बालकाण्ड
– Bālakāṇḍa (भाग
- २ ;;; Part –
2)
|
Sarga
number as per Ramayana |
Shlokas
extracted |
No. of shlokas |
Cumulative number of shlokas in this
Kanda |
|
12 |
ततः
काले बहुतिथे कस्मिंश् चित्सुमनोहरे | ततः
प्रसाद्य शिरसा तं विप्रं देववर्णिनम् | तथेति
च स राजानमुवाच च सुसत्कृतः | ततो
राजाब्रवीद्वाक्यं सुमन्त्रं मन्त्रिसत्तमम् | ततः
सुमन्त्रस्त्वरितं गत्वा त्वरितविक्रमः | सुयज्ञं वामदेवं च जाबालिमथ काश्यपम् | तान्पूजयित्वा धर्मात्मा राजा दशरथस्तदा | मम
लालप्यमानस्य पुत्रार्थं नास्ति वै सुखम् | तदहं
यष्टुमिच्छामि शास्त्रदृष्टेन कर्मणा | ततः
साध्विति तद्वाक्यं ब्राह्मणाः प्रत्यपूजयन् | ऋष्यशृङ्गपुरोगाश्च प्रत्यूचुर्नृपतिं तदा | सर्वथा प्राप्यसे पुत्रांश्चतुरोऽमितविक्रमान् | ततः
प्रीतोऽभवद्राजा श्रुत्वा तद्द्विजभाषितम् | गुरूणां वचनाच्छीघ्रं सम्भाराः सम्भ्रियन्तु मे | सरय्वाश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम् | शक्यः
कर्तुमयं यज्ञः सर्वेणापि महीक्षिता | छिद्रं हि मृगयन्तेऽत्र विद्वांसो ब्रह्मराक्षसाः | तद्यथाविधि पूर्वं मे क्रतुरेष समाप्यते | तथेति
च ततः सर्वे मन्त्रिणः प्रत्यपूजयन् | ततो
द्विजास्ते धर्मज्ञमस्तुवन्पार्थिवर्षभम् | |
21 |
107 |
|
When Vasanta/spring season
(February – March) has come, the king Dasharatha desired to perform the Vedic
Ashvamedha ritual. When the King Dasharatha requested the sage to conduct Vedic ritual on his behalf,
so that he begets progeny, Sage Rishyasringa directed the king to garner the
paraphernalia for ritual and to release ritual horse as a prerogative." Then King Dasharatha ordered Sumantra, to bring the Vedic scholars and ritual conductors like Sages Suyajna, Vaamadeva, Jaabaali, and Kaashyapa, along with the family priest Vashishta, as well as other Vedic Brahmans. And, when they arrived he had disclosed his idea of performing the Horse ritual under the guidance of Sage Rishyasringa. Then Sage Vashishta along with all other sages/scholars have applauded that idea and blessed Dasharatha. The king ordered his ministers to procure the paraphernalia for the ritual and to release the ritual-horse, guarded well by gallant men in its journey and followed by scholars as per tradition. He also ordered to decide the ritual place on the northern banks of Sarayu River and all rituals to commence, as laid down in the scriptures. |
|||
|
13 |
पुनः
प्राप्ते वसन्ते तु पूर्णः संवत्सरोऽभवत् | अब्रवीत्प्रश्रितं वाक्यं प्रसवार्थं द्विजोत्तमम् | यथा
न विघ्नः क्रियते यज्ञाङ्गेषु विधीयताम् | वोढव्यो भवता चैव भारो यज्ञस्य चोद्यतः | करिष्ये सर्वमेवैतद्भवता यत्समर्थितम् | स्थापत्ये निष्ठितांश्चैव वृद्धान्परमधार्मिकान् | गणकाञ्शिल्पिनश्चैव तथैव नटनर्तकान् | यज्ञकर्म समीहन्तां भवन्तो राजशासनात् | औपकार्याः क्रियन्तां च राज्ञां बहुगुणान्विताः | भक्ष्यान्नपानैर्बहुभिः समुपेताः सुनिष्ठिताः | आवासा
बहुभक्ष्या वै सर्वकामैरुपस्थिताः | दातव्यमन्नं विधिवत्सत्कृत्य न तु लीलया | न
चावज्ञा प्रयोक्तव्या कामक्रोधवशादपि | तेषामपि विशेषेण पूजा कार्या यथाक्रमम् | तथा
