Tuesday, December 30, 2025

किष्किन्धाकाण्ड - Kiṣkindhākāṇḍa (भाग - १० ;;; Part – 10)

 

किष्किन्धाकाण्ड - Kiṣkindhākāṇḍa (भाग - १० ;;; Part – 10)

Sarga number as per Ramayana

Shlokas extracted

No. of shlokas

Cumulative number of shlokas in this Kanda

30

गुहां प्रविष्टे सुग्रीवे विमुक्ते गगने घनैः |
वर्षरात्रोषितो रामः कामशोकाभिपीडितः || १||

पाण्डुरं गगनं दृष्ट्वा विमलं चन्द्रमण्डलम् |
शारदीं रजनीं चैव दृष्ट्वा ज्योत्स्नानुलेपनाम् || २||

कामवृत्तं च सुग्रीवं नष्टां च जनकात्मजाम् |
बुद्ध्वा कालमतीतं च मुमोह परमातुरः || ३||

स तु संज्ञामुपागम्य मुहूर्तान्मतिमान्पुनः |
मनःस्थामपि वैदेहीं चिन्तयामास राघवः || ४||

आसीनः पर्वतस्याग्रे हेमधातुविभूषिते |
शारदं गगनं दृष्ट्व जगाम मनसा प्रियाम् || ५||

दृष्ट्वा च विमलं व्योम गतविद्युद्बलाहकम् |
सारसारवसङ्घुष्टं विललापार्तया गिरा || ६||

सारसारवसंनादैः सारसारवनादिनी |
याश्रमे रमते बाला साद्य मे रमते कथम् || ७||

पुष्पितांश्चासनान्दृष्ट्वा काञ्चनानिव निर्मलान् |
कथं स रमते बाला पश्यन्ती मामपश्यती || ८||

या पुरा कलहंसानां स्वरेण कलभाषिणी |
बुध्यते चारुसर्वाङ्गी साद्य मे बुध्यते कथम् || ९||

निःस्वनं चक्रवाकानां निशम्य सहचारिणाम् |
पुण्डरीकविशालाक्षी कथमेषा भविष्यति || १०||

सरांसि सरितो वापीः काननानि वनानि च |
तां विना मृगशावाक्षीं चरन्नाद्य सुखं लभे || ११||

अपि तां मद्वियोगाच्च सौकुमार्याच्च भामिनीम् |
न दूरं पीडयेत्कामः शरद्गुणनिरन्तरः || १२||

एवमादि नरश्रेष्ठो विललाप नृपात्मजः |
विहङ्ग इव सारङ्गः सलिलं त्रिदशेश्वरात् || १३||

ततश्चञ्चूर्य रम्येषु फलार्थी गिरिसानुषु |
ददर्श पर्युपावृत्तो लक्ष्मीवाँल्लक्ष्मणोऽग्रजम् || १४||

तं चिन्तया दुःसहया परीतं
विसंज्ञमेकं विजने मनस्वी |
भ्रातुर्विषादात्परितापदीनः
समीक्ष्य सौमित्रिरुवाच रामम् || १५||

किमार्य कामस्य वशङ्गतेन
किमात्मपौरुष्यपराभवेन |
अयं सदा संहृइयते समाधिः
किमत्र योगेन निवर्तितेन || १६||

क्रियाभियोगं मनसः प्रसादं
समाधियोगानुगतं च कालम् |
सहायसामर्थ्यमदीनसत्त्व
स्वकर्महेतुं च कुरुष्व हेतुम् || १७||

न जानकी मानववंशनाथ
त्वया सनाथा सुलभा परेण |
न चाग्निचूडां ज्वलिताम् उपेत्य
न दह्यते वीरवरार्ह कश् चित् || १८||

सलक्ष्मणं लक्ष्मणमप्रधृष्यं
स्वभावजं वाक्यमुवाच रामः |
हितं च पथ्यं च नयप्रसक्तं
ससामधर्मार्थसमाहितं च || १९||

