Monday, December 29, 2025

किष्किन्धाकाण्ड - Kiṣkindhākāṇḍa (भाग - १ ;;; Part – 1)

 

किष्किन्धाकाण्ड - Kiṣkindhākāṇḍa (भाग - ;;; Part – 1)

 

Sarga number as per Ramayana

Shlokas extracted

No. of shlokas

Cumulative number of shlokas in this Kanda

1

तां पुष्करिणीं गत्वा पद्मोत्पलझषाकुलाम् |
रामः सौमित्रिसहितो विललापाकुलेन्द्रियः || ||

तस्य दृष्ट्वैव तां हर्षादिन्द्रियाणि चकम्पिरे |
कामवशमापन्नः सौमित्रिमिदमब्रवीत् || ||

सौमित्रे पश्य पम्पायाः काननं शुभदर्शनम् |
यत्र राजन्ति शैलाभा द्रुमाः सशिखरा इव || ||

मां तु शोकाभिसन्तप्तमाधयः पीडयन्ति वै |
भरतस्य दुःखेन वैदेह्या हरणेन || ||

अधिकं प्रविभात्येतन्नीलपीतं तु शाद्वलम् |
द्रुमाणां विविधैः पुष्पैः परिस्तोमैरिवार्पितम् || ||

सुखानिलोऽयं सौमित्रे कालः प्रचुरमन्मथः |
गन्धवान्सुरभिर्मासो जातपुष्पफलद्रुमः || ||

पश्य रूपाणि सौमित्रे वनानां पुष्पशालिनाम् |
सृजतां पुष्पवर्षाणि वर्षं तोयमुचाम् इव || ||

प्रस्तरेषु रम्येषु विविधाः काननद्रुमाः |
वायुवेगप्रचलिताः पुष्पैरवकिरन्ति गाम् || ||

मारुतः सुखं संस्पर्शे वाति चन्दनशीतलः |
षट्पदैरनुकूजद्भिर्वनेषु मधुगन्धिषु || ||

गिरिप्रस्थेषु रम्येषु पुष्पवद्भिर्मनोरमैः |
संसक्तशिखरा शैला विराजन्ति महाद्रुमैः || १०||

पुष्पिताग्रांश्च पश्येमान्कर्णिकारान्समन्ततः |
हाटकप्रतिसञ्चन्नान्नरान्पीताम्बरानिव || ११||

अयं वसन्तः सौमित्रे नानाविहगनादितः |
सीतया विप्रहीणस्य शोकसन्दीपनो मम || १२||

मां हि शोकसमाक्रान्तं सन्तापयति मन्मथः |
हृष्टः प्रवदमानश्च समाह्वयति कोकिलः || १३||

एष दात्यूहको हृष्टो रम्ये मां वननिर्झरे |
प्रणदन्मन्मथाविष्टं शोचयिष्यति लक्ष्मण || १४||

विमिश्रा विहगाः पुम्भिरात्मव्यूहाभिनन्दिताः |
भृङ्गराजप्रमुदिताः सौमित्रे मधुरस्वराः || १५||

मां हि सा मृगशावाक्षी चिन्ताशोकबलात्कृतम् |
सन्तापयति सौमित्रे क्रूरश्चैत्रवनानिलः || १६||

शिखिनीभिः परिवृता मयूरा गिरिसानुषु |
मन्मथाभिपरीतस्य मम मन्मथवर्धनाः || १७||

पश्य लक्ष्णम नृत्यन्तं मयूरमुपनृत्यति |
शिखिनी मन्मथार्तैषा भर्तारं गिरिसानुषु || १८||

मयूरस्य वने नूनं रक्षसा हृता प्रिया |
मम त्वयं विना वासः पुष्पमासे सुदुःसहः || १९||

पश्य लक्ष्मण पुष्पाणि निष्फलानि भवन्ति मे |
पुष्पभारसमृद्धानां वनानां शिशिरात्यये || २०||

वदन्ति रावं मुदिताः शकुनाः सङ्घशः कलम् |
आह्वयन्त इवान्योन्यं कामोन्मादकरा मम || २१||