भवन्तः कुर्वन्तु प्रीतिस्निग्धेन चेतसा | यथोक्तं तत्करिष्यामो न किं चित्परिहास्यते | निमन्त्रयस्य नृपतीन्पृथिव्यां ये च धार्मिकाः | समानयस्व सत्कृत्य सर्वदेशेषु मानवान् | निष्ठितं सर्वशास्त्रेषु तथा वेदेषु निष्ठितम् | तथा
काशिपतिं स्निग्धं सततं प्रियवादिनम् | तथा
केकयराजानं वृद्धं परमधार्मिकम् | अङ्गेश्वरं महाभागं रोमपादं सुसत्कृतम् | प्राचीनान्सिन्धुसौवीरान्सौराष्ठ्रेयांश्च पार्थिवान् | सन्ति
स्निग्धाश्च ये चान्ये राजानः पृथिवीतले | वसिष्ठवाक्यं तच्छ्रुत्वा सुमन्त्रस्त्वरितस्तदा | स्वयमेव हि धर्मात्मा प्रययौ मुनिशासनात् | ते
च कर्मान्तिकाः सर्वे वसिष्ठाय च धीमते | ततः
प्रीतो द्विजश्रेष्ठस्तान्सर्वान्पुनरब्रवीत् | ततः
कैश्चिदहोरात्रैरुपयाता महीक्षितः | ततो
वसिष्ठः सुप्रीतो राजानमिदमब्रवीत् | मयापि
सत्कृताः सर्वे यथार्हं राजसत्तमाः | निर्यातु च भवान्यष्टुं यज्ञायतनमन्तिकात् | तथा
वसिष्ठवचनादृष्यशृङ्गस्य चोभयोः | ततो
वसिष्ठप्रमुखाः सर्व एव द्विजोत्तमाः | |
34 |
141 |
|
On completion of one
full year when spring had arrived, King Dasharatha, with a view to performing
Horse Ritual entered the ritual arena.
Then, he greeted and requested his family priest Sage Vashishta and said
to him: "Let my ritual be performed scripturally, oh foremost Brahman, let it be conducted in such a way that no hindrance occurs even in its ancillary rituals. You being affectionate friend and most reverential spiritual guide and kind-hearted to me, and the burden of performing the sacrifice which has since commenced shall be borne by you". " Then that Sage Vashishta consented to these words and summoned and spoke to elderly Brahman scholars, and elderly architects who are all proficient and experts in respective fields. He also summoned the cooks, construction supervisors, brick-makers, carpenters, earth-diggers, accountants, and sculptors for arranging accommodations to various people, elephants, horses, etc, food arrangements and organising the performance of the ritual as per scriptures He issued directions to Sumantra, Sage Vashishta for sending invitations to the all concerned from all the kingdoms.On hearing orders of Sage Vashishta, Sumantra quickly ordered devout envoys to invite all those kings to their kingdom. All those artisans engaged in ritual works have reported Vashishta, the details of all those ritual works that are accomplished. Then in some days and nights many kings have arrived taking precious gems with them as gifts for Dasharatha. On an auspicious/favourable day, King Dasharatha came forth towards the ritual hall according to the advice of both the sages Vashishta and Rishyasringa. Then Sage Vashishta and other eminent Brahmans keeping the Sage Rishyasringa ahead of them entered the ritual hall, to commence the ritual works thus. When all have entered the ritual arena, king Dasharatha along with his wives undertook vow of ritual. |
|||
|
14 |
अथ
संवत्सरे पूर्णे तस्मिन्प्राप्ते तुरङ्गमे | ऋष्यशृङ्गं पुरस्कृत्य कर्म चक्रुर्द्विजर्षभाः | कर्म
कुर्वन्ति विधिवद्याजका वेदपारगाः | प्रवर्ग्यं शास्त्रतः कृत्वा तथैवोपसदं द्विजाः | अभिपूज्य ततो हृष्टाः सर्वे चक्रुर्यथाविधि | न
चाहुतमभूत्तत्र स्खलितं वापि किं चन | न
