Sunday, December 21, 2025

अयोध्याकाण्ड - Ayōdhyākāṇḍa (भाग - ८ ;;; Part – 8)

 

अयोध्याकाण्ड - Ayōdhyākāṇḍa (भाग - ;;; Part – 8)

Sarga number as per Ramayana

Shlokas extracted

No. of shlokas

Cumulative number of shlokas in this Kanda

26

अभिवाद्य तु कौसल्यां रामः सम्प्रस्थितो वनम् |
कृतस्वस्त्ययनो मात्रा धर्मिष्ठे वर्त्मनि स्थितः || १||

विराजयन्राजसुतो राजमार्गं नरैर्वृतम् |
हृदयान्याममन्थेव जनस्य गुणवत्तया || २||

वैदेही चापि तत्सर्वं न शुश्राव तपस्विनी |
तदेव हृदि तस्याश्च यौवराज्याभिषेचनम् || ३||

देवकार्यं स्म सा कृत्वा कृतज्ञा हृष्टचेतना |
अभिज्ञा राजधर्माणां राजपुत्रं प्रतीक्षते || ४||

प्रविवेशाथ रामस्तु स्ववेश्म सुविभूषितम् |
प्रहृष्टजनसम्पूर्णं ह्रिया किं चिदवाङ्मुखः || ५||

अथ सीता समुत्पत्य वेपमाना च तं पतिम् |
अपश्यच्छोकसन्तप्तं चिन्ताव्याकुलिलेन्द्रियम् || ६||

विवर्णवदनं दृष्ट्वा तं प्रस्विन्नममर्षणम् |
आह दुःखाभिसन्तप्ता किमिदानीमिदं प्रभो || ७||

अद्य बार्हस्पतः श्रीमान्युक्तः पुष्यो न राघव |
प्रोच्यते ब्राह्मणैः प्राज्ञैः केन त्वमसि दुर्मनाः || ८||

न ते शतशलाकेन जलफेननिभेन च |
आवृतं वदनं वल्गु छत्रेणाभिविराजते || ९||

व्यजनाभ्यां च मुख्याभ्यां शतपत्रनिभेक्षणम् |
चन्द्रहंसप्रकाशाभ्यां वीज्यते न तवाननम् || १०||

वाग्मिनो बन्दिनश्चापि प्रहृष्टास्त्वं नरर्षभ |
स्तुवन्तो नाद्य दृश्यन्ते मङ्गलैः सूतमागधाः || ११||

न ते क्षौद्रं च दधि च ब्राह्मणा वेदपारगाः |
मूर्ध्नि मूर्धावसिक्तस्य दधति स्म विधानतः || १२||

न त्वां प्रकृतयः सर्वा श्रेणीमुख्याश्च भूषिताः |
अनुव्रजितुमिच्छन्ति पौरजापपदास्तथा || १३||

चतुर्भिर्वेगसम्पन्नैर्हयैः काञ्चनभूषणैः |
मुख्यः पुष्यरथो युक्तः किं न गच्छति तेऽग्रतः || १४||

न हस्ती चाग्रतः श्रीमांस्तव लक्षणपूजितः |
प्रयाणे लक्ष्यते वीर कृष्णमेघगिरि प्रभः || १५||

न च काञ्चनचित्रं ते पश्यामि प्रियदर्शन |
भद्रासनं पुरस्कृत्य यान्तं वीरपुरःसरम् || १६||

अभिषेको यदा सज्जः किमिदानीमिदं तव |
अपूर्वो मुखवर्णश्च न प्रहर्षश्च लक्ष्यते || १७||

इतीव विलपन्तीं तां प्रोवाच रघुनन्दनः |
सीते तत्रभवांस्तात प्रव्राजयति मां वनम् || १८||

कुले महति सम्भूते धर्मज्ञे धर्मचारिणि |
शृणु जानकि येनेदं क्रमेणाभ्यागतं मम || १९||

राज्ञा सत्यप्रतिज्ञेन पित्रा दशरथेन मे |
कैकेय्यै प्रीतमनसा पुरा दत्तौ महावरौ || २०||

तयाद्य मम सज्जेऽस्मिन्नभिषेके नृपोद्यते |
प्रचोदितः स समयो धर्मेण प्रतिनिर्जितः || २१||

चतुर्दश हि वर्षाणि वस्तव्यं दण्डके मया |
पित्रा मे भरतश्चापि यौवराज्ये नियोजितः |
सोऽहं त्वामागतो द्रष्टुं प्रस्थितो विजनं वनम् || २२||

