Tuesday, December 30, 2025

किष्किन्धाकाण्ड - Kiṣkindhākāṇḍa (भाग - १३ ;;; Part – 13)

 

किष्किन्धाकाण्ड - Kiṣkindhākāṇḍa (भाग - १३ ;;; Part – 13)

Sarga number as per Ramayana

Shlokas extracted

No. of shlokas

Cumulative number of shlokas in this Kanda

39

इति ब्रुवाणं सुग्रीवं रामो धर्मभृतां वरः |
बाहुभ्यां सम्परिष्वज्य प्रत्युवाच कृताञ्जलिम् || १||

यदिन्द्रो वर्षते वर्षं न तच्चित्रं भवेद्भुवि |
आदित्यो वा सहस्रांशुः कुर्याद्वितिमिरं नभः || २||

चन्द्रमा रश्मिभिः कुर्यात्पृथिवीं सौम्य निर्मलाम् |
त्वद्विधो वापि मित्राणां प्रतिकुर्यात्परन्तप || ३||

एवं त्वयि न तच्चित्रं भवेद्यत्सौम्य शोभनम् |
जानाम्यहं त्वां सुग्रीव सततं प्रियवादिनम् || ४||

त्वत्सनाथः सखे सङ्ख्ये जेतास्मि सकलानरीन् |
त्वमेव मे सुहृन्मित्रं साहाय्यं कर्तुमर्हसि || ५||

जहारात्मविनाशाय वैदेहीं राक्षसाधमः |
वञ्चयित्वा तु पौलोमीमनुह्लादो यथा शचीम् || ६||

नचिरात्तं हनिष्यामि रावणं निशितैः शरैः |
पौलोम्याः पितरं दृप्तं शतक्रतुरिवारिहा || ७||

एतस्मिन्नन्तरे चैव रजः समभिवर्तत |
उष्णां तीव्रां सहस्रांशोश्छादयद्गगने प्रभाम् || ८||

दिशः पर्याकुलाश्चासन्रजसा तेन मूर्छिताः |
चचाल च मही सर्वा सशैलवनकानना || ९||

ततो नगेन्द्रसङ्काशैस्तीक्ष्ण दंष्ट्रैर्महाबलैः |
कृत्स्ना सञ्चादिता भूमिरसङ्ख्येयैः प्लवङ्गमैः || १०||

निमेषान्तरमात्रेण ततस्तैर्हरियूथपैः |
कोटीशतपरीवारैः कामरूपिभिरावृता || ११||

नादेयैः पार्वतीयैश्च सामुद्रैश्च महाबलैः |
हरिभिर्मेघनिर्ह्रादैरन्यैश्च वनचारिभिः || १२||

तरुणादित्यवर्णैश्च शशिगौरैश्च वानरैः |
पद्मकेसरवर्णैश्च श्वेतैर्मेरुकृतालयैः || १३||

कोटीसहस्रैर्दशभिः श्रीमान्परिवृतस्तदा |
वीरः शतबलिर्नाम वानरः प्रत्यदृश्यत || १४||

ततः काञ्चनशैलाभस्ताराया वीर्यवान्पिता |
अनेकैर्दशसाहस्रैः कोटिभिः प्रत्यदृश्यत || १५||

पद्मकेसरसङ्काशस्तरुणार्कनिभाननः |
बुद्धिमान्वानरश्रेष्ठः सर्ववानरसत्तमः || १६||

अनीकैर्बहुसाहस्रैर्वानराणां समन्वितः |
पिता हनुमतः श्रीमान्केसरी प्रत्यदृश्यत || १७||

गोलाङ्गूलमहाराजो गवाक्षो भीमविक्रमः |
वृतः कोटिसहस्रेण वानराणामदृश्यत || १८||

ऋक्षाणां भीमवेगानां धूम्रः शत्रुनिबर्हणः |
वृतः कोटिसहस्राभ्यां द्वाभ्यां समभिवर्तत || १९||

