Tuesday, December 30, 2025

किष्किन्धाकाण्ड - Kiṣkindhākāṇḍa (भाग - ९ ;;; Part – 9)

 

किष्किन्धाकाण्ड - Kiṣkindhākāṇḍa (भाग - ;;; Part – 9)

Sarga number as per Ramayana

Shlokas extracted

No. of shlokas

Cumulative number of shlokas in this Kanda

27

अभिषिक्ते तु सुग्रीवे प्रविष्टे वानरे गुहाम् |
आजगाम सह भ्रात्रा रामः प्रस्रवणं गिरिम् || १||

शार्दूलमृगसङ्घुष्टं सिंहैर्भीमरवैर्वृतम् |
नानागुल्मलतागूढं बहुपादपसङ्कुलम् || २||

ऋक्षवानरगोपुच्छैर्मार्जारैश्च निषेवितम् |
मेघराशिनिभं शैलं नित्यं शुचिजलाश्रयम् || ३||

तस्य शैलस्य शिखरे महतीमायतां गुहाम् |
प्रत्यगृह्णत वासार्थं रामः सौमित्रिणा सह || ४||

अवसत्तत्र धर्मात्मा राघवः सहलक्ष्मणः |
बहुदृश्यदरीकुञ्जे तस्मिन्प्रस्रवणे गिरौ || ५||

सुसुखेऽपि बहुद्रव्ये तस्मिन्हि धरणीधरे |
वसतस्तस्य रामस्य रतिरल्पापि नाभवत् |
हृतां हि भार्यां स्मरतः प्राणेभ्योऽपि गरीयसीम् || ६||

उदयाभ्युदितं दृष्ट्वा शशाङ्कं च विशेषतः |
आविवेश न तं निद्रा निशासु शयनं गतम् || ७||

तत्समुत्थेन शोकेन बाष्पोपहतचेतसं |
तं शोचमानं काकुत्स्थं नित्यं शोकपरायणम् |
तुल्यदुःखोऽब्रवीद्भ्राता लक्ष्मणोऽनुनयन्वचः || ८||

अलं वीर व्यथां गत्वा न त्वं शोचितुमर्हसि |
शोचतो ह्यवसीदन्ति सर्वार्था विदितं हि ते || ९||

भवान्क्रियापरो लोके भवान्देवपरायणः |
आस्तिको धर्मशीलश्च व्यवसायी च राघव || १०||

न ह्यव्यवसितः शत्रुं राक्षसं तं विशेषतः |
समर्थस्त्वं रणे हन्तुं विक्रमैर्जिह्मकारिणम् || ११||

समुन्मूलय शोकं त्वं व्यवसायं स्थिरं कुरु |
ततः सपरिवारं तं निर्मूलं कुरु राक्षसं || १२||

पृथिवीमपि काकुत्स्थ ससागरवनाचलाम् |
परिवर्तयितुं शक्तः किमङ्ग पुन रावणम् || १३||

अहं तु खलु ते वीर्यं प्रसुप्तं प्रतिबोधये |
दीप्तैराहुतिभिः काले भस्मच्छन्नमिवानलम् || १४||

लक्ष्मणस्य तु तद्वाक्यं प्रतिपूज्य हितं शुभम् |
राघवः सुहृदं स्निग्धमिदं वचनमब्रवीत् || १५||

वाच्यं यदनुरक्तेन स्निग्धेन च हितेन च |
सत्यविक्रम युक्तेन तदुक्तं लक्ष्मण त्वया || १६||

एष शोकः परित्यक्तः सर्वकार्यावसादकः |
विक्रमेष्वप्रतिहतं तेजः प्रोत्साहयाम्यहम् || १७||

शरत्कालं प्रतीक्षेऽहमियं प्रावृडुपस्थिता |
ततः सराष्ट्रं सगणं राक्षसं तं निहन्म्यहम् || १८||

लक्ष्मणस्य तु तद्वाक्यं प्रतिपूज्य हितं शुभम् |
राघवस्सुहृदं स्निग्धमिदं वचनमब्रवीत्|| १९||

वाच्यं यदनुरक्तेन स्निग्धेन च हितेन च।

सत्यविक्रमयुक्तेन तदुक्तं लक्ष्मण त्वया|| २०||

एष शोकः परित्यक्तस्सर्वकार्यावसादकः।

विक्रमेष्वप्रतिहतं तेजः प्रोत्साहयाम्यहम्|| २१||

21

791

After Sugreeva's coronation as the king of Vanara Kingdom, rainy season arrives. Shri Rama and Lakshmana spend their time on Prasavana mountain during rainy season.

