Sunday, December 14, 2025

बालकाण्ड – Bālakāṇḍa (भाग - १ ;;; Part – 1)


स स्तोम्यः स हव्यः सत्यः सत्वा तुविकूर्मिः । एकश्चित्सन्नभिभूतिः ॥
sa stomyaḥ sa havyaḥ satyaḥ satvā tuvikūrmiḥ | ekaś cit sann abhibhūtiḥ ||(Rig Veda 8.16.8)

He is to be praised, he is to be invoked, he is embodiment of TRUTH, powerful the doer of many deeds; he, being single, is the overcomer (of foes).

-----

बालकाण्ड – Bālakāṇḍa (भाग - ;;; Part – 1)

Sarga number as per Ramayana

Shlokas extracted

No. of shlokas

Cumulative number of shlokas in this Kanda

5

सर्वापूर्वमियं येषामासीत्कृत्स्ना वसुन्धरा |
प्रजापतिमुपादाय नृपाणां जयशालिनाम् || १||

येषां स सगरो नाम सागरो येन खानितः |
षष्टिः पुत्रसहस्राणि यं यान्तं पर्यवारयन् || २||

इक्ष्वाकूणामिदं तेषां राज्ञां वंशे महात्मनाम् |
महदुत्पन्नमाख्यानं रामायणमिति श्रुतम् || ३||

तदिदं वर्तयिष्यामि सर्वं निखिलमादितः |
धर्मकामार्थसहितं श्रोतव्यमनसूयया || ४||

कोसलो नाम मुदितः स्फीतो जनपदो महान् |
निविष्टः सरयूतीरे प्रभूतधनधान्यवान् || ५||

अयोध्या नाम नगरी तत्रासील्लोकविश्रुता |
मनुना मानवेन्द्रेण या पुरी निर्मिता स्वयम् || ६||

आयता दश च द्वे च योजनानि महापुरी |
श्रीमती त्रीणि विस्तीर्णा सुविभक्तमहापथा || ७||

राजमार्गेण महता सुविभक्तेन शोभिता |
मुक्तपुष्पावकीर्णेन जलसिक्तेन नित्यशः || ८||

तां तु राजा दशरथो महाराष्ट्रविवर्धनः |
पुरीमावासयामास दिवि देवपतिर्यथा || ९||

कपाटतोरणवतीं सुविभक्तान्तरापणाम् |
सर्वयन्त्रायुधवतीमुपेतां सर्वशिल्पिभिः || १०||

सूतमागधसम्बाधां श्रीमतीमतुलप्रभाम् |
उच्चाट्टालध्वजवतीं शतघ्नीशतसङ्कुलाम् || ११||

वधूनाटकसङ्घैश्च संयुक्तां सर्वतः पुरीम् |
उद्यानाम्रवणोपेतां महतीं सालमेखलाम् || १२||

दुर्गगम्भीरपरिघां दुर्गामन्यैर्दुरासदाम् |
वाजिवारणसम्पूर्णां गोभिरुष्ट्रैः खरैस्तथा || १३||

सामन्तराजसङ्घैश्च बलिकर्मभिरावृताम् |
नानादेशनिवासैश्च वणिग्भिरुपशोभिताम् || १४||

प्रसादै रत्नविकृतैः पर्वतैरुपशोभिताम् |
कूटागारैश्च सम्पूर्णामिन्द्रस्येवामरावतीम् || १५||

चित्रामष्टापदाकारां वरनारीगणैर्युताम् |
सर्वरत्नसमाकीर्णां विमानगृहशोभिताम् || १६||

गृहगाढामविच्छिद्रां समभूमौ निवेशिताम् |
शालितण्डुलसम्पूर्णामिक्षुकाण्डरसोदकाम् || १७||

दुन्दुभीभिर्मृदङ्गैश्च वीणाभिः पणवैस्तथा |
नादितां भृशमत्यर्थं पृथिव्यां तामनुत्तमाम् || १८||

