Wednesday, December 31, 2025

किष्किन्धाकाण्ड - Kiṣkindhākāṇḍa (भाग - १५ ;;; Part – 15

 

किष्किन्धाकाण्ड - Kiṣkindhākāṇḍa (भाग - १५ ;;; Part – 15)

Sarga number as per Ramayana

Shlokas extracted

No. of shlokas

Cumulative number of shlokas in this Kanda

46

गतेषु वानरेन्द्रेषु रामः सुग्रीवमब्रवीत् |
कथं भवान्विनाजीते सर्वं वै मण्डलं भुवः || १||

सुग्रीवस्तु ततो राममुवाच प्रणतात्मवान् |
श्रूयतां सर्वमाख्यास्ये विस्तरेण नरर्षभ || २||

यदा तु दुन्दुभिं नाम दानवं महिषाकृतिम् |
परिकालयते वाली मलयं प्रति पर्वतम् || ३||

तदा विवेश महिषो मलयस्य गुहां प्रति |
विवेश वाली तत्रापि मलयं तज्जिघांसया || ४||

ततोऽहं तत्र निक्षिप्तो गुहाद्वारिविनीतवत् |
न च निष्क्रमते वाली तदा संवत्सरे गते || ५||

ततः क्षतजवेगेन आपुपूरे तदा बिलम् |
तदहं विस्मितो दृष्ट्वा भ्रातृशोकविषार्दितः || ६||

अथाहं कृतबुद्धिस्तु सुव्यक्तं निहतो गुरुः |
शिलापर्वतसङ्काशा बिलद्वारि मया कृता |
अशक्नुवन्निष्क्रमितुं महिषो विनशेदिति || ७||

ततोऽहमागां किष्किन्धां निराशस्तस्य जीविते |
राज्यं च सुमहत्प्राप्तं तारा च रुमया सह |
मित्रैश्च सहितस्तत्र वसामि विगतज्वरः || ८||

आजगाम ततो वाली हत्वां तं दानवर्षभम् |
ततोऽहमददां राज्यं गौरवाद्भययन्त्रितः || ९||

स मां जिघांसुर्दुष्टात्मा वाली प्रव्यथितेन्द्रियः |
परिलाकयते क्रोधाद्धावन्तं सचिवैः सह || १०||

ततोऽहं वालिना तेन सानुबन्धः प्रधावितः |
नदीश्च विविधाः पश्यन्वनानि नगराणि च || ११||

आदर्शतलसङ्काशा ततो वै पृथिवी मया |
अलातचक्रप्रतिमा दृष्टा गोष्पदवत्तदा || १२||

ततः पूर्वमहं गत्वा दक्षिणामहमाश्रितः |
दिशं च पश्चिमां भूयो गतोऽस्मि भयशङ्कितः |
उत्तरां तु दिशं यान्तं हनुमान्मामथाब्रवीत् || १३||

इदानीं मे स्मृतं राजन्यथा वाली हरीश्वरः |
मतङ्गेन तदा शप्तो ह्यस्मिन्नाश्रममण्डले || १४||

प्रविशेद्यदि वा वाली मूर्धास्य शतधा भवेत् |
तत्र वासः सुखोऽस्माकं निरुद्विग्नो भविष्यति || १५||

ततः पर्वतमासाद्य ऋश्यमूकं नृपात्मज |
न विवेश तदा वाली मतङ्गस्य भयात्तदा || १६||

एवं मया तदा राजन्प्रत्यक्षमुपलक्षितम् |
पृथिवीमण्डलं कृत्स्नं गुहामस्म्यागतस्ततः || १७||

17

1300

Shri Rama questions Sugreeva as to how he has the knowledge of many details of lands, countries, rivers, and mountains, spread over in different directions. Sugreeva replies that when pursued by Vali, he was on the run to pillar to post, until he finally settled on Rishyamuka mountain. During such a run, Sugreeva acquired a direct and personal knowledge of the Earth.

