Monday, December 29, 2025

किष्किन्धाकाण्ड - Kiṣkindhākāṇḍa (भाग - २ ;;; Part – 2)

 

किष्किन्धाकाण्ड - Kiṣkindhākāṇḍa (भाग - ;;; Part – 2)

Sarga number as per Ramayana

Shlokas extracted

No. of shlokas

Cumulative number of shlokas in this Kanda

4

ततः प्रहृष्टो हनुमान्कृत्यवानिति तद्वचः |
श्रुत्वा मधुरसम्भाषं सुग्रीवं मनसा गतः || १||

भव्यो राज्यागमस्तस्य सुग्रीवस्य महात्मनः |
यदयं कृत्यवान्प्राप्तः कृत्यं चैतदुपागतम् || २||

ततः परमसंहृष्टो हनूमान्प्लवगर्षभः |
प्रत्युवाच ततो वाक्यं रामं वाक्यविशारदः || ३||

किमर्थं त्वं वनं घोरं पम्पाकाननमण्डितम् |
आगतः सानुजो दुर्गं नानाव्यालमृगायुतम् || ४||

तस्य तद्वचनं श्रुत्वा लक्ष्मणो रामचोदितः |
आचचक्षे महात्मानं रामं दशरथात्मजम् || ५||

राजा दशरथो नाम द्युतिमान्धर्मवत्सलः |
तस्यायं पूर्वजः पुत्रो रामो नाम जनैः श्रुतः || ६||

शरण्यः सर्वभूतानां पितुर्निर्देशपारगः |
वीरो दशरथस्यायं पुत्राणां गुणवत्तरः || ७||

राज्याद्भ्रष्टो वने वस्तुं मया सार्धमिहागतः |
भार्यया च महातेजाः सीतयानुगतो वशी |
दिनक्षये महातेजाः प्रभयेव दिवाकरः || ८||

अहमस्यावरो भ्राता गुणैर्दास्यमुपागतः |
कृतज्ञस्य बहुज्ञस्य लक्ष्मणो नाम नामतः || ९||

सुखार्हस्य महार्हस्य सर्वभूतहितात्मनः |
ऐश्वर्येण विहीनस्य वनवासाश्रितस्य च || १०||

रक्षसापहृता भार्या रहिते कामरूपिणा |
तच्च न ज्ञायते रक्षः पत्नी येनास्य सा हृता || ११||

दनुर्नाम श्रियः पुत्रः शापाद्राक्षसतां गतः |
आख्यातस्तेन सुग्रीवः समर्थो वानराधिपः || १२||

स ज्ञास्यति महावीर्यस्तव भार्यापहारिणम् |
एवमुक्त्वा दनुः स्वर्गं भ्राजमानो गतः सुखम् || १३||

एतत्ते सर्वमाख्यातं याथातथ्येन पृच्छतः |
अहं चैव हि रामश्च सुग्रीवं शरणं गतौ || १४||

एष दत्त्वा च वित्तानि प्राप्य चानुत्तमं यशः |
लोकनाथः पुरा भूत्वा सुग्रीवं नाथमिच्छति || १५||

शोकाभिभूते रामे तु शोकार्ते शरणं गते |
कर्तुमर्हति सुग्रीवः प्रसादं सह यूथपैः || १६||

एवं ब्रुवाणं सौमित्रिं करुणं साश्रुपातनम् |
हनूमान्प्रत्युवाचेदं वाक्यं वाक्यविशारदः || १७||

ईदृशा बुद्धिसम्पन्ना जितक्रोधा जितेन्द्रियाः |
द्रष्टव्या वानरेन्द्रेण दिष्ट्या दर्शनमागताः || १८||

स हि राज्याच्च विभ्रष्टः कृतवैरश्च वालिना |
हृतदारो वने त्रस्तो भ्रात्रा विनिकृतो भृशम् || १९||

करिष्यति स साहाय्यं युवयोर्भास्करात्मजः |
सुग्रीवः सह चास्माभिः सीतायाः परिमार्गणे || २०||

इत्येवमुक्त्वा हनुमाञ्श्लक्ष्णं मधुरया गिरा |
बभाषे सोऽभिगच्छामः सुग्रीवमिति राघवम् || २१||

एवं ब्रुवाणं धर्मात्मा हनूमन्तं स लक्ष्मणः |
प्रतिपूज्य यथान्यायमिदं प्रोवाच राघवम् || २२||

कपिः कथयते हृष्टो यथायं मारुतात्मजः |
कृत्यवान्सोऽपि सम्प्राप्तः कृतकृत्योऽसि राघव || २३||

