Wednesday, December 17, 2025

बालकाण्ड – Bālakāṇḍa (भाग - ६ ;;; Part – 6)

 

बालकाण्ड – Bālakāṇḍa (भाग - ;;; Part – 6)

Sarga number as per Ramayana

Shlokas extracted

No. of shlokas

Cumulative number of shlokas in this Kanda

31

अथ तां रजनीं तत्र कृतार्थौ रामलक्षणौ |
ऊषतुर्मुदितौ वीरौ प्रहृष्टेनान्तरात्मना || १||

प्रभातायां तु शर्वर्यां कृतपौर्वाह्णिकक्रियौ |
विश्वामित्रमृषींश्चान्यान्सहितावभिजग्मतुः || २||

अभिवाद्य मुनिश्रेष्ठं ज्वलन्तमिव पावकम् |
ऊचतुर्मधुरोदारं वाक्यं मधुरभाषिणौ || ३||

इमौ स्वो मुनिशार्दूल किङ्करौ समुपस्थितौ |
आज्ञापय यथेष्टं वै शासनं करवाव किम् || ४||

एवमुक्ते ततस्ताभ्यां सर्व एव महर्षयः |
विश्वामित्रं पुरस्कृत्य रामं वचनमब्रुवन् || ५||

मैथिलस्य नरश्रेष्ठ जनकस्य भविष्यति |
यज्ञः परमधर्मिष्ठस्तत्र यास्यामहे वयम् || ६||

त्वं चैव नरशार्दूल सहास्माभिर्गमिष्यसि |
अद्भुतं च धनूरत्नं तत्र त्वं द्रष्टुमर्हसि || ७||

एवमुक्त्वा मुनिवरः प्रस्थानमकरोत्तदा |
सर्षिसङ्घः सकाकुत्स्थ आमन्त्र्य वनदेवताः || ८||

स्वस्ति वोऽस्तु गमिष्यामि सिद्धः सिद्धाश्रमादहम् |
उत्तरे जाह्नवीतीरे हिमवन्तं शिलोच्चयम् || ९||

प्रदक्षिणं ततः कृत्वा सिद्धाश्रममनुत्तमम् |
उत्तरां दिशमुद्दिश्य प्रस्थातुमुपचक्रमे || १०||

तं व्रजन्तं मुनिवरमन्वगादनुसारिणाम् |
शकटी शतमात्रं तु प्रयाणे ब्रह्मवादिनाम् || ११||

मृगपक्षिगणाश्चैव सिद्धाश्रमनिवासिनः |
अनुजग्मुर्महात्मानं विश्वामित्रं महामुनिम् || १२||

ते गत्वा दूरमध्वानं लम्बमाने दिवाकरे |
वासं चक्रुर्मुनिगणाः शोणाकूले समाहिताः || १३||

13

286

After spending that night in Siddhashrama, Shri Rama and Lakshmana approached Sage Vishvamitra on the next day, and enquired what more work to be carried out by them.

Sage Vishvamitra told him about a celestial bow lying with King Janaka in Mithila.  That great bow was given to King Janaka (by Varuna) in a vedic ritual.  He then suggested to Shri Rama that if can travel with him, he can see that celestial bow in Mithila.  

Saying so the sage Vishvamitra started to travel on along with the group of sages, and along with Rama and Lakshmana, towards the northern side of River Ganga. Those assemblages of sages on going far on their path made a camp on the bank of River Sona at the time of sunset.

50

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 65

 

ततः प्रागुत्तरां गत्वा रामः सौमित्रिणा सह |
विश्वामित्रं पुरस्कृत्य यज्ञवाटमुपागमत् || १||

रामस्तु मुनिशार्दूलमुवाच सहलक्ष्मणः |
साध्वी यज्ञसमृद्धिर्हि जनकस्य महात्मनः || २||

बहूनीह सहस्राणि नानादेशनिवासिनाम् |
ब्राह्मणानां महाभाग वेदाध्ययनशालिनाम् || ३||

ऋषिवाटाश्च दृश्यन्ते शकटीशतसङ्कुलाः |
देशो विधीयतां ब्रह्मन्यत्र वत्स्यामहे वयम् || ४||

रामस्य वचनं श्रुत्वा विश्वामित्रो महामुनिः |
निवेशमकरोद्देशे विविक्ते सलिलायुते || ५||