महाचलनिभैर्घोरैः पनसो नाम यूथपः |
आजगाम महावीर्यस्तिसृभिः कोटिभिर्वृतः || २०||

नीलाञ्जनचयाकारो नीलो नामाथ यूथपः |
अदृश्यत महाकायः कोटिभिर्दशभिर्वृतः || २१||

दरीमुखश्च बलवान्यूथपोऽभ्याययौ तदा |
वृतः कोटिसहस्रेण सुग्रीवं समुपस्थितः || २२||

मैन्दश्च द्विविदश्चोभावश्विपुत्रौ महावलौ |
कोटिकोटिसहस्रेण वानराणामदृश्यताम् || २३||

ततः कोटिसहस्राणां सहस्रेण शतेन च |
पृष्ठतोऽनुगतः प्राप्तो हरिभिर्गन्धमादनः || २४||

ततः पद्मसहस्रेण वृतः शङ्कुशतेन च |
युवराजोऽङ्गदः प्राप्तः पितृतुल्यपराक्रमः || २५||

ततस्ताराद्युतिस्तारो हरिर्भीमपराक्रमः |
पञ्चभिर्हरिकोटीभिर्दूरतः प्रत्यदृश्यत || २६||

इन्द्रजानुः कपिर्वीरो यूथपः प्रत्यदृश्यत |
एकादशानां कोटीनामीश्वरस्तैश्च संवृतः || २७||

ततो रम्भस्त्वनुप्राप्तस्तरुणादित्यसंनिभः |
अयुतेन वृतश्चैव सहस्रेण शतेन च || २८||

ततो यूथपतिर्वीरो दुर्मुखो नाम वानरः |
प्रत्यदृश्यत कोटिभ्यां द्वाभ्यां परिवृतो बली || २९||

कैलासशिखराकारैर्वानरैर्भीमविक्रमैः |
वृतः कोटिसहस्रेण हनुमान्प्रत्यदृश्यत || ३०||

नलश्चापि महावीर्यः संवृतो द्रुमवासिभिः |
कोटीशतेन सम्प्राप्तः सहस्रेण शतेन च || ३१||

शरभः कुमुदो वह्निर्वानरो रम्भ एव च |
एते चान्ये च बहवो वानराः कामरूपिणः || ३२||

आवृत्य पृथिवीं सर्वां पर्वतांश्च वनानि च |
आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवङ्गमाः |
अभ्यवर्तन्त सुग्रीवं सूर्यमभ्रगणा इव || ३३||

कुर्वाणा बहुशब्दांश्च प्रहृष्टा बलशालिनः |
शिरोभिर्वानरेन्द्राय सुग्रीवाय न्यवेदयन् || ३४||

अपरे वानरश्रेष्ठाः सङ्गम्य च यथोचितम् |
सुग्रीवेण समागम्य स्थिताः प्राञ्जलयस्तदा || ३५||

सुग्रीवस्त्वरितो रामे सर्वांस्तान्वानरर्षभान् |
निवेदयित्वा धर्मज्ञः स्थितः प्राञ्जलिरब्रवीत् || ३६||

यथा सुखं पर्वतनिर्झरेषु
वनेषु सर्वेषु च वानरेन्द्राः |
निवेशयित्वा विधिवद्बलानि
बलं बलज्ञः प्रतिपत्तुमीष्टे || ३७||

37

1183

Many troop-leaders, along with Crores of Vanaras arrived in Kishkinda and reported to Sugreeva. And, Sugreeva, who was dedicated for requital of the help rendered by Shri Rama informs that all the Vanaras on the Earth are directed to remain in the service of Shri Rama.

