किष्किन्धाकाण्ड - Kiṣkindhākāṇḍa (भाग - १७ ;;; Part – 17)
|
Sarga
number as per Ramayana |
Shlokas
extracted |
No. of shlokas |
Cumulative number of shlokas in this
Kanda |
|
54 |
तथा
ब्रुवति तारे तु ताराधिपतिवर्चसि | बुद्ध्या ह्यष्टाङ्गया युक्तं चतुर्बलसमन्वितम् | आपूर्यमाणं शश्वच्च तेजोबलपराक्रमैः | बृहस्पतिसमं बुद्ध्या विक्रमे सदृशं पितुः | भर्तुरर्थे परिश्रान्तं सर्वशास्त्रविशारदम् | स
चतुर्णामुपायानां तृतीयमुपवर्णयन् | तेषु
सर्वेषु भिन्नेषु ततोऽभीषयदङ्गदम् | त्वं
समर्थतरः पित्रा युद्धे तारेय वै धुरम् | नित्यमस्थिरचित्ता हि कपयो हरिपुङ्गव | त्वां
नैते ह्यनुयुञ्जेयुः प्रत्यक्षं प्रवदामि ते | न
ह्यहं त इमे सर्वे सामदानादिभिर्गुणैः | विगृह्यासनमप्याहुर्दुर्बलेन बलीयसः | यां
चेमां मन्यसे धात्रीमेतद्बिलमिति श्रुतम् | स्वल्पं हि कृतमिन्द्रेण क्षिपता ह्यशनिं पुरा | अवस्थाने यदैव त्वमासिष्यसि परन्तप | स्मरन्तः पुत्रदाराणां नित्योद्विग्ना बुभुक्षिताः | स
त्वं हीनः सुहृद्भिश्च हितकामैश्च बन्धुभिः | न
च जातु न हिंस्युस्त्वां घोरा लक्ष्मणसायकाः | अस्माभिस्तु गतं सार्धं विनीतवदुपस्थितम् | धर्मकामः पितृव्यस्ते प्रीतिकामो दृढव्रतः | प्रियकामश्च ते मातुस्तदर्थं चास्य जीवितम् | |
21 |
1482 |
|
Shri Hanuman advises
Angada and others to desist from resorting to fast unto death, from the fear
of Sugreeva. |
|||
|
55 |
श्रुत्वा हनुमतो वाक्यं प्रश्रितं धर्मसंहितम् | स्थैर्यं सर्वात्मना शौचमानृशंस्यमथार्जवम् | भ्रातुर्ज्येष्ठस्य यो भार्यां जीवितो महिषीं प्रियाम् | कथं
स धर्मं जानीते येन भ्रात्रा दुरात्मना | सत्यात्पाणिगृहीतश्च कृतकर्मा महायशाः | लक्ष्मणस्य भयाद्येन नाधर्मभयभीरुणा | तस्मिन्पापे कृतघ्ने तु स्मृतिहीने चलात्मनि | राज्ये पुत्रं प्रतिष्ठाप्य सगुणो निर्गुणोऽपि वा | भिन्नमन्त्रोऽपराद्धश्च हीनशक्तिः कथं ह्यहम् | उपांशुदण्डेन हि मां बन्धनेनोपपादयेत् | बन्धनाच्चावसादान्मे श्रेयः प्रायोपवेशनम् | अहं
वः प्रतिजानामि न गमिष्याम्यहं पुरीम् | अभिवादनपूर्वं तु राजा कुशलमेव च | आरोग्यपूर्वं कुशलं वाच्या माता रुमा च मे | प्रकृत्या प्रियपुत्रा सा सानुक्रोशा तपस्विनी | एतावदुक्त्वा वचनं वृद्धानप्यभिवाद्य च | तस्य
संविशतस्तत्र रुदन्तो वानरर्षभाः | सुग्रीवं चैव निन्दन्तः प्रशंसन्तश्च वालिनम् | मतं
तद्वालिपुत्रस्य विज्ञाय प्लवगर्षभाः | स
संविशद्भिर्बहुभिर्महीधरो बभूव
संनादितनिर्झरान्तरो |
21 |
1503 |
|
Angada and others do
not pay heed to Shri Hanuman’s advice.