नूनं परवशा सीता सापि शोचत्यहं यथा |
श्यामा पद्मपलाशाक्षी मृदुभाषा मे प्रिया || २२||

एष पुष्पवहो वायुः सुखस्पर्शो हिमावहः |
तां विचिन्तयतः कान्तां पावकप्रतिमो मम || २३||

तां विनाथ विहङ्गोऽसौ पक्षी प्रणदितस्तदा |
वायसः पादपगतः प्रहृष्टमभिनर्दति || २४||

एष वै तत्र वैदेह्या विहगः प्रतिहारकः |
पक्षी मां तु विशालाक्ष्याः समीपमुपनेष्यति || २५||

पश्य लक्ष्मण संनादं वने मदविवर्धनम् |
पुष्पिताग्रेषु वृक्षेषु द्विजानामुपकूजताम् || २६||

सौमित्रे पश्य पम्पायाश्चित्रासु वनराजिषु |
नलिनानि प्रकाशन्ते जले तरुणसूर्यवत् || २७||

एषा प्रसन्नसलिला पद्मनीलोत्पलायता |
हंसकारण्डवाकीर्णा पम्पा सौगन्धिकायुता || २८||

चक्रवाकयुता नित्यं चित्रप्रस्थवनान्तरा |
मातङ्गमृगयूथैश्च शोभते सलिलार्थिभिः || २९||

पद्मकोशपलाशानि द्रष्टुं दृष्टिर्हि मन्यते |
सीताया नेत्रकोशाभ्यां सदृशानीति लक्ष्मण || ३०||

पद्मकेसरसंसृष्टो वृक्षान्तरविनिःसृतः |
निःश्वास इव सीताया वाति वायुर्मनोहरः || ३१||

सौमित्रे पश्य पम्पाया दक्षिणे गिरिसानुनि |
पुष्पितां कर्णिकारस्य यष्टिं परमशोभनाम् || ३२||

अधिकं शैलराजोऽयं धातुभिस्तु विभूषितः |
विचित्रं सृजते रेणुं वायुवेगविघट्टितम् || ३३||

गिरिप्रस्थास्तु सौमित्रे सर्वतः सम्प्रपुष्पितैः |
निष्पत्रैः सर्वतो रम्यैः प्रदीपा इव कुंशुकैः || ३४||

पम्पातीररुहाश्चेमे संसक्ता मधुगन्धिनः |
मालतीमल्लिकाषण्डाः करवीराश्च पुष्पिताः || ३५||

केतक्यः सिन्दुवाराश्च वासन्त्यश्च सुपुष्पिताः |
माधव्यो गन्धपूर्णाश्च कुन्दगुल्माश्च सर्वशः || ३६||

चिरिबिल्वा मधूकाश्च वञ्जुला बकुलास्तथा |
चम्पकास्तिलकाश्चैव नागवृक्षाश्च पुष्पिताः || ३७||

नीपाश्च वरणाश्चैव खर्जूराश्च सुपुष्पिताः |
अङ्कोलाश्च कुरण्टाश्च चूर्णकाः पारिभद्रकाः || ३८||

चूताः पाटलयश्चैव कोविदाराश्च पुष्पिताः |
मुचुकुन्दार्जुनाश्चैव दृश्यन्ते गिरिसानुषु || ३९||

केतकोद्दालकाश्चैव शिरीषाः शिंशपा धवाः |
शाल्मल्यः किंशुकाश्चैव रक्ताः कुरबकास्तथा |
तिनिशा नक्त मालाश्च चन्दनाः स्यन्दनास्तथा || ४०||

विविधा विविधैः पुष्पैस्तैरेव नगसानुषु |
विकीर्णैः पीतरक्ताभाः सौमित्रे प्रस्तराः कृताः || ४१||

हिमान्ते पश्य सौमित्रे वृक्षाणां पुष्पसम्भवम् |
पुष्पमासे हि तरवः सङ्घर्षादिव पुष्पिताः || ४२||

पश्य शीतजलां चेमां सौमित्रे पुष्करायुताम् |
चक्रवाकानुचरितां कारण्डवनिषेविताम् |
प्लवैः क्रौञ्चैश्च सम्पूर्णां वराहमृगसेविताम् || ४३||

