Tuesday, December 30, 2025

किष्किन्धाकाण्ड - Kiṣkindhākāṇḍa (भाग - १४ ;;; Part – 14)

 

किष्किन्धाकाण्ड - Kiṣkindhākāṇḍa (भाग - १४ ;;; Part – 14)

Sarga number as per Ramayana

Shlokas extracted

No. of shlokas

Cumulative number of shlokas in this Kanda

42

ततः प्रस्थाप्य सुग्रीवस्तान्हरीन्दक्षिणां दिशम् |
बुद्धिविक्रमसम्पन्नान्वायुवेगसमाञ्जवे || १||

अथाहूय महातेजाः सुषेणं नाम यूथपम् |
तारायाः पितरं राजा श्वशुरभीमविक्रमम् || २||

अब्रवीत्प्राञ्जलिर्वाक्यमभिगम्य प्रणम्य च |
साहाय्यं कुरु रामस्य कृत्येऽस्मिन्समुपस्थिते || ३||

वृतः शतसहस्रेण वानराणां तरस्विनाम् |
अभिगच्छ दिशं सौम्य पश्चिमां वारुणीं प्रभो || ४||

सुराष्ट्रान्सह बाह्लीकाञ्शूराभीरांस्तथैव च |
स्फीताञ्जनपदान्रम्यान्विपुलानि पुराणि च || ५||

पुंनागगहनं कुक्षिं बहुलोद्दालकाकुलम् |
तथा केतकषण्डांश्च मार्गध्वं हरियूथपाः || ६||

प्रत्यक्स्रोतोगमाश्चैव नद्यः शीतजलाः शिवाः |
तापसानामरण्यानि कान्तारा गिरयश् च ये || ७||

गिरिजालावृतां दुर्गां मार्गित्वा पश्चिमां दिशम् |
अधिगम्य तु वैदेहीं निलयं रावणस्य च |
अस्तं पर्वतमासाद्य पूर्णे मासे निवर्तत || ८||

ऊर्ध्वं मासान्न वस्तव्यं वसन्वध्यो भवेन्मम |
सहैव शूरो युष्माभिः श्वशुरो मे गमिष्यति || ९||

श्रोतव्यं सर्वमेतस्य भवद्भिर्दिष्ट कारिभिः |
गुरुरेष महाबाहुः श्वशुरो मे महाबलः ||१०||

भवन्तश्चापि विक्रान्ताः प्रमाणं सर्वकर्मसु |
प्रमाणमेनं संस्थाप्य पश्यध्वं पश्चिमां दिशम् || ११||

दृष्टायां तु नरेन्द्रस्या पत्न्याममिततेजसः |
कृतकृत्या भविष्यामः कृतस्य प्रतिकर्मणा || १२||

अतोऽन्यदपि यत्किं चित्कार्यस्यास्य हितं भवेत् |
सम्प्रधार्य भवद्भिश्च देशकालार्थसंहितम् || १३||

ततः सुषेण प्रमुखाः प्लवङ्गमाः
सुग्रीववाक्यं निपुणं निशम्य |
आमन्त्र्य सर्वे प्लवगाधिपं ते
जग्मुर्दिशं तां वरुणाभिगुप्ताम् || १४||

14

1240

Sugreeva sends another troop of vanaras in Western direction to search for Seetha under the leadership of Sushena, the father of Tara. This troop is also given one month's time to find the whereabouts of Seetha.

43

ततः सन्दिश्य सुग्रीवः श्वशुरं पश्चिमां दिशम् |
वीरं शतबलिं नाम वानरं वानरर्षभः || १||

उवाच राजा मन्त्रज्ञः सर्ववानरसंमतम् |
वाक्यमात्महितं चैव रामस्य च हितं तथा || २||

वृतः शतसहस्रेण त्वद्विधानां वनौकसाम् |
वैवस्वत सुतैः सार्धं प्रतिष्ठस्व स्वमन्त्रिभिः || ३||

दिशं ह्युदीचीं विक्रान्तां हिमशैलावतंसकाम् |
सर्वतः परिमार्गध्वं रामपत्नीमनिन्दिताम् || ४||

