Tuesday, December 30, 2025

किष्किन्धाकाण्ड - Kiṣkindhākāṇḍa (भाग - १२ ;;; Part – 12)

 

किष्किन्धाकाण्ड - Kiṣkindhākāṇḍa (भाग - १२ ;;; Part – 12)

Sarga number as per Ramayana

Shlokas extracted

No. of shlokas

Cumulative number of shlokas in this Kanda

36

इत्युक्तस्तारया वाक्यं प्रश्रितं धर्मसंहितम् |
मृदुस्वभावः सौमित्रिः प्रतिजग्राह तद्वचः || १||

तस्मिन्प्रतिगृहीते तु वाक्ये हरिगणेश्वरः |
लक्ष्मणात्सुमहत्त्रासं वस्त्रं क्लिन्नमिवात्यजत् || २||

ततः कण्ठगतं माल्यं चित्रं बहुगुणं महत् |
चिच्छेद विमदश्चासीत्सुग्रीवो वानरेश्वरः || ३||

स लक्ष्मणं भीमबलं सर्ववानरसत्तमः |
अब्रवीत्प्रश्रितं वाक्यं सुग्रीवः सम्प्रहर्षयन् || ४||

प्रनष्टा श्रीश्च कीर्तिश्च कपिराज्यं च शाश्वतम् |
रामप्रसादात्सौमित्रे पुनः प्राप्तमिदं मया || ५||

कः शक्तस्तस्य देवस्य ख्यातस्य स्वेन कर्मणा |
तादृशं विक्रमं वीर प्रतिकर्तुमरिन्दम || ६||

सीतां प्राप्स्यति धर्मात्मा वधिष्यति च रावणम् |
सहायमात्रेण मया राघवः स्वेन तेजसा || ७||

सहायकृत्यं हि तस्य येन सप्त महाद्रुमाः |
शैलश्च वसुधा चैव बाणेनैकेन दारिताः || ८||

धनुर्विस्फारमाणस्य यस्य शब्देन लक्ष्मण |
सशैला कम्पिता भूमिः सहायैस्तस्य किं नु वै || ९||

अनुयात्रां नरेन्द्रस्य करिष्येऽहं नरर्षभ |
गच्छतो रावणं हन्तुं वैरिणं सपुरःसरम् || १०||

यदि किं चिदतिक्रान्तं विश्वासात्प्रणयेन वा |
प्रेष्यस्य क्षमितव्यं मे न कश्चिन्नापराध्यति || ११||

इति तस्य ब्रुवाणस्य सुग्रीवस्य महात्मनः |
अभवल्लक्ष्मणः प्रीतः प्रेंणा चेदमुवाच ह || १२||

सर्वथा हि मम भ्राता सनाथो वानरेश्वर |
त्वया नाथेन सुग्रीव प्रश्रितेन विशेषतः || १३||

यस्ते प्रभावः सुग्रीव यच्च ते शौचमुत्तमम् |
अर्हस्तं कपिराज्यस्य श्रियं भोक्तुमनुत्तमाम् || १४||

सहायेन च सुग्रीव त्वया रामः प्रतापवान् |
वधिष्यति रणे शत्रूनचिरान्नात्र संशयः || १५||

धर्मज्ञस्य कृतज्ञस्य सङ्ग्रामेष्वनिवर्तिनः |
उपपन्नं च युक्तं च सुग्रीव तव भाषितम् || १६||

दोषज्ञः सति सामर्थ्ये कोऽन्यो भाषितुमर्हति |
वर्जयित्वा मम ज्येष्ठं त्वां च वानरसत्तम || १७||

सदृशश्चासि रामस्य विक्रमेण बलेन च |
सहायो दैवतैर्दत्तश्चिराय हरिपुङ्गव || १८||

किं तु शीघ्रमितो वीर निष्क्राम त्वं मया सह |
सान्त्वयस्व वयस्यं च भार्याहरणदुःखितम् || १९||

यच्च शोकाभिभूतस्य श्रुत्वा रामस्य भाषितम् |
मया त्वं परुषाण्युक्तस्तच्च त्वं क्षन्तुमर्हसि || २०||

20

1075

Upon Lakshmana getting pacified with Tara’s words, Sugreeva makes his apologetic statement and reaffirms his support to Shri Rama. Lakshmana asks Sugreeva to come to Shri Rama.

