Saturday, December 20, 2025

अयोध्याकाण्ड - Ayōdhyākāṇḍa (भाग - ६ ;;; Part – 6)

 

अयोध्याकाण्ड - Ayōdhyākāṇḍa (भाग - ;;; Part – 6)

Sarga number as per Ramayana

Shlokas extracted

No. of shlokas

Cumulative number of shlokas in this Kanda

19

तदप्रियममित्रघ्नो वचनं मरणोपमम् |
श्रुत्वा विव्यथे रामः कैकेयीं चेदमब्रवीत् || ||

एवमस्तु गमिष्यामि वनं वस्तुमहं त्वतः |
जटाचीरधरो राज्ञः प्रतिज्ञामनुपालयन् || ||

इदं तु ज्ञातुमिच्छामि किमर्थं मां महीपतिः |
नाभिनन्दति दुर्धर्षो यथापुरमरिन्दमः || ||

मन्युर्न त्वया कार्यो देवि ब्रूहि तवाग्रतः |
यास्यामि भव सुप्रीता वनं चीरजटाधरः || ||

हितेन गुरुणा पित्रा कृतज्ञेन नृपेण |
नियुज्यमानो विश्रब्धं किं कुर्यादहं प्रियम् || ||

अलीकं मानसं त्वेकं हृदयं दहतीव मे |
स्वयं यन्नाह मां राजा भरतस्याभिषेचनम् || ||

अहं हि सीतां राज्यं प्राणानिष्टान्धनानि |
हृष्टो भ्रात्रे स्वयं दद्यां भरतायाप्रचोदितः || ||

किं पुनर्मनुजेन्द्रेण स्वयं पित्रा प्रचोदितः |
तव प्रियकामार्थं प्रतिज्ञामनुपालयन् || ||

तदाश्वासय हीमं त्वं किं न्विदं यन्महीपतिः |
वसुधासक्तनयनो मन्दमश्रूणि मुञ्चति || ||

गच्छन्तु चैवानयितुं दूताः शीघ्रजवैर्हयैः |
भरतं मातुलकुलादद्यैव नृपशासनात् || १०||

दण्डकारण्यमेषोऽहमितो गच्छामि सत्वरः |
अविचार्य पितुर्वाक्यं समावस्तुं चतुर्दश || ११||

सा हृष्टा तस्य तद्वाक्यं श्रुत्वा रामस्य कैकयी |
प्रस्थानं श्रद्दधाना हि त्वरयामास राघवम् || १२||

एवं भवतु यास्यन्ति दूताः शीघ्रजवैर्हयैः |
भरतं मातुलकुलादुपावर्तयितुं नराः || १३||

तव त्वहं क्षमं मन्ये नोत्सुकस्य विलम्बनम् |
राम तस्मादितः शीघ्रं वनं त्वं गन्तुमर्हसि || १४||

व्रीडान्वितः स्वयं यच्च नृपस्त्वां नाभिभाषते |
नैतत्किं चिन्नरश्रेष्ठ मन्युरेषोऽपनीयताम् || १५||

यावत्त्वं वनं यातः पुरादस्मादभित्वरन् |
पिता तावन्न ते राम स्नास्यते भोक्ष्यतेऽपि वा || १६||

धिक्कष्टमिति निःश्वस्य राजा शोकपरिप्लुतः |
मूर्छितो न्यपतत्तस्मिन्पर्यङ्के हेमभूषिते || १७||

रामोऽप्युत्थाप्य राजानं कैकेय्याभिप्रचोदितः |
कशयेवाहतो वाजी वनं गन्तुं कृतत्वरः || १८||

तदप्रियमनार्याया वचनं दारुणोदरम् |
श्रुत्वा गतव्यथो रामः कैकेयीं वाक्यमब्रवीत् || १९||

नाहमर्थपरो देवि लोकमावस्तुमुत्सहे |
विद्धि मामृषिभिस्तुल्यं केवलं धर्ममास्थितम् || २०||

यदत्रभवतः किं चिच्छक्यं कर्तुं प्रियं मया |
प्राणानपि परित्यज्य सर्वथा कृतमेव तत् || २१||

ह्यतो धर्मचरणं किं चिदस्ति महत्तरम् |
यथा पितरि शुश्रूषा तस्य वा वचनक्रिया || २२||