अस्मिन्कार्ये विनिवृत्ते कृते दाशरथेः प्रिये |
ऋणान्मुक्ता भविष्यामः कृतार्थार्थविदां वराः || ५||

कृतं हि प्रियमस्माकं राघवेण महात्मना |
तस्य चेत्प्रतिकारोऽस्ति सफलं जीवितं भवेत् || ६||

एतां बुद्धिं समास्थाय दृश्यते जानकी यथा |
तथा भवद्भिः कर्तव्यमस्मत्प्रियहितैषिभिः || ७||

अयं हि सर्वभूतानां मान्यस्तु नरसत्तमः |
अस्मासु चागतप्रीती रामः परपुरञ्जयः || ८||

इमानि वनदुर्गाणि नद्यः शैलान्तराणि च |
भवन्तः परिमार्गंस्तु बुद्धिविक्रमसम्पदा || ९||

सर्वमेतद्विचेतव्यं यन्मया परिकीर्तितम् |
यदन्यदपि नोक्तं च तत्रापि क्रियतां मतिः || १०||

ततः कृतं दाशरथेर्महत्प्रियं
महत्तरं चापि ततो मम प्रियम् |
कृतं भविष्यत्यनिलानलोपमा
विदेहजा दर्शनजेन कर्मणा || ११||

ततः कृतार्थाः सहिताः सबान्धवा
मयार्चिताः सर्वगुणैर्मनोरमैः |
चरिष्यथोर्वीं प्रतिशान्तशत्रवः
सहप्रिया भूतधराः प्लवङ्गमाः || १२||

12

1252

Sugreeva sends the last troop of vanaras in Northern direction to search for Seetha under the leadership of Shatabali.  This troop is also given one month's time to find the whereabouts of Seetha.

44

विशेषेण तु सुग्रीवो हनुमत्यर्थमुक्तवान् |
स हि तस्मिन्हरिश्रेष्ठे निश्चितार्थोऽर्थसाधने || १||

न भूमौ नान्तरिक्षे वा नाम्बरे नामरालये |
नाप्सु वा गतिसङ्गं ते पश्यामि हरिपुङ्गव || २||

सासुराः सहगन्धर्वाः सनागनरदेवताः |
विदिताः सर्वलोकास्ते ससागरधराधराः || ३||

गतिर्वेगश्च तेजश्च लाघवं च महाकपे |
पितुस्ते सदृशं वीर मारुतस्य महौजसः || ४||

तेजसा वापि ते भूतं समं भुवि न विद्यते |
तद्यथा लभ्यते सीता तत्त्वमेवोपपादय || ५||

त्वय्येव हनुमन्नस्ति बलं बुद्धिः पराक्रमः |
देशकालानुवृत्तश्च नयश्च नयपण्डित || ६||

ततः कार्यसमासङ्गमवगम्य हनूमति |
विदित्वा हनुमन्तं च चिन्तयामास राघवः || ७||

सर्वथा निश्चितार्थोऽयं हनूमति हरीश्वरः |
निश्चितार्थतरश्चापि हनूमान्कार्यसाधने || ८||

तदेवं प्रस्थितस्यास्य परिज्ञातस्य कर्मभिः |
भर्त्रा परिगृहीतस्य ध्रुवः कार्यफलोदयः || ९||

तं समीक्ष्य महातेजा व्यवसायोत्तरं हरिम् |
कृतार्थ इव संवृत्तः प्रहृष्टेन्द्रियमानसः || १०||

ददौ तस्य ततः प्रीतः स्वनामाङ्कोपशोभितम् |
अङ्गुलीयमभिज्ञानं राजपुत्र्याः परन्तपः || ११||

अनेन त्वां हरिश्रेष्ठ चिह्नेन जनकात्मजा |
मत्सकाशादनुप्राप्तमनुद्विग्नानुपश्यति || १२||

व्यवसायश्च ते वीर सत्त्वयुक्तश्च विक्रमः |
सुग्रीवस्य च सन्देशः सिद्धिं कथयतीव मे || १३||