37

एवमुक्तस्तु सुग्रीवो लक्ष्मणेन महात्मना |
हनुमन्तं स्थितं पार्श्वे सचिवं वाक्यमब्रवीत् || १||

महेन्द्रहिमवद्विन्ध्यकैलासशिखरेषु च |
मन्दरे पाण्डुशिखरे पञ्चशैलेषु ये स्थिताः || २||

तरुणादित्यवर्णेषु भ्राजमानेषु सर्वशः |
पर्वतेषु समुद्रान्ते पश्चिमस्यां तु ये दिशि || ३||

आदित्यभवने चैव गिरौ सन्ध्याभ्रसंनिभे |
पद्मतालवनं भीमं संश्रिता हरिपुङ्गवाः || ४||

अञ्जनाम्बुदसङ्काशाः कुञ्जरप्रतिमौजसः |
अञ्जने परते चैव ये वसन्ति प्लवङ्गमाः || ५||

मनःशिला गुहावासा वानराः कनकप्रभाः |
मेरुपार्श्वगताश्चैव ये च धूम्रगिरिं श्रिताः || ६||

तरुणादित्यवर्णाश्च पर्वते ये महारुणे |
पिबन्तो मधुमैरेयं भीमवेगाः प्लवङ्गमाः || ७||

वनेषु च सुरम्येषु सुगन्धिषु महत्सु च |
तापसानां च रम्येषु वनान्तेषु समन्ततः || ८||

तांस्तांस्त्वमानय क्षिप्रं पृथिव्यां सर्ववानरान् |
सामदानादिभिः कल्पैराशु प्रेषय वानरान् || ९||

प्रेषिताः प्रथमं ये च मया दूता महाजवाः |
त्वरणार्थं तु भूयस्त्वं हरीन्सम्प्रेषयापरान् || १०||

ये प्रसक्ताश्च कामेषु दीर्घसूत्राश्च वानराः |
इहानयस्व तान्सर्वाञ्शीघ्रं तु मम शासनात् || ११||

अहोभिर्दशभिर्ये च नागच्छन्ति ममाज्ञया |
हन्तव्यास्ते दुरात्मानो राजशासनदूषकाः || १२||

शतान्यथ सहस्राणि कोट्यश्च मम शासनात् |
प्रयान्तु कपिसिंहानां दिशो मम मते स्थिताः || १३||

मेघपर्वतसङ्काशाश्छादयन्त इवाम्बरम् |
घोररूपाः कपिश्रेष्ठा यान्तु मच्छासनादितः || १४||

ते गतिज्ञा गतिं गत्वा पृथिव्यां सर्ववानराः |
आनयन्तु हरीन्सर्वांस्त्वरिताः शासनान्मम || १५||

तस्य वानरराजस्य श्रुत्वा वायुसुतो वचः |
दिक्षु सर्वासु विक्रान्तान्प्रेषयामास वानरान् || १६||

ते पदं विष्णुविक्रान्तं पतत्रिज्योतिरध्वगाः |
प्रयाताः प्रहिता राज्ञा हरयस्तत्क्षणेन वै || १७||

ते समुद्रेषु गिरिषु वनेषु च सरित्सु च |
वानरा वानरान्सर्वान्रामहेतोरचोदयन् || १८||

मृत्युकालोपमस्याज्ञां राजराजस्य वानराः |
सुग्रीवस्याययुः श्रुत्वा सुग्रीवभयदर्शिनः || १९||

ततस्तेऽञ्जनसङ्काशा गिरेस्तस्मान्महाजवाः |
तिस्रः कोट्यः प्लवङ्गानां निर्ययुर्यत्र राघवः || २०||

अस्तं गच्छति यत्रार्कस्तस्मिन्गिरिवरे रताः |
तप्तहेमसमाभासास्तस्मात्कोट्यो दशच्युताः || २१||

कैलास शिखरेभ्यश्च सिंहकेसरवर्चसाम् |
ततः कोटिसहस्राणि वानराणामुपागमन् || २२||

फलमूलेन जीवन्तो हिमवन्तमुपाश्रिताः |
तेषां कोटिसहस्राणां सहस्रं समवर्तत || २३||

अङ्गारक समानानां भीमानां भीमकर्मणाम् |
विन्ध्याद्वानरकोटीनां सहस्राण्यपतन्द्रुतम् || २४||

क्षीरोदवेलानिलयास्तमालवनवासिनः |
नारिकेलाशनाश्चैव तेषां सङ्ख्या न विद्यते || २५||

वनेभ्यो गह्वरेभ्यश्च सरिद्भ्यश्च महाजवाः |
आगच्छद्वानरी सेना पिबन्तीव दिवाकरम् || २६||