विश्वामित्रं मुनिश्रेष्ठं श्रुत्वा स नृपतिस्तदा |
शतानन्दं पुरस्कृत्य पुरोहितमनिन्दितम् || ६||

ऋत्विजोऽपि महात्मानस्त्वर्घ्यमादाय सत्वरम् |
विश्वामित्राय धर्मेण ददुर्मन्त्रपुरस्कृतम् || ७||

प्रतिगृह्य तु तां पूजां जनकस्य महात्मनः |
पप्रच्छ कुशलं राज्ञो यज्ञस्य च निरामयम् || ८||

स तांश्चापि मुनीन्पृष्ट्वा सोपाध्याय पुरोधसः |
यथान्यायं ततः सर्वैः समागच्छत्प्रहृष्टवान् || ९||

अथ राजा मुनिश्रेष्ठं कृताञ्जलिरभाषत |
आसने भगवानास्तां सहैभिर्मुनिसत्तमैः || १०||

जनकस्य वचः श्रुत्वा निषसाद महामुनिः |
पुरोधा ऋत्विजश्चैव राजा च सह मन्त्रिभिः || ११||

आसनेषु यथान्यायमुपविष्टान्समन्ततः |
दृष्ट्वा स नृपतिस्तत्र विश्वामित्रमथाब्रवीत् || १२||

अद्य यज्ञसमृद्धिर्मे सफला दैवतैः कृता |
अद्य यज्ञफलं प्राप्तं भगवद्दर्शनान्मया || १३||

धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे मुनिपुङ्गव |
यज्ञोपसदनं ब्रह्मन्प्राप्तोऽसि मुनिभिः सह || १४||

श्वः प्रभाते महातेजो द्रष्टुमर्हसि मां पुनः |
स्वागतं तपसां श्रेष्ठ मामनुज्ञातुमर्हसि || १५||

एवमुक्त्वा मुनिश्रेष्ठं वैदेहो मिथिलाधिपः |
प्रदक्षिणं चकाराशु सोपाध्यायः सबान्धवः || १६||

विश्वामित्रोऽपि धर्मात्मा सहरामः सलक्ष्मणः |
स्वं वाटमभिचक्राम पूज्यमानो महर्षिभिः || १७||

17

303

Shri Rama along with Lakshmana followed sage Vishvamitra, who is moving in the Northern direction and finally neared the hall of Vedic ritual of Janaka in Mithila kingdom. Sage Vishvamitra arranged a camp at an isolated place that has refreshing water.

On hearing arrival of Sage Vishvamitra, king Janaka instantly rushed and met sage Vishvamitra, keeping his priest Shataananda afore of the team.

The king Janaka expressed his gratitude to sage Vishvamitra for his coming at the time of vedic ritual.  King Janaka then welcomed Shri Rama and Lakshmana also. He excused himself for that day as the Sun was reaching the Westside and promised to visit him again on the following day.

66

ततः प्रभाते विमले कृतकर्मा नराधिपः |
विश्वामित्रं महात्मानमाजुहाव सराघवम् || १||

तमर्चयित्वा धर्मात्मा शास्त्रदृष्ट्तेन कर्मणा |
राघवौ च महात्मानौ तदा वाक्यमुवाच ह || २||

भगवन्स्वागतं तेऽस्तु किं करोमि तवानघ |
भवानाज्ञापयतु मामाज्ञाप्यो भवता ह्यहम् || ३||

एवमुक्तः स धर्मात्मा जनकेन महात्मना |
प्रत्युवाच मुनिर्वीरं वाक्यं वाक्यविशारदः || ४||

पुत्रौ दशरथस्येमौ क्षत्रियौ लोकविश्रुतौ |
द्रष्टुकामौ धनुः श्रेष्ठं यदेतत्त्वयि तिष्ठति || ५||

एतद्दर्शय भद्रं ते कृतकामौ नृपात्मजौ |
दर्शनादस्य धनुषो यथेष्टं प्रतियास्यतः || ६||

एवमुक्तस्तु जनकः प्रत्युवाच महामुनिम् |

अथ मे कृषतः क्षेत्रं लाङ्गलादुत्थिता मम |
क्षेत्रं शोधयता लब्ध्वा नाम्ना सीतेति विश्रुता || ७||

