Wednesday, December 17, 2025

बालकाण्ड – Bālakāṇḍa (भाग - ५ ;;; Part – 5)

 

बालकाण्ड – Bālakāṇḍa (भाग - ;;; Part – 5)

Sarga number as per Ramayana

Shlokas extracted

No. of shlokas

Cumulative number of shlokas in this Kanda

25

अथ तस्याप्रमेयस्य मुनेर्वचनमुत्तमम् |
श्रुत्वा पुरुषशार्दूलः प्रत्युवाच शुभां गिरम् || १||

अल्पवीर्या यदा यक्षाः श्रूयन्ते मुनिपुङ्गव |
कथं नागसहस्रस्य धारयत्यबला बलम् || २||

विश्वामित्रोऽब्रवीद्वाक्यं शृणु येन बलोत्तरा |
वरदानकृतं वीर्यं धारयत्यबला बलम् || ३||

पूर्वमासीन्महायक्षः सुकेतुर्नाम वीर्यवान् |
अनपत्यः शुभाचारः स च तेपे महत्तपः || ४||

पितामहस्तु सुप्रीतस्तस्य यक्षपतेस्तदा |
कन्यारत्नं ददौ राम ताटकां नाम नामतः || ५||

ददौ नागसहस्रस्य बलं चास्याः पितामहः |
न त्वेव पुत्रं यक्षाय ददौ ब्रह्मा महायशाः || ६||

तां तु जातां विवर्धन्तीं रूपयौवनशालिनीम् |
जम्भपुत्राय सुन्दाय ददौ भार्यां यशस्विनीम् || ७||

कस्य चित्त्वथ कालल्स्य यक्षी पुत्रं व्यजायत |
मारीचं नाम दुर्धर्षं यः शापाद्राक्षसोऽभवत् || ८||

सुन्दे तु निहते राम अगस्त्यमृषिसत्तमम् |
ताटका सह पुत्रेण प्रधर्षयितुमिच्छति || ९||

राक्षसत्वं भजस्वेति मारीचं व्याजहार सः |
अगस्त्यः परमक्रुद्धस्ताटकामपि शप्तवान् || १०||

पुरुषादी महायक्षी विरूपा विकृतानना |
इदं रूपमपहाय दारुणं रूपमस्तु ते || ११||

सैषा शापकृतामर्षा ताटका क्रोधमूर्छिता |
देशमुत्सादयत्येनमगस्त्यचरितं शुभम् || १२||

एनां राघव दुर्वृत्तां यक्षीं परमदारुणाम् |
गोब्राह्मणहितार्थाय जहि दुष्टपराक्रमाम् || १३||

न ह्येनां शापसंसृष्टां कश्चिदुत्सहते पुमान् |
निहन्तुं त्रिषु लोकेषु त्वामृते रघुनन्दन || १४||

न हि ते स्त्रीवधकृते घृणा कार्या नरोत्तम |
चातुर्वर्ण्यहितार्थाय कर्तव्यं राजसूनुना || १५||

राज्यभारनियुक्तानामेष धर्मः सनातनः |
अधर्म्यां जहि काकुत्श धर्मो ह्यस्या न विद्यते || १६||

16

206

Shri Rama queried as to how a female Yakshi, being frail by nature, got so much of physical power. Sage Vishvamitra replied that a formidable, childless yaksha named Suketu performed a great ascesis. Pleased with his ascesis, Brahma gave him a daughter, Tataka. Brahma blessed her with the strength of a thousand elephants to her.  On her attaining maturity, Suketu gave her in marriage to Jambha's son Sunda as wife.

After sometime Tataka gave birth to an indomitable son named Mareecha, When Sunda was eliminated by sage Agastya's curse, Tataka wished to kill that sage along with her son Mareecha. When she rushed towards the sage, along with her son Mareecha,  sage Agastya firstly cursed Mareecha to become a demon.

The infuriated sage Agastya cursed Tataka also divesting her of her beautiful figure and cursed her to become a man eater monstrous with distorted form. Angered by the curse Tataka had been vandalising that auspicious province, in which sage Agastya once moved.

