Wednesday, December 31, 2025

किष्किन्धाकाण्ड - Kiṣkindhākāṇḍa (भाग - १६ ;;; Part – 16)

 

किष्किन्धाकाण्ड - Kiṣkindhākāṇḍa (भाग - ;;; Part – 16)

Sarga number as per Ramayana

Shlokas extracted

No. of shlokas

Cumulative number of shlokas in this Kanda

50

सह ताराङ्गदाभ्यां तु सङ्गम्य हनुमान्कपिः |
विचिनोति स्म विन्ध्यस्य गुहाश्च गहनानि || ||

सिंहशार्दूलजुष्टाश्च गुहाश्च परितस्तथा |
विषमेषु नगेन्द्रस्य महाप्रस्रवणेषु || ||

तेषां तत्रैव वसतां कालो व्यत्यवर्तत || ||

हि देशो दुरन्वेषो गुहा गहनवान्महान् |
तत्र वायुसुतः सर्वं विचिनोति स्म पर्वतम् || ||

परस्परेण रहिता अन्योन्यस्याविदूरतः |
गजो गवाक्षो गवयः शरभो गन्धमादनः || ||

मैन्दश्च द्विविदश्चैव हनुमाञ्जाम्बवानपि |
अङ्गदो युवराजश्च तारश्च वनगोचरः || ||

गिरिजालावृतान्देशान्मार्गित्वा दक्षिणां दिशम् |
क्षुत्पिपासा परीताश्च श्रान्ताश्च सलिलार्थिनः |
अवकीर्णं लतावृक्षैर्ददृशुस्ते महाबिलम् || ||

ततः क्रौञ्चाश्च हंसाश्च सारसाश्चापि निष्क्रमन् |
जलार्द्राश्चक्रवाकाश्च रक्ताङ्गाः पद्मरेणुभिः || ||

ततस्तद्बिलमासाद्य सुगन्धि दुरतिक्रमम् |
विस्मयव्यग्रमनसो बभूवुर्वानरर्षभाः || ||

सञ्जातपरिशङ्कास्ते तद्बिलं प्लवगोत्तमाः |
अभ्यपद्यन्त संहृष्टास्तेजोवन्तो महाबलाः || १०||

ततः पर्वतकूटाभो हनुमान्मारुतात्मजः |
अब्रवीद्वानरान्सर्वान्कान्तार वनकोविदः || ११||

गिरिजालावृतान्देशान्मार्गित्वा दक्षिणां दिशम् |
वयं सर्वे परिश्रान्ता पश्यामि मैथिलीम् || १२||

अस्माच्चापि बिलाद्धंसाः क्रौञ्चाश्च सह सारसैः |
जलार्द्राश्चक्रवाकाश्च निष्पतन्ति स्म सर्वशः || १३||

नूनं सलिलवानत्र कूपो वा यदि वा ह्रदः |
तथा चेमे बिलद्वारे स्निग्धास्तिष्ठन्ति पादपाः || १४||

इत्युक्तास्तद्बिलं सर्वे विविशुस्तिमिरावृतम् |
अचन्द्रसूर्यं हरयो ददृशू रोमहर्षणम् || १५||

ततस्तस्मिन्बिले दुर्गे नानापादपसङ्कुले |
अन्योन्यं सम्परिष्वज्य जग्मुर्योजनमन्तरम् || १६||

ते नष्टसंज्ञास्तृषिताः सम्भ्रान्ताः सलिलार्थिनः |
परिपेतुर्बिले तस्मिन्कं चित्कालमतन्द्रिताः || १७||

ते कृशा दीनवदनाः परिश्रान्ताः प्लवङ्गमाः |
आलोकं ददृशुर्वीरा निराशा जीविते तदा || १८||

ततस्तं देशमागम्य सौम्यं वितिमिरं वनम् |
ददृशुः काञ्चनान्वृक्षान्दीप्तवैश्वानरप्रभान् || १९||

सालांस्तालांश्च पुंनागान्ककुभान्वञ्जुलान्धवान् |
चम्पकान्नागवृक्षांश्च कर्णिकारांश्च पुष्पितान् || २०||