अनुक्तोऽप्यत्रभवता भवत्या वचनादहम् |
वने वत्स्यामि विजने वर्षाणीह चतुर्दश || २३||

नूनं मयि कैकेयि किं चिदाशंससे गुणम् |
यद्राजानमवोचस्त्वं ममेश्वरतरा सती || २४||

यावन्मातरमापृच्छे सीतां चानुनयाम्यहम् |
ततोऽद्यैव गमिष्यामि दण्डकानां महद्वनम् || २५||

भरतः पालयेद्राज्यं शुश्रूषेच्च पितुर्यथा |
तहा भवत्या कर्तव्यं हि धर्मः सनातनः || २६||

रामस्य वचः श्रुत्वा भृशं दुःखहतः पिता |
शोकादशक्नुवन्बाष्पं प्ररुरोद महास्वनम् || २७||

वन्दित्वा चरणौ रामो विसंज्ञस्य पितुस्तदा |
कैकेय्याश्चाप्यनार्याया निष्पपात महाद्युतिः || २८||

रामः पितरं कृत्वा कैकेयीं प्रदक्षिणम् |
निष्क्रम्यान्तःपुरात्तस्मात्स्वं ददर्श सुहृज्जनम् || २९||

तं बाष्पपरिपूर्णाक्षः पृष्ठतोऽनुजगाम |
लक्ष्मणः परमक्रुद्धः सुमित्रानन्दवर्धनः || ३०||

आभिषेचनिकं भाण्डं कृत्वा रामः प्रदक्षिणम् |
शनैर्जगाम सापेक्षो दृष्टिं तत्राविचालयन् || ३१||

चास्य महतीं लक्ष्मीं राज्यनाशोऽपकर्षति |
लोककान्तस्य कान्तत्वं शीतरश्मेरिव क्षपा || ३२||

वनं गन्तुकामस्य त्यजतश्च वसुन्धराम् |
सर्वलोकातिगस्येव लक्ष्यते चित्तविक्रिया || ३३||

धारयन्मनसा दुःखमिन्द्रियाणि निगृह्य |
प्रविवेशात्मवान्वेश्म मातुरप्रियशंसिवान् || ३४||

उचितम् महाबाहुर्न जहौ हर्षमात्मनः |
शारदः समुदीर्णांशुश्चन्द्रस्तेज इवात्मजम् ||३५||

प्रविश्य वेश्मातिभृशं मुदान्वितं
समीक्ष्य तां चार्थविपत्तिमागताम् |
चैव रामोऽत्र जगाम विक्रियां
सुहृज्जनस्यात्मविपत्तिशङ्कया || ३६||

36

407

Shri Rama remained unmoved when Kaikeyi informed him of her desires.  He was worried as to why his father himself did not communicate the same, as he is always ready to obey his father’s orders.

Kaikeyi urged him to move to the forest on that day itself, so that messengers can be sent to Bharata to fetch him quickly.  Shri Rama said that he would go the forest on that day itself, but after informing his mother.

When he came out, Lakshmana stood there with tears in his eyes.  Shri Rama sent all his friends and well-wishers and went to his mother’s chambers. 

20

रामस्तु भृशमायस्तो निःश्वसन्निव कुञ्जरः |
जगाम सहितो भ्रात्रा मातुरन्तःपुरं वशी || ||

सोऽपश्यत्पुरुषं तत्र वृद्धं परमपूजितम् |
उपविष्टं गृहद्वारि तिष्ठतश्चापरान्बहून् || ||

प्रविश्य प्रथमां कक्ष्यां द्वितीयायां ददर्श सः |
ब्राह्मणान्वेदसम्पन्नान्वृद्धान्राज्ञाभिसत्कृतान् || ||

प्रणम्य रामस्तान्वृद्धांस्तृतीयायां ददर्श सः |
स्त्रियो वृद्धाश्च बालाश्च द्वाररक्षणतत्पराः || ||

वर्धयित्वा प्रहृष्टास्ताः प्रविश्य गृहं स्त्रियः |
न्यवेदयन्त त्वरिता राम मातुः प्रियं तदा || ||

कौसल्यापि तदा देवी रात्रिं स्थित्वा समाहिता |
प्रभाते त्वकरोत्पूजां विष्णोः पुत्रहितैषिणी || ||