After narrating the story, Sage Vishvamitra directed Shri Rama, being a Kshatriya, to eliminate her, without thinking her as a female, keeping in view of the welfare of Brahmans and cows.

26

मुनेर्वचनमक्लीबं श्रुत्वा नरवरात्मजः |
राघवः प्राञ्जलिर्भूत्वा प्रत्युवाच दृढव्रतः || १||

पितुर्वचननिर्देशात्पितुर्वचनगौरवात् |
वचनं कौशिकस्येति कर्तव्यमविशङ्कया || २||

अनुशिष्टोऽस्म्ययोध्यायां गुरुमध्ये महात्मना |
पित्रा दशरथेनाहं नावज्ञेयं च तद्वचः || ३||

सोऽहं पितुर्वचः श्रुत्वा शासनाद्ब्रह्म वादिनः |
करिष्यामि न सन्देहस्ताटकावधमुत्तमम् || ४||

गोब्राह्मणहितार्थाय देशस्यास्य सुखाय च |
तव चैवाप्रमेयस्य वचनं कर्तुमुद्यतः || ५||

एवमुक्त्वा धनुर्मध्ये बद्ध्वा मुष्टिमरिन्दमः |
ज्याशब्दमकरोत्तीव्रं दिशः शब्देन पूरयन् || ६||

तेन शब्देन वित्रस्तास्ताटका वनवासिनः |
ताटका च सुसङ्क्रुद्धा तेन शब्देन मोहिता || ७||

तं शब्दमभिनिध्याय राक्षसी क्रोधमूर्छिता |
श्रुत्वा चाभ्यद्रवद्वेगाद्यतः शब्दो विनिःसृतः || ८||

तां दृष्ट्वा राघवः क्रुद्धां विकृतां विकृताननाम् |
प्रमाणेनातिवृद्धां च लक्ष्मणं सोऽभ्यभाषत || ९||

पश्य लक्ष्मण यक्षिण्या भैरवं दारुणं वपुः |
भिद्येरन्दर्शनादस्या भीरूणां हृदयानि च || १०||

एनां पश्य दुराधर्षां माया बलसमन्विताम् |
विनिवृत्तां करोम्यद्य हृतकर्णाग्रनासिकाम् || ११||

न ह्येनामुत्सहे हन्तुं स्त्रीस्वभावेन रक्षिताम् |
वीर्यं चास्या गतिं चापि हनिष्यामीति मे मतिः || १२||

एवं ब्रुवाणे रामे तु ताटका क्रोधमूर्छिता |
उद्यम्य बाहू गर्जन्ती राममेवाभ्यधावत || १३||

तामापतन्तीं वेगेन विक्रान्तामशनीम् इव |
शरेणोरसि विव्याध सा पपात ममार च || १४||

ततो मुनिवरः प्रीतिस्ताटका वधतोषितः |
मूर्ध्नि राममुपाघ्राय इदं वचनमब्रवीत् || १५||

इहाद्य रजनीं राम वसेम शुभदर्शन |
श्वः प्रभाते गमिष्यामस्तदाश्रमपदं मम || १६||

16

222

On hearing the words of that sage Shri Rama replied that as his father directed him to follow the orders of the sage, he would eliminate Tataka.

Then, Shri Rama made a thunderous sound of the bowstring making all the directions to blast. By that sound the inhabitants of Tataka forest are startled, and even Tataka is stupefied by that sound, and she in anger rushed towards them.

Resorting to magic, she inundated both the princes with highly torrential stone rain, which was countered with his arrow storm. Then, Shri Rama mutilated both of her arms with arrows.  Then, resorting to magic, she disappeared and discharged stone storms upon them. Sage Vishvamitra warned Shri Rama to stop showing compassion towards her and kill her quickly. When Shri Rama struck an arrow in her chest, and she dropped dead.

Satisfied with Shri Rama’s act in the eradication of Tataka, he blessed him and they spent that night in that forest, freed from Tataka.