40

अथ राजा समृद्धार्थः सुग्रीवः प्लवगेश्वरः |
उवाच नरशार्दूलं रामं परबलार्दनम् || १||

आगता विनिविष्टाश्च बलिनः कामरूपिणः |
वानरेन्द्रा महेन्द्राभा ये मद्विषयवासिनः || २||

त इमे बहुसाहस्रैर्हरिभिर्भीमविक्रमैः |
आगता वानरा घोरा दैत्यदानवसंनिभाः || ३||

ख्यातकर्मापदानाश्च बलवन्तो जितक्लमाः |
पराक्रमेषु विख्याता व्यवसायेषु चोत्तमाः || ४||

पृथिव्यम्बुचरा राम नानानगनिवासिनः |
कोट्यग्रश इमे प्राप्ता वानरास्तव किङ्कराः || ५||

निदेशवर्तिनः सर्वे सर्वे गुरुहिते रताः |
अभिप्रेतमनुष्ठातुं तव शक्ष्यन्त्यरिन्दम || ६||

यन्मन्यसे नरव्याघ्र प्राप्तकालं तदुच्यताम् |
तत्सैन्यं त्वद्वशे युक्तमाज्ञापयितुमर्हसि || ७||

काममेषामिदं कार्यं विदितं मम तत्त्वतः |
तथापि तु यथा तत्त्वमाज्ञापयितुमर्हसि || ८||

तथा ब्रुवाणं सुग्रीवं रामो दशरथात्मजः |
बाहुभ्यां सम्परिष्वज्य इदं वचनमब्रवीत् || ९||

ज्ञायतां सौम्य वैदेही यदि जीवति वा न वा |
स च देशो महाप्राज्ञ यस्मिन्वसति रावणः || १०||

अधिगम्य च वैदेहीं निलयं रावणस्य च |
प्राप्तकालं विधास्यामि तस्मिन्काले सह त्वया || ११||

नाहमस्मिन्प्रभुः कार्ये वानरेश न लक्ष्मणः |
त्वमस्य हेतुः कार्यस्य प्रभुश्च प्लवगेश्वर || १२||

त्वमेवाज्ञापय विभो मम कार्यविनिश्चयम् |
त्वं हि जानासि यत्कार्यं मम वीर न संशयः || १३||

सुहृद्द्वितीयो विक्रान्तः प्राज्ञः कालविशेषवित् |
भवानस्मद्धिते युक्तः सुकृतार्थोऽर्थवित्तमः || १४||

एवमुक्तस्तु सुग्रीवो विनतं नाम यूथपम् |
अब्रवीद्राम साम्निध्ये लक्ष्मणस्य च धीमतः |
शैलाभं मेघनिर्घोषमूर्जितं प्लवगेश्वरम् || १५||

सोमसूर्यात्मजैः सार्धं वानरैर्वानरोत्तम |
देशकालनयैर्युक्तः कार्याकार्यविनिश्चये || १६||

वृतः शतसहस्रेण वानराणां तरस्विनाम् |
अधिगच्छ दिशं पूर्वां सशैलवनकाननाम् || १७||

तत्र सीतां च वैदेहीं निलयं रावणस्य च |
मार्गध्वं गिरिदुर्गेषु वनेषु च नदीषु च || १८||

नदीं भागीरथीं रम्यां सरयूं कौशिकीं तथा |
कालिन्दीं यमुनां रम्यां यामुनं च महागिरिम् || १९||

सरस्वतीं च सिन्धुं च शोणं मणिनिभोदकम् |
महीं कालमहीं चैव शैलकाननशोभिताम् || २०||

अधिगम्य तु वैदेहीं निलयं रावणस्य च |
ऊर्ध्वं मासान्न वस्तव्यं वसन्वध्यो भवेन्मम |
सिद्धार्थाः संनिवर्तध्वमधिगम्य च मैथिलीम् || २१||

महेन्द्रकान्तां वनषण्ड मण्डितां
दिशं चरित्वा निपुणेन वानराः |
अवाप्य सीतां रघुवंशजप्रियां
ततो निवृत्ताः सुखितो भविष्यथ || २२||

22

1205

Sugreeva orders a troop of vanaras to search Eastern side under the leadership of a mighty vanara Vinata. This troop is given one month's time to find the whereabouts of Seetha.

