Wednesday, December 17, 2025

बालकाण्ड – Bālakāṇḍa (भाग - ५ ;;; Part – 5)

 

बालकाण्ड – Bālakāṇḍa (भाग - ;;; Part – 5)

Sarga number as per Ramayana

Shlokas extracted

No. of shlokas

Cumulative number of shlokas in this Kanda

27

 

 

 

 

 

 

 

 

 28

अथ तां रजनीमुष्य विश्वामिरो महायशाः |
प्रहस्य राघवं वाक्यमुवाच मधुराक्षरम् || १||

पतितुष्टोऽस्मि भद्रं ते राजपुत्र महायशः |
प्रीत्या परमया युक्तो ददाम्यस्त्राणि सर्वशः || २||

स्थितस्तु प्राङ्मुखो भूत्वा शुचिर्निवरतस्तदा |
ददौ रामाय सुप्रीतो मन्त्रग्राममनुत्तमम् || ३||

जपतस्तु मुनेस्तस्य विश्वामित्रस्य धीमतः |
उपतस्थुर्महार्हाणि सर्वाण्यस्त्राणि राघवम् || ४||

ऊचुश्च मुदिता रामं सर्वे प्राञ्जलयस्तदा |
इमे स्म परमोदार किङ्करास्तव राघव || ५||

प्रतिगृह्य च काकुत्स्थः समालभ्य च पाणिना |
मनसा मे भविष्यध्वमिति तान्यभ्यचोदयत् || ६||

गृहीतास्त्रोऽस्मि भगवन्दुराधर्षः सुरैरपि |
अस्त्राणां त्वहमिच्छामि संहारं मुनिपुङ्गव || ७||

एवं ब्रुवति काकुत्स्थे विश्वामित्रो महामुनिः |
संहारं व्याजहाराथ धृतिमान्सुव्रतः शुचिः || ८||

सत्यवन्तं सत्यकीर्तिं धृष्टं रभसमेव च |
प्रतिहारतरं नाम पराङ्मुखमवाङ्मुखम् |

दिव्यभास्वरदेहाश्च मूर्तिमन्तः सुखप्रदाः || ९||

रामं प्राञ्जलयो भूत्वाब्रुवन्मधुरभाषिणः |
इमे स्म नरशार्दूल शाधि किं करवाम ते || १०||

गम्यतामिति तानाह यथेष्टं रघुनन्दनः |
मानसाः कार्यकालेषु साहाय्यं मे करिष्यथ || ११||

अथ ते राममामन्त्र्य कृत्वा चापि प्रदक्षिणम् |
एवमस्त्विति काकुत्स्थमुक्त्वा जग्मुर्यथागतम् || १२||

स च तान्राघवो ज्ञात्वा विश्वामित्रं महामुनिम् |
गच्छन्नेवाथ मधुरं श्लक्ष्णं वचनमब्रवीत् || १३||

किं न्वेतन्मेघसङ्काशं पर्वतस्याविदूरतः |
वृक्षषण्डमितो भाति परं कौतूहलं हि मे || १४||

दर्शनीयं मृगाकीर्णं मनोहरमतीव च |
नानाप्रकारैः शकुनैर्वल्गुभाषैरलङ्कृतम् || १५||

निःसृताः स्म मुनिश्रेष्ठ कान्ताराद्रोमहर्षणात् |
अनया त्ववगच्छामि देशस्य सुखवत्तया || १६||

सर्वं मे शंस भगवन्कस्याश्रमपदं त्विदम् |
सम्प्राप्ता यत्र ते पापा ब्रह्मघ्ना दुष्टचारिणः || १७||

17

160

On the next day morning, the sage Vishvamitra, after purifying himself and facing eastward, gave the knowledge of hymns related to all the divine missiles.

When sage Vishvamitra recited the hymns, all of those highly venerable missiles came nigh and stood accessible to Raghava in their astral form and said that they were ready to accomplish whatever his direction to them to do. Shri Rama told them to be present whenever he calls them. And, those deities of missiles have gone away as they have come.

Then, Shri Rama requested the sage to impart the knowledge of withdrawing of those DIVINE missiles too and the sage gladly imparted that knowledge also to him.