तरुणादित्यसङ्काशान्वैदूर्यमयवेदिकान् |
नीलवैदूर्यवर्णाश्च पद्मिनीः पतगावृताः || २१||

महद्भिः काञ्चनैर्वृक्षैर्वृतं बालार्क संनिभैः |
जातरूपमयैर्मत्स्यैर्महद्भिश्च सकच्छपैः || २२||

नलिनीस्तत्र ददृशुः प्रसन्नसलिलायुताः |
काञ्चनानि विमानानि राजतानि तथैव || २३||

तपनीयगवाक्षाणि मुक्ताजालावृतानि |
हैमराजतभौमानि वैदूर्यमणिमन्ति || २४||

ददृशुस्तत्र हरयो गृहमुख्यानि सर्वशः |
पुष्पितान्फलिनो वृक्षान्प्रवालमणिसंनिभान् || २५||

काञ्चनभ्रमरांश्चैव मधूनि समन्ततः |
मणिकाञ्चनचित्राणि शयनान्यासनानि || २६||

महार्हाणि यानानि ददृशुस्ते समन्ततः |
हैमराजतकांस्यानां भाजनानां सञ्चयान् || २७||

अगरूणां दिव्यानां चन्दनानां सञ्चयान् |
शुचीन्यभ्यवहार्याणि मूलानि फलानि || २८||

महार्हाणि पानानि मधूनि रसवन्ति |
दिव्यानामम्बराणां महार्हाणां सञ्चयान् |
कम्बलानां चित्राणामजिनानां सञ्चयान् || २९||

तत्र तत्र विचिन्वन्तो बिले तत्र महाप्रभाः |
ददृशुर्वानराः शूराः स्त्रियं कां चिददूरतः || ३०||

तां दृष्ट्वा भृशसन्त्रस्ताश्चीरकृष्णाजिनाम्बराम् |
तापसीं नियताहारां ज्वलन्तीमिव तेजसा || ३१||

ततो हनूमान्गिरिसंनिकाशः
कृताञ्जलिस्तामभिवाद्य वृद्धाम् |
पप्रच्छ का त्वं भवनं बिलं
रत्नानि चेमानि वदस्व कस्य || ३२||

32

1390

Suffering with hunger and thirst, the vanaras enter Riksha cave, with a hope to get some water. While groping in that dark cave, they crossed the deadline fixed by Sugreeva. Finally, they see light and extraordinarily built mansions, woodlands, trees and lakes. Thereupon, they found an elderly Yogini and they approached her with humility.

51

इत्युक्त्वा हनुमांस्तत्र पुनः कृष्णाजिनाम्बराम् |
अब्रवीत्तां महाभागां तापसीं धर्मचारिणीम् || ||

इदं प्रविष्टाः सहसा बिलं तिमिरसंवृतम् |
क्षुत्पिपासा परिश्रान्ताः परिखिन्नाश्च सर्वशः || ||

महद्धिरण्या विवरं प्रविष्टाः स्म पिपासिताः |
इमांस्त्वेवं विधान्भावान्विविधानद्भुतोपमान् |
दृष्ट्वा वयं प्रव्यथिताः सम्भ्रान्ता नष्टचेतसः || ||

कस्येमे काञ्चना वृक्षास्तरुणादित्यसंनिभाः |
शुचीन्यभ्यवहार्याणि मूलानि फलानि || ||

काञ्चनानि विमानानि राजतानि गृहाणि |
तपनीय गवाक्षाणि मणिजालावृतानि || ||

पुष्पिताः फालवन्तश्च पुण्याः सुरभिगन्धिनः |
इमे जाम्बूनदमयाः पादपाः कस्य तेजसा || ||

काञ्चनानि पद्मानि जातानि विमले जले |
कथं मत्स्याश्च सौवर्णा चरन्ति सह कच्छपैः || ||

आत्मानमनुभावं कस्य चैतत्तपोबलम् |
अजानतां नः सर्वेषां सर्वमाख्यातुमर्हसि || ||

एवमुक्ता हनुमता तापसी धर्मचारिणी |
प्रत्युवाच हनूमन्तं सर्वभूतहिते रता || ||

मयो नाम महातेजा मायावी दानवर्षभः |
तेनेदं निर्मितं सर्वं मायया काञ्चनं वनम् || १०||