अधिकं शोभते पम्पाविकूजद्भिर्विहङ्गमैः || ४४||

दीपयन्तीव मे कामं विविधा मुदिता द्विजाः |
श्यामां चन्द्रमुखीं स्मृत्वा प्रियां पद्मनिभेक्षणाम् || ४५||

पय सानुषु चित्रेषु मृगीभिः सहितान्मृगान् |
मां पुनर्मृगशावाक्ष्या वैदेह्या विरहीकृतम् || ४६||

एवं विलपंस्तत्र शोकोपहतचेतनः |
अवेक्षत शिवां पम्पां रम्यवारिवहां शुभाम् || ४७||

निरीक्षमाणः सहसा महात्मा
सर्वं वनं निर्झरकन्दरं |
उद्विग्नचेताः सह लक्ष्मणेन
विचार्य दुःखोपहतः प्रतस्थे || ४८||

तावृष्यमूकं सहितौ प्रयातौ
सुग्रीवशाखामृगसेवितं तम् |
त्रस्तास्तु दृष्ट्वा हरयो बभूवुर्
महौजसौ राघवलक्ष्मणौ तौ || ४९||

49

49

Shri Rama and Lakshmana in his pursuit of Sugriva reaches Pampa Lake. The mesmerising and beautiful surroundings of Pampa Lake reminds of Sita to Shri Rama, who plunges into sorrowful mood.  With the Lakshmana’s consoling words, Shri Rama regains his balance and they proceed towards Rishyamuka mountain, where Sugriva was hiding.  Sugriva sees them and get frightened.

2

तौ तु दृष्ट्वा महात्मानौ भ्रातरौ रामलक्ष्मणौ |
वरायुधधरौ वीरौ सुग्रीवः शङ्कितोऽभवत् || ||

उद्विग्नहृदयः सर्वा दिशः समवलोकयन् |
व्यतिष्ठत कस्मिंश्चिद्देशे वानरपुङ्गवः || ||

नैव चक्रे मनः स्थाने वीक्षमाणो महाबलौ |
कपेः परमभीतस्य चित्तं व्यवससाद || ||

चिन्तयित्वा धर्मात्मा विमृश्य गुरुलाघवम् |
सुग्रीवः परमोद्विग्नः सर्वैरनुचरैः सह || ||

ततः सचिवेभ्यस्तु सुग्रीवः प्लवगाधिपः |
शशंस परमोद्विग्नः पश्यंस्तौ रामलक्ष्मणौ || ||

एतौ वनमिदं दुर्गं वालिप्रणिहितौ ध्रुवम् |
छद्मना चीरवसनौ प्रचरन्ताविहागतौ || ||

ततः सुग्रीवसचिवा दृष्ट्वा परमधन्विनौ |
जग्मुर्गिरितटात्तस्मादन्यच्छिखरमुत्तमम् || ||

ते क्षिप्रमभिगम्याथ यूथपा यूथपर्षभम् |
हरयो वानरश्रेष्ठं परिवार्योपतस्थिरे || ||

एकमेकायनगताः प्लवमाना गिरेर्गिरिम् |
प्रकम्पयन्तो वेगेन गिरीणां शिखराणि || ||

ततः शाखामृगाः सर्वे प्लवमाना महाबलाः |
बभञ्जुश्च नगांस्तत्र पुष्पितान्दुर्गसंश्रितान् || १०||

आप्लवन्तो हरिवराः सर्वतस्तं महागिरिम् |
मृगमार्जारशार्दूलांस्त्रासयन्तो ययुस्तदा || ११||

ततः सुग्रीवसचिवाः पर्वतेन्द्रं समाश्रिताः |
सङ्गम्य कपिमुख्येन सर्वे प्राञ्जलयः स्थिताः || १२||

ततस्तं भयसन्त्रस्तं वालिकिल्बिषशङ्कितम् |
उवाच हनुमान्वाक्यं सुग्रीवं वाक्यकोविदः || १३||