Vanaras recount everything and that of Jataayu’s death in the encounter
with Ravana. |
|||
|
56 |
उपविष्टास्तु ते सर्वे यस्मिन्प्रायं गिरिस्थले | साम्पातिर्नाम नाम्ना तु चिरजीवी विहङ्गमः | कन्दरादभिनिष्क्रम्य स विन्ध्यस्य महागिरेः | विधिः
किल नरं लोके विधानेनानुवर्तते | परम्पराणां भक्षिष्ये वानराणां मृतं मृतम् | तस्य
तद्वचनं श्रुत्वा भक्षलुब्धस्य पक्षिणः | पश्य
सीतापदेशेन साक्षाद्वैवस्वतो यमः | रामस्य न कृतं कार्यं राज्ञो न च वचः कृतम् | वैदेह्याः प्रियकामेन कृतं कर्म जटायुषा | तथा
सर्वाणि भूतानि तिर्यग्योनिगतान्यपि | राघवार्थे परिश्रान्ता वयं सन्त्यक्तजीविताः | स
सुखी गृध्रराजस्तु रावणेन हतो रणे | जटायुषो विनाशेन राज्ञो दशरथस्य च | रामलक्ष्मणयोर्वासामरण्ये सह सीतया | रामकोपादशेषाणां राक्षसानां तथा वधः | तत्तु
श्रुत्वा तदा वाक्यमङ्गदस्य मुखोद्गतम् | कोऽयं
गिरा घोषयति प्राणैः प्रियतरस्य मे | कथमासीज्जनस्थाने युद्धं राक्षसगृध्रयोः | यवीयसो गुणज्ञस्य श्लाघनीयस्य विक्रमैः | भ्रातुर्जटायुषस्तस्य जनस्थाननिवासिनः | सूर्यांशुदग्धपक्षत्वान्न शक्नोमि विसर्पितुम् | |
21 |
1524 |
|
Sampaati, the elder
brother of Jatayu, who saw vanaras, wanted to gluttonise all the vanara-s.
However, when he hears about Jataayu's death, seeks their help to lower him
down from mountain heights, to listen more of his brother Jataayu. |
|||
|
57 |
शोकाद्भ्रष्टस्वरमपि श्रुत्वा ते हरियूथपाः | ते
प्रायमुपविष्टास्तु दृष्ट्वा गृध्रं प्लवङ्गमाः | सर्वथा प्रायमासीनान्यदि नो भक्षयिष्यति | एतां
बुद्धिं ततश्चक्रुः सर्वे ते वानरर्षभाः | बभूवुर्क्षरजो नाम वानरेन्द्रः प्रतापवान् | सुग्रीवश्चैव वली च पुत्रावोघबलावुभौ | राजा
कृत्स्नस्य जगत इक्ष्वाकूणां महारथः | लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया | रामस्य च पितुर्मित्रं जटायुर्नाम गृध्रराट् | रावणं
विरथं कृत्वा स्थापयित्वा च मैथिलीम् | एवं
गृध्रो हतस्तेन रावणेन बहीयसा | ततो
मम पितृव्येण सुग्रीवेण महात्मना | माम
पित्रा विरुद्धो हि सुग्रीवः सचिवैः सह | स
राज्ये स्थापितस्तेन सुग्रीवो वानरेश्वरः | एवं
रामप्रयुक्तास्तु मार्गमाणास्ततस्ततः | ते
वयं दण्दकारण्यं विचित्य सुसमाहिताः | मयस्य
माया विहितं तद्बिलं च विचिन्वताम् | ते
वयं कपिराजस्य सर्वे वचनकारिणः | क्रुद्धे तस्मिंस्तु काकुत्स्थे सुग्रीवे च सलक्ष्मणे | |
19 |
1543 |
|
Angada narrates their
story to Sampaati, viz., Seeta’s abduction, Jatayu’s death, the friendship
between Sugreeva and Shri Rama, their search for Seeta. He explains that as they
transgressed the order of Sugreeva, they did not return to Kishkindha, and
therefore they resorted to fast-unto-death. |
|||
इत्यार्षे श्री
रामायणे किष्किन्धाकाण्डे
सप्तदश: भाग:
No comments:
Post a Comment