तेष्वहःसु श्रान्तो वा क्षुधितो वापि दृश्यते | ब्राह्मणा भुञ्जते नित्यं नाथवन्तश्च भुञ्जते | वृद्धाश्च व्याधिताश्चैव स्त्रियो बालास्तथैव च | दीयतां दीयतामन्नं वासांसि विविधानि च | अन्नकूटाश्च बहवो दृश्यन्ते पर्वतोपमाः | अन्नं
हि विधिवत्स्वादु प्रशंसन्ति द्विजर्षभाः | स्वलङ्कृताश्च पुरुषा ब्राह्मणान्पर्यवेषयन् | कर्मान्तरे तदा विप्रा हेतुवादान्बहूनपि | दिवसे
दिवसे तत्र संस्तरे कुशला द्विजाः | नाषडङ्गविदत्रासीन्नाव्रतो नाबहुश्रुतः | प्राप्ते यूपोच्छ्रये तस्मिन्षड्बैल्वाः खादिरास्तथा | श्लेष्मातकमयो दिष्टो देवदारुमयस्तथा | कारिताः सर्व एवैते शास्त्रज्ञैर्यज्ञकोविदैः | विन्यस्ता विधिवत्सर्वे शिल्पिभिः सुकृता दृढाः | आच्छादितास्ते वासोभिः पुष्पैर्गन्धैश्च भूषिताः | इष्टकाश्च यथान्यायं कारिताश्च प्रमाणतः | गरुडो
रुक्मपक्षो वै त्रिगुणोऽष्टादशात्मकः | उरगाः
पक्षिणश्चैव यथाशास्त्रं प्रचोदिताः | ऋत्विग्भिः सर्वमेवैतन्नियुक्तं शास्त्रतस्तदा | कौसल्या तं हयं तत्र परिचर्य समन्ततः | पतत्रिणा तदा सार्धं सुस्थितेन च चेतसा | होताध्वर्युस्तथोद्गाता हयेन समयोजयन् | पतत्रिणस्तस्य वपामुद्धृत्य नियतेन्द्रियः | धूमगन्धं वपायास्तु जिघ्रति स्म नराधिपः | हयस्य
यानि चाङ्गानि तानि सर्वाणि ब्राह्मणाः | प्लक्षशाखासु यज्ञानामन्येषां क्रियते हविः | त्र्यहोऽश्वमेधः सङ्ख्यातः कल्पसूत्रेण ब्राह्मणैः | उक्थ्यं द्वितीयं सङ्ख्यातमतिरात्रं तथोत्तरम् | ज्योतिष्टोमायुषी चैव अतिरात्रौ च निर्मितौ | प्राचीं होत्रे ददौ राजा दिशं स्वकुलवर्धनः | उद्गात्रे तु तथोदीचीं दक्षिणैषा विनिर्मिता | क्रतुं समाप्य तु तदा न्यायतः पुरुषर्षभः | ऋत्विजस्त्वब्रुवन्सर्वे राजानं गतकल्मषम् | न
भूम्या कार्यमस्माकं न हि शक्ताः स्म पालने | गवां
शतसहस्राणि दश तेभ्यो ददौ नृपः | ऋत्विजस्तु ततः सर्वे प्रददुः सहिता वसु | ततस्ते न्यायतः कृत्वा प्रविभागं द्विजोत्तमाः | |
43 |
184 |
|
Keeping Sage Rishyasringa
as the supervisor, those eminent Brahmin scholars commenced, Ashvamedha/ Horse
Ritual of King Dasaratha on the northern banks of River Sarayu. The ritual
went on as per the instructions laid down in the scriptures. Food and clothing
were provided abundantly to all the people. Everyone was satisfied with the
arrangements made. For the animal sacrifices, the Sages, who conduct the ritual have arranged the animals like horse and other aquatic animals as per scriptures. Three hundred animals are tied to the ritual posts, along with the ritual horse of that King Dasharatha, which horse is gem of horses and verily a best one. For achieving results of ritual, with that horse that firm minded Queen Kausalya resided for one-night, desiring dharma. On completing the ritual thus, King Dasharatha, donated those lands to the officiating priests, called ritwiks. After receiving the lands, the priests gave them back to King Dasaratha with a request to provide them gems, gold, or cows or anything else that is available, equivalent to the value of the lands. The same were provided to them. Those Brahmin priests were satisfied at heart on receiving their due. Thus, the Ashvamedha/ Horse Ritual was completed. |
|||
इत्यार्षे श्री
रामायणे बालकाण्डे द्वितीय: भाग:
No comments:
Post a Comment