यस्मादुद्विग्नचेतास्त्वं प्रद्रुतो हरिपुङ्गव |
तं क्रूरदर्शनं क्रूरं नेह पश्यामि वालिनम् || १४||

यस्मात्तव भयं सौम्य पूर्वजात्पापकर्मणः |
नेह वाली दुष्टात्मा ते पश्याम्यहं भयम् || १५||

अहो शाखामृगत्वं ते व्यक्तमेव प्लवङ्गम |
लघुचित्ततयात्मानं स्थापयसि यो मतौ || १६||

बुद्धिविज्ञानसम्पन्न इङ्गितैः सर्वमाचर |
ह्यबुद्धिं गतो राजा सर्वभूतानि शास्ति हि || १७||

सुग्रीवस्तु शुभं वाक्यं श्रुत्वा सर्वं हनूमतः |
ततः शुभतरं वाक्यं हनूमन्तमुवाच || १८||

दीर्घबाहू विशालाक्षौ शरचापासिधारिणौ |
कस्य स्याद्भयं दृष्ट्वा एतौ सुरसुतोपमौ || १९||

वालिप्रणिहितावेतौ शङ्केऽहं पुरुषोत्तमौ |
राजानो बहुमित्राश्च विश्वासो नात्र हि क्षमः || २०||

अरयश्च मनुष्येण विज्ञेयाश्छन्नचारिणः |
विश्वस्तानामविश्वस्ताश्छिद्रेषु प्रहरन्ति हि || २१||

कृत्येषु वाली मेधावी राजानो बहुदर्शनाः |
भवन्ति परहन्तारस्ते ज्ञेयाः प्राकृतैर्नरैः || २२||

तौ त्वया प्राकृतेनैव गत्वा ज्ञेयौ प्लवङ्गम |
शङ्कितानां प्रकारैश्च रूपव्याभाषणेन || २३||

लक्षयस्व तयोर्भावं प्रहृष्टमनसौ यदि |
विश्वासयन्प्रशंसाभिरिङ्गितैश्च पुनः पुनः || २४||

ममैवाभिमुखं स्थित्वा पृच्छ त्वं हरिपुङ्गव |
प्रयोजनं प्रवेशस्य वनस्यास्य धनुर्धरौ || २५||

शुद्धात्मानौ यदि त्वेतौ जानीहि त्वं प्लवङ्गम |
व्याभाषितैर्वा रूपैर्वा विज्ञेया दुष्टतानयोः || २६||

इत्येवं कपिराजेन सन्दिष्टो मारुतात्मजः |
चकार गमने बुद्धिं यत्र तौ रामलक्ष्मणौ || २७||

तथेति सम्पूज्य वचस्तु तस्य
कपेः सुभीतस्य दुरासदस्य |
महानुभावो हनुमान्ययौ तदा
यत्र रामोऽतिबलश्च लक्ष्मणः || २८||

28

77

The frightened Sugriva becomes anxious doubting Shri Rama and Lakshmana to be the warriors sent by Vali, as Vali cannot step into that area due to the curse of Sage Matanga, to eliminate him.  Shri Hanuman consoles him and proceeds to meet Shri Rama and Lakshmana to find out their purpose of visit to that place.

3

वचो विज्ञाय हनुमान्सुग्रीवस्य महात्मनः |
पर्वतादृश्यमूकात्तु पुप्लुवे यत्र राघवौ || ||

तत्र गत्वा हनुमान्बलवान्वानरोत्तमः |
उपचक्राम तौ वाग्भिर्मृद्वीभिः सत्यविक्रमः || ||

स्वकं रूपं परित्यज्य भिक्षुरूपेण वानरः |
आबभाषे तौ वीरौ यथावत्प्रशशंस || ||

राजर्षिदेवप्रतिमौ तापसौ संशितव्रतौ |
देशं कथमिमं प्राप्तौ भवन्तौ वरवर्णिनौ || ||

त्रासयन्तौ मृगगणानन्यांश्च वनचारिणः |
पम्पातीररुहान्वृक्षान्वीक्षमाणौ समन्ततः || ||