पुरा दानवमुख्यानां विश्वकर्मा बभूव |
येनेदं काञ्चनं दिव्यं निर्मितं भवनोत्तमम् || ११||

तु वर्षसहस्राणि तपस्तप्त्वा महावने |
पितामहाद्वरं लेभे सर्वमौशसनं धनम् || १२||

विधाय सर्वं बलवान्सर्वकामेश्वरस्तदा |
उवास सुखितः कालं कं चिदस्मिन्महावने || १३||

तमप्सरसि हेमायां सक्तं दानवपुङ्गवम् |
विक्रम्यैवाशनिं गृह्य जघानेशः पुरन्दरः || १४||

इदं ब्रह्मणा दत्तं हेमायै वनमुत्तमम् |
शाश्वतः कामभोगश्च गृहं चेदं हिरण्मयम् || १५||

दुहिता मेरुसावर्णेरहं तस्याः स्वयं प्रभा |
इदं रक्षामि भवनं हेमाया वानरोत्तम || १६||

मम प्रियसखी हेमा नृत्तगीतविशारदा |
तया दत्तवरा चास्मि रक्षामि भवनोत्तमम् || १७||

किं कार्यं कस्य वा हेतोः कान्ताराणि प्रपद्यथ |
कथं चेदं वनं दुर्गं युष्माभिरुपलक्षितम् || १८||

इमान्यभ्यवहार्याणि मूलानि फलानि |
भुक्त्वा पीत्वा पानीयं सर्वं मे वक्तुमर्हथ || १९||

19

1409

That Yogini’s name is Swayamprabha, the daughter of Meru Savarni.  She told them that a demon named Maya built that cave, with Golden mansions as a heaven on earth.  As he was interested in an Apsara by name Hema, Indra got infuriated and eliminated Maya. 

Brahma gifted that mansion to Hema, who enjoyed the luxuries for some time then handed over to her friend Swayamprabha. Swayamprabha offers hospitality to all the monkeys, who entered that cave.

52

अथ तानब्रवीत्सर्वान्विश्रान्तान्हरियूथपान् |
इदं वचनमेकाग्रा तापसी धर्मचारिणी || ||

वानरा यदि वः खेदः प्रनष्टः फलभक्षणात् |
यदि चैतन्मया श्राव्यं श्रोतुमिच्छामि कथ्यताम् || ||

तस्यास्तद्वचनं श्रुत्वा हनुमान्मारुतात्मजः |
आर्जवेन यथातत्त्वमाख्यातुमुपचक्रमे || ||

राजा सर्वस्य लोकस्य महेन्द्रवरुणोपमः |
रामो दाशरथिः श्रीमान्प्रविष्टो दण्डकावनम् || ||

लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया |
तस्य भार्या जनस्थानाद्रावणेन हृता बलात् || ||

वीरस्तस्य सखा राज्ञः सुग्रीवो नाम वानरः |
राजा वानरमुख्यानां येन प्रस्थापिता वयम् || ||

अगस्त्यचरितामाशां दक्षिणां यमरक्षिताम् |
सहैभिर्वानरैर्मुख्यैरङ्गदप्रमुखैर्वयम् || ||

रावणं सहिताः सर्वे राक्षसं कामरूपिणम् |
सीतया सह वैदेह्या मार्गध्वमिति चोदिताः || ||

विचित्य तु वयं सर्वे समग्रां दक्षिणां दिशम् |
बुभुक्षिताः परिश्रान्ता वृक्षमूलमुपाश्रिताः || ||

विवर्णवदनाः सर्वे सर्वे ध्यानपरायणाः |
नाधिगच्छामहे पारं मग्नाश्चिन्तामहार्णवे || १०||

चारयन्तस्ततश्चक्षुर्दृष्टवन्तो महद्बिलम् |
लतापादपसञ्चन्नं तिमिरेण समावृतम् || ११||

अस्माद्धंसा जलक्लिन्नाः पक्षैः सलिलरेणुभिः |
कुरराः सारसाश्चैव निष्पतन्ति पतत्रिणः |
साध्वत्र प्रविशामेति मया तूक्ताः प्लवङ्गमाः || १२||