28

स तदा वालिनं हत्वा सुग्रीवमभिषिच्य च |
वसन्माल्यवतः पृष्टे रामो लक्ष्मणमब्रवीत् || १||

अयं स कालः सम्प्राप्तः समयोऽद्य जलागमः |
सम्पश्य त्वं नभो मेघैः संवृतं गिरिसंनिभैः || २||

नव मास धृतं गर्भं भास्कारस्य गभस्तिभिः |
पीत्वा रसं समुद्राणां द्यौः प्रसूते रसायनम् || ३||

शक्यमम्बरमारुह्य मेघसोपानपङ्क्तिभिः |
कुटजार्जुनमालाभिरलङ्कर्तुं दिवाकरम् || ४||

सन्ध्यारागोत्थितैस्ताम्रैरन्तेष्वधिकपाण्डुरैः |
स्निग्धैरभ्रपटच्छदैर्बद्धव्रणमिवाम्बरम् || ५||

मन्दमारुतनिःश्वासं सन्ध्याचन्दनरञ्जितम् |
आपाण्डुजलदं भाति कामातुरमिवाम्बरम् || ६||

एषा धर्मपरिक्लिष्टा नववारिपरिप्लुता |
सीतेव शोकसन्तप्ता मही बाष्पं विमुञ्चति || ७||

मेघोदरविनिर्मुक्ताः कह्लारसुखशीतलाः |
शक्यमञ्जलिभिः पातुं वाताः केतकिगन्धिनः || ८||

एष फुल्लार्जुनः शैलः केतकैरधिवासितः |
सुग्रीव इव शान्तारिर्धाराभिरभिषिच्यते || ९||

मेघकृष्णाजिनधरा धारायज्ञोपवीतिनः |
मारुतापूरितगुहाः प्राधीता इव पर्वताः || १०||

कशाभिरिव हैमीभिर्विद्युद्भिरिव ताडितम् |
अन्तःस्तनितनिर्घोषं सवेदनमिवाम्बरम् || ११||

नीलमेघाश्रिता विद्युत्स्फुरन्ती प्रतिभाति मे |
स्फुरन्ती रावणस्याङ्के वैदेहीव तपस्विनी || १२||

इमास्ता मन्मथवतां हिताः प्रतिहता दिशः |
अनुलिप्ता इव घनैर्नष्टग्रहनिशाकराः || १३||

क्व चिद्बाष्पाभिसंरुद्धान्वर्षागमसमुत्सुकान् |
कुटजान्पश्य सौमित्रे पुष्टितान्गिरिसानुषु |
मम शोकाभिभूतस्य कामसन्दीपनान्स्थितान् || १४||

रजः प्रशान्तं सहिमोऽद्य वायुर्
निदाघदोषप्रसराः प्रशान्ताः |
स्थिता हि यात्रा वसुधाधिपानां
प्रवासिनो यान्ति नराः स्वदेशान् || १५||

सम्प्रस्थिता मानसवासलुब्धाः
प्रियान्विताः सम्प्रति चक्रवाकः |
अभीक्ष्णवर्षोदकविक्षतेषु
यानानि मार्गेषु न सम्पतन्ति || १६||

क्व चित्प्रकाशं क्व चिदप्रकाशं
नभः प्रकीर्णाम्बुधरं विभाति |
क्व चित्क्व चित्पर्वतसंनिरुद्धं
रूपं यथा शान्तमहार्णवस्य || १७||

व्यामिश्रितं सर्जकदम्बपुष्पैर्
नवं जलं पर्वतधातुताम्रम् |
मयूरकेकाभिरनुप्रयातं
शैलापगाः शीघ्रतरं वहन्ति || १८||

रसाकुलं षट्पदसंनिकाशं
प्रभुज्यते जम्बुफलं प्रकामम् |
अनेकवर्णं पवनावधूतं
भूमौ पतत्याम्रफलं विपक्वम् || १९||

