Wednesday, December 31, 2025

किष्किन्धाकाण्ड - Kiṣkindhākāṇḍa (भाग - १८ ;;; Part – 18)

 

किष्किन्धाकाण्ड - Kiṣkindhākāṇḍa (भाग - १८ ;;; Part – 18)

Sarga number as per Ramayana

Shlokas extracted

No. of shlokas

Cumulative number of shlokas in this Kanda

58

इत्युक्तः करुणं वाक्यं वानरैस्त्यक्तजीवितैः |
सबाष्पो वानरान्गृध्रः प्रत्युवाच महास्वनः || १||

यवीयान्मम स भ्राता जटायुर्नाम वानराः |
यमाख्यात हतं युद्धे रावणेन बलीयसा || २||

वृद्धभावादपक्षत्वाच्छृण्वंस्तदपि मर्षये |
न हि मे शक्तिरद्यास्ति भ्रातुर्वैरविमोक्षणे || ३||

पुरा वृत्रवधे वृत्ते स चाहं च जयैषिणौ |
आदित्यमुपयातौ स्वो ज्वलन्तं रश्मिमालिनम् || ४||

आवृत्याकाशमार्गेण जवेन स्म गतौ भृशम् |
मध्यं प्राप्ते च सूर्ये च जटायुरवसीदति || ५||

तमहं भ्रातरं दृष्ट्वा सूर्यरश्मिभिरर्दितम् |
पक्षाभ्यं छादयामास स्नेहात्परमविह्वलम् || ६||

निर्दग्धपक्षः पतितो विन्ध्येऽहं वानरोत्तमाः |
अहमस्मिन्वसन्भ्रातुः प्रवृत्तिं नोपलक्षये || ७||

जटायुषस्त्वेवमुक्तो भ्रात्रा सम्पातिना तदा |
युवराजो महाप्राज्ञः प्रत्युवाचाङ्गदस्तदा || ८||

जटायुषो यदि भ्राता श्रुतं ते गदितं मया |
आख्याहि यदि जानासि निलयं तस्य रक्षसः || ९||

अदीर्घदर्शिनं तं वा रावणं राक्षसाधिपम् |
अन्तिके यदि वा दूरे यदि जानासि शंस नः || १०||

ततोऽब्रवीन्महातेजा ज्येष्ठो भ्राता जटायुषः |
आत्मानुरूपं वचनं वानरान्सम्प्रहर्षयन् || ११||

निर्दग्धपक्षो गृध्रोऽहं गतवीर्यः प्लवङ्गमाः |
वाङ्मात्रेण तु रामस्य करिष्ये साह्यमुत्तमम् || १२||

जानामि वारुणाल्लोकान्विष्णोस्त्रैविक्रमानपि |
देवासुरविमर्दांश्च अमृतस्य च मन्थनम् || १३||

रामस्य यदिदं कार्यं कर्तव्यं प्रथमं मया |
जरया च हृतं तेजः प्राणाश्च शिथिला मम || १४||

तरुणी रूपसम्पन्ना सर्वाभरणभूषिता |
ह्रियमाणा मया दृष्टा रावणेन दुरात्मना || १५||

क्रोशन्ती राम रामेति लक्ष्मणेति च भामिनी |
भूषणान्यपविध्यन्ती गात्राणि च विधुन्वती || १६||

सूर्यप्रभेव शैलाग्रे तस्याः कौशेयमुत्तमम् |
असिते राक्षसे भाति यथा वा तडिदम्बुदे || १७||

तां तु सीतामहं मन्ये रामस्य परिकीर्तनात् |
श्रूयतां मे कथयतो निलयं तस्य रक्षसः || १८||

पुत्रो विश्रवसः साक्षाद्भ्राता वैश्रवणस्य च |
अध्यास्ते नगरीं लङ्कां रावणो नाम राकसः || १९||

इतो द्वीपे समुद्रस्य सम्पूर्णे शतयोजने |
तस्मिँल्लङ्का पुरी रम्या निर्मिता विश्वकर्मणा || २०||

तस्यां वसति वैदेही दीना कौशेयवासिनी |
रावणान्तःपुरे रुद्धा राक्षसीभिः सुरक्षिता || २१||

जनकस्यात्मजां राज्ञस्तस्यां द्रक्ष्यथ मैथिलीम् |
लङ्कायामथ गुप्तायां सागरेण समन्ततः || २२||

सम्प्राप्य सागरस्यान्तं सम्पूर्णं शतयोजनम् |
आसाद्य दक्षिणं कूलं ततो द्रक्ष्यथ रावणम् || २३||