प्रसन्नमुखवर्णश्च व्यक्तं हृष्टश्च भाषते |
नानृतं वक्ष्यते वीरो हनूमान्मारुतात्मजः || २४||

ततः स तु महाप्राज्ञो हनूमान्मारुतात्मजः |
जगामादाय तौ वीरौ हरिराजाय राघवौ || २५||

स तु विपुल यशाः कपिप्रवीरः
पवनसुतः कृतकृत्यवत्प्रहृष्टः |
गिरिवरमुरुविक्रमः प्रयातः
स शुभमतिः सह रामलक्ष्मणाभ्याम् || २६||

26

128

Lakshmana explains about their antecedents, Seetha's abduction and their inability to trace her whereabouts, their search for Sugreeva, as per the advice of Kabandha, to befriend him in order to take help in searching for Seetha. Shri Hanuman, who is on a similar mission to befriend Shri Rama and Sugriva, takes the two bothers on his back to the place where Sugreeva is hiding from Vali.

5

ऋश्यमूकात्तु हनुमान्गत्वा तं मलयं गिरम् |
आचचक्षे तदा वीरौ कपिराजाय राघवौ || १||

अयं रामो महाप्राज्ञः सम्प्राप्तो दृढविक्रमः |
लक्ष्मणेन सह भ्रात्रा रामोऽयं सत्यविक्रमः || २||

इक्ष्वाकूणां कुले जातो रामो दशरथात्मजः |
धर्मे निगदितश्चैव पितुर्निर्देशपालकः || ३||

तस्यास्य वसतोऽरण्ये नियतस्य महात्मनः |
रक्षसापहृता भार्या स त्वां शरणमागतः || ४||

राजसूयाश्वमेधैश्च वह्निर्येनाभितर्पितः |
दक्षिणाश्च तथोत्सृष्टा गावः शतसहस्रशः || ५||

तपसा सत्यवाक्येन वसुधा येन पालिता |
स्त्रीहेतोस्तस्य पुत्रोऽयं रामस्त्वां शरणं गतः || ६||

भवता सख्यकामौ तौ भ्रातरौ रामलक्ष्मणौ |
प्रतिगृह्यार्चयस्वेमौ पूजनीयतमावुभौ || ७||

श्रुत्वा हनुमतो वाक्यं सुग्रीवो हृष्टमानसः |
भयं स राघवाद्घोरं प्रजहौ विगतज्वरः || ८||

स कृत्वा मानुषं रूपं सुग्रीवः प्लवगाधिपः |
दर्शनीयतमो भूत्वा प्रीत्या प्रोवाच राघवम् || ९||

भवान्धर्मविनीतश्च विक्रान्तः सर्ववत्सलः |
आख्याता वायुपुत्रेण तत्त्वतो मे भवद्गुणाः || १०||

तन्ममैवैष सत्कारो लाभश्चैवोत्तमः प्रभो |
यत्त्वमिच्छसि सौहार्दं वानरेण मया सह || ११||

रोचते यदि वा सख्यं बाहुरेष प्रसारितः |
गृह्यतां पाणिना पाणिर्मर्यादा वध्यतां ध्रुवा || १२||

एतत्तु वचनं श्रुत्वा सुग्रीवस्य सुभाषितम् |
सम्प्रहृष्टमना हस्तं पीडयामास पाणिना |
हृद्यं सौहृदमालम्ब्य पर्यष्वजत पीडितम् || १३||

ततो हनूमान्सन्त्यज्य भिक्षुरूपमरिन्दमः |
काष्ठयोः स्वेन रूपेण जनयामास पावकम् || १४||

दीप्यमानं ततो वह्निं पुष्पैरभ्यर्च्य सत्कृतम् |
तयोर्मध्ये तु सुप्रीतो निदधे सुसमाहितः || १५||

ततोऽग्निं दीप्यमानं तौ चक्रतुश्च प्रदक्षिणम् |
सुग्रीवो राघवश्चैव वयस्यत्वमुपागतौ || १६||

ततः सुप्रीत मनसौ तावुभौ हरिराघवौ |
अन्योन्यमभिवीक्षन्तौ न तृप्तिमुपजग्मतुः || १७||

सीत कपीन्द्र क्षणदा चराणाम्

राजीव हेम ज्वलनोपमानानि |

सुग्रीव राम प्रणय पसङ्गे

वामानि नेत्राणि समम् स्फुरन्ति || १८||

18

156

Shri Hanuman introduces Shri Rama and Lakshmana to Sugreeva, and advises him to befriend Shri Rama. Accordingly, Shri Rama and Sugreeva take the oath of friendship before an altar of fire and Shri Rama assures to eliminate Vali and Sugriva promises to assist in searching for Sita, when he becomes the king of Vanaras.