निःसंशयं कार्यमवेक्षितव्यं
क्रियाविशेषो ह्यनुवर्तितव्यः |
ननु प्रवृत्तस्य दुरासदस्य
कुमारकार्यस्य फलं न चिन्त्यम् || २०||

अथ पद्मपलाशाक्षीं मैथिलीम् अनुचिन्तयन् |
उवाच लक्ष्मणं रामो मुखेन परिशुष्यता || २१||

तर्पयित्वा सहस्राक्षः सलिलेन वसुन्धराम् |
निर्वर्तयित्वा सस्यानि कृतकर्मा व्यवस्थितः || २२||

स्निग्धगम्भीरनिर्घोषाः शैलद्रुमपुरोगमाः |
विसृज्य सलिलं मेघाः परिश्रान्ता नृपात्मज || २३||

नीलोत्पलदलश्यामः श्यामीकृत्वा दिशो दश |
विमदा इव मातङ्गाः शान्तवेगाः पयोधराः || २४||

जलगर्भा महावेगाः कुटजार्जुनगन्धिनः |
चरित्वा विरताः सौम्य वृष्टिवाताः समुद्यताः || २५||

घनानां वारणानां च मयूराणां च लक्ष्मण |
नादः प्रस्रवणानां च प्रशान्तः सहसानघ || २६||

अभिवृष्टा महामेघैर्निर्मलाश्चित्रसानवः |
अनुलिप्ता इवाभान्ति गिरयश्चन्द्ररश्मिभिः || २७||

दर्शयन्ति शरन्नद्यः पुलिनानि शनैः शनैः |
नवसङ्गमसव्रीडा जघनानीव योषितः || २८||

प्रसन्नसलिलाः सौम्य कुररीभिर्विनादिताः |
चक्रवाकगणाकीर्णा विभान्ति सलिलाशयाः || २९||

अन्योन्यबद्धवैराणां जिगीषूणां नृपात्मज |
उद्योगसमयः सौम्य पार्थिवानामुपस्थितः || ३०||

इयं सा प्रथमा यात्रा पार्थिवानां नृपात्मज |
न च पश्यामि सुग्रीवमुद्योगं वा तथाविधम् || ३१||

चत्वारो वार्षिका मासा गता वर्षशतोपमाः |
मम शोकाभितप्तस्य सौम्य सीतामपश्यतः || ३२||

प्रियाविहीने दुःखार्ते हृतराज्ये विवासिते |
कृपां न कुरुते राजा सुग्रीवो मयि लक्ष्मण || ३३||

अनाथो हृतराज्योऽयं रावणेन च धर्षितः |
दीनो दूरगृहः कामी मां चैव शरणं गतः || ३४||

इत्येतैः कारणैः सौम्य सुग्रीवस्य दुरात्मनः |
अहं वानरराजस्य परिभूतः परन्तप || ३५||

स कालं परिसङ्ख्याय सीतायाः परिमार्गणे |
कृतार्थः समयं कृत्वा दुर्मतिर्नावबुध्यते || ३६||

त्वं प्रविश्य च किष्किन्धां ब्रूहि वानरपुङ्गवम् |
मूर्खं ग्राम्य सुखे सक्तं सुग्रीवं वचनान्मम || ३७||

अर्थिनामुपपन्नानां पूर्वं चाप्युपकारिणाम् |
आशां संश्रुत्य यो हन्ति स लोके पुरुषाधमः || ३८||

शुभं वा यदि वा पापं यो हि वाक्यमुदीरितम् |
सत्येन परिगृह्णाति स वीरः पुरुषोत्तमः || ३९||

कृतार्था ह्यकृतार्थानां मित्राणां न भवन्ति ये |
तान्मृतानपि क्रव्यादः कृतघ्नान्नोपभुञ्जते || ४०||

