १७||

ततः स राजा तं सूतं सन्नहर्षः सुतं प्रति |
शोकारक्तेक्षणः श्रीमानुद्वीक्ष्योवाच धार्मिकः || १८||

सुमन्त्रः करुणं श्रुत्वा दृष्ट्वा दीनं च पार्थिवम् |
प्रगृहीताञ्जलिः किं चित्तस्माद्देशादपाक्रमन् || १९||

यदा वक्तुं स्वयं दैन्यान्न शशाक महीपतिः |
तदा सुमन्त्रं मन्त्रज्ञा कैकेयी प्रत्युवाच ह || २०||

सुमन्त्र रामं द्रक्ष्यामि शीघ्रमानय सुन्दरम् |
स मन्यमानः कल्याणं हृदयेन ननन्द च || २१||

सुमन्त्रश्चिन्तयामास त्वरितं चोदितस्तया |
व्यक्तं रामोऽभिषेकार्थमिहायास्यति धर्मवित् || २२||

इति सूतो मतिं कृत्वा हर्षेण महता पुनः |
निर्जगाम महातेजा राघवस्य दिदृक्षया || २३||

23

291

At the dawn, all the ministers, priests had gathered at the gate of the Palace.  Sage Vasistha told Sumantra to go in and hasten the King Dasaratha for coronation process. When Sumantra went in, Kaikeyi told him that the king could not sleep due to excess joy.  She further told him to fetch Shri Rama quickly to that place.  Later, King Dasaratha repeated the same order.

इत्यार्षे श्री रामायणे अयोध्याकाण्डे चतुर्थ: भाग:

 

Ayōdhyākāṇḍa Part-3

Ayōdhyākāṇḍa Part-5

 

No comments:

Post a Comment