Saturday, December 20, 2025

अयोध्याकाण्ड - Ayōdhyākāṇḍa (भाग - ७ ;;; Part – 7)

 

अयोध्याकाण्ड - Ayōdhyākāṇḍa (भाग - ;;; Part – 7)

 

Sarga number as per Ramayana

Shlokas extracted

No. of shlokas

Cumulative number of shlokas in this Kanda

24

तं समीक्ष्य त्ववहितं पितुर्निर्देशपालने |
कौसल्या बाष्पसंरुद्धा वचो धर्मिष्ठमब्रवीत् || १||

अदृष्टदुःखो धर्मात्मा सर्वभूतप्रियंवदः |
मयि जातो दशरथात्कथमुञ्छेन वर्तयेत् || २||

यस्य भृत्याश्च दासाश्च मृष्टान्यन्नानि भुञ्जते |
कथं स भोक्ष्यते नाथो वने मूलफलान्ययम् || ३||

क एतच्छ्रद्दधेच्छ्रुत्वा कस्य वा न भवेद्भयम् |
गुणवान्दयितो राज्ञो राघवो यद्विवास्यते || ४||

त्वया विहीनामिह मां शोकाग्निरतुलो महान् |
प्रधक्ष्यति यथा कक्षं चित्रभानुर्हिमात्यये || ५||

कथं हि धेनुः स्वं वत्सं गच्छन्तं नानुगच्छति |
अहं त्वानुगमिष्यामि यत्र पुत्र गमिष्यसि || ६||

तथा निगदितं मात्रा तद्वाक्यं पुरुषर्षभः |
श्रुत्वा रामोऽब्रवीद्वाक्यं मातरं भृशदुःखिताम् || ७||

कैकेय्या वञ्चितो राजा मयि चारण्यमाश्रिते |
भवत्या च परित्यक्तो न नूनं वर्तयिष्यति || ८||

भर्तुः किल परित्यागो नृशंसः केवलं स्त्रियाः |
स भवत्या न कर्तव्यो मनसापि विगर्हितः || ९||

यावज्जीवति काकुत्स्थः पिता मे जगतीपतिः |
शुश्रूषा क्रियतां तावत्स हि धर्मः सनातनः || १०||

एवमुक्ता तु रामेण कौसल्या शुभ दर्शना |
तथेत्युवाच सुप्रीता राममक्लिष्टकारिणम् || ११||

एवमुक्तस्तु वचनं रामो धर्मभृतां वरः |
भूयस्तामब्रवीद्वाक्यं मातरं भृशदुःखिताम् || १२||

मया चैव भवत्या च कर्तव्यं वचनं पितुः |
राजा भर्ता गुरुः श्रेष्ठः सर्वेषामीश्वरः प्रभुः || १३||

इमानि तु महारण्ये विहृत्य नव पञ्च च |
वर्षाणि परमप्रीतः स्थास्यामि वचने तव || १४||

एवमुक्ता प्रियं पुत्रं बाष्पपूर्णानना तदा |
उवाच परमार्ता तु कौसल्या पुत्रवत्सला || १५||

आसां राम सपत्नीनां वस्तुं मध्ये न मे क्षमम् |
नय मामपि काकुत्स्थ वनं वन्यं मृगीं यथा |
यदि ते गमने बुद्धिः कृता पितुरपेक्षया || १६||

तां तथा रुदतीं रामो रुदन्वचनमब्रवीत् |
जीवन्त्या हि स्त्रिया भर्ता दैवतं प्रभुरेव च |
भवत्या मम चैवाद्य राजा प्रभवति प्रभुः || १७||

भरतश्चापि धर्मात्मा सर्वभूतप्रियंवदः |
भवतीमनुवर्तेत स हि धर्मरतः सदा || १८||

यथा मयि तु निष्क्रान्ते पुत्रशोकेन पार्थिवः |
श्रमं नावाप्नुयात्किं चिदप्रमत्ता तथा कुरु || १९||

व्रतोपवासनिरता या नारी परमोत्तमा |
भर्तारं नानुवर्तेत सा च पापगतिर्भवेत् || २०||

शुश्रूषमेव कुर्वीत भर्तुः प्रियहिते रता |
एष धर्मः पुरा दृष्टो लोके वेदे श्रुतः स्मृतः || २१||

पूज्यास्ते मत्कृते देवि ब्राह्मणाश्चैव सुव्रताः |
एवं कालं प्रतीक्षस्व ममागमनकाङ्क्षिणी || २२||

प्राप्स्यसे परमं कामं मयि प्रत्यागते सति |
यदि धर्मभृतां श्रेष्ठो धारयिष्यति जीवितम् || २३||

एवमुक्ता तु रामेण बाष्पपर्याकुलेक्षणा |
कौसल्या पुत्रशोकार्ता रामं वचनमब्रवीत् |
गच्छ पुत्र त्वमेकाग्रो भद्रं तेऽस्तु सदा विभो || २४||

तथा हि रामं वनवासनिश्चितं
समीक्ष्य देवी परमेण चेतसा |
उवाच रामं शुभलक्षणं वचो
बभूव च स्वस्त्ययनाभिकाङ्क्षिणी || २५||

25

402

 

 

 

 

 

 

 

 

Listening to Shri Rama’s firm decision to go the Forest, Kausalya appealed to him to take her along with him to the Forest, as she cannot live in Ayodhya without him. 

However, Shri Rama says that Kausalya should not abandon her husband and his father King Dasaratha, which is against the scriptures. Then, Kausalya blesses Shri Rama.

इत्यार्षे श्री रामायणे अयोध्याकाण्डे सप्तम: भाग:

 

Ayōdhyākāṇḍa Part-6

Ayōdhyākāṇḍa Part-8

No comments:

Post a Comment