विमानमिव सिद्धानां तपसाधिगतं दिवि |
सुनिवेशितवेश्मान्तां नरोत्तमसमावृताम् || १९||

ये च बाणैर्न विध्यन्ति विविक्तमपरापरम् |
शब्दवेध्यं च विततं लघुहस्ता विशारदाः || २०||

सिंहव्याघ्रवराहाणां मत्तानां नदतां वने |
हन्तारो निशितैः शस्त्रैर्बलाद्बाहुबलैरपि || २१||

तादृशानां सहस्रैस्तामभिपूर्णां महारथैः |
पुरीमावासयामास राजा दशरथस्तदा || २२||

तामग्निमद्भिर्गुणवद्भिरावृतां
द्विजोत्तमैर्वेदषडङ्गपारगैः |
सहस्रदैः सत्यरतैर्महात्मभिर्
महर्षिकल्पैरृषिभिश्च केवलैः || २३||

23

23

Once upon a time, this entire earth belonged to those victorious kings starting from Prajapati (Manu). In the dynasty of Ikshvaku kings, this highly revered and reputed epic Ramayana has emanated.

I wish to relate this Ramayana entirely and completely from the beginning, which is endowed with the values and means of Dharma, Artha and Kama... and this be listened without prejudice.

A great kingdom, joyous, a vast well flourishing one and having strong army, named Kosala, is situated on the banks of river Sarayu. There was the famous capital city Ayodhya in that kingdom, which was built by Manu. That great city with well-devised highways is twelve yojanas in length and three yojanas in breadth. King Dasharatha was her king.

That city Ayodhya, which accommodates variety of artists,  is an impassable one for trespassers, or for others invaders, owing to her impassable and profound moats, and she is abounding with horses, camels, likewise with cows and donkeys.

Buildings are ornamentally studded with precious gems, and with such multi-storied sky scrappers she is adorned, and filled with them she is like Amaravati, the capital of Indra.

She that Ayodhya is encompassed with Vedic scholars who always worship the ritual fire by enkindling the three kinds of ritual-fires continuously, virtuous Brahman scholars in Veda-s and their six ancillary subjects, and other great souls that are in similitude with great saints, and who are just like sages that are charitable donors, and that abide by the truth.

6

तस्यां पुर्यामयोध्यायां वेदवित्सर्वसंग्रहः |
दीर्घदर्शी महातेजाः पौरजानपदप्रियः || १||

इक्ष्वाकूणामतिरथो यज्वा धर्मरतो वशी |
महर्षिकल्पो राजर्षिस्त्रिषु लोकृषु विश्रुतः || २||

बलवान्निहतामित्रो मित्रवान्विजितेन्द्रियः |
धनैश्च सञ्चयैश्चान्यैः शक्रवैश्रवणोपमः || ३||

यथा मनुर्महातेजा लोकस्य परिरक्षिता |
तथा दशरथो राजा वसञ्जगदपालयत् || ४||

तेन सत्याभिसन्धेन त्रिवर्गमनुतिष्ठता |
पालिता सा पुरी श्रेष्ठेन्द्रेण इवामरावती || ५||

तस्मिन्पुरवरे हृष्टा धर्मात्मना बहु श्रुताः |
नरास्तुष्टाधनैः स्वैः स्वैरलुब्धाः सत्यवादिनः || ६||

नाल्पसंनिचयः कश्चिदासीत्तस्मिन्पुरोत्तमे |
कुटुम्बी यो ह्यसिद्धार्थोऽगवाश्वधनधान्यवान् || ७||

कामी वा न कदर्यो वा नृशंसः पुरुषः क्व चित् |
द्रष्टुं शक्यमयोध्यायां नाविद्वान्न च नास्तिकः || ८||