सा क्षौमवसना हृष्टा नित्यं व्रतपरायणा |
अग्निं जुहोति स्म तदा मन्त्रवत्कृतमङ्गला || ||

प्रविश्य तदा रामो मातुरन्तःपुरं शुभम् |
ददर्श मातरं तत्र हावयन्तीं हुताशनम् || ||

सा चिरस्यात्मजं दृष्ट्वा मातृनन्दनमागतम् |
अभिचक्राम संहृष्टा किशोरं वडवा यथा || ||

तमुवाच दुराधर्षं राघवं सुतमात्मनः |
कौसल्या पुत्रवात्सल्यादिदं प्रियहितं वचः || १०||

वृद्धानां धर्मशीलानां राजर्षीणां महात्मनाम् |
प्राप्नुह्यायुश्च कीर्तिं धर्मं चोपहितं कुले || ११||

सत्यप्रतिज्ञं पितरं राजानं पश्य राघव |
अद्यैव हि त्वां धर्मात्मा यौवराज्येऽभिषेक्ष्यति || १२||

मातरं राघवः किं चित्प्रसार्याञ्जलिमब्रवीत् |
स्वभावविनीतश्च गौरवाच्च तदानतः || १३||

देवि नूनं जानीषे महद्भयमुपस्थितम् |
इदं तव दुःखाय वैदेह्या लक्ष्मणस्य || १४||

चतुर्दश हि वर्षाणि वत्स्यामि विजने वने |
मधुमूलफलैर्जीवन्हित्वा मुनिवदामिषम् || १५||

भरताय महाराजो यौवराज्यं प्रयच्छति |
मां पुनर्दण्डकारण्यं विवासयति तापसं || १६||

तामदुःखोचितां दृष्ट्वा पतितां कदलीम् इव |
रामस्तूत्थापयामास मातरं गतचेतसं || १७||

उपावृत्योत्थितां दीनां वडवामिव वाहिताम् |
पांशुगुण्ठितसर्वाग्नीं विममर्श पाणिना || १८||

सा राघवमुपासीनमसुखार्ता सुखोचिता |
उवाच पुरुषव्याघ्रमुपशृण्वति लक्ष्मणे || १९||

यदि पुत्र जायेथा मम शोकाय राघव |
स्म दुःखमतो भूयः पश्येयमहमप्रजा || २०||

एक एव हि वन्ध्यायाः शोको भवति मानवः |
अप्रजास्मीति सन्तापो ह्यन्यः पुत्र विद्यते || २१||

दृष्टपूर्वं कल्याणं सुखं वा पतिपौरुषे |
अपि पुत्रे विपश्येयमिति रामास्थितं मया || २२||

सा बहून्यमनोज्ञानि वाक्यानि हृदयच्छिदाम् |
अहं श्रोष्ये सपत्नीनामवराणां वरा सती |
अतो दुःखतरं किं नु प्रमदानां भविष्यति || २३||

त्वयि संनिहितेऽप्येवमहमासं निराकृता |
किं पुनः प्रोषिते तात ध्रुवं मरणमेव मे || २४||

यो हि मां सेवते कश्चिदथ वाप्यनुवर्तते |
कैकेय्याः पुत्रमन्वीक्ष्य जनो नाभिभाषते || २५||

दश सप्त वर्षाणि तव जातस्य राघव |
अतीतानि प्रकाङ्क्षन्त्या मया दुःखपरिक्षयम् || २६||

उपवासैश्च योगैश्च बहुभिश्च परिश्रमैः |
दुःखं संवर्धितो मोघं त्वं हि दुर्गतया मया || २७||

स्थिरं तु हृदयं मन्ये ममेदं यन्न दीर्यते |
प्रावृषीव महानद्याः स्पृष्टं कूलं नवाम्भसा || २८||

ममैव नूनं मरणं विद्यते
चावकाशोऽस्ति यमक्षये मम |
यदन्तकोऽद्यैव मां जिहीर्षति
प्रसह्य सिंहो रुदतीं मृगीम् इव || २९||

इदं तु दुःखं यदनर्थकानि मे
व्रतानि दानानि संयमाश् हि |
तपश्च तप्तं यदपत्यकारणात्
सुनिष्फलं बीजमिवोप्तमूषरे || ३०||

यदि ह्यकाले मरणं स्वयेच्छया
लभेत कश्चिद्गुरु दुःख कर्शितः |
गताहमद्यैव परेत संसदं
विना त्वया धेनुरिवात्मजेन वै ||३१ ||

भृशमसुखममर्षिता तदा
बहु विललाप समीक्ष्य राघवम् |
व्यसनमुपनिशाम्य सा महत्
सुतमिव बद्धमवेक्ष्य किंनरी || ३२||

32

439

When Shri Rama informed his mother Kausalya about the decision of his father in coronating Bharata in his place and to send him to the Forest for 14 years of exile, she fell down and lost consciousness.  Then, she regained her consciousness.