27

 

 

 

 

 

 

28

अथ तां रजनीमुष्य विश्वामिरो महायशाः |
प्रहस्य राघवं वाक्यमुवाच मधुराक्षरम् || १||

पतितुष्टोऽस्मि भद्रं ते राजपुत्र महायशः |
प्रीत्या परमया युक्तो ददाम्यस्त्राणि सर्वशः || २||

स्थितस्तु प्राङ्मुखो भूत्वा शुचिर्निवरतस्तदा |
ददौ रामाय सुप्रीतो मन्त्रग्राममनुत्तमम् || ३||

जपतस्तु मुनेस्तस्य विश्वामित्रस्य धीमतः |
उपतस्थुर्महार्हाणि सर्वाण्यस्त्राणि राघवम् || ४||

ऊचुश्च मुदिता रामं सर्वे प्राञ्जलयस्तदा |
इमे स्म परमोदार किङ्करास्तव राघव || ५||

प्रतिगृह्य च काकुत्स्थः समालभ्य च पाणिना |
मनसा मे भविष्यध्वमिति तान्यभ्यचोदयत् || ६||

गृहीतास्त्रोऽस्मि भगवन्दुराधर्षः सुरैरपि |
अस्त्राणां त्वहमिच्छामि संहारं मुनिपुङ्गव || ७||

एवं ब्रुवति काकुत्स्थे विश्वामित्रो महामुनिः |
संहारं व्याजहाराथ धृतिमान्सुव्रतः शुचिः || ८||

सत्यवन्तं सत्यकीर्तिं धृष्टं रभसमेव च |
प्रतिहारतरं नाम पराङ्मुखमवाङ्मुखम् |

दिव्यभास्वरदेहाश्च मूर्तिमन्तः सुखप्रदाः || ९||

रामं प्राञ्जलयो भूत्वाब्रुवन्मधुरभाषिणः |
इमे स्म नरशार्दूल शाधि किं करवाम ते || १०||

गम्यतामिति तानाह यथेष्टं रघुनन्दनः |
मानसाः कार्यकालेषु साहाय्यं मे करिष्यथ || ११||

अथ ते राममामन्त्र्य कृत्वा चापि प्रदक्षिणम् |
एवमस्त्विति काकुत्स्थमुक्त्वा जग्मुर्यथागतम् || १२||

स च तान्राघवो ज्ञात्वा विश्वामित्रं महामुनिम् |
गच्छन्नेवाथ मधुरं श्लक्ष्णं वचनमब्रवीत् || १३||

किं न्वेतन्मेघसङ्काशं पर्वतस्याविदूरतः |
वृक्षषण्डमितो भाति परं कौतूहलं हि मे || १४||

दर्शनीयं मृगाकीर्णं मनोहरमतीव च |
नानाप्रकारैः शकुनैर्वल्गुभाषैरलङ्कृतम् || १५||

निःसृताः स्म मुनिश्रेष्ठ कान्ताराद्रोमहर्षणात् |
अनया त्ववगच्छामि देशस्य सुखवत्तया || १६||

सर्वं मे शंस भगवन्कस्याश्रमपदं त्विदम् |
सम्प्राप्ता यत्र ते पापा ब्रह्मघ्ना दुष्टचारिणः || १७||

17

239

On the next day morning, the sage Vishvamitra, after purifying himself and facing eastward, gave the knowledge of hymns related to all the divine missiles.

When sage Vishvamitra recited the hymns, all of those highly venerable missiles came nigh and stood accessible to Raghava in their astral form and said that they were ready to accomplish whatever his direction to them to do. Shri Rama told them to be present whenever he calls them. And, those deities of missiles have gone away as they have come.

Then, Shri Rama requested the sage to impart the knowledge of withdrawing of those DIVINE missiles too and the sage gladly imparted that knowledge also to him.

Whatever Shri Rama learnt from the Sage Vishvamitra, later he imparted to Lakshmana.