स तद्गृह्य हरिश्रेष्ठः स्थाप्य मूर्ध्नि कृताञ्जलिः |
वन्दित्वा चरणौ चैव प्रस्थितः प्लवगोत्तमः || १४||

स तत्प्रकर्षन्हरिणां बलं महद्
बभूव वीरः पवनात्मजः कपि |
गताम्बुदे व्योम्नि विशुद्धमण्डलः
शशीव नक्षत्रगणोपशोभितः || १५||

अतिबलबलमाश्रितस्तवाहं
हरिवरविक्रमविक्रमैरनल्पैः |
पवनसुत यथाभिगम्यते सा
जनकसुता हनुमंस्तथा कुरुष्व || १६||

16

1268

Sugreeva extols Shri Hanuman's capabilities and reposes full confidence in him in locating Seetha. On observing Sugreeva’s confidence in Shri Hanuman, Shri Rama realises that Shri Hanuman alone can find Sita. Thus, Shri Rama gives his ring to Shri Hanuman as memorabilia enabling Seetha to recognise Shri Hanuman without doubt.

45

तदुग्रशासनं भर्तुर्विज्ञाय हरिपुङ्गवाः |
शलभा इव सञ्चाद्य मेदिनीं सम्प्रतस्थिरे || १||

रामः प्रस्रवणे तस्मिन्न्यवसत्सहलक्ष्मणः |
प्रतीक्षमाणस्तं मासं यः सीताधिगमे कृतः || २||

उत्तरां तु दिशं रम्यां गिरिराजसमावृताम् |
प्रतस्थे सहसा वीरो हरिः शतबलिस्तदा || ३||

पूर्वां दिशं प्रति ययौ विनतो हरियूथपः || ४||

ताराङ्गदादि सहितः प्लवगः पवनात्मजः |
अगस्त्यचरितामाशां दक्षिणां हरियूथपः || ५||

पश्चिमां तु दिशं घोरां सुषेणः प्लवगेश्वरः |
प्रतस्थे हरिशार्दूलो भृशं वरुणपालिताम् || ६||

ततः सर्वा दिशो राजा चोदयित्वा यथा तथम् |
कपिसेना पतीन्मुख्यान्मुमोद सुखितः सुखम् || ७||

एवं सञ्चोदिताः सर्वे राज्ञा वानरयूथपाः |
स्वां स्वां दिशमभिप्रेत्य त्वरिताः सम्प्रतस्थिरे || ८||

नदन्तश्चोन्नदन्तश्च गर्जन्तश्च प्लवङ्गमाः |
क्ष्वेलन्तो धावमानाश्च ययुः प्लवगसत्तमाः |
आनयिष्यामहे सीतां हनिष्यामश्च रावणम् || ९||

अहमेको हनिष्यामि प्राप्तं रावणमाहवे |
ततश्चोन्मथ्य सहसा हरिष्ये जनकात्मजाम् || १०||

वेपमानं श्रमेणाद्य भवद्भिः स्थीयताम् इति |
एक एवाहरिष्यामि पातालादपि जानकीम् || ११||

विधमिष्याम्यहं वृक्षान्दारयिष्याम्यहं गिरीन् |
धरणीं दारयिष्यामि क्षोभयिष्यामि सागरान् || १२||

अहं योजनसङ्ख्यायाः प्लविता नात्र संशयः |
शतं योजनसङ्ख्यायाः शतं समधिकं ह्यहम् || १३||

भूतले सागरे वापि शैलेषु च वनेषु च |
पातालस्यापि वा मध्ये न ममाच्छिद्यते गतिः || १४||

इत्येकैकं तदा तत्र वानरा बलदर्पिताः |
ऊचुश्च वचनं तस्मिन्हरिराजस्य संनिधौ || १५||

15

1283

All the troops start their journey in the direction, as ordered by Sugreeva.

इत्यार्षे श्री रामायणे किष्किन्धाकाण्डे चतुर्दश: भाग:

 

Kiṣkindhākāṇḍa Part-13

Kiṣkindhākāṇḍa Part-15

 

 

No comments:

Post a Comment