भरतस्य समीपे ते नाहं कथ्यः कदा चन |
ऋद्धियुक्ता हि पुरुषा न सहन्ते परस्तवम् |
तस्मान्न ते गुणाः कथ्या भरतस्याग्रतो मम || २३||

नापि त्वं तेन भर्तव्या विशेषेण कदा चन |
अनुकूलतया शक्यं समीपे तस्य वर्तितुम् || २४||

अहं चापि प्रतिज्ञां तां गुरोः समनुपालयन् |
वनमद्यैव यास्यामि स्थिरा भव मनस्विनि || २५||

याते च मयि कल्याणि वनं मुनिनिषेवितम् |
व्रतोपवासरतया भवितव्यं त्वयानघे || २६||

काल्यमुत्थाय देवानां कृत्वा पूजां यथाविधि |
वन्दितव्यो दशरथः पिता मम नरेश्वरः || २७||

माता च मम कौसल्या वृद्धा सन्तापकर्शिता |
धर्ममेवाग्रतः कृत्वा त्वत्तः संमानमर्हति || २८||

वन्दितव्याश्च ते नित्यं याः शेषा मम मातरः |
स्नेहप्रणयसम्भोगैः समा हि मम मातरः || २९||

भ्रातृपुत्रसमौ चापि द्रष्टव्यौ च विशेषतः |
त्वया लक्ष्मणशत्रुघ्नौ प्राणैः प्रियतरौ मम || ३०||

विप्रियं न च कर्तव्यं भरतस्य कदा चन |
स हि राजा प्रभुश्चैव देशस्य च कुलस्य च || ३१||

आराधिता हि शीलेन प्रयत्नैश्चोपसेविताः |
राजानः सम्प्रसीदन्ति प्रकुप्यन्ति विपर्यये || ३२||

औरसानपि पुत्रान्हि त्यजन्त्यहितकारिणः |
समर्थान्सम्प्रगृह्णन्ति जनानपि नराधिपाः || ३३||

अहं गमिष्यामि महावनं प्रिये
त्वया हि वस्तव्यमिहैव भामिनि |
यथा व्यलीकं कुरुषे न कस्य चित्
तथा त्वया कार्यमिदं वचो मम || ३४||

34

616

After getting blessings from his mother, Shri Rama, went to his house to inform Sita of the latest developments.   When Sita queried as to why he was in a dejected mood, Shri Rama explained the 2 boons that were sought by Kaikeyi and agreed to by King Dasaratha.

And, he told her that he would be proceeding to the Forest and she has to stay back in Ayodhya itself and be humble and polite with Bharata, who will be now the Prince Regent. 

27

एवमुक्ता तु वैदेही प्रियार्हा प्रियवादिनी |
प्रणयादेव सङ्क्रुद्धा भर्तारमिदमब्रवीत् || १||

आर्यपुत्र पिता माता भ्राता पुत्रस्तथा स्नुषा |
स्वानि पुण्यानि भुञ्जानाः स्वं स्वं भाग्यमुपासते || २||

भर्तुर्भाग्यं तु भार्यैका प्राप्नोति पुरुषर्षभ |
अतश्चैवाहमादिष्टा वने वस्तव्यमित्यपि || ३||

न पिता नात्मजो नात्मा न माता न सखीजनः |
इह प्रेत्य च नारीणां पतिरेको गतिः सदा || ४||

यदि त्वं प्रस्थितो दुर्गं वनमद्यैव राघव |
अग्रतस्ते गमिष्यामि मृद्नन्ती कुशकण्टकान् || ५||

ईर्ष्या रोषौ बहिष्कृत्य भुक्तशेषमिवोदकम् |
नय मां वीर विश्रब्धः पापं मयि न विद्यते || ६||

प्रासादाग्रैर्विमानैर्वा वैहायसगतेन वा |
सर्वावस्थागता भर्तुः पादच्छाया विशिष्यते || ७||

अनुशिष्टास्मि मात्रा च पित्रा च विविधाश्रयम् |
नास्मि सम्प्रति वक्तव्या वर्तितव्यं यथा मया || ८||

सुखं वने निवत्स्यामि यथैव भवने पितुः |
अचिन्तयन्ती त्रीँल्लोकांश्चिन्तयन्ती पतिव्रतम् || ९||

शुश्रूषमाणा ते नित्यं नियता ब्रह्मचारिणी |
सह रंस्ये त्वया वीर वनेषु मधुगन्धिषु || १०||