सर्वे नराश्च नार्यश्च धर्मशीलाः सुसंयताः |
मुदिताः शीलवृत्ताभ्यां महर्षय इवामलाः || ९||

नाकुण्डली नामुकुटी नास्रग्वी नाल्पभोगवान् |
नामृष्टो नानुलिप्ताङ्गो नासुगन्धश् च विद्यते || १०||

नामृष्टभोजी नादाता नाप्यनङ्गदनिष्कधृक् |
नाहस्ताभरणो वापि दृश्यते नाप्यनात्मवान् || ११||

नानाहिताग्निर्नायज्वा विप्रो नाप्यसहस्रदः |
कश्चिदासीदयोध्यायां न च निर्वृत्तसङ्करः || १२||

स्वकर्मनिरता नित्यं ब्राह्मणा विजितेन्द्रियाः |
दानाध्ययनशीलाश्च संयताश् च प्रतिग्रहे || १३||

न नास्तिको नानृतको न कश्चिदबहुश्रुतः |
नासूयको न चाशक्तो नाविद्वान्विद्यते तदा || १४||

न दीनः क्षिप्तचित्तो वा व्यथितो वापि कश् चन |
कश्चिन्नरो वा नारी वा नाश्रीमान्नाप्यरूपवान् |
द्रष्टुं शक्यमयोध्यायां नापि राजन्यभक्तिमान् || १५||

वर्णेष्वग्र्यचतुर्थेषु देवतातिथिपूजकाः |
दीर्घायुषो नराः सर्वे धर्मं सत्यं च संश्रिताः || १६||

क्षत्रं ब्रह्ममुखं चासीद्वैश्याः क्षत्रमनुव्रताः |
शूद्राः स्वधर्मनिरतास्त्रीन्वर्णानुपचारिणः || १७||

सा तेनेक्ष्वाकुनाथेन पुरी सुपरिरक्षिता |
यथा पुरस्तान्मनुना मानवेन्द्रेण धीमता || १८||

योधानामग्निकल्पानां पेशलानाममर्षिणाम् |
सम्पूर्णाकृतविद्यानां गुहाकेसरिणाम् इव || १९||

काम्बोजविषये जातैर्बाह्लीकैश्च हयोत्तमैः |
वनायुजैर्नदीजैश्च पूर्णाहरिहयोपमैः || २०||

विन्ध्यपर्वपजैर्मत्तैः पूर्णा हैमवतैरपि |
मदान्वितैरतिबलैर्मातङ्गैः पर्वतोपमैः || २१||

अञ्जनादपि निष्क्रान्तैर्वामनादपि च द्विपैः |
भद्रमन्द्रैर्भद्रमृगैर्मृगमन्द्रैश्च सा पुरी || २२||

नित्यमत्तैः सदा पूर्णा नागैरचलसंनिभैः |
सा योजने च द्वे भूयः सत्यनामा प्रकाशते || २३||

तां सत्यनामां दृढतोरणार्गलाम्
गृहैर्विचित्रैरुपशोभितां शिवाम् |
पुरीमयोध्यां नृसहस्रसङ्कुलां
शशास वै शक्रसमो महीपतिः || २४||

24

47

king Dasharatha is well-versed in Veda-s, one who has performed many Vedic rituals who is a gatherer of all scholars, riches and forces as well,  and one who is a great chariot-warrior among Ikshwaku kings. He has performed many Vedic rituals, a virtuous one, a great controller, a saint-like kingly sage, one who he is renowned in all the three worlds, a mighty one with all his enemies eradicated, nevertheless who has friends, one who conquered all his senses, one who is similar to Indra, or Kubera on earth with his wealth. He, dwelling in the city of Ayodhya, protected the world, like Manu, the foremost protector of mankind.

He that truth-abiding king, who adheres to the three-fold virtues rules the vast of that kingdom from that best city Ayodhya. In that city Ayodhya all are virtuous ones, and scholars are variously learned ones, people are satisfied with their own riches, they have no greed, and they advocate truthfulness alone.