इमां नदीं शुभजलां शोभयन्तौ तरस्विनौ |
धैर्यवन्तौ सुवर्णाभौ कौ युवां चीरवाससौ || ||

सिंहविप्रेक्षितौ वीरौ सिंहातिबलविक्रमौ |
शक्रचापनिभे चापे प्रगृह्य विपुलैर्भुजैः || ||

श्रीमन्तौ रूपसम्पन्नौ वृषभश्रेष्ठविक्रमौ |
हस्तिहस्तोपमभुजौ द्युतिमन्तौ नरर्षभौ || ||

प्रभया पर्वतेन्द्रोऽयं युवयोरवभासितः |
राज्यार्हावमरप्रख्यौ कथं देशमिहागतौ || ||

पद्मपत्रेक्षणौ वीरौ जटामण्डलधारिणौ |
अन्योन्यसदृशौ वीरौ देवलोकादिवागतौ || १०||

यदृच्छयेव सम्प्राप्तौ चन्द्रसूर्यौ वसुन्धराम् |
विशालवक्षसौ वीरौ मानुषौ देवरूपिणौ || ११||

सिंहस्कन्धौ महासत्त्वौ समदाविव गोवृषौ |
आयताश्च सुवृत्ताश्च बाहवः परिघोत्तमाः |
सर्वभूषणभूषार्हाः किमर्थं विभूषितः || १२||

उभौ योग्यावहं मन्ये रक्षितुं पृथिवीमिमाम् |
ससागरवनां कृत्स्नां विन्ध्यमेरुविभूषिताम् || १३||

इमे धनुषी चित्रे श्लक्ष्णे चित्रानुलेपने |
प्रकाशेते यथेन्द्रस्य वज्रे हेमविभूषिते || १४||

सम्पूर्णा निशितैर्बाणैर्तूणाश्च शुभदर्शनाः |
जीवितान्तकरैर्घोरैर्ज्वलद्भिरिव पन्नगैः || १५||

महाप्रमाणौ विपुलौ तप्तहाटकभूषितौ |
खड्गावेतौ विराजेते निर्मुक्तभुजगाविव || १६||

एवं मां परिभाषन्तं कस्माद्वै नाभिभाषथः || १७||

सुग्रीवो नाम धर्मात्मा कश्चिद्वानरयूथपः |
वीरो विनिकृतो भ्रात्रा जगद्भ्रमति दुःखितः || १८||

प्राप्तोऽहं प्रेषितस्तेन सुग्रीवेण महात्मना |
राज्ञा वानरमुख्यानां हनुमान्नाम वानरः || १९||

युवाभ्यां सह धर्मात्मा सुग्रीवः सख्यमिच्छति |
तस्य मां सचिवं वित्तं वानरं पवनात्मजम् || २०||

भिक्षुरूपप्रतिच्छन्नं सुग्रीवप्रियकाम्यया |
ऋश्यमूकादिह प्राप्तं कामगं कामरूपिणम् || २१||

एवमुक्त्वा तु हनुमांस्तौ वीरौ रामलक्ष्मणौ |
वाक्यज्ञौ वाक्यकुशलः पुनर्नोवाच किं चन || २२||

एतच्छ्रुत्वा वचस्तस्य रामो लक्ष्मणमब्रवीत् |
प्रहृष्टवदनः श्रीमान्भ्रातरं पार्श्वतः स्थितम् || २३||

सचिवोऽयं कपीन्द्रस्य सुग्रीवस्य महात्मनः |
तमेव काङ्क्षमाणस्य ममान्तिकमुपागतः || २४||

तमभ्यभाष सौमित्रे सुग्रीवसचिवं कपिम् |
वाक्यज्ञं मधुरैर्वाक्यैः स्नेहयुक्तमरिन्दमम् || २५||

25

102

Shri Hanuman approaches them and gets impressed with them and reveals his identity and asks them their purpose of visit to that place.  Lakshmana explains their purpose of visit.

इत्यार्षे श्री रामायणे किष्किन्धाकाण्डे प्रथम: भाग:

 

Introduction to Kiṣkindhākāṇḍa

Kiṣkindhākāṇḍa Part-2

No comments:

Post a Comment