विद्युत्पताकाः सबलाक मालाः
शैलेन्द्रकूटाकृतिसंनिकाशाः |
गर्जन्ति मेघाः समुदीर्णनादा
मत्तगजेन्द्रा इव संयुगस्थः || २०||

मेघाभिकामी परिसम्पतन्ती
संमोदिता भाति बलाकपङ्क्तिः |
वातावधूता वरपौण्डरीकी
लम्बेव माला रचिताम्बरस्य || २१||

निद्रा शनैः केशवमभ्युपैति
द्रुतं नदी सागरमभ्युपैति |
हृष्टा बलाका घनमभ्युपैति
कान्ता सकामा प्रियमभ्युपैति || २२||

जाता वनान्ताः शिखिसुप्रनृत्ता
जाताः कदम्बाः सकदम्बशाखाः |
जाता वृषा गोषु समानकामा
जाता मही सस्यवनाभिरामा || २३||

वहन्ति वर्षन्ति नदन्ति भान्ति
ध्यायन्ति नृत्यन्ति समाश्वसन्ति |
नद्यो घना मत्तगजा वनान्ताः
प्रियाविनीहाः शिखिनः प्लवङ्गाः || २४||

प्रहर्षिताः केतकपुष्पगन्धम्
आघ्राय हृष्टा वननिर्झरेषु |
प्रपात शब्दाकुलिता गजेन्द्राः
सार्धं मयूरैः समदा नदन्ति || २५||

धारानिपातैरभिहन्यमानाः
कदम्बशाखासु विलम्बमानाः |
क्षणार्जितं पुष्परसावगाढं
शनैर्मदं षट्चरणास्त्यजन्ति || २६||

अङ्गारचूर्णोत्करसंनिकाशैः
फलैः सुपर्याप्त रसैः समृद्धैः |
जम्बूद्रुमाणां प्रविभान्ति शाखा
निलीयमाना इव षट्पदौघैः || २७||

तडित्पताकाभिरलङ्कृतानाम्
उदीर्णगम्भीरमहारवाणाम् |
विभान्ति रूपाणि बलाहकानां
रणोद्यतानामिव वारणानाम् || २८||

मार्गानुगः शैलवनानुसारी
सम्प्रस्थितो मेघरवं निशम्य |
युद्धाभिकामः प्रतिनागशङ्की
मत्तो गजेन्द्रः प्रतिसंनिवृत्तः || २९||

मुक्तासकाशं सलिलं पतद्वै
सुनिर्मलं पत्रपुटेषु लग्नम् |
हृष्टा विवर्णच्छदना विहङ्गाः
सुरेन्द्रदत्तं तृषिताः पिबन्ति || ३०||

नीलेषु नीला नववारिपूर्णा
मेघेषु मेघाः प्रविभान्ति सक्ताः |
दवाग्निदग्धेषु दवाग्निदग्धाः
शैलेषु शैला इव बद्धमूलाः || ३१||

मत्ता गजेन्द्रा मुदिता गवेन्द्रा
वनेषु विश्रान्ततरा मृगेन्द्राः |
रम्या नगेन्द्रा निभृता नगेन्द्राः
प्रक्रीडितो वारिधरैः सुरेन्द्रः || ३२||

वृत्ता यात्रा नरेन्द्राणां सेना प्रतिनिवर्तते |
वैराणि चैव मार्गाश्च सलिलेन समीकृताः || ३३||

मासि प्रौष्ठपदे ब्रह्म ब्राह्मणानां विवक्षताम् |
अयमध्यायसमयः सामगानामुपस्थितः || ३४||

निवृत्तकर्मायतनो नूनं सञ्चितसञ्चयः |
आषाढीमभ्युपगतो भरतः कोषकाधिपः || ३५||

नूनमापूर्यमाणायाः सरय्वा वधते रयः |
मां समीक्ष्य समायान्तमयोध्याया इव स्वनः || ३६||

इमाः स्फीतगुणा वर्षाः सुग्रीवः सुखमश्नुते |
विजितारिः सदारश्च राज्ये महति च स्थितः || ३७||

अहं तु हृतदारश्च राज्याच्च महतश्च्युतः |
नदीकूलमिव क्लिन्नमवसीदामि लक्ष्मण || ३८||

शोकश्च मम विस्तीर्णो वर्षाश्च भृशदुर्गमाः |
रावणश्च महाञ्शत्रुरपारं प्रतिभाति मे || ३९||