ये तु त्वरयितुं याता वानराः सर्ववानरान् |
ते वीरा हिमवच्छैलं ददृशुस्तं महाद्रुमम् || २७||

तस्मिन्गिरिवरे रम्ये यज्ञो महेश्वरः पुरा |
सर्वदेवमनस्तोषो बभौ दिव्यो मनोहरः || २८||

अन्नविष्यन्दजातानि मूलानि च फलानि च |
अमृतस्वादुकल्पानि ददृशुस्तत्र वानराः || २९||

तदन्न सम्भवं दिव्यं फलं मूलं मनोहरम् |
यः कश्चित्सकृदश्नाति मासं भवति तर्पितः || ३०||

तानि मूलानि दिव्यानि फलानि च फलाशनाः |
औषधानि च दिव्यानि जगृहुर्हरियूथपाः || ३१||

तस्माच्च यज्ञायतनात्पुष्पाणि सुरभीणि च |
आनिन्युर्वानरा गत्वा सुग्रीवप्रियकारणात् || ३२||

ते तु सर्वे हरिवराः पृथिव्यां सर्ववानरान् |
सञ्चोदयित्वा त्वरितं यूथानां जग्मुरग्रतः || ३३||

ते तु तेन मुहूर्तेन यूथपाः शीघ्रकारिणः |
किष्किन्धां त्वरया प्राप्ताः सुग्रीवो यत्र वानरः || ३४||

ते गृहीत्वौषधीः सर्वाः फलं मूलं च वानराः |
तं प्रतिग्राहयामासुर्वचनं चेदमब्रुवन् || ३५||

सर्वे परिगताः शैलाः समुद्राश्च वनानि च |
पृथिव्यां वानराः सर्वे शासनादुपयान्ति ते || ३६||

एवं श्रुत्वा ततो हृष्टः सुग्रीवः प्लवगाधिपः |
प्रतिजग्राह च प्रीतस्तेषां सर्वमुपायनम् || ३७||

37

1112

All the vanaras summoned earlier by Sugreeva started reaching Kishkinda and report to Sugreeva, who is with Lakshmana.

38

प्रतिगृह्य च तत्सर्वमुपानयमुपाहृतम् |
वानरान्सान्त्वयित्वा च सर्वानेव व्यसर्जयत् || १||

विसर्जयित्वा स हरीञ्शूरांस्तान्कृतकर्मणः |
मेने कृतार्थमात्मानं राघवं च महाबलम् || २||

स लक्ष्मणो भीमबलं सर्ववानरसत्तमम् |
अब्रवीत्प्रश्रितं वाक्यं सुग्रीवं सम्प्रहर्षयन् |
किष्किन्धाया विनिष्क्राम यदि ते सौम्य रोचते || ३||

तस्य तद्वचनं श्रुत्वा लक्ष्मणस्य सुभाषितम् |
सुग्रीवः परमप्रीतो वाक्यमेतदुवाच ह || ४||

एवं भवतु गच्छामः स्थेयं त्वच्छासने मया |
तमेवमुक्त्वा सुग्रीवो लक्ष्मणं शुभलक्ष्मणम् || ५||

विसर्जयामास तदा तारामन्याश्च योषितः |
एतेत्युच्चैर्हरिवरान्सुग्रीवः समुदाहरत् || ६||

तस्य तद्वचनं श्रुत्वा हरयः शीघ्रमाययुः |
बद्धाञ्जलिपुटाः सर्वे ये स्युः स्त्रीदर्शनक्षमाः || ७||

तानुवाच ततः प्राप्तान्राजार्कसदृशप्रभः |
उपस्थापयत क्षिप्रं शिबिकां मम वानराः || ८||

श्रुत्वा तु वचनं तस्य हरयः शीघ्रविक्रमाः |
समुपस्थापयामासुः शिबिकां प्रियदर्शनाम् || ९||

तामुपस्थापितां दृष्ट्वा शिबिकां वानराधिपः |
लक्ष्मणारुह्यतां शीघ्रमिति सौमित्रिमब्रवीत् || १०||

इत्युक्त्वा काञ्चनं यानं सुग्रीवः सूर्यसंनिभम् |
बृहद्भिर्हरिभिर्युक्तमारुरोह सलक्ष्मणः || ११||

पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि |
शुक्लैश्च बालव्यजनैर्धूयमानैः समन्ततः || १२||

शङ्खभेरीनिनादैश्च बन्दिभिश्चाभिवन्दितः |
निर्ययौ प्राप्य सुग्रीवो राज्यश्रियमनुत्तमाम् || १३||