त्वं हि कर्तुं वने शक्तो राम सम्परिपालनम् |
अन्यस्य पै जनस्येह किं पुनर्मम मानद || ११||

फलमूलाशना नित्यं भविष्यामि न संशयः |
न ते दुःखं करिष्यामि निवसन्ती सह त्वया || १२||

इच्छामि सरितः शैलान्पल्वलानि वनानि च |
द्रष्टुं सर्वत्र निर्भीता त्वया नाथेन धीमता || १३||

हंसकारण्डवाकीर्णाः पद्मिनीः साधुपुष्पिताः |
इच्छेयं सुखिनी द्रष्टुं त्वया वीरेण सङ्गता || १४||

सह त्वया विशालाक्ष रंस्ये परमनन्दिनी |
एवं वर्षसहस्राणां शतं वाहं त्वया सह || १५||

स्वर्गेऽपि च विना वासो भविता यदि राघव |
त्वया मम नरव्याघ्र नाहं तमपि रोचये || १६||

अहं गमिष्यामि वनं सुदुर्गमं
मृगायुतं वानरवारणैर्युतम् |
वने निवत्स्यामि यथा पितुर्गृहे
तवैव पादावुपगृह्य संमता || १७||

अनन्यभावामनुरक्तचेतसं
त्वया वियुक्तां मरणाय निश्चिताम् |
नयस्व मां साधु कुरुष्व याचनां
न ते मयातो गुरुता भविष्यति || १८||

तथा ब्रुवाणाम् अपि धर्मवत्सलो
न च स्म सीतां नृवरो निनीषति |
उवाच चैनां बहु संनिवर्तने
वने निवासस्य च दुःखितां प्रति || १९||

19

635

Sita did not agree to Shri Rama’s proposal.  She said that whatever that applies to Shri Rama, that applies to her also, being a wife.  And, 14 year exile period applies to her and she will follow him.

She said that she would like to see the beautiful places in the Forest and would like spend there by eating whatever Shri Rama eats. 

28

स एवं ब्रुवतीं सीतां धर्मज्ञो धर्मवत्सलः |
निवर्तनार्थे धर्मात्मा वाक्यमेतदुवाच ह || १||

सीते महाकुलीनासि धर्मे च निरता सदा |
इहाचर स्वधर्मं त्वं मा यथा मनसः सुखम् || २||

सीते यथा त्वां वक्ष्यामि तथा कार्यं त्वयाबले |
वने दोषा हि बहवो वदतस्तान्निबोध मे || ३||

सीते विमुच्यतामेषा वनवासकृता मतिः |
बहुदोषं हि कान्तारं वनमित्यभिधीयते || ४||

हितबुद्ध्या खलु वचो मयैतदभिधीयते |
सदा सुखं न जानामि दुःखमेव सदा वनम् || ५||

गिरिनिर्झरसम्भूता गिरिकन्दरवासिनाम् |
सिंहानां निनदा दुःखाः श्रोतुं दुःखमतो वनम् || ६||

सुप्यते पर्णशय्यासु स्वयं भग्नासु भूतले |
रात्रिषु श्रमखिन्नेन तस्माद्दुःखतरं वनम् || ७||

उपवासश्च कर्तव्या यथाप्राणेन मैथिलि |
जटाभारश्च कर्तव्यो वल्कलाम्बरधारिणा || ८||

अतीव वातस्तिमिरं बुभुक्षा चात्र नित्यशः |
भयानि च महान्त्यत्र ततो दुःखतरं वनम् || ९||

सरीसृपाश्च बहवो बहुरूपाश्च भामिनि |
चरन्ति पृथिवीं दर्पादतो दुखतरं वनम् || १०||

नदीनिलयनाः सर्पा नदीकुटिलगामिनः |
तिष्ठन्त्यावृत्य पन्थानमतो दुःखतरं वनम् || ११||

पतङ्गा वृश्चिकाः कीटा दंशाश्च मशकैः सह |
बाधन्ते नित्यमबले सर्वं दुःखमतो वनम् || १२||

द्रुमाः कण्टकिनश्चैव कुशकाशाश्च भामिनि |
वने व्याकुलशाखाग्रास्तेन दुःखतरं वनम् || १३||

तदलं ते वनं गत्वा क्षमं न हि वनं तव |
विमृशन्निह पश्यामि बहुदोषतरं वनम् || १४||

वनं तु नेतुं न कृता मतिस्तदा
बभूव रामेण यदा महात्मना |
न तस्य सीता वचनं चकार तत्
ततोऽब्रवीद्राममिदं सुदुःखिता || १५||

15

650

Out of his love towards her, Shri Rama tried to dissuade her from following him by explaining the hardship in the Forest life.  He explained various difficulties that one has to face in the Forest life as an ascetic.