41

ततः प्रस्थाप्य सुग्रीवस्तन्महद्वानरं बलम् |
दक्षिणां प्रेषयामास वानरानभिलक्षितान् || १||

नीलमग्निसुतं चैव हनुमन्तं च वानरम् |
पितामहसुतं चैव जाम्बवन्तं महाकपिम् || २||

सुहोत्रं च शरीरं च शरगुल्मं तथैव च |
गजं गवाक्षं गवयं सुषेणमृषभं तथा || ३||

मैन्दं च द्विविदं चैव विजयं गन्धमादनम् |
उल्कामुखमसङ्गं च हुताशन सुतावुभौ || ४||

अङ्गदप्रमुखान्वीरान्वीरः कपिगणेश्वरः |
वेगविक्रमसम्पन्नान्सन्दिदेश विशेषवित् || ५||

तेषामग्रेषरं चैव महद्बलमसङ्गगम् |
विधाय हरिवीराणामादिशद्दक्षिणां दिशम् || ६||

ये के चन समुद्देशास्तस्यां दिशि सुदुर्गमाः |
कपीशः कपिमुख्यानां स तेषां तानुदाहरत् || ७||

सहस्रशिरसं विन्ध्यं नानाद्रुमलतावृतम् |
नर्मदां च नदीं दुर्गां महोरगनिषेविताम् || ८||

ततो गोदावरीं रम्यां कृष्णावेणीं महानदीम् |
वरदां च महाभागां महोरगनिषेविताम् || ९||

मेखलानुत्कलांश्चैव दशार्णनगराण्यपि |
अवन्तीमभ्रवन्तीं च सर्वमेवानुपश्यत || १०||

ततः समुद्रमासाद्य सम्प्रधार्यार्थनिश्चयम् |
अगस्त्येनान्तरे तत्र सागरे विनिवेशितः || ११||

चित्रनानानगः श्रीमान्महेन्द्रः पर्वतोत्तमः |
जातरूपमयः श्रीमानवगाढो महार्णवम् || १२||

नानाविधैर्नगैः फुल्लैर्लताभिश्चोपशोभितम् |
देवर्षियक्षप्रवरैरप्सरोभिश् च सेवितम् || १३||

सिद्धचारणसङ्घैश्च प्रकीर्णं सुमनोहरम् |
तमुपैति सहस्राक्षः सदा पर्वसु पर्वसु || १४||

द्वीपस्तस्यापरे पारे शतयोजनमायतः |
अगम्यो मानुषैर्दीप्तस्तं मार्गध्वं समन्ततः |
तत्र सर्वात्मना सीता मार्गितव्या विशेषतः || १५||

स हि देशस्तु वध्यस्य रावणस्य दुरात्मनः |
राक्षसाधिपतेर्वासः सहस्राक्षसमद्युतेः || १६||

दक्षिणस्य समुद्रस्य मध्ये तस्य तु राक्षसी |
अङ्गारकेति विख्याता छायामाक्षिप्य भोजिनी || १७||

सर्वमेतत्समालोक्य यच्चान्यदपि दृश्यते |
गतिं विदित्वा वैदेह्याः संनिवर्तितमर्हथ || १८||

यस्तु मासान्निवृत्तोऽग्रे दृष्टा सीतेति वक्ष्यति |
मत्तुल्यविभवो भोगैः सुखं स विहरिष्यति || १९||

ततः प्रियतरो नास्ति मम प्राणाद्विशेषतः |
कृतापराधो बहुशो मम बन्धुर्भविष्यति ||२० ||

अमितबलपराक्रमा भवन्तो
विपुलगुणेषु कुलेषु च प्रसूताः |
मनुजपतिसुतां यथा लभध्वं
तदधिगुणं पुरुषार्थमारभध्वम् ||२१||

21

1226

Sugreeva sends another troop of Vanaras to Southern direction.  That troop includes Shri Hanuman, Jambavanta, Nila and others and Angada as its leader. This troop is also given one month's time to find the whereabouts of Seetha.

इत्यार्षे श्री रामायणे किष्किन्धाकाण्डे त्रयोदश: भाग:


Kiṣkindhākāṇḍa Part-12

Kiṣkindhākāṇḍa Part-14

 

No comments:

Post a Comment