स वानरशतैस्तीष्क्णैर्बहुभिः शस्त्रपाणिभिः |
परिकीर्णो ययौ तत्र यत्र रामो व्यवस्थितः || १४||

स तं देशमनुप्राप्य श्रेष्ठं रामनिषेवितम् |
अवातरन्महातेजाः शिबिकायाः सलक्ष्मणः || १५||

आसाद्य च ततो रामं कृताञ्जलिपुटोऽभवत् |
कृताञ्जलौ स्थिते तस्मिन्वानराश्चभवंस्तथा || १६||

तटाकमिव तद्दृष्ट्वा रामः कुड्मलपङ्कजम् |
वानराणां महत्सैन्यं सुग्रीवे प्रीतिमानभूत् || १७||

पादयोः पतितं मूर्ध्ना तमुत्थाप्य हरीश्वरम् |
प्रेंणा च बहुमानाच्च राघवः परिषस्वजे || १८||

परिष्वज्य च धर्मात्मा निषीदेति ततोऽब्रवीत् |
तं निषण्णं ततो दृष्ट्वा क्षितौ रामोऽब्रवीद्वचः || १९||

धर्ममर्थं च कामं च काले यस्तु निषेवते |
विभज्य सततं वीर स राजा हरिसत्तम || २०||

हित्वा धर्मं तथार्थं च कामं यस्तु निषेवते |
स वृक्षाग्रे यथा सुप्तः पतितः प्रतिबुध्यते || २१||

अमित्राणां वधे युक्तो मित्राणां सङ्ग्रहे रतः |
त्रिवर्गफलभोक्ता तु राजा धर्मेण युज्यते || २२||

उद्योगसमयस्त्वेष प्राप्तः शत्रुविनाशन |
सञ्चिन्त्यतां हि पिङ्गेश हरिभिः सह मन्त्रिभिः || २३||

एवमुक्तस्तु सुग्रीवो रामं वचनमब्रवीत् || २४||

प्रनष्टा श्रीश्च कीर्तिश्च कपिराज्यं च शाश्वतम् |
त्वत्प्रसादान्महाबाहो पुनः प्राप्तमिदं मया || २५||

तव देवप्रसदाच्च भ्रातुश्च जयतां वर |
कृतं न प्रतिकुर्याद्यः पुरुषाणां स दूषकः || २६||

एते वानरमुख्याश्च शतशः शत्रुसूदन |
प्राप्ताश्चादाय बलिनः पृथिव्यां सर्ववानरान् || २७||

ऋक्षाश्चावहिताः शूरा गोलाङ्गूलाश्च राघव |
कान्तार वनदुर्गाणामभिज्ञा घोरदर्शनाः || २८||

देवगन्धर्वपुत्राश्च वानराः कामरूपिणः |
स्वैः स्वैः परिवृताः सैन्यैर्वर्तन्ते पथि राघव || २९||

शतैः शतसहस्रैश्च कोटिभिश्च प्लवङ्गमाः |
अयुतैश्चावृता वीरा शङ्कुभिश्च परन्तप || ३०||

अर्बुदैरर्बुदशतैर्मध्यैश्चान्तैश्च वानराः |
समुद्रैश्च परार्धैश्च हरयो हरियूथपाः || ३१||

आगमिष्यन्ति ते राजन्महेन्द्रसमविक्रमाः |
मेरुमन्दरसङ्काशा विन्ध्यमेरुकृतालयाः || ३२||

ते त्वामभिगमिष्यन्ति राक्षसं ये सबान्धवम् |
निहत्य रावणं सङ्ख्ये ह्यानयिष्यन्ति मैथिलीम् || ३३||

ततस्तमुद्योगमवेक्ष्य बुद्धिमान्
हरिप्रवीरस्य निदेशवर्तिनः |
बभूव हर्षाद्वसुधाधिपात्मजः
प्रबुद्धनीलोत्पलतुल्यदर्शनः || ३४||

34

1146

Sugreeva meets Shri Rama and seeks pardon for the delay. Shri Rama mildly admonishes him. Then, Sugreeva reports that all vanaras are coming for confronting Ravana in battle and thus, Shri Rama is pleased greatly.

इत्यार्षे श्री रामायणे किष्किन्धाकाण्डे द्वादश: भाग:

 

Kiṣkindhākāṇḍa Part-11

Kiṣkindhākāṇḍa Part-13

 

No comments:

Post a Comment