Whatever Shri Rama learnt from the Sage Vishvamitra, later he imparted to Lakshmana.

29

अथ तस्याप्रमेयस्य तद्वनं परिपृच्छतः |
विश्वामित्रो महातेजा व्याख्यातुमुपचक्रमे || १||

एष पूर्वाश्रमो राम वामनस्य महात्मनः |
सिद्धाश्रम इति ख्यातः सिद्धो ह्यत्र महातपाः || २||

तेनैष पूर्वमाक्रान्त आश्रमः श्रमनाशनः |
मयापि भक्त्या तस्यैष वामनस्योपभुज्यते ||३ ||

एतमाश्रममायान्ति राक्षसा विघ्नकारिणः |
अत्र ते पुरुषव्याघ्र हन्तव्या दुष्टचारिणः ||४ ||

अद्य गच्छामहे राम सिद्धाश्रममनुत्तमम् |
तदाश्रमपदं तात तवाप्येतद्यथा मम || ५||

तं दृष्ट्वा मुनयः सर्वे सिद्धाश्रमनिवासिनः |
उत्पत्योत्पत्य सहसा विश्वामित्रमपूजयन् ||६ ||

यथार्हं चक्रिरे पूजां विश्वामित्राय धीमते |
तथैव राजपुत्राभ्यामकुर्वन्नतिथिक्रियाम् || ७ ||

मुहूर्तमथ विश्रान्तौ राजपुत्रावरिन्दमौ |
प्राञ्जली मुनिशार्दूलमूचतू रघुनन्दनौ || ८ ||

अद्यैव दीक्षां प्रविश भद्रं ते मुनिपुङ्गव |
सिद्धाश्रमोऽयं सिद्धः स्यात्सत्यमस्तु वचस्तव || ९||

एवमुक्तो महातेजा विश्वामित्रो महामुनिः |
प्रविवेश तदा दीक्षां नियतो नियतेन्द्रियः ||१० ||

कुमारावपि तां रात्रिमुषित्वा सुसमाहितौ |
प्रभातकाले चोत्थाय विश्वामित्रमवन्दताम् || ११||

11

171

Shri Rama asks about the ashrama where Sage Vishvamitra is going to perform a ritual.  Sage Vishvamitra explained that once Vishnu/ resided in that area and performed outstanding ascesis for many years.

That was the erstwhile hermitage of Vaamana renowned as Accomplished hermitage – Siddhaashrama -  सिद्धाश्रम, and even the sage Kaashyapa got accomplishment of his ascesis there only.

In that ashrama, which was previously under the possession of Vamana, Sage Vishvamitra had started to live for his devotion to Vaamana. As demons are causing obstacles, Shri Rama will have to eliminate those demons with evil pursuit.

Then, the great sage Vishvamitra lead Shri Rama together with Lakshmana to the Siddhaashrama -  सिद्धाश्रम, and entered the hermitage. On seeing the arrival of Sage Vishvamitra all of the sages of that Hermitage have welcomed them and have offered hospitality to both of the princes.

After taking rest for a while, Shri Rama asked the Sage Vishvamitra to commence the ritual, for which he would remain guard to. When he is said so, sage Vishvamitra undertook the vow of ritual controlling his senses.

Both the prices Shri Rama and Lakshmana, on spending that night got up with the sunrise. On finishing morning time bathing they approached the sage, armed with their bows and arrows.

30

अथ तौ देशकालज्ञौ राजपुत्रावरिन्दमौ |
देशे काले च वाक्यज्ञावब्रूतां कौशिकं वचः || १||

भगवञ्श्रोतुमिच्छावो यस्मिन्काले निशाचरौ |
संरक्षणीयौ तौ ब्रह्मन्नातिवर्तेत तत्क्षणम् || २||

एवं ब्रुवाणौ काकुत्स्थौ त्वरमाणौ युयुत्सया |
सर्वे ते मुनयः प्रीताः प्रशशंसुर्नृपात्मजौ || ३||

अद्य प्रभृति षड्रात्रं रक्षतं राघवौ युवाम् |
दीक्षां गतो ह्येष मुनिर्मौनित्वं च गमिष्यति || ४||

तौ तु तद्वचनं श्रुत्वा राजपुत्रौ यशस्विनौ |
अनिद्रौ षडहोरात्रं तपोवनमरक्षताम् || ५||