The donations received by Vedic scholars are not alms to beggars or charities to the destitute. The Vedic scholars do not receive them from anybody or everybody. They followed certain set of rules to accept such donations like cows, gold coins, villages, temples etc., from a befitting hand, lest the recipient should to go to Hell for having received greedily. There is no atheist, no liar, and none is less learnt in Veda-s, and no one is found to be jealous, or disabled, or unscholarly person.

The Kshatriyas used to take advice from the Brahmans. The Vyasyas, are the followers of the Kshatriya-s, for the state's economy is dependent on the rulership. And the Shudras, are always working for the other castes.

The city horded different types of elephants, born in Vindhya Mountains/Himalayan regions/, from the classes of Iraavata (the Elephant of Lord Indra)/from Mahapadma, Anjana and Vamana.

While residing in which city King Dasharatha ruled the world that city is further fortified up to two more yojana-s outside city, true to its name (a+yodhya , an un-assailable one.

7

अष्टौ बभूवुर्वीरस्य तस्यामात्या यशस्विनः |
शुचयश्चानुरक्ताश्च राजकृत्येषु नित्यशः || १||

धृष्टिर्जयन्तो विजयः सिद्धार्थो अर्थसाधकः |
अशोको मन्त्रपालश्च सुमन्त्रश्चाष्टमोऽभवत् || २||

ऋत्विजौ द्वावभिमतौ तस्यास्तामृषिसत्तमौ |
वसिष्ठो वामदेवश्च मन्त्रिणश्च तथापरे || ३||

श्रीमन्तश्च महात्मानः शास्त्रज्ञा दृढविक्रमाः |
कीर्तिमन्तः प्रणिहिता यथा वचनकारिणः || ४||

तेजःक्षमायशःप्राप्ताः स्मितपूर्वाभिभाषिणः |
क्रोधात्कामार्थहेतोर्वा न ब्रूयुरनृतं वचः || ५||

तेषामविदितं किं चित्स्वेषु नास्ति परेषु वा |
क्रियमाणं कृतं वापि चारेणापि चिकीर्षितम् || ६||

कुशला व्यवहारेषु सौहृदेषु परीक्षिताः |
प्राप्तकालं यथा दण्डं धारयेयुः सुतेष्वपि || ७||

कोशसङ्ग्रहणे युक्ता बलस्य च परिग्रहे |
अहितं चापि पुरुषं न विहिंस्युरदूषकम् || ८||

वीरांश्च नियतोत्साहा राज शास्त्रमनुष्ठिताः |
शुचीनां रक्षितारश्च नित्यं विषयवासिनाम् || ९||

ब्रह्मक्षत्रमहिंसन्तस्ते कोशं समपूरयन् |
सुतीक्ष्णदण्डाः सम्प्रेक्ष्य पुरुषस्य बलाबलम् || १०||

शुचीनामेकबुद्धीनां सर्वेषां सम्प्रजानताम् |
नासीत्पुरे वा राष्ट्रे वा मृषावादी नरः क्व चित् || ११||

कश्चिन्न दुष्टस्तत्रासीत्परदाररतिर्नरः |
प्रशान्तं सर्वमेवासीद्राष्ट्रं पुरवरं च तत् || १२||

सुवाससः सुवेशाश्च ते च सर्वे सुशीलिनः |
हितार्थं च नरेन्द्रस्य जाग्रतो नयचक्षुषा || १३||

गुरौ गुणगृहीताश्च प्रख्याताश्च पराक्रमैः |
विदेशेष्वपि विज्ञाताः सर्वतो बुद्धिनिश्चयात् || १४||

ईदृशैस्तैरमात्यैस्तु राजा दशरथोऽनघः |
उपपन्नो गुणोपेतैरन्वशासद्वसुन्धराम् || १५||

