Tuesday, December 16, 2025

बालकाण्ड – Bālakāṇḍa (भाग - ३ ;;; Part – 3)

 

बालकाण्ड – Bālakāṇḍa (भाग - ;;; Part – 3)

 

Sarga number as per Ramayana

Shlokas extracted

No. of shlokas

Cumulative number of shlokas in this Kanda

14

  

18

ततः प्रीतमना राजा प्राप्य यज्ञमनुत्तमम् |
पापापहं स्वर्नयनं दुस्तरं पार्थिवर्षभैः || १||

समाप्तदीक्षानियमः पत्नीगणसमन्वितः |
प्रविवेश पुरीं राजा सभृत्यबलवाहनः || २||

यथार्हं पूजितास्तेन राज्ञा वै पृथिवीश्वराः |
मुदिताः प्रययुर्देशान्प्रणम्य मुनिपुङ्गवम् || ३||

गतेषु पृथिवीशेषु राजा दशरथः पुनः |
प्रविवेश पुरीं श्रीमान्पुरस्कृत्य द्विजोत्तमान् || ४||

शान्तया प्रययौ सार्धमृष्यशृङ्गः सुपूजितः |
अन्वीयमानो राज्ञाथ सानुयात्रेण धीमता || ५||

कौसल्याजनयद्रामं दिव्यलक्षणसंयुतम् |
शक्रारर्धं महाभागं पुत्रमिक्ष्वाकुनन्दनम् || ६||

कौसल्या शुशुभे तेन पुत्रेणामिततेजसा |
यथा वरेण देवानामदितिर्वज्रपाणिना || ७||

भरतो नाम कैकेय्यां जज्ञे सत्यपराक्रमः |
अथ लक्ष्मणशत्रुघ्नौ सुमित्राजनयत्सुतौ ||८||
राज्ञः पुत्रा महात्मानश्चत्वारो जज्ञिरे पृथक् |
गुणवन्तोऽनुरूपाश्च रुच्या प्रोष्ठपदोपमाः ||९||

अतीत्यैकादशाहं तु नाम कर्म तथाकरोत् |
ज्येष्ठं रामं महात्मानं भरतं कैकयीसुतम् || १०||

सौमित्रिं लक्ष्मणमिति शत्रुघ्नमपरं तथा |
वसिष्ठः परमप्रीतो नामानि कृतवांस्तदा |

 ब्राह्मणान्भोजयामास पौराञ्जानपदानपि||११||

अददाद्ब्रह्मणानां च रत्नौघममितं बहु
तेषां जन्मक्रियादीनि सर्वकर्माण्यकारयत् ||१२||

तेषां केतुरिव ज्येष्ठो रामो रतिकरः पितुः |
बभूव भूयो भूतानां स्वयम्भूरिव संमतः || १३||

सर्वे वेदविदः शूराः सर्वे लोकहिते रताः |
सर्वे ज्ञानोपसम्पन्नाः सर्वे समुदिता गुणैः || १४||

तेषामपि महातेजा रामः सत्यपराक्रमः |
बाल्यात्प्रभृति सुस्निग्धो लक्ष्मणो लक्ष्मिवर्धनः || १५||

रामस्य लोकरामस्य भ्रातुर्ज्येष्ठस्य नित्यशः |
सर्वप्रियकरस्तस्य रामस्यापि शरीरतः || १६||

लक्ष्मणो लक्ष्मिसम्पन्नो बहिःप्राण इवापरः |
न च तेन विना निद्रां लभते पुरुषोत्तमः |
मृष्टमन्नमुपानीतमश्नाति न हि तं विना || १७||

यदा हि हयमारूढो मृगयां याति राघवः |
तदैनं पृष्ठतोऽभ्येति सधनुः परिपालयन् || १८||

भरतस्यापि शत्रुघ्नो लक्ष्मणावरजो हि सः |
प्राणैः प्रियतरो नित्यं तस्य चासीत्तथा प्रियः || १९||

स चतुर्भिर्महाभागैः पुत्रैर्दशरथः प्रियैः |
बभूव परमप्रीतो देवैरिव पितामहः || २०||