47

दर्शनार्थं तु वैदेह्याः सर्वतः कपियूथपाः |
व्यादिष्टाः कपिराजेन यथोक्तं जग्मुरञ्जसा || १||

सरांसि सरितः कक्षानाकाशं नगराणि च |
नदीदुर्गांस्तथा शैलान्विचिन्वन्ति समन्ततः || २||

सुग्रीवेण समाख्यातान्सर्वे वानरयूथपाः |
प्रदेशान्प्रविचिन्वन्ति सशैलवनकाननान् || ३||

विचिन्त्य दिवसं सर्वे सीताधिगमने धृताः |
समायान्ति स्म मेदिन्यां निशाकालेशु वानराः || ४||

सर्वर्तुकांश्च देशेषु वानराः सफलान्द्रुमान् |
आसाद्य रजनीं शय्यां चक्रुः सर्वेष्वहःसु ते || ५||

तदहः प्रथमं कृत्वा मासे प्रस्रवणं गताः |
कपिराजेन सङ्गम्य निराशाः कपियूथपाः || ६||

विचित्य तु दिशं पूर्वां यथोक्तां सचिवैः सह |
अदृष्ट्वा विनतः सीतामाजगाम महाबलः || ७||

उत्तरां तु दिशं सर्वां विचित्य स महाकपिः |
आगतः सह सैन्येन वीरः शतबलिस्तदा || ८||

सुषेणः पश्चिमामाशां विचित्य सह वानरैः |
समेत्य मासे सम्पूर्णे सुग्रीवमुपचक्रमे || ९||

तं प्रस्रवणपृष्ठस्थं समासाद्याभिवाद्य च |
आसीनं सह रामेण सुग्रीवमिदमब्रुवन् || १०||

विचिताः पर्वताः सर्वे वनानि नगराणि च |
निम्नगाः सागरान्ताश्च सर्वे जनपदास्तथा || ११||

गुहाश्च विचिताः सर्वा यास्त्वया परिकीर्तिताः |
विचिताश्च महागुल्मा लताविततसन्तताः || १२||

गहनेषु च देशेषु दुर्गेषु विषमेषु च |
सत्त्वान्यतिप्रमाणानि विचितानि हतानि च |
ये चैव गहना देशा विचितास्ते पुनः पुनः || १३||

उदारसत्त्वाभिजनो महात्मा
स मैथिलीं द्रक्ष्यति वानरेन्द्रः |
दिशं तु यामेव गता तु सीता
तामास्थितो वायुसुतो हनूमान् || १४||

14

1314

The Vanaras troops went in Eastern, Northern, and Western directions returned within 1 month, unsuccessful. Everyone hoped Shri Hanuman to find her out, because he is pursuing the direction in which Seetha was taken away.

48

सहताराङ्गदाभ्यां तु गत्वा स हनुमान्कपिः |
सुग्रीवेण यथोद्दिष्टं तं देशमुपचक्रमे || १||

स तु दूरमुपागम्य सर्वैस्तैः कपिसत्तमैः |
विचिनोति स्म विन्ध्यस्य गुहाश्च गहनानि च || २||

पर्वताग्रान्नदीदुर्गान्सरांसि विपुलान्द्रुमान् |
वृक्षषण्डांश्च विविधान्पर्वतान्घनपादपान् || ३||

अन्वेषमाणास्ते सर्वे वानराः सर्वतो दिशम् |
न सीतां ददृशुर्वीरा मैथिलीं जनकात्मजाम् || ४||

ते भक्षयन्तो मूलानि फलानि विविधानि च |
अन्वेषमाणा दुर्धर्षा न्यवसंस्तत्र तत्र ह |
स तु देशो दुरन्वेषो गुहागहनवान्महान् || ५||

त्यक्त्वा तु तं तदा देशं सर्वे वै हरियूथपाः |
देशमन्यं दुराधर्षं विविशुश्चाकुतोभयाः || ६||