नूनं काञ्चनपृष्ठस्य विकृष्टस्य मया रणे |
द्रष्टुमिच्छन्ति चापस्य रूपं विद्युद्गणोपमम् || ४१||

घोरं ज्यातलनिर्घोषं क्रुद्धस्य मम संयुगे |
निर्घोषमिव वज्रस्य पुनः संश्रोतुमिच्छति || ४२||

काममेवं गतेऽप्यस्य परिज्ञाते पराक्रमे |
त्वत्सहायस्य मे वीर न चिन्ता स्यान्नृपात्मज || ४३||

यदर्थमयमारम्भः कृतः परपुरञ्जय |
समयं नाभिजानाति कृतार्थः प्लवगेश्वरः || ४४||

वर्षासमयकालं तु प्रतिज्ञाय हरीश्वरः |
व्यतीतांश्चतुरो मासान्विहरन्नावबुध्यते || ४५||

सामात्यपरिषत्क्रीडन्पानमेवोपसेवते |
शोकदीनेषु नास्मासु सुग्रीवः कुरुते दयाम् || ४६||

उच्यतां गच्छ सुग्रीवस्त्वया वत्स महाबल |
मम रोषस्य यद्रूपं ब्रूयाश्चैनमिदं वचः || ४७||

न च सङ्कुचितः पन्था येन वाली हतो गतः |
समये तिष्ठ सुग्रीवमा वालिपथमन्वगाः || ४८||

एक एव रणे वाली शरेण निहतो मया |
त्वां तु सत्यादतिक्रान्तं हनिष्यामि सबान्धवम् || ४९||

तदेवं विहिते कार्ये यद्धितं पुरुषर्षभ |
तत्तद्ब्रूहि नरश्रेष्ठ त्वर कालव्यतिक्रमः || ५०||

कुरुष्व सत्यं मयि वानरेश्वर
प्रतिश्रुतं धर्ममवेक्ष्य शाश्वतम् |
मा वालिनं प्रेत्य गतो यमक्षयं
त्वमद्य पश्येर्मम चोदितैः शरैः || ५१||

स पूर्वजं तीव्रविवृद्धकोपं
लालप्यमानं प्रसमीक्ष्य दीनम् |
चकार तीव्रां मतिमुग्रतेजा
हरीश्वरमानववंशनाथः || ५२||

52

921

Autumn season, which will be conducive to lovers, arrives. In the absence of Seetha, Shri Rama feels agonised. This agony has been compounded and turning into his ire, since there are no tangible efforts on the part of Sugreeva, in assisting for the search of Seetha. Thus, Shri Rama sends Lakshmana as an envoy to Kishkindha to ascertain the efforts being made by Sugreeva.

31

स कामिनं दीनमदीनसत्त्वः
शोकाभिपन्नं समुदीर्णकोपम् |
नरेन्द्रसूनुर्नरदेवपुत्रं
रामानुजः पूर्वजमित्युवाच || १||

न वानरः स्थास्यति साधुवृत्ते
न मंस्यते कार्यफलानुषङ्गान् |
न भक्ष्यते वानरराज्यलक्ष्मीं
तथा हि नाभिक्रमतेऽस्य बुद्धिः || २||

मतिक्षयाद्ग्राम्यसुखेषु सक्तस्
तव प्रसादाप्रतिकारबुद्धिः |
हतोऽग्रजं पश्यतु वालिनं स
न राज्यमेवं विगुणस्य देयम् || ३||

न धारये कोपमुदीर्णवेगं
निहन्मि सुग्रीवमसत्यमद्य |
हरिप्रवीरैः सह वालिपुत्रो
नरेन्द्रपत्न्या विचयं करोतु || ४||

तमात्तबाणासनमुत्पतन्तं
निवेदितार्थं रणचण्डकोपम् |
उवच रामः परवीरहन्ता
स्ववेक्षितं सानुनयं च वाक्यम् || ५||