6

अयमाख्याति मे राम सचिवो मन्त्रिसत्तमः |
हनुमान्यन्निमित्तं त्वं निर्जनं वनमागतः || १||

लक्ष्मणेन सह भ्रात्रा वसतश् च वने तव |
रक्षसापहृता भार्या मैथिली जनकात्मजा || २||

त्वया वियुक्ता रुदती लक्ष्मणेन च धीमता |
अन्तरं प्रेप्सुना तेन हत्वा गृध्रं जटायुषम् || ३||

भार्यावियोगजं दुःखं नचिरात्त्वं विमोक्ष्यसे |
अहं तामानयिष्यामि नष्टां वेदश्रुतिं यथा || ४||

रसातले वा वर्तन्तीं वर्तन्तीं वा नभस्तले |
अहमानीय दास्यामि तव भार्यामरिन्दम || ५||

इदं तथ्यं मम वचस्त्वमवेहि च राघव |
त्यज शोकं महाबाहो तां कान्तामानयामि ते || ६||

अनुमानात्तु जानामि मैथिली सा न संशयः |
ह्रियमाणा मया दृष्टा रक्षसा क्रूरकर्मणा || ७||

क्रोशन्ती राम रामेति लक्ष्मणेति च विस्वरम् |
स्फुरन्ती रावणस्याङ्के पन्नगेन्द्रवधूर्यथा || ८||

आत्मना पञ्चमं मां हि दृष्ट्वा शैलतटे स्थितम् |
उत्तरीयं तया त्यक्तं शुभान्याभरणानि च || ९||

तान्यस्माभिर्गृहीतानि निहितानि च राघव |
आनयिष्याम्यहं तानि प्रत्यभिज्ञातुमर्हसि || १०||

तमब्रवीत्ततो रामः सुग्रीवं प्रियवादिनम् |
आनयस्व सखे शीघ्रं किमर्थं प्रविलम्बसे || ११||

एवमुक्तस्तु सुग्रीवः शैलस्य गहनां गुहाम् |
प्रविवेश ततः शीघ्रं राघवप्रियकाम्यया || १२||

उत्तरीयं गृहीत्वा तु शुभान्याभरणानि च |
इदं पश्येति रामाय दर्शयामास वानरः || १३||

ततो गृहीत्वा तद्वासः शुभान्याभरणानि च |
अभवद्बाष्पसंरुद्धो नीहारेणेव चन्द्रमाः || १४||

सीतास्नेहप्रवृत्तेन स तु बाष्पेण दूषितः |
हा प्रियेति रुदन्धैर्यमुत्सृज्य न्यपतत्क्षितौ || १५||

हृदि कृत्वा स बहुशस्तमलङ्कारमुत्तमम् |
निशश्वास भृशं सर्पो बिलस्थ इव रोषितः || १६||

अविच्छिन्नाश्रुवेगस्तु सौमित्रिं वीक्ष्य पार्श्वतः |
परिदेवयितुं दीनं रामः समुपचक्रमे || १७||

पश्य लक्ष्मण वैदेह्या सन्त्यक्तं ह्रियमाणया |
उत्तरीयमिदं भूमौ शरीराद्भूषणानि च || १८||

शाद्वलिन्यां ध्रुवं भूम्यां सीतया ह्रियमाणया |
उत्सृष्टं भूषणमिदं तथारूपं हि दृश्यते || १९||

ब्रूहि सुग्रीव कं देशं ह्रियन्ती लक्षिता त्वया |
रक्षसा रौद्ररूपेण मम प्राणसमा प्रिया || २०||

क्व वा वसति तद्रक्षो महद्व्यसनदं मम |
यन्निमित्तमहं सर्वान्नाशयिष्यामि राक्षसान् || २१||

हरता मैथिलीं येन मां च रोषयता भृशम् |
आत्मनो जीवितान्ताय मृत्युद्वारमपावृतम् || २२||

मम दयिततमा हृता वनाद्
रजनिचरेण विमथ्य येन सा |
कथय मम रिपुं तमद्य वै
प्रवगपते यमसंनिधिं नयामि || २३||

23

179

Sugriva informs Shri Rama witnessing of a woman being carried away by a demon in the sky and says that the lady while being abducted has dropped her ornaments wrapping in her upper cloth at their place atop the mountain. Then Sugriva shows the ornaments to Shri Rama asking him to identify them. Shri Rama recognises the ornaments and the upper cloth of Seetha.