यत्र वन्ध्यफला वृक्षा विपुष्पाः पर्णवर्जिताः |
निस्तोयाः सरितो यत्र मूलं यत्र सुदुर्लभम् || ७||

न सन्ति महिषा यत्र न मृगा न च हस्तिनः |
शार्दूलाः पक्षिणो वापि ये चान्ये वनगोचराः || ८||

स्निग्धपत्राः स्थले यत्र पद्मिन्यः फुल्लपङ्कजाः |
प्रेक्षणीयाः सुगन्धाश्च भ्रमरैश्चापि वर्जिताः || ९||

कण्डुर्नाम महाभागः सत्यवादी तपोधनः |
महर्षिः परमामर्षी नियमैर्दुष्प्रधर्षणः || १०||

तस्य तस्मिन्वने पुत्रो बालको दशवार्षिकः |
प्रनष्टो जीवितान्ताय क्रुद्धस्तत्र महामुनिः || ११||

तेन धर्मात्मना शप्तं कृत्स्नं तत्र महद्वनम् |
अशरण्यं दुराधर्षं मृगपक्षिविवर्जितम् || १२||

तस्य ते काननान्तांस्तु गिरीणां कन्दराणि च |
प्रभवानि नदीनाञ्च विचिन्वन्ति समाहिताः || १३||

तत्र चापि महात्मानो नापश्यञ्जनकात्मजाम् |
हर्तारं रावणं वापि सुग्रीवप्रियकारिणः || १४||

ते प्रविश्य तु तं भीमं लतागुल्मसमावृतम् |
ददृशुः क्रूरकर्माणमसुरं सुरनिर्भयम् || १५||

तं दृष्ट्वा वनरा घोरं स्थितं शैलमिवापरम् |
गाढं परिहिताः सर्वे दृष्ट्वा तं पर्वतोपमम् || १६||

सोऽपि तान्वानरान्सर्वान्नष्टाः स्थेत्यब्रवीद्बली |
अभ्यधावत सङ्क्रुद्धो मुष्टिमुद्यम्य संहितम् || १७||

तमापतन्तं सहसा वालिपुत्रोऽङ्गदस्तदा || १८||

रावणोऽयमिति ज्ञात्वा तलेनाभिजघान ह |
स वालिपुत्राभिहतो वक्त्राच्छोणितमुद्वमन् || १९||

असुरो न्यपतद्भूमौ पर्यस्त इव पर्वतः |
ते तु तस्मिन्निरुच्छ्वासे वानरा जितकाशिनः |
व्यचिन्वन्प्रायशस्तत्र सर्वं तद्गिरिगह्वरम् || २०||

विचितं तु ततः कृत्वा सर्वे ते काननं पुनः |
अन्यदेवापरं घोरं विविशुर्गिरिगह्वरम् || २१||

ते विचिन्त्य पुनः खिन्ना विनिष्पत्य समागताः |
एकान्ते वृक्षमूले तु निषेदुर्दीनमानसाः || २२||

22

1336

The vanaras troop that went in Southern direction searched certain mountains and forests belonging to Vindhya, but in vain. They enter many uninhabited forests and places. Their hearts saddened when their search became futile at those places.

49

अथाङ्गदस्तदा सर्वान्वानरानिदमब्रवीत् || १||

परिश्रान्तो महाप्राज्ञः समाश्वास्य शनैर्वचः |
वनानि गिरयो नद्यो दुर्गाणि गहनानि च || २||

दर्यो गिरिगुहाश्चैव विचिता नः समन्ततः |
तत्र तत्र सहास्माभिर्जानकी न च दृश्यते |
तद्वा रक्षो हृता येन सीता सुरसुतोपमा || ३||

कालश्च नो महान्यातः सुग्रीवश्चोग्रशासनः |
तस्माद्भवन्तः सहिता विचिन्वन्तु समन्ततः || ४||