अयात्रां चैव दृष्ट्वेमां मार्गांश्च भृशदुर्गमान् |
प्रणते चैव सुग्रीवे न मया किं चिदीरितम् || ४०||

अपि चातिपरिक्लिष्टं चिराद्दारैः समागतम् |
आत्मकार्यगरीयस्त्वाद्वक्तुं नेच्छामि वानरम् || ४१||

स्वयमेव हि विश्रम्य ज्ञात्वा कालमुपागतम् |
उपकारं च सुग्रीवो वेत्स्यते नात्र संशयः || ४२||

तस्मात्कालप्रतीक्षोऽहं स्थितोऽस्मि शुभलक्षण |
सुग्रीवस्य नदीनां च प्रसादमनुपालयन् || ४३||

उपकारेण वीरो हि प्रतिकारेण युज्यते |
अकृतज्ञोऽप्रतिकृतो हन्ति सत्त्ववतां मनः || ४४||

अथैवमुक्तः प्रणिधाय लक्ष्मणः
कृताञ्जलिस्तत्प्रतिपूज्य भाषितम् |
उवाच रामं स्वभिराम दर्शनं
प्रदर्शयन्दर्शनमात्मनः शुभम् || ४५||

यथोक्तमेतत्तव सर्वमीप्सितं
नरेन्द्र कर्ता नचिराद्धरीश्वरः |
शरत्प्रतीक्षः क्षमतामिमं भवाञ्
जलप्रपातं रिपुनिग्रहे धृतः || ४६||

46

837

Shri Rama eulogises the rainy season for overall growth in the Nature around him.

29

समीक्ष्य विमलं व्योम गतविद्युद्बलाहकम् |
सारसारवसङ्घुष्टं रम्यज्योत्स्नानुलेपनम् || १||

समृद्धार्थं च सुग्रीवं मन्दधर्मार्थसङ्ग्रहम् |
अत्यर्थमसतां मार्गमेकान्तगतमानसं || २||

निवृत्तकार्यं सिद्धार्थं प्रमदाभिरतं सदा |
प्राप्तवन्तमभिप्रेतान्सर्वानेव मनोरथान् || ३||

स्वां च पात्नीमभिप्रेतां तारां चापि समीप्सिताम् |
विहरन्तमहोरात्रं कृतार्थं विगतज्वलम् || ४||

क्रीडन्तमिव देवेशं नन्दनेऽप्सरसां गणैः |
मन्त्रिषु न्यस्तकार्यं च मन्त्रिणामनवेक्षकम् || ५||

उत्सन्नराज्यसन्देशं कामवृत्तमवस्थितम् |
निश्चितार्थोऽर्थतत्त्वज्ञः कालधर्मविशेषवित् || ६||

प्रसाद्य वाक्यैर्मधुरैर्हेतुमद्भिर्मनोरमैः |
वाक्यविद्वाक्यतत्त्वज्ञं हरीशं मारुतात्मजः || ७||

हितं तथ्यं च पथ्यं च सामधर्मार्थनीतिमत् |
प्रणयप्रीतिसंयुक्तं विश्वासकृतनिश्चयम् |
हरीश्वरमुपागम्य हनुमान्वाक्यमब्रवीत् || ८||

राज्यं प्राप्तं यशश्चैव कौली श्रीरभिवर्थिता |
मित्राणां सङ्ग्रहः शेषस्तद्भवान्कर्तुमर्हति || ९||

यो हि मित्रेषु कालज्ञः सततं साधु वर्तते |
तस्य राज्यं च कीर्तिश्च प्रतापश्चाभिवर्धते || १०||

यस्य कोशश्च दण्डश्च मित्राण्यात्मा च भूमिप |
समवेतानि सर्वाणि स राज्यं महदश्नुते || ११||

तद्भवान्वृत्तसम्पन्नः स्थितः पथि निरत्यये |
मित्रार्थमभिनीतार्थं यथावत्कर्तुमर्हति || १२||

यस्तु कालव्यतीतेषु मित्रकार्येषु वर्तते |
स कृत्वा महतोऽप्यर्थान्न मित्रार्थेन युज्यते || १३||

क्रियतां राघवस्यैतद्वैदेह्याः परिमार्गणम् |
तदिदं वीर कार्यं ते कालातीतमरिन्दम || १४||