ते यदा ज्ञानसम्पन्नाः सर्वे समुदिता गुणैः |
ह्रीमन्तः कीर्तिमन्तश्च सर्वज्ञा दीर्घदर्शिनः || २१||

अथ राजा दशरथस्तेषां दारक्रियां प्रति |
चिन्तयामास धर्मात्मा सोपाध्यायः सबान्धवः || २२||

तस्य चिन्तयमानस्य मन्त्रिमध्ये महात्मनः |
अभ्यागच्छन्महातेजो विश्वामित्रो महामुनिः || २३||

स राज्ञो दर्शनाकाङ्क्षी द्वाराध्यक्षानुवाच ह |
शीघ्रमाख्यात मां प्राप्तं कौशिकं गाधिनः सुतम् || २४||

तच्छ्रुत्वा वचनं तस्य राजवेश्म प्रदुद्रुवुः |
सम्भ्रान्तमनसः सर्वे तेन वाक्येन चोदिताः || २५||

ते गत्वा राजभवनं विश्वामित्रमृषिं तदा |
प्राप्तमावेदयामासुर्नृपायेक्ष्वाकवे तदा || २६||

तेषां तद्वचनं श्रुत्वा सपुरोधाः समाहितः |
प्रत्युज्जगाम संहृष्टो ब्रह्माणमिव वासवः || २७||

स दृष्ट्वा ज्वलितं दीप्त्या तापसं संशितव्रतम् |
प्रहृष्टवदनो राजा ततोऽर्घ्यमुपहारयत् || २८||

स राज्ञः प्रतिगृह्यार्घ्यं शास्त्रदृष्ट्तेन कर्मणा |
कुशलं चाव्ययं चैव पर्यपृच्छन्नराधिपम् || २९||

वसिष्ठं च समागम्य कुशलं मुनिपुङ्गवः |
ऋषींश्च तान्यथा न्यायं महाभागानुवाच ह || ३०||

ते सर्वे हृष्टमनसस्तस्य राज्ञो निवेशनम् |
विविशुः पूजितास्तत्र निषेदुश्च यथार्थतः || ३१||

अथ हृष्टमना राजा विश्वामित्रं महामुनिम् |
उवाच परमोदारो हृष्टस्तमभिपूजयन् || ३२||

यथामृतस्य सम्प्राप्तिर्यथा वर्षमनूदके |
यथा सदृशदारेषु पुत्रजन्माप्रजस्य च |
प्रनष्टस्य यथा लाभो यथा हर्षो महोदये |
तथैवागमनं मन्ये स्वागतं ते महामुने || ३३||

कं च ते परमं कामं करोमि किमु हर्षितः |
पात्रभूतोऽसि मे विप्र दिष्ट्या प्राप्तोऽसि धार्मिक |
अद्य मे सफलं जन्म जीवितं च सुजीवितम् || ३४||

पूर्वं राजर्षिशब्देन तपसा द्योतितप्रभः |
ब्रह्मर्षित्वमनुप्राप्तः पूज्योऽसि बहुधा मया || ३५||

तदद्भुतमिदं विप्र पवित्रं परमं मम |
शुभक्षेत्रगतश्चाहं तव सन्दर्शनात्प्रभो || ३६||

ब्रूहि यत्प्रार्थितं तुभ्यं कार्यमागमनं प्रति |
इच्छाम्यनुगृहीतोऽहं त्वदर्थपरिवृद्धये || ३७||

कार्यस्य न विमर्शं च गन्तुमर्हसि कौशिक |
कर्ता चाहमशेषेण दैवतं हि भवान्मम || ३८||

इति हृदयसुखं निशम्य वाक्यं
श्रुतिसुखमात्मवता विनीतमुक्तम् |
प्रथितगुणयशा गुणैर्विशिष्टः
परम ऋषिः परमं जगाम हर्षम् || ३९||

39

112

Sacrifice destroys sins. It leads to heaven. It is incapable of being done by other monarchs. King Dasaratha was very much pleased after performing this great sacrifice.