29

एतत्तु वचनं श्रुत्वा सीता रामस्य दुःखिता |
प्रसक्ताश्रुमुखी मन्दमिदं वचनमब्रवीत् || १||

ये त्वया कीर्तिता दोषा वने वस्तव्यतां प्रति |
गुणानित्येव तान्विद्धि तव स्नेहपुरस्कृतान् || २||

त्वया च सह गन्तव्यं मया गुरुजनाज्ञया |
त्वद्वियोगेन मे राम त्यक्तव्यमिह जीवितम् || ३||

न च मां त्वत्समीपस्थमपि शक्नोति राघव |
सुराणामीश्वरः शक्रः प्रधर्षयितुमोजसा || ४||

पतिहीना तु या नारी न सा शक्ष्यति जीवितुम् |
काममेवंविधं राम त्वया मम विदर्शितम् || ५||

अथ चापि महाप्राज्ञ ब्राह्मणानां मया श्रुतम् |
पुरा पितृगृहे सत्यं वस्तव्यं किल मे वने || ६||

लक्षणिभ्यो द्विजातिभ्यः श्रुत्वाहं वचनं गृहे |
वनवासकृतोत्साहा नित्यमेव महाबल || ७||

आदेशो वनवासस्य प्राप्तव्यः स मया किल |
सा त्वया सह तत्राहं यास्यामि प्रिय नान्यथा || ८||

कृतादेशा भविष्यामि गमिष्यामि सह त्वया |
कालश्चायं समुत्पन्नः सत्यवाग्भवतु द्विजः || ९||

वनवासे हि जानामि दुःखानि बहुधा किल |
प्राप्यन्ते नियतं वीर पुरुषैरकृतात्मभिः || १०||

कन्यया च पितुर्गेहे वनवासः श्रुतो मया |
भिक्षिण्याः साधुवृत्ताया मम मातुरिहाग्रतः || ११||

प्रसादितश्च वै पूर्वं त्वं वै बहुविधं प्रभो |
गमनं वनवासस्य काङ्क्षितं हि सह त्वया || १२||

कृतक्षणाहं भद्रं ते गमनं प्रति राघव |
वनवासस्य शूरस्य चर्या हि मम रोचते || १३||

शुद्धात्मन्प्रेमभावाद्धि भविष्यामि विकल्मषा |
भर्तारमनुगच्छन्ती भर्ता हि मम दैवतम् || १४||

प्रेत्यभावेऽपि कल्याणः सङ्गमो मे सह त्वया |
श्रुतिर्हि श्रूयते पुण्या ब्राह्मणानां यशस्विनाम् || १५||

इह लोके च पितृभिर्या स्त्री यस्य महामते |
अद्भिर्दत्ता स्वधर्मेण प्रेत्यभावेऽपि तस्य सा || १६||

एवमस्मात्स्वकां नारीं सुवृत्तां हि पतिव्रताम् |
नाभिरोचयसे नेतुं त्वं मां केनेह हेतुना || १७||

भक्तां पतिव्रतां दीनां मां समां सुखदुःखयोः |
नेतुमर्हसि काकुत्स्थ समानसुखदुःखिनीम् || १८||

यदि मां दुःखितामेवं वनं नेतुं न चेच्छसि |
विषमग्निं जलं वाहमास्थास्ये मृत्युकारणात् || १९||

एवं बहुविधं तं सा याचते गमनं प्रति |
नानुमेने महाबाहुस्तां नेतुं विजनं वनम् || २०||

एवमुक्ता तु सा चिन्तां मैथिली समुपागता |
स्नापयन्तीव गामुष्णैरश्रुभिर्नयनच्युतैः || २१||

चिन्तयन्तीं तथा तां तु निवर्तयितुमात्मवान् |
क्रोधाविष्टां तु वैदेहीं काकुत्स्थो बह्वसान्त्वयत् || २२||

22

672

Seetha was distressed to hear these words of Shri Rama and with her face with tears, she said that as her father gave her in marriage to him and ordered to follow wherever he goes, she would follow him.

She said that she is not afraid of any difficulties in the Forest.  She added that if he does not take her along with him, she would give up her life.

इत्यार्षे श्री रामायणे अयोध्याकाण्डे अष्टम: भाग:

 

Ayōdhyākāṇḍa Part-7

Ayōdhyākāṇḍa Part-9

No comments:

Post a Comment