अवेक्षमाणश्चारेण प्रजा धर्मेण रञ्जयन् |
नाध्यगच्छद्विशिष्टं वा तुल्यं वा शत्रुमात्मनः || १६||

तैर्मन्त्रिभिर्मन्त्रहितैर्निविष्टैर्
वृतोऽनुरक्तैः कुशलैः समर्थैः |
स पार्थिवो दीप्तिमवाप युक्तस्
तेजोमयैर्गोभिरिवोदितोऽर्कः || १७||

17

64

Eight ministers, ie., Dhristi, Jayantha, Vijaya, Suraashtra, Raashtravardhana, Akopa, Dharmapaala, and Sumantra, who are never speak untruthful words in anger or in greed or for monetary reasons and are clean at heart, are there to assist King Dasharatha.

Two venerable saints of eminence, viz., Vashishta and Vamadeva, who authorities in Vedic rituals, apart from some more priests, used to provide spiritual/ritualistic advice to King Dasharatha. They are Suyajna, Jabaali, Kaashyapa, Gautama, Maarkandeya, Deerghaayu, and then Kaatyayana are the scholarly Brahmans, who are always the ancestral ritual scholars for Dasharatha’s family.

The ministers of King Dasharatha are renowned by their expertise, and even in foreign countries they are famous for their intellectual determinations in all affairs.

8

 

 

 

 

 

 

 

 

9

 

 

11

तस्य त्वेवं प्रभावस्य धर्मज्ञस्य महात्मनः |
सुतार्थं तप्यमानस्य नासीद्वंशकरः सुतः || १||

चिन्तयानस्य तस्यैवं बुद्धिरासीन्महात्मनः |
सुतार्थं वाजिमेधेन किमर्थं न यजाम्यहम् || २||

स निश्चितां मतिं कृत्वा यष्टव्यमिति बुद्धिमान् |
मन्त्रिभिः सह धर्मात्मा सर्वैरेव कृतात्मभिः || ३||

एतच्छ्रुत्वा रहः सूतो राजानमिदमब्रवीत् |
ऋत्विग्भिरुपदिष्टोऽयं पुरावृत्तो मया श्रुतः || ४||