 

On the competition of the Ashvamedha ritual, King Dasharatha entered Ayodhya city along with his queens, servants, guards and vehicles.The other kings, who attended the ritual and were honoured appropriately by the king Dasharatha, had returned to their countries.  Honoured by king Dasharatha, sage Rishyasringa also returned, along with his wife Shanta and his father-in-law King Romapada.

 

On completion of the Ashvamedha ritual, 11 months have passed by; then in the twelfth month, i.e., on the ninth day of that Chaitra month [April-May], when the ruling star of that ninth day is Punarvasu,  Queen Kausalya gave birth to a son with all the divine attributes, and who is like the facet of Indra, took birth to delight the Ikshwaku dynasty and adored by all the worlds, namely Rama.

 

Queen Kaikeyi gave birth to Bharata, when Pushyami is the star of day. Queen Sumitra then gave birth to two sons, viz., Lakshmana and Shatrughna, when  who are the embodied epitomes of Vishnu, namely Lakshmana, and Shatrughna, Ashlesha is the star of the day.

The fair-minded Bharata is born under Pisces where puSyami is the star of day, and the sons of Sumitra, namely Lakshmana and Shatrughna are born under Cancer, where aaSreSa is the star of the day and when sun is rising.

 

Rama is born on the ninth day of Chaitra month, and Bharata is born in the earlier part of next day the tenth of Chaitra, earlier to his younger brothers, and then Lakshmana and Shatrughna are born on the later part of the day.

 

There is a great festivity in Ayodhya with thronging people. The king gave worthy gifts to eulogisers, bard singers, and panegyrists, and to Brahmans he gave funds and wealth in the form of thousands of cows.

 

After passing of eleven days the naming ceremony is performed.  Sage Vashishta, the chief priest, named elder one as Rama, Kaikeyi's son as Bharata, and one son of Sumitra as Lakshmana and the other as Shatrughna.

 

Among the princes, the eldest one Rama is the delight of his father Dasharatha, and he became acceptable to all beings like the self-created Brahma. All the princes are scholars in Veda-s, valiant ones, all are interested in the welfare of the world, all are intellectuals and all of them possess an air of probity.

 

Right from childhood Lakshmana, is always attached to his elder brother Rama, while Shatrughna moved closely with Bharata.

 

All princes apart from learning Veda-s, delighted to render service to their father and they are also the experts in art of archery.

 

When King Dasharatha was contemplating along with his spiritual advisors and relatives about the matrimonial alliances of his sons, a powerful sage Vishvamitra had arrived. The king offered customary hospitality to sage Vishvamitra and enquired about his unexpected visit and offered to execute whatever the sage desired.

19

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 20

 

 

तच्छ्रुत्वा राजसिंहस्य वाक्यमद्भुतविस्तरम् |
हृष्टरोमा महातेजा विश्वामित्रोऽभ्यभाषत || १||

सदृशं राजशार्दूल तवैतद्भुवि नान्यतः |
महावंशप्रसूतस्य वसिष्ठव्यपदेशिनः || २||

यत्तु मे हृद्गतं वाक्यं तस्य कार्यस्य निश्चयम् |
कुरुष्व राजशार्दूल भव सत्यप्रतिश्रवः || ३||

अहं नियममातिष्ठ सिद्ध्यर्थं पुरुषर्षभ |
तस्य विघ्नकरौ द्वौ तु राक्षसौ कामरूपिणौ || ४||

व्रते मे बहुशश्चीर्णे समाप्त्यां राक्षसाविमौ |
मारीचश्च सुबाहुश्च वीर्यवन्तौ सुशिक्षितौ |
तौ मांसरुधिरौघेण वेदिं तामभ्यवर्षताम् || ५||

अवधूते तथा भूते तस्मिन्नियमनिश्चये |
कृतश्रमो निरुत्साहस्तस्माद्देशादपाक्रमे || ६||

न च मे क्रोधमुत्स्रष्टुं बुद्धिर्भवति पार्थिव |
तथाभूता हि सा चर्या न शापस्तत्र मुच्यते || ७||