7

एवमुक्तस्तु सुग्रीवो रामेणार्तेन वानरः |
अब्रवीत्प्राञ्जलिर्वाक्यं सबाष्पं बाष्पगद्गदः || १||

न जाने निलयं तस्य सर्वथा पापरक्षसः |
सामर्थ्यं विक्रमं वापि दौष्कुलेयस्य वा कुलम् || २||

सत्यं तु प्रतिजानामि त्यज शोकमरिन्दम |
करिष्यामि तथा यत्नं यथा प्राप्स्यसि मैथिलीम् || ३||

रावणं सगणं हत्वा परितोष्यात्मपौरुषम् |
तथास्मि कर्ता नचिराद्यथा प्रीतो भविष्यसि || ४||

अलं वैक्लव्यमालम्ब्य धैर्यमात्मगतं स्मर |
त्वद्विधानां न सदृशमीदृशं बुद्धिलाघवम् || ५||

मयापि व्यसनं प्राप्तं भार्या हरणजं महत् |
न चाहमेवं शोचामि न च धैर्यं परित्यजे || ६||

नाहं तामनुशोचामि प्राकृतो वानरोऽपि सन् |
महात्मा च विनीतश्चा किं पुनर्धृतिमान्भवान् || ७||

बाष्पमापतितं धैर्यान्निग्रहीतुं त्वमर्हसि |
मर्यादां सत्त्वयुक्तानां धृतिं नोत्स्रष्टुमर्हसि || ८||

व्यसने वार्थ कृच्छ्रे वा भये वा जीवितान्तगे |
विमृशन्वै स्वया बुद्ध्या धृतिमान्नावसीदति || ९||

बालिशस्तु नरो नित्यं वैक्लव्यं योऽनुवर्तते |
स मज्जत्यवशः शोके भाराक्रान्तेव नौर्जले || १०||

एषोऽञ्जलिर्मया बद्धः प्रणयात्त्वां प्रसादये |
पौरुषं श्रय शोकस्य नान्तरं दातुमर्हसि || ११||

ये शोकमनुवर्तन्ते न तेषां विद्यते सुखम् |
तेजश्च क्षीयते तेषां न त्वं शोचितुमर्हसि || १२||

हितं वयस्य भावेन ब्रूहि नोपदिशामि ते |
वयस्यतां पूजयन्मे न त्वं शोचितुमर्हसि || १३||

मधुरं सान्त्वितस्तेन सुग्रीवेण स राघवः |
मुखमश्रुपरिक्लिन्नं वस्त्रान्तेन प्रमार्जयत् || १४||

प्रकृतिष्ठस्तु काकुत्स्थः सुग्रीववचनात्प्रभुः |
सम्परिष्वज्य सुग्रीवमिदं वचनमब्रवीत् || १५||

कर्तव्यं यद्वयस्येन स्निग्धेन च हितेन च |
अनुरूपं च युक्तं च कृतं सुग्रीव तत्त्वया || १६||

एष च प्रकृतिष्ठोऽहमनुनीतस्त्वया सखे |
दुर्लभो हीदृशो बन्धुरस्मिन्काले विशेषतः || १७||

किं तु यत्नस्त्वया कार्यो मैथिल्याः परिमार्गणे |
राक्षसस्य च रौद्रस्य रावणस्य दुरात्मनः || १८||

मया च यदनुष्ठेयं विस्रब्धेन तदुच्यताम् |
वर्षास्विव च सुक्षेत्रे सर्वं सम्पद्यते तव || १९||

मया च यदिदं वाक्यमभिमानात्समीरितम् |
तत्त्वया हरिशार्दूल तत्त्वमित्युपधार्यताम् || २०||

अनृतं नोक्तपूर्वं मे न च वक्ष्ये कदा चन |
एतत्ते प्रतिजानामि सत्येनैव शपामि ते || २१||

ततः प्रहृष्टः सुग्रीवो वानरैः सचिवैः सह |
राघवस्य वचः श्रुत्वा प्रतिज्ञातं विशेषतः || २२||

महानुभावस्य वचो निशम्य
हरिर्नराणामृषभस्य तस्य |
कृतं स मेने हरिवीर मुख्यस्
तदा स्वकार्यं हृदयेन विद्वान् || २३||

23

202

Sugriva consoles Shri Rama and advises him to come out of his emotional mood at the loss of Seetha. Shri Rama recovering from his emotional state, promises Sugreeva to eliminate Vali.

इत्यार्षे श्री रामायणे किष्किन्धाकाण्डे द्वितीय: भाग:

 

Kiṣkindhākāṇḍa Part-1

Kiṣkindhākāṇḍa Part-3

 

No comments:

Post a Comment