तत्रैव त्वरिताः क्षिप्रं विक्रमध्वं प्लवङ्गमाः |
ज्ञानेन खलु पश्यामि दृष्ट्वा प्रत्यागमिष्यथ || २४||

आद्यः पन्थाः कुलिङ्गानां ये चान्ये धान्यजीविनः |
द्वितीयो बलिभोजानां ये च वृक्षफलाशिनः || २५||

भासास्तृतीयं गच्छन्ति क्रौञ्चाश्च कुररैः सह |
श्येनाश्चतुर्थं गच्छन्ति गृध्रा गच्छन्ति पञ्चमम् || २६||

बलवीर्योपपन्नानां रूपयौवनशालिनाम् |
षष्ठस्तु पन्था हंसानां वैनतेयगतिः परा |
वैनतेयाच्च नो जन्म सर्वेषां वानरर्षभाः || २७||

गर्हितं तु कृतं कर्म येन स्म पिशिताशनाः |
इहस्थोऽहं प्रपश्यामि रावणं जानकीं तथा || २८||

अस्माकमपि सौवर्णं दिव्यं चक्षुर्बलं तथा |
तस्मादाहारवीर्येण निसर्गेण च वानराः |
आयोजनशतात्साग्राद्वयं पश्याम नित्यशः || २९||

अस्माकं विहिता वृत्तिर्निसार्गेण च दूरतः |
विहिता पादमूले तु वृत्तिश्चरणयोधिनाम् || ३०||

उपायो दृश्यतां कश्चिल्लङ्घने लवणाम्भसः |
अभिगम्य तु वैदेहीं समृद्धार्था गमिष्यथ || ३१||

समुद्रं नेतुमिच्छामि भवद्भिर्वरुणालयम् |
प्रदास्याम्युदकं भ्रातुः स्वर्गतस्य महात्मनः || ३२||

ततो नीत्वा तु तं देशं तीरे नदनदीपतेः |
निर्दग्धपक्षं सम्पातिं वानराः सुमहौजसः || ३३||

पुनः प्रत्यानयित्वा वै तं देशं पतगेश्वरम् |
बभूवुर्वानरा हृष्टाः प्रवृत्तिमुपलभ्य ते || ३४||

34

1577

Sampaati informs Angada about his brother Jataayu's flight, along with his brother Jatayu, towards Sun and consequential plight.

Sampaati narrates, being able to see a woman in the midst of women demons in the Lanka, which is 100 Yojanas distance from there. On hearing that information, the vanaras feel highly rejoiced on the seashore.

59

ततस्तदमृतास्वादं गृध्रराजेन भाषितम् |
निशम्य वदतो हृष्टास्ते वचः प्लवगर्षभाः || १||

जाम्बवान्वै हरिश्रेष्ठः सह सर्वैः प्लवङ्गमैः |
भूतलात्सहसोत्थाय गृध्रराजानमब्रवीत् || २||

क्व सीता केन वा दृष्टा को वा हरति मैथिलीम् |
तदाख्यातु भवान्सर्वं गतिर्भव वनौकसाम् || ३||

को दाशरथिबाणानां वज्रवेगनिपातिनाम् |
स्वयं लक्ष्मणमुक्तानां न चिन्तयति विक्रमम् || ४||

स हरीन्प्रीतिसंयुक्तान्सीता श्रुतिसमाहितान् |
पुनराश्वासयन्प्रीत इदं वचनमब्रवीत् || ५||

श्रूयतामिह वैदेह्या यथा मे हरणं श्रुतम् |
येन चापि ममाख्यातं यत्र चायतलोचना || ६||

अहमस्मिन्गिरौ दुर्गे बहुयोजनमायते |
चिरान्निपतितो वृद्धः क्षीणप्राणपराक्रमः || ७||

तं मामेवङ्गतं पुत्रः सुपार्श्वो नाम नामतः |
आहारेण यथाकालं बिभर्ति पततां वरः || ८||

तीक्ष्णकामास्तु गन्धर्वास्तीक्ष्णकोपा भुजङ्गमाः |
मृगाणां तु भयं तीक्ष्णं ततस्तीक्ष्णक्षुधा वयम् || ९||

स कदा चित्क्षुधार्तस्य मम चाहारकाङ्क्षिणः |
गतसूर्योऽहनि प्राप्तो मम पुत्रो ह्यनामिषः || १०||

स मया वृद्धभावाच्च कोपाच्च परिभर्त्सितः |
क्षुत्पिपासा परीतेन कुमारः पततां वरः || ११||

स ममाहारसंरोधात्पीडितः प्रीतिवर्धनः |
अनुमान्य