तेषामपि हि सर्वेषामनुमानमुपागतम् |
गच्छामः प्रविशामेति भर्तृकार्यत्वरान्विताः || १३||

ततो गाढं निपतिता गृह्य हस्तौ परस्परम् |
इदं प्रविष्टाः सहसा बिलं तिमिरसंवृतम् || १४||

एतन्नः कायमेतेन कृत्येन वयमागताः |
त्वां चैवोपगताः सर्वे परिद्यूना बुभुक्षिताः || १५||

आतिथ्यधर्मदत्तानि मूलानि फलानि |
अस्माभिरुपभुक्तानि बुभुक्षापरिपीडितैः || १६||

यत्त्वया रक्षिताः सर्वे म्रियमाणा बुभुक्षया |
ब्रूहि प्रत्युपकारार्थं किं ते कुर्वन्तु वानराः || १७||

एवमुक्ता तु सर्वज्ञा वानरैस्तैः स्वयम्प्रभा |
प्रत्युवाच ततः सर्वानिदं वानरयूथपम् || १८||

सर्वेषां परितुष्टास्मि वानराणां तरस्विनाम् |
चरन्त्या मम धर्मेण कार्यमिह केन चित् || १९||

19

1428

On listening to Shri Hanuman as to why they had entered that cave, Yogini Swayamprabha becomes sympathetic and uses her ascetic powers to transport the Vanaras from that cave, which exit is otherwise impossible for any other intruder.

53

एवमुक्तः शुभं वाक्यं तापस्या धर्मसंहितम् |
उवाच हनुमान्वाक्यं तामनिन्दितचेष्टिताम् || ||

शरणं त्वां प्रपन्नाः स्मः सर्वे वै धर्मचारिणि |
यः कृतः समयोऽस्माकं सुग्रीवेण महात्मना |
तु कालो व्यतिक्रान्तो बिले परिवर्तताम् || ||

सा त्वमस्माद्बिलाद्घोरादुत्तारयितुमर्हसि || ||

तस्मात्सुग्रीववचनादतिक्रान्तान्गतायुषः |
त्रातुमर्हसि नः सर्वान्सुग्रीवभयशङ्कितान् || ||

महच्च कार्यमस्माभिः कर्तव्यं धर्मचारिणि |
तच्चापि कृतं कार्यमस्माभिरिह वासिभिः || ||

एवमुक्ता हनुमता तापसी वाक्यमब्रवीत् |
जीवता दुष्करं मन्ये प्रविष्टेन निवर्तितुम् || ||

तपसस्तु प्रभावेन नियमोपार्जितेन |
सर्वानेव बिलादस्मादुद्धरिष्यामि वानरान् || ||

निमीलयत चक्षूंषि सर्वे वानरपुङ्गवाः |
हि निष्क्रमितुं शक्यमनिमीलितलोचनैः || ||

ततः संमीलिताः सर्वे सुकुमाराङ्गुलैः करैः |
सहसा पिदधुर्दृष्टिं हृष्टा गमनकाङ्क्षिणः || ||

वानरास्तु महात्मानो हस्तरुद्धमुखास्तदा |
निमेषान्तरमात्रेण बिलादुत्तारितास्तया || १०||

ततस्तान्वानरान्सर्वांस्तापसी धर्मचारिणी |
निःसृतान्विषमात्तस्मात्समाश्वास्येदमब्रवीत् || ११||

एष विन्ध्यो गिरिः श्रीमान्नानाद्रुमलतायुतः |
एष प्रसवणः शैलः सागरोऽयं महोदधिः || १२||

स्वस्ति वोऽस्तु गमिष्यामि भवनं वानरर्षभाः |
इत्युक्त्वा तद्बिलं श्रीमत्प्रविवेश स्वयम्प्रभा || १३||

ततस्ते ददृशुर्घोरं सागरं वरुणालयम् |
अपारमभिगर्जन्तं घोरैरूर्मिभिराकुलम् || १४||

मयस्य माया विहितं गिरिदुर्गं विचिन्वताम् |
तेषां मासो व्यतिक्रान्तो यो राज्ञा समयः कृतः || १५||