न च कालमतीतं ते निवेदयति कालवित् |
त्वरमाणोऽपि सन्प्राज्ञस्तव राजन्वशानुगः || १५||

कुलस्य केतुः स्फीतस्य दीर्घबन्धुश्च राघवः |
अप्रमेयप्रभावश्च स्वयं चाप्रतिमो गुणैः || १६||

तस्य त्वं कुरु वै कार्यं पूर्वं तेन कृतं तव |
हरीश्वर हरिश्रेष्ठानाज्ञापयितुमर्हसि || १७||

न हि तावद्भवेत्कालो व्यतीतश्चोदनादृते |
चोदितस्य हि कार्यस्य भवेत्कालव्यतिक्रमः || १८||

अकर्तुरपि कार्यस्य भवान्कर्ता हरीश्वर |
किं पुनः प्रतिकर्तुस्ते राज्येन च धनेन च || १९||

शक्तिमानसि विक्रान्तो वानरर्ष्क गणेश्वर |
कर्तुं दाशरथेः प्रीतिमाज्ञायां किं नु सज्जसे || २०||

कामं खलु शरैर्शक्तः सुरासुरमहोरगान् |
वशे दाशरथिः कर्तुं त्वत्प्रतिज्ञां तु काङ्क्षते || २१||

प्राणत्यागाविशङ्केन कृतं तेन तव प्रियम् |
तस्य मार्गाम वैदेहीं पृथिव्यामपि चाम्बरे || २२||

न देवा न च गन्धर्वा नासुरा न मरुद्गणाः |
न च यक्षा भयं तस्य कुर्युः किमुत राक्षसाः || २३||

तदेवं शक्तियुक्तस्य पूर्वं प्रियकृतस्तथा |
रामस्यार्हसि पिङ्गेश कर्तुं सर्वात्मना प्रियम् || २४||

नाधस्तादवनौ नाप्सु गतिर्नोपरि चाम्बरे |
कस्य चित्सज्जतेऽस्माकं कपीश्वर तवाज्ञया || २५||

तदाज्ञापय कः किं ते कृते वसतु कुत्र चित् |
हरयो ह्यप्रधृष्यास्ते सन्ति कोट्यग्रतोऽनघ || २६||

तस्य तद्वचनं श्रुत्वा काले साधुनिवेदितम् |
सुग्रीवः सत्त्वसम्पन्नश्चकार मतिमुत्तमाम् || २७||

स सन्दिदेशाभिमतं नीलं नित्यकृतोद्यमम् |
दिक्षु सर्वासु सर्वेषां सैन्यानामुपसङ्ग्रहे || २८||

यथा सेना समग्रा मे यूथपालाश्च सर्वशः |
समागच्छन्त्यसङ्गेन सेनाग्राणि तथा कुरु || २९||

ये त्वन्तपालाः प्लवगाः शीघ्रगा व्यवसायिनः |
समानयन्तु ते सैन्यं त्वरिताः शासनान्मम |
स्वयं चानन्तरं सैन्यं भवानेवानुपश्यतु || ३०||

त्रिपञ्चरात्रादूर्ध्वं यः प्राप्नुयान्नेह वानरः |
तस्य प्राणान्तिको दण्डो नात्र कार्या विचारणा || ३१||

हरींश्च वृद्धानुपयातु साङ्गदो
भवान्ममाज्ञामधिकृत्य निश्चिताम् |
इति व्यवस्थां हरिपुङ्गवेश्वरो
विधाय वेश्म प्रविवेश वीर्यवान् || ३२||

32

869

On his becoming the king of Vanaras, who for long been deprived of sensual pleasures due to his banishment by Vali, lapses into lavish enjoyment of sensual pleasures and forgot his promise to search for Seetha.

Shri Hanuman reminds Sugreeva about his duty for the requital of help rendered by Shri Rama. Remembering his duty, Sugreeva orders Nila, a commander of monkey forces, for foregathering all Vanara troops within fifteen days, and re-enters his palace-chambers, dragged by his sensual pleasures.

इत्यार्षे श्री रामायणे किष्किन्धाकाण्डे नवम: भाग:

 

Kiṣkindhākāṇḍa Part-8

Kiṣkindhākāṇḍa Part-10

 

No comments:

Post a Comment