स्वपुत्रं राजशार्दूल रामं सत्यपराक्रमम् |
काकपक्षधरं शूरं ज्येष्ठं मे दातुमर्हसि || ८||

शक्तो ह्येष मया गुप्तो दिव्येन स्वेन तेजसा |
राक्षसा ये विकर्तारस्तेषामपि विनाशने || ९||

श्रेयश्चास्मै प्रदास्यामि बहुरूपं न संशयः |
त्रयाणामपि लोकानां येन ख्यातिं गमिष्यति || १०||

न च तौ राममासाद्य शक्तौ स्थातुं कथं चन |
न च तौ राघवादन्यो हन्तुमुत्सहते पुमान् || ११||

वीर्योत्सिक्तौ हि तौ पापौ कालपाशवशं गतौ |
रामस्य राजशार्दूल न पर्याप्तौ महात्मनः || १२||

न च पुत्रकृतं स्नेहं कर्तुमर्हसि पार्थिव |
अहं ते प्रतिजानामि हतौ तौ विद्धि राक्षसौ || १३||

अहं वेद्मि महात्मानं रामं सत्यपराक्रमम् |
वसिष्ठोऽपि महातेजा ये चेमे तपसि स्थिताः || १४||

यदि ते धर्मलाभं च यशश्च परमं भुवि |
स्थिरमिच्छसि राजेन्द्र रामं मे दातुमर्हसि || १५||

यद्यभ्यनुज्ञां काकुत्स्थ ददते तव मन्त्रिणः |
वसिष्ठ प्रमुखाः सर्वे ततो रामं विसर्जय || १६||

अभिप्रेतमसंसक्तमात्मजं दातुमर्हसि |
दशरात्रं हि यज्ञस्य रामं राजीवलोचनम् || १७||

नात्येति कालो यज्ञस्य यथायं मम राघव |
तथा कुरुष्व भद्रं ते मा च शोके मनः कृथाः || १८||

इत्येवमुक्त्वा धर्मात्मा धर्मार्थसहितं वचः |
विरराम महातेजा विश्वामित्रो महामुनिः || १९||

इत्युक्तो मुनिना तेन राजोवाच मुनिं तदा |

स त्वं प्रसादं धर्मज्ञ कुरुष्व मम पुत्रके |

देवदानवगन्धर्वा यक्षाः पतग पन्नगाः || २०||

कथमप्यमरप्रख्यं सङ्ग्रामाणाम् अकोविदम् |

बालं मे तनयं ब्रह्मन्नैव दास्यामि पुत्रकम् || २१||

अथ कालोपमौ युद्धे सुतौ सुन्दोपसुन्दयोः |

यज्ञविघ्नकरौ तौ ते नैव दास्यामि पुत्रकम् || २२||

मारीचश्च सुबाहुश्च वीर्यवन्तौ सुशिक्षितौ |

तयोरन्यतरेणाहं योद्धा स्यां ससुहृद्गणः || २३||

23

135

On listening the grand and detailed sentences of that King the lion Dasharatha, the great resplendent Sage Vishvamitra is thrilled with happiness and spoke this way.

 

Sage Vishvamitra said that for the successful completion of a sacrifice he took up a self-imposed spiritual observance.  However, two rakshasas/demons Mareecha and Subaahu, capable of assuming forms at will, are drenching the Altar of Fire with streams of meat and blood from the sky, and thus are creating impediments to that sacrifice.  He added that the nature of sacrifice is such that he had refrained from cursing them. 

 

Then he requested to spare the services of Shri Rama as he was capable to eradicate those demons.  On hearing the words of Sage Vishvamitra king Dasharatha experienced intense grief out of fear. He became despondent.

 

Thus, he is not inclined to send Shri Rama, who is a mere boy at that point of time, along with Sage Vishvamitra.  King Dasaratha requested the Sage Vishwamitra to spare his son.

इत्यार्षे श्री रामायणे बालकाण्डे तृतीय: भाग:

 

Bālakāṇḍa Part-2

Bālakāṇḍa Part - 4

 

No comments:

Post a Comment