29

अथ तस्याप्रमेयस्य तद्वनं परिपृच्छतः |
विश्वामित्रो महातेजा व्याख्यातुमुपचक्रमे || १||

एष पूर्वाश्रमो राम वामनस्य महात्मनः |
सिद्धाश्रम इति ख्यातः सिद्धो ह्यत्र महातपाः || २||

तेनैष पूर्वमाक्रान्त आश्रमः श्रमनाशनः |
मयापि भक्त्या तस्यैष वामनस्योपभुज्यते ||३ ||

एतमाश्रममायान्ति राक्षसा विघ्नकारिणः |
अत्र ते पुरुषव्याघ्र हन्तव्या दुष्टचारिणः ||४ ||

अद्य गच्छामहे राम सिद्धाश्रममनुत्तमम् |
तदाश्रमपदं तात तवाप्येतद्यथा मम || ५||

तं दृष्ट्वा मुनयः सर्वे सिद्धाश्रमनिवासिनः |
उत्पत्योत्पत्य सहसा विश्वामित्रमपूजयन् ||६ ||

यथार्हं चक्रिरे पूजां विश्वामित्राय धीमते |
तथैव राजपुत्राभ्यामकुर्वन्नतिथिक्रियाम् || ७ ||

मुहूर्तमथ विश्रान्तौ राजपुत्रावरिन्दमौ |
प्राञ्जली मुनिशार्दूलमूचतू रघुनन्दनौ || ८ ||

अद्यैव दीक्षां प्रविश भद्रं ते मुनिपुङ्गव |
सिद्धाश्रमोऽयं सिद्धः स्यात्सत्यमस्तु वचस्तव || ९||

एवमुक्तो महातेजा विश्वामित्रो महामुनिः |
प्रविवेश तदा दीक्षां नियतो नियतेन्द्रियः ||१० ||

कुमारावपि तां रात्रिमुषित्वा सुसमाहितौ |
प्रभातकाले चोत्थाय विश्वामित्रमवन्दताम् || ११||

11

250

Shri Rama asks about the ashrama where Sage Vishvamitra is going to perform a ritual.  Sage Vishvamitra explained that once Vishnu/ resided in that area and performed outstanding ascesis for many years.

That was the erstwhile hermitage of Vaamana renowned as Accomplished hermitage – Siddhaashrama -  सिद्धाश्रम, and even the sage Kaashyapa got accomplishment of his ascesis there only.

In that ashrama, which was previously under the possession of Vamana, Sage Vishvamitra had started to live for his devotion to Vaamana. As demons are causing obstacles, Shri Rama will have to eliminate those demons with evil pursuit.

Then, the great sage Vishvamitra lead Shri Rama together with Lakshmana to the Siddhaashrama -  सिद्धाश्रम, and entered the hermitage. On seeing the arrival of Sage Vishvamitra all of the sages of that Hermitage have welcomed them and have offered hospitality to both of the princes.

After taking rest for a while, Shri Rama asked the Sage Vishvamitra to commence the ritual, for which he would remain guard to. When he is said so, sage Vishvamitra undertook the vow of ritual controlling his senses.

Both the prices Shri Rama and Lakshmana, on spending that night got up with the sunrise. On finishing morning time bathing they approached the sage, armed with their bows and arrows.

30

अथ तौ देशकालज्ञौ राजपुत्रावरिन्दमौ |
देशे काले च वाक्यज्ञावब्रूतां कौशिकं वचः || १||

भगवञ्श्रोतुमिच्छावो यस्मिन्काले निशाचरौ |
संरक्षणीयौ तौ ब्रह्मन्नातिवर्तेत तत्क्षणम् || २||

एवं ब्रुवाणौ काकुत्स्थौ त्वरमाणौ युयुत्सया |
सर्वे ते मुनयः प्रीताः प्रशशंसुर्नृपात्मजौ || ३||

अद्य प्रभृति षड्रात्रं रक्षतं राघवौ युवाम् |
दीक्षां गतो ह्येष मुनिर्मौनित्वं च गमिष्यति || ४||

तौ तु तद्वचनं श्रुत्वा राजपुत्रौ यशस्विनौ |
अनिद्रौ षडहोरात्रं तपोवनमरक्षताम् || ५||