न हि वै त्वद्विधो लोके पापमेवं समाचरेत् |
पापमार्येण यो हन्ति स वीरः पुरुषोत्तमः || ६||

नेदमद्य त्वया ग्राह्यं साधुवृत्तेन लक्ष्मण |
तां प्रीतिमनुवर्तस्व पूर्ववृत्तं च सङ्गतम् || ७||

सामोपहितया वाचा रूक्षाणि परिवर्जयन् |
वक्तुमर्हसि सुग्रीवं व्यतीतं कालपर्यये || ८||

सोऽ ग्रजेनानुशिष्टार्थो यथावत्पुरुषर्षभः |
प्रविवेश पुरीं वीरो लक्ष्मणः परवीरहा || ९||

ततः शुभमतिः प्राज्ञो भ्रातुः प्रियहिते रतः |
लक्ष्मणः प्रतिसंरब्धो जगाम भवनं कपेः || १०||

शक्रबाणासनप्रख्यं धनुः कालान्तकोपमः |
प्रगृह्य गिरिशृङ्गाभं मन्दरः सानुमानिव || ११||

यथोक्तकारी वचनमुत्तरं चैव सोत्तरम् |
बृहस्पतिसमो बुद्ध्या मत्त्वा रामानुजस्तदा || १२||

कामक्रोधसमुत्थेन भ्रातुः कोपाग्निना वृतः |
प्रभञ्जन इवाप्रीतः प्रययौ लक्ष्मणस्तदा || १३||

सालतालाश्वकर्णांश्च तरसा पातयन्बहून् |
पर्यस्यन्गिरिकूटानि द्रुमानन्यांश्च वेगतः || १४||

शिलाश्च शकलीकुर्वन्पद्भ्यां गज इवाशुगः |
दूरमेकपदं त्यक्त्वा ययौ कार्यवशाद्द्रुतम् || १५||

तामपश्यद्बलाकीर्णां हरिराजमहापुरीम् |
दुर्गामिक्ष्वाकुशार्दूलः किष्किन्धां गिरिसङ्कटे || १६||

रोषात्प्रस्फुरमाणौष्ठः सुग्रीवं प्रति कल्ष्मणः |
ददर्श वानरान्भीमान्किष्किन्धाया बहिश्चरान् || १७||

शैलशृङ्गाणि शतशः प्रवृद्धांश्च महीरुहान् |
जगृहुः कुञ्जरप्रख्या वानराः पर्वतान्तरे || १८||

तान्गृहीतप्रहरणान्हरीन्दृष्ट्वा तु लक्ष्मणः |
बभूव द्विगुणं क्रुद्धो बह्विन्धन इवानलः || १९||

तं ते भयपरीताङ्गाः क्रुद्धं दृष्ट्वा प्लवङ्गमाः |
कालमृत्युयुगान्ताभं शतशो विद्रुता दिशः || २०||

ततः सुग्रीवभवनं प्रविश्य हरिपुङ्गवाः |
क्रोधमागमनं चैव लक्ष्मणस्य न्यवेदयन् || २१||

तारया सहितः कामी सक्तः कपिवृषो रहः |
न तेषां कपिवीराणां शुश्राव वचनं तदा || २२||

ततः सचिवसन्दिष्टा हरयो रोमहर्षणाः |
गिरिकुञ्जरमेघाभा नगर्या निर्ययुस्तदा || २३||

नखदंष्ट्रायुधा घोराः सर्वे विकृतदर्शनाः |
सर्वे शार्दूलदर्पाश्च सर्वे च विकृताननाः || २४||

दशनागबलाः के चित्के चिद्दशगुणोत्तराः |
के चिन्नागसहस्रस्य बभूवुस्तुल्यविक्रमाः || २५||