स त्वं पुरुषशार्दूल तमानय सुसत्कृतम् |

स्वयमेव महाराज गत्वा सबलवाहनः || ५||

अनुमान्य वसिष्ठं च सूतवाक्यं निशम्य च |

सान्तःपुरः सहामात्यः प्रययौ यत्र स द्विजः || ६||

वनानि सरितश्चैव व्यतिक्रम्य शनैः शनैः |

अभिचक्राम तं देशं यत्र वै मुनिपुङ्गवः || ७||

आसाद्य तं द्विजश्रेष्ठं रोमपादसमीपगम् |

ऋषिपुत्रं ददर्शादौ दीप्यमानमिवानलम् || ८||

ततो राजा यथान्यायं पूजां चक्रे विशेषतः |

सखित्वात्तस्य वै राज्ञः प्रहृष्टेनान्तरात्मना || ९||

एवं सुसत्कृतस्तेन सहोषित्वा नरर्षभः |

सप्ताष्टदिवसान्राजा राजानमिदमब्रवीत् || १०||

अनपत्योऽस्मि धर्मात्मञ्शान्ता भार्या मम क्रतुम् |

आहरेत त्वयाज्ञप्तः सन्तानार्थं कुलस्य च || ११||

शान्ता तव सुता राजन्सह भर्त्रा विशाम्पते |

मदीयं नगरं यातु कार्यं हि महदुद्यतम् || १२||

तथेति राजा संश्रुत्य गमनं तस्य धीमतः |

उवाच वचनं विप्रं गच्छ त्वं सह भार्यया || १३||

ऋषिपुत्रः प्रतिश्रुत्य तथेत्याह नृपं तदा |

स नृपेणाभ्यनुज्ञातः प्रययौ सह भार्यया || १४||

तावन्योन्याञ्जलिं कृत्वा स्नेहात्संश्लिष्य चोरसा |

ननन्दतुर्दशरथो रोमपादश्च वीर्यवान् || १५||

ततः सुहृदमापृच्छ्य प्रस्थितो रघुनन्दनः |

पौरेभ्यः प्रेषयामास दूतान्वै शीघ्रगामिनः |

क्रियतां नगरं सर्वं क्षिप्रमेव स्वलङ्कृतम् || १६||

ततः प्रहृष्टाः पौरास्ते श्रुत्वा राजानमागतम् |

तथा प्रचक्रुस्तत्सर्वं राज्ञा यत्प्रेषितं तदा || १७||

ततः स्वलङ्कृतं राजा नगरं प्रविवेश ह |

शङ्खदुन्दुभिनिर्घोषैः पुरस्कृत्य द्विजर्षभम् || १८||

ततः प्रमुदिताः सर्वे दृष्ट्वा वै नागरा द्विजम् |

प्रवेश्यमानं सत्कृत्य नरेन्द्रेणेन्द्रकर्मणा || १९||

अन्तःपुरं प्रवेश्यैनं पूजां कृत्वा तु शास्त्रतः |

कृतकृत्यं तदात्मानं मेने तस्योपवाहनात् || २०||

अन्तःपुराणि सर्वाणि शान्तां दृष्ट्वा तथागताम् |

सह भर्त्रा विशालाक्षीं प्रीत्यानन्दमुपागमन् || २१||

पूज्यमाना च ताभिः सा राज्ञा चैव विशेषतः |

उवास तत्र सुखिता कं चित्कालं सह द्विजा || २२||

22

86

The great-souled King Dasharatha, who do not have children, is earning to beget a dynasty-enriching son. A thought occurred to him that in order to beget sons, he should perform Horse ritual – Ashwamedha Yagna to appease the gods so that  he can beget worthy sons.

He consulted his sagacious ministers in performance of Horse ritual – Ashwamedha Yagna and got their consent.

Sumantra, the charioteer and one of the misters of King Dasharatha, told him privately to approach personally Sage Rishyasringa, who performed austerities even while he was yound and acquired great ascetic power and request him to oversee the performance of Ashwamedha Yagna.

Upon hearing the advise of Sumantra, King Dasharatha became glad and travelled to the kingdom of Romapada, a friend of King Dasaratga and the father-in-law of Sage Rishyasringa.

On crossing over the rivers and forests Dasharatha entered the palace of King Romapada and saw Sage Rishyasringa, who he is nearby king Romapada. Then king Romapada gladly welcomed the king Dasharatha procedurally. Then Romapada informed the wise sage Rishyasringa about the friendship with Dasharatha, and then that sage also worshipped king Dasharatha.

After spending seven to eight days with king Romapada, king Dasharatha spoke this to king Romapada.

"Oh, lord of subjects, your daughter Princess Shanta may go over my city Ayodhya along with her husband Rishyasringa, as I am contemplating to perform a great Vedic ritual.. I am childless and hence I intend to perform a Vedic ritual. Let the husband of your daughter Shanta, Sage Rishyasringa, preside over that Vedic ritual at your behest, for the sake of progeny in my dynasty”. King Romapada agreeing to their travel with king Dasharatha, and addressed these words to that Brahman sage and his son-in-law, Sage Rishyasringa "You may proceed along with your wife."

Then, Rishyasringa agreed to this proposal and he set forth along with his wife.

Upon reaching Ayodhya, the king Dasharatha keeping Rishyasringa before him entered the well-decorated city Ayodhya amidst procedural reception befitting to the sage.

 

इत्यार्षे श्री रामायणे बालकाण्डे प्रथम: भाग: 


Introduction to Bālakāṇḍa

Bālakāṇḍa – Part-2


No comments:

Post a Comment