21

तथा तु विलपन्तीं तां कौसल्यां राममातरम् |
उवाच लक्ष्मणो दीनस्तत्कालसदृशं वचः || ||

रोचते ममाप्येतदार्ये यद्राघवो वनम् |
त्यक्त्वा राज्यश्रियं गच्छेत्स्त्रिया वाक्यवशं गतः || ||

विपरीतश्च वृद्धश्च विषयैश्च प्रधर्षितः |
नृपः किमिव ब्रूयाच्चोद्यमानः समन्मथः || ||

नास्यापराधं पश्यामि नापि दोषं तथा विधम् |
येन निर्वास्यते राष्ट्राद्वनवासाय राघवः || ||

तं पश्याम्यहं लोके परोक्षमपि यो नरः |
अमित्रोऽपि निरस्तोऽपि योऽस्य दोषमुदाहरेत् || ||

देवकल्पमृजुं दान्तं रिपूणाम् अपि वत्सलम् |
अवेक्षमाणः को धर्मं त्यजेत्पुत्रमकारणात् || ||

तदिदं वचनं राज्ञः पुनर्बाल्यमुपेयुषः |
पुत्रः को हृदये कुर्याद्राजवृत्तमनुस्मरन् || ||

यावदेव जानाति कश्चिदर्थमिमं नरः |
तावदेव मया साधमात्मस्थं कुरु शासनम् || ||

मया पार्श्वे सधनुषा तव गुप्तस्य राघव |
कः समर्थोऽधिकं कर्तुं कृतान्तस्येव तिष्ठतः || ||

निर्मनुष्यामिमां सर्वामयोध्यां मनुजर्षभ |
करिष्यामि शरैस्तीक्ष्णैर्यदि स्थास्यति विप्रिये || १०||

भरतस्याथ पक्ष्यो वा यो वास्य हितमिच्छति |
सर्वानेतान्वधिष्यामि मृदुर्हि परिभूयते || ११||

त्वया चैव मया चैव कृत्वा वैरमनुत्तमम् |
कस्य शक्तिः श्रियं दातुं भरतायारिशासन || १२||

अनुरक्तोऽस्मि भावेन भ्रातरं देवि तत्त्वतः |
सत्येन धनुषा चैव दत्तेनेष्टेन ते शपे || १३||

दीप्तमग्निमरण्यं वा यदि रामः प्रवेक्ष्यते |
प्रविष्टं तत्र मां देवि त्वं पूर्वमवधारय || १४||

हरामि वीर्याद्दुःखं ते तमः सूर्य इवोदितः |
देवी पश्यतु मे वीर्यं राघवश्चैव पश्यतु || १५||

एतत्तु वचनं श्रुत्वा लक्ष्मणस्य महात्मनः |
उवाच रामं कौसल्या रुदन्ती शोकलालसा || १६||

भ्रातुस्ते वदतः पुत्र लक्ष्मणस्य श्रुतं त्वया |
यदत्रानन्तरं तत्त्वं कुरुष्व यदि रोचते || १७||

चाधर्म्यं वचः श्रुत्वा सपत्न्या मम भाषितम् |
विहाय शोकसन्तप्तां गन्तुमर्हसि मामितः || १८||

धर्मज्ञ यदि धर्मिष्ठो धर्मं चरितुमिच्छसि |
शुश्रूष मामिहस्थस्त्वं चर धर्ममनुत्तमम् || १९||

शुश्रूषुर्जननीं पुत्र स्वगृहे नियतो वसन् |
परेण तपसा युक्तः काश्यपस्त्रिदिवं गतः || २०||

यथैव राजा पूज्यस्ते गौरवेण तथा ह्यहम् |
त्वां नाहमनुजानामि गन्तव्यमितो वनम् || २१||