उपासां चक्रतुर्वीरौ यत्तौ परमधन्विनौ |
ररक्षतुर्मुनिवरं विश्वामित्रमरिन्दमौ || ६||

अथ काले गते तस्मिन्षष्ठेऽहनि समागते |
सौमित्रमब्रवीद्रामो यत्तो भव समाहितः || ७||

रामस्यैवं ब्रुवाणस्य त्वरितस्य युयुत्सया |
प्रजज्वाल ततो वेदिः सोपाध्यायपुरोहिता || ८||

मन्त्रवच्च यथान्यायं यज्ञोऽसौ सम्प्रवर्तते |
आकाशे च महाञ्शब्दः प्रादुरासीद्भयानकः || ९||

आवार्य गगनं मेघो यथा प्रावृषि निर्गतः |
तथा मायां विकुर्वाणौ राक्षसावभ्यधावताम् || १०||

मारीचश्च सुबाहुश्च तयोरनुचरास्तथा |
आगम्य भीमसङ्काशा रुधिरौघानवासृजन् || ११||

तावापतन्तौ सहसा दृष्ट्वा राजीवलोचनः |
लक्ष्मणं त्वभिसम्प्रेक्ष्य रामो वचनमब्रवीत् || १२||

पश्य लक्ष्मण दुर्वृत्तान्राक्षसान्पिशिताशनान् |
मानवास्त्रसमाधूताननिलेन यथाघनान् || १३||

मानवं परमोदारमस्त्रं परमभास्वरम् |
चिक्षेप परमक्रुद्धो मारीचोरसि राघवः || १४||

स तेन परमास्त्रेण मानवेन समाहितः |
सम्पूर्णं योजनशतं क्षिप्तः सागरसम्प्लवे || १५||

विचेतनं विघूर्णन्तं शीतेषुबलपीडितम् |
निरस्तं दृश्य मारीचं रामो लक्ष्मणमब्रवीत् || १६||

पश्य लक्ष्मण शीतेषुं मानवं धर्मसंहितम् |
मोहयित्वा नयत्येनं न च प्राणैर्वियुज्यते || १७||

इमानपि वधिष्यामि निर्घृणान्दुष्टचारिणः |
राक्षसान्पापकर्मस्थान्यज्ञघ्नान्रुधिराशनान् || १८||

सङ्गृह्यास्त्रं ततो रामो दिव्यमाग्नेयमद्भुतम्।
सुबाहुरसि चिक्षेप स विद्धः प्रापतद्भुवि || १९||

शेषान्वायव्यमादाय निजघान महायशाः |
राघवः परमोदारो मुनीनां मुदमावहन् || २०||

स हत्वा राक्षसान्सर्वान्यज्ञघ्नान्रघुनन्दनः |
ऋषिभिः पूजितस्तत्र यथेन्द्रो विजये पुरा || २१||

अथ यज्ञे समाप्ते तु विश्वामित्रो महामुनिः |
निरीतिका दिशो दृष्ट्वा काकुत्स्थमिदमब्रवीत् || २२||

कृतार्थोऽस्मि महाबाहो कृतं गुरुवचस्त्वया |
सिद्धाश्रममिदं सत्यं कृतं राम महायशः || २३||

23

194

As the Sage Vishvamitra was in the vow of silence, the sages available there explained that they have to guard the ritual for six nights and days from that day.

The two prices wakefully safeguarded that ritual for six nights and days. When the sixth day has come, the fire in the Altar of Fire flared up suddenly and highly, and two demons Maareecha and Subaahu appeared, and they were about to defile the altar of fire with streams of blood.

Shri Rama fitted Maanava astra on his bow, taking aim at Maareecha and discharged on the chest of Maareecha, which took him a hundred yojana lengths in full and threw him down into an ocean. Then with Aagneya astra, Fire-missile, he eliminated the demon Subaahu.

On the completion of ritual, the sage Vishvamitra applauded Shri Rama.


इत्यार्षे
श्री रामायणे
बालकाण्डे पञ्चम: भाग:

 


Bālakāṇḍa Part-4

Bālakāṇḍa Part - 6


No comments:

Post a Comment