उपासां चक्रतुर्वीरौ यत्तौ परमधन्विनौ |
ररक्षतुर्मुनिवरं विश्वामित्रमरिन्दमौ || ६||

अथ काले गते तस्मिन्षष्ठेऽहनि समागते |
सौमित्रमब्रवीद्रामो यत्तो भव समाहितः || ७||

रामस्यैवं ब्रुवाणस्य त्वरितस्य युयुत्सया |
प्रजज्वाल ततो वेदिः सोपाध्यायपुरोहिता || ८||

मन्त्रवच्च यथान्यायं यज्ञोऽसौ सम्प्रवर्तते |
आकाशे च महाञ्शब्दः प्रादुरासीद्भयानकः || ९||

आवार्य गगनं मेघो यथा प्रावृषि निर्गतः |
तथा मायां विकुर्वाणौ राक्षसावभ्यधावताम् || १०||

मारीचश्च सुबाहुश्च तयोरनुचरास्तथा |
आगम्य भीमसङ्काशा रुधिरौघानवासृजन् || ११||

तावापतन्तौ सहसा दृष्ट्वा राजीवलोचनः |
लक्ष्मणं त्वभिसम्प्रेक्ष्य रामो वचनमब्रवीत् || १२||

पश्य लक्ष्मण दुर्वृत्तान्राक्षसान्पिशिताशनान् |
मानवास्त्रसमाधूताननिलेन यथाघनान् || १३||

मानवं परमोदारमस्त्रं परमभास्वरम् |
चिक्षेप परमक्रुद्धो मारीचोरसि राघवः || १४||

स तेन परमास्त्रेण मानवेन समाहितः |
सम्पूर्णं योजनशतं क्षिप्तः सागरसम्प्लवे || १५||

विचेतनं विघूर्णन्तं शीतेषुबलपीडितम् |
निरस्तं दृश्य मारीचं रामो लक्ष्मणमब्रवीत् || १६||

पश्य लक्ष्मण शीतेषुं मानवं धर्मसंहितम् |
मोहयित्वा नयत्येनं न च प्राणैर्वियुज्यते || १७||

इमानपि वधिष्यामि निर्घृणान्दुष्टचारिणः |
राक्षसान्पापकर्मस्थान्यज्ञघ्नान्रुधिराशनान् || १८||

सङ्गृह्यास्त्रं ततो रामो दिव्यमाग्नेयमद्भुतम्।
सुबाहुरसि चिक्षेप स विद्धः प्रापतद्भुवि || १९||

शेषान्वायव्यमादाय निजघान महायशाः |
राघवः परमोदारो मुनीनां मुदमावहन् || २०||

स हत्वा राक्षसान्सर्वान्यज्ञघ्नान्रघुनन्दनः |
ऋषिभिः पूजितस्तत्र यथेन्द्रो विजये पुरा || २१||

अथ यज्ञे समाप्ते तु विश्वामित्रो महामुनिः |
निरीतिका दिशो दृष्ट्वा काकुत्स्थमिदमब्रवीत् || २२||

कृतार्थोऽस्मि महाबाहो कृतं गुरुवचस्त्वया |
सिद्धाश्रममिदं सत्यं कृतं राम महायशः || २३||

23

273

As the Sage Vishvamitra was in the vow of silence, the sages available there explained that they have to guard the ritual for six nights and days from that day.

The two prices wakefully safeguarded that ritual for six nights and days. When the sixth day has come, the fire in the Altar of Fire flared up suddenly and highly, and two demons Maareecha and Subaahu appeared, and they were about to defile the altar of fire with streams of blood.

Shri Rama fitted Maanava astra on his bow, taking aim at Maareecha and discharged on the chest of Maareecha, which took him a hundred yojana lengths in full and threw him down into an ocean. Then with Aagneya astra, Fire-missile, he eliminated the demon Subaahu.

On the completion of ritual, the sage Vishvamitra applauded Shri Rama.

इत्यार्षे श्री रामायणे बालकाण्डे पञ्चम: भाग:

 


Bālakāṇḍa Part-4

Bālakāṇḍa Part - 6


No comments:

Post a Comment