विन्ध्यस्य तु गिरेः पादे सम्प्रपुष्पितपादपे |
उपविश्य महाभागाश्चिन्तामापेदिरे तदा || १६||

ततः पुष्पातिभाराग्राँल्लताशतसमावृतान् |
द्रुमान्वासन्तिकान्दृष्ट्वा बभूवुर्भयशङ्किताः || १७||

ते वसन्तमनुप्राप्तं प्रतिवेद्य परस्परम् |
नष्टसन्देशकालार्था निपेतुर्धरणीतले || १८||

तु सिंहर्षभ स्कन्धः पीनायतभुजः कपिः |
युवराजो महाप्राज्ञ अङ्गदो वाक्यमब्रवीत् || १९||

शासनात्कपिराजस्य वयं सर्वे विनिर्गताः |
मासः पूर्णो बिलस्थानां हरयः किं बुध्यते || २०||

तस्मिन्नतीते काले तु सुग्रीवेण कृते स्वयम् |
प्रायोपवेशनं युक्तं सर्वेषां वनौकसाम् || २१||

तीक्ष्णः प्रकृत्या सुग्रीवः स्वामिभावे व्यवस्थितः |
क्षमिष्यति नः सर्वानपराधकृतो गतान् || २२||

अप्रवृत्तौ सीतायाः पापमेव करिष्यति |
तस्मात्क्षममिहाद्यैव प्रायोपविशनं हि नः || २३||

त्यक्त्वा पुत्रांश्च दारांश्च धनानि गृहाणि |
यावन्न घातयेद्राजा सर्वान्प्रतिगतानितः |
वधेनाप्रतिरूपेण श्रेयान्मृत्युरिहैव नः || २४||

चाहं यौवराज्येन सुग्रीवेणाभिषेचितः |
नरेन्द्रेणाभिषिक्तोऽस्मि रामेणाक्लिष्टकर्मणा || २५||

पूर्वं बद्धवैरो मां राजा दृष्ट्वा व्यतिक्रमम् |
घातयिष्यति दण्डेन तीक्ष्णेन कृतनिश्चयः || २६||

किं मे सुहृद्भिर्व्यसनं पश्यद्भिर्जीवितान्तरे |
इहैव प्रायमासिष्ये पुण्ये सागररोधसि || २७||

एतच्छ्रुत्वा कुमारेण युवराजेन भाषितम् |
सर्वे ते वानरश्रेष्ठाः करुणं वाक्यमब्रुवन् || २८||

तीक्ष्णः प्रकृत्या सुग्रीवः प्रियासक्तश्च राघवः |
अदृष्टायां वैदेह्यां दृष्ट्वास्मांश्च समागतान् || २९||

राघवप्रियकामार्थं घातयिष्यत्यसंशयम् |
क्षमं चापराद्धानां गमनं स्वामिपार्श्वतः || ३०||

प्लवङ्गमानां तु भयार्दितानां
श्रुत्वा वचस्तार इदं बभाषे |
अलं विषादेन बिलं प्रविश्य
वसाम सर्वे यदि रोचते वः || ३१||

इदं हि माया विहितं सुदुर्गमं
प्रभूतवृक्षोदकभोज्यपेयम् |
इहास्ति नो नैव भयं पुरन्दरान्
राघवाद्वानरराजतोऽपि वा || ३२||

श्रुत्वाङ्गदस्यापि वचोऽनुकूलम्
ऊचुश्च सर्वे हरयः प्रतीताः |
यथा हन्येम तथाविधानम्
असक्तमद्यैव विधीयतां नः || ३३||

33

1461

The vanaras found themselves before the ocean and that already Vasanta Ritu (season) had arrived, indicating that they had crossed the deadline fixed by Sugreeva. 

Angada proposes fast unto death as this troop of Vanaras failed to find Seetha, and the timeframe fixed by Sugreeva has also lapsed, and if they return to Kishkindha, it is sure that Sugreeva would kill them.

 

 इत्यार्षे श्री रामायणे किष्किन्धाकाण्डे षोडश: भाग:

 

Kiṣkindhākāṇḍa Part-15

Kiṣkindhākāṇḍa Part-17

 

No comments:

Post a Comment