कृत्स्नां हि कपिभिर्व्याप्तां द्रुमहस्तैर्महाबलैः |
अपश्यल्लक्ष्मणः क्रुद्धः किष्किन्धां तां दुरासदम् || २६||

ततस्ते हरयः सर्वे प्राकारपरिखान्तरात् |
निष्क्रम्योदग्रसत्त्वास्तु तस्थुराविष्कृतं तदा || २७||

सुग्रीवस्य प्रमादं च पूर्वजं चार्तमात्मवान् |
बुद्ध्वा कोपवशं वीरः पुनरेव जगाम सः || २८||

स दीर्घोष्णमहोच्छ्वासः कोपसंरक्तलोचनः |
बभूव नरशार्दूलसधूम इव पावकः || २९||

बाणशल्यस्फुरज्जिह्वः सायकासनभोगवान् |
स्वतेजोविषसङ्घातः पञ्चास्य इव पन्नगः || ३०||

तं दीप्तमिव कालाग्निं नागेन्द्रमिव कोपितम् |
समासाद्याङ्गदस्त्रासाद्विषादमगमद्भृशम् || ३१||

सोऽङ्गदं रोषताम्राक्षः सन्दिदेश महायशाः |
सुग्रीवः कथ्यतां वत्स ममागमनमित्युत || ३२||

एष रामानुजः प्राप्तस्त्वत्सकाशमरिन्दमः |
भ्रातुर्व्यसनसन्तप्तो द्वारि तिष्ठति लक्ष्मणः || ३३||

लक्ष्मणस्य वचः श्रुत्वा शोकाविष्टोऽङ्गदोऽब्रवीत् |
पितुः समीपमागम्य सौमित्रिरयमागतः || ३४||

ते महौघनिभं दृष्ट्वा वज्राशनिसमस्वनम् |
सिंहनादं समं चक्रुर्लक्ष्मणस्य समीपतः || ३५||

तेन शब्देन महता प्रत्यबुध्यत वानरः |
मदविह्वलताम्राक्षो व्याकुलस्रग्विभूषणः || ३६||

अथाङ्गदवचः श्रुत्वा तेनैव च समागतौ |
मन्त्रिणो वानरेन्द्रस्य संमतोदारदर्शिनौ || ३७||

प्लक्षश्चैव प्रभावश्च मन्त्रिणावर्थधर्मयोः |
वक्तुमुच्चावचं प्राप्तं लक्ष्मणं तौ शशंसतुः || ३८||

प्रसादयित्वा सुग्रीवं वचनैः सामनिश्चितैः |
आसीनं पर्युपासीनौ यथा शक्रं मरुत्पतिम् || ३९||

सत्यसन्धौ महाभागौ भ्रातरौ रामलक्ष्मणौ |
वयस्य भावं सम्प्राप्तौ राज्यार्हौ राज्यदायिनौ || ४०||

तयोरेको धनुष्पाणिर्द्वारि तिष्ठति लक्ष्मणः |
यस्य भीताः प्रवेपन्ते नादान्मुञ्चन्ति वानराः || ४१||

स एष राघवभ्राता लक्ष्मणो वाक्यसारथिः |
व्यवसाय रथः प्राप्तस्तस्य रामस्य शासनात् || ४२||

तस्य मूर्ध्ना प्रणम्य त्वं सपुत्रः सह बन्धुभिः |
राजंस्तिष्ठ स्वसमये भव सत्यप्रतिश्रवः || ४३||

43

964

Lakshmana gets angered with Sugreeva but Shri Rama pacifies him and sends to Kishkindha. Lakshmana sends Angada to Sugreeva to inform about his arrival. Initially, Sugreeva could not understand the reason for Lakshmana’s anger, but later comes to senses.

इत्यार्षे श्री रामायणे किष्किन्धाकाण्डे दशम: भाग:

 

Kiṣkindhākāṇḍa Part-9

Kiṣkindhākāṇḍa Part-11

 

No comments:

Post a Comment