त्वद्वियोगान्न मे कार्यं जीवितेन सुखेन वा |
त्वया सह मम श्रेयस्तृणानामपि भक्षणम् || २२||

यदि त्वं यास्यसि वनं त्यक्त्वा मां शोकलालसाम् |
अहं प्रायमिहासिष्ये हि शक्ष्यामि जीवितुम् || २३||

ततस्त्वं प्राप्स्यसे पुत्र निरयं लोकविश्रुतम् |
ब्रह्महत्यामिवाधर्मात्समुद्रः सरितां पतिः || २४||

विलपन्तीं तथा दीनां कौसल्यां जननीं ततः |
उवाच रामो धर्मात्मा वचनं धर्मसंहितम् || २५||

नास्ति शक्तिः पितुर्वाक्यं समतिक्रमितुं मम |
प्रसादये त्वां शिरसा गन्तुमिच्छाम्यहं वनम् || २६||

ऋषिणा पितुर्वाक्यं कुर्वता व्रतचारिणा |
गौर्हता जानता धर्मं कण्डुनापि विपश्चिता || २७||

अस्माकं कुले पूर्वं सगरस्याज्ञया पितुः |
खनद्भिः सागरैर्भूतिमवाप्तः सुमहान्वधः || २८||

जामदग्न्येन रामेण रेणुका जननी स्वयम् |
कृत्ता परशुनारण्ये पितुर्वचनकारिणा || २९||

खल्वेतन्मयैकेन क्रियते पितृशासनम् |
पूर्वैरयमभिप्रेतो गतो मार्गोऽनुगम्यते || ३०||

तदेतत्तु मया कार्यं क्रियते भुवि नान्यथा |
पितुर्हि वचनं कुर्वन्न कश्चिन्नाम हीयते || ३१||

तामेवमुक्त्वा जननीं लक्ष्मणं पुनरब्रवीत् |
तव लक्ष्मण जानामि मयि स्नेहमनुत्तमम् |
अभिप्रायमविज्ञाय सत्यस्य शमस्य || ३२||

धर्मो हि परमो लोके धर्मे सत्यं प्रतिष्ठितम् |
धर्मसंश्रितमेतच्च पितुर्वचनमुत्तमम् || ३३||

संश्रुत्य पितुर्वाक्यं मातुर्वा ब्राह्मणस्य वा |
कर्तव्यं वृथा वीर धर्ममाश्रित्य तिष्ठता || ३४||

सोऽहं शक्ष्यामि पितुर्नियोगमतिवर्तितुम् |
पितुर्हि वचनाद्वीर कैकेय्याहं प्रचोदितः || ३५||

तदेनां विसृजानार्यां क्षत्रधर्माश्रितां मतिम् |
धर्ममाश्रय मा तैक्ष्ण्यं मद्बुद्धिरनुगम्यताम् || ३६||

तमेवमुक्त्वा सौहार्दाद्भ्रातरं लक्ष्मणाग्रजः |
उवाच भूयः कौसल्यां प्राञ्जलिः शिरसानतः || ३७||

अनुमन्यस्व मां देवि गमिष्यन्तमितो वनम् |
शापितासि मम प्राणैः कुरु स्वस्त्ययनानि मे |
तीर्णप्रतिज्ञश्च वनात्पुनरेष्याम्यहं पुरीम् || ३८||

त्वया मया वैदेह्या लक्ष्मणेन सुमित्रया।
पितुर्नियोगे स्थातव्यमेष धर्मस्सनातनः|| ३९||

यशो ह्यहं केवलराज्यकारणान्
पृष्ठतः कर्तुमलं महोदयम् |
अदीर्घकाले तु देवि जीविते
वृणेऽवरामद्य महीमधर्मतः || ४०||

40

479

Lakshmana felt dejected and did not like Shri Rama’s decision to go to the Forest like a meek person.  He said that he would stand by his side, so that Shri Rama can take control of the kingdom.  Even Kausalya liked that idea.

Shri Rama said that he did not want to go against the wishes of his father and added that she should also follow the wish of her husband.  And, he sought her permission to go to the Forest.

इत्यार्षे श्री रामायणे अयोध्याकाण्डे षष्ठ: भाग:

 

Ayōdhyākāṇḍa Part-5

Ayōdhyākāṇḍa Part-7

No comments:

Post a Comment