विहाय तन्द्रीं शोकं च निद्रां चैव समुत्थिताम् |
विचिनुध्वं यथा सीतां पश्यामो जनकात्मजाम् || ५||

अनिर्वेदं च दाक्ष्यं च मनसश्चापराजयम् |
कार्यसिद्धिकराण्याहुस्तस्मादेतद्ब्रवीम्यहम् || ६||

अद्यापीदं वनं दुर्गं विचिन्वन्तु वनौकसः |
खेदं त्यक्त्वा पुनः सर्वं वनमेतद्विचीयताम् || ७||

अवश्यं क्रियमाणस्य दृश्यते कर्मणः फलम् |
अलं निर्वेदमागम्य न हि नो मलिनं क्षमम् || ८||

सुग्रीवः क्रोधनो राजा तीक्ष्णदण्डश्च वानराः |
भेतव्यं तस्य सततं रामस्य च महात्मनः || ९||

हितार्थमेतदुक्तं वः क्रियतां यदि रोचते |
उच्यतां वा क्षमं यन्नः सर्वेषामेव वानराः || १०||

अङ्गदस्य वचः श्रुत्वा वचनं गन्धमादनः |
उवाचाव्यक्तया वाचा पिपासा श्रमखिन्नया || ११||

सदृशं खलु वो वाक्यमङ्गदो यदुवाच ह |
हितं चैवानुकूलं च क्रियतामस्य भाषितम् || १२||

पुनर्मार्गामहे शैलान्कन्दरांश्च दरीस्तथा |
काननानि च शून्यानि गिरिप्रस्रवणानि च || १३||

यथोद्दिष्ठानि सर्वाणि सुग्रीवेण महात्मना |
विचिन्वन्तु वनं सर्वे गिरिदुर्गाणि सर्वशः || १४||

ततः समुत्थाय पुनर्वानरास्ते महाबलाः |
विन्ध्यकाननसङ्कीर्णां विचेरुर्दक्षिणां दिशम् || १५||

ते शारदाभ्रप्रतिमं श्रीमद्रजतपर्वतम् |
शृङ्गवन्तं दरीवन्तमधिरुह्य च वानराः || १६||

तत्र लोध्रवनं रम्यं सप्तपर्णवनानि च |
विचिन्वन्तो हरिवराः सीतादर्शनकाङ्क्षिणः || १७||

तस्याग्रमधिरूढास्ते श्रान्ता विपुलविक्रमाः |
न पश्यन्ति स्म वैदेहीं रामस्य महिषीं प्रियाम् || १८||

ते तु दृष्टिगतं कृत्वा तं शैलं बहुकन्दरम् |
अवारोहन्त हरयो वीक्षमाणाः समन्ततः || १९||

अवरुह्य ततो भूमिं श्रान्ता विगतचेतसः |
स्थित्वा मुहूर्तं तत्राथ वृक्षमूलमुपाश्रिताः || २०||

ते मुहूर्तं समाश्वस्ताः किं चिद्भग्नपरिश्रमाः |
पुनरेवोद्यताः कृत्स्नां मार्गितुं दक्षिणां दिशम् || २१||

हनुमत्प्रमुखास्ते तु प्रस्थिताः प्लवगर्षभाः |
विन्ध्यमेवादितस्तावद्विचेरुस्ते समन्ततः || २२||

22

1358

Angada encourages the dejected vanaras to continue their search for Seeta, reminding them of the wrath of Sugreeva and to its consequences, if the monkeys fail to implement Sugreeva's directive. Though fatigued, but encouraged by Angada's advises, they start again searching Vindhya ranges, from the beginning.

 

इत्यार्षे श्री रामायणे किष्किन्धाकाण्डे पञ्चदश: भाग:

 

Kiṣkindhākāṇḍa Part-14

Kiṣkindhākāṇḍa Part-16

 

 

No comments:

Post a Comment