भूतलादुत्थिता सा तु व्यवर्धत ममात्मजा |
वीर्यशुल्केति मे कन्या स्थापितेयमयोनिजा || ८||

भूतलादुत्थितां तां तु वर्धमानां ममात्मजाम् |
वरयामासुरागम्य राजानो मुनिपुङ्गव || ९||

तेषां वरयतां कन्यां सर्वेषां पृथिवीक्षिताम् |
वीर्यशुल्केति भगवन्न ददामि सुताम् अहम् || १०||

ततः सर्वे नृपतयः समेत्य मुनिपुङ्गव |
मिथिलामभ्युपागम्य वीर्यं जिज्ञासवस्तदा || ११||

तेषां जिज्ञासमानानां वीर्यं धनुरुपाहृतम् |
न शेकुर्ग्रहणे तस्य धनुषस्तोलनेऽपि वा || १२||

तदेतन्मुनिशार्दूल धनुः परमभास्वरम् |
रामलक्ष्मणयोश्चापि दर्शयिष्यामि सुव्रत || १३||

यद्यस्य धनुषो रामः कुर्यादारोपणं मुने |
सुतामयोनिजां सीतां दद्यां दाशरथेरहम् || १४||

14

317

After performing morning time rites in the next morning, king Janaka invited great souled Vishvamitra, along with the two princes. On extending suitable formal welcome to Sage Vishvamitra and the Princes,  Janaka requested Sage Vishvamitra as to what type of service he can render to them.

Then the sage Vishvamitra said to the king Janaka that Shri Rama and Lakshmana, two sons of Dasharatha would see that marvellous bow stored in his place.

Then Janaka explained the background of the bow.  He also explained as to how he got a baby girl when he was ploughing the ritual field.   As she is obtained while consecrating the ritual-field, she is named as Seetha.

He added that hers is a non-uterine birth as she surfaced from the surface of the earth, but fostered as his own soul-born girl and that he determined to give her in marriage to a bridegroom, who can lift the DIVINE bow.

When Seeta has come of age, the kings, having heard his declaration that the bounty for Seetha is strength alone, have come and besought for her.  All those kings could not lift that bow and went back in humiliation.

Finally, the King Janaka said that if Shri Rama strings the bowstring of that bow, he would offer his daughter Seeta to Shri Rama.

67

जनकस्य वचः श्रुत्वा विश्वामित्रो महामुनिः |
धनुर्दर्शय रामाय इति होवाच पार्थिवम् || १||

ततः स राजा जनकः सचिवान्व्यादिदेश ह |
धनुरानीयतां दिव्यं गन्धमाल्यविभूषितम् || २||

जनकेन समादिष्ठाः सचिवाः प्राविशन्पुरीम् |
तद्धनुः पुरतः कृत्वा निर्जग्मुः पार्थिवाज्ञया || ३||

नृपां शतानि पञ्चाशद्व्यायतानां महात्मनाम् |
मञ्जूषामष्टचक्रां तां समूहस्ते कथं चन || ४||

तामादाय तु मञ्जूषामायतीं यत्र तद्धनुः |
सुरोपमं ते जनकमूचुर्नृपति मन्त्रिणः || ५||

इदं धनुर्वरं राजन्पूजितं सर्वराजभिः |
मिथिलाधिप राजेन्द्र दर्शनीयं यदीच्छसि || ६||

तेषां नृपो वचः श्रुत्वा कृताञ्जलिरभाषत |
विश्वामित्रं महात्मानं तौ चोभौ रामलक्ष्मणौ || ७||

इदं धनुर्वरं ब्रह्मञ्जनकैरभिपूजितम् |
राजभिश्च महावीर्यैरशक्यं पूरितुं तदा || ८||

नैतत्सुरगणाः सर्वे नासुरा न च राक्षसाः |
गन्धर्वयक्षप्रवराः सकिंनरमहोरगाः || ९||

क्व गतिर्मानुषाणां च धनुषोऽस्य प्रपूरणे |
आरोपणे समायोगे वेपने तोलनेऽपि वा || १०||

तदेतद्धनुषां श्रेष्ठमानीतं मुनिपुङ्गव |
दर्शयैतन्महाभाग अनयो राजपुत्रयोः || ११||

विश्वामित्रस्तु धर्मात्मा श्रुत्वा जनकभाषितम् |
वत्स राम धनुः पश्य इति राघवमब्रवीत् || १२||

महर्षेर्वचनाद्रामो यत्र तिष्ठति तद्धनुः |
मञ्जूषां तामपावृत्य दृष्ट्वा धनुरथाब्रवीत् || १३||

इदं धनुर्वरं ब्रह्मन्संस्पृशामीह पाणिना |
यत्नवांश्च भविष्यामि तोलने पूरणेऽपि वा || १४||

बाढमित्येव तं राजा मुनिश्च समभाषत |
लीलया स धनुर्मध्ये जग्राह वचनान्मुनेः || १५||

पश्यतां नृषहस्राणां बहूनां रघुनन्दनः |
आरोपयत्स धर्मात्मा सलीलमिव तद्धनुः || १६||

आरोपयित्वा मौर्वीं च पूरयामास वीर्यवान् |
तद्बभञ्ज धनुर्मध्ये नरश्रेष्ठो महायशाः || १७||

तस्य शब्दो महानासीन्निर्घातसमनिःस्वनः |
भूमिकम्पश्च सुमहान्पर्वतस्येव दीर्यतः || १८||

निपेतुश्च नराः सर्वे तेन शब्देन मोहिताः |
व्रजयित्वा मुनिवरं राजानं तौ च राघवौ || १९||

प्रत्याश्वस्तो जने तस्मिन्राजा विगतसाध्वसः |
उवाच प्राञ्जलिर्वाक्यं वाक्यज्ञो मुनिपुङ्गवम् || २०||

भगवन्दृष्टवीर्यो मे रामो दशरथात्मजः |
अत्यद्भुतमचिन्त्यं च अतर्कितमिदं मया || २१||

जनकानां कुले कीर्तिमाहरिष्यति मे सुता |
सीता भर्तारमासाद्य रामं दशरथात्मजम् || २२||

मम सत्या प्रतिज्ञा च वीर्यशुल्केति कौशिक |
सीता प्राणैर्बहुमता देया रामाय मे सुता || २३||

भवतोऽनुमते ब्रह्मञ्शीघ्रं गच्छन्तु मन्त्रिणः |
मम कौशिक भद्रं ते अयोध्यां त्वरिता रथैः || २४||

राजानं प्रश्रितैर्वाक्यैरानयन्तु पुरं मम |
प्रदानं वीर्यशुल्काः कथयन्तु च सर्वशः || २५||

मुनिगुप्तौ च काकुत्स्थौ कथयन्तु नृपाय वै |
प्रीयमाणं तु राजानमानयन्तु सुशीघ्रगाः || २६||

कौशिकश्च तथेत्याह राजा चाभाष्य मन्त्रिणः |
अयोध्यां प्रेषयामास धर्मात्मा कृतशासनात् || २७||

27

344

On listening to the words of Janaka, Sage Vishvamitra asked the king Janaka to show the bow to Shri Rama. Then ordered by King Janaka, the bow was brought by five thousand tall men of great energy with great difficulty.

Then the King Janaka asked the Sage Vishvamitra to allow the princes to have a look at the bow and to string it.

Shri Rama upon the word of the sage rose and grasped the bow at the middle handgrip playfully grabbed the bow. While many thousands of men are witnessing Shri Rama had stringed the bow effortlessly and started to stretch it up to his ear to examine its tautness, but that great bow broke medially.

There occurred an explosive sound when the bow is broken. Astonished by that great sound caused by the breakage of bow, all the people lost their consciousness, except for Sage Vishvamitra, king Janaka, and those two Princes, ie., Shri Rama and Lakshmana.

Then king Janaka sought the permission of Sage Vishvamitra to send his ministers quickly to Ayodhya in chariots, to narrate in detail about what transpired in Mithila to King Dasaratha and to bring king Dasharatha for performing the marriage. When Sage Vishvamitra agreed, King Janaka sent his ministers of Ayodhya.

इत्यार्षे श्री रामायणे बालकाण्डे षष्ठ: भाग:

 

Bālakāṇḍa Part-5

Bālakāṇḍa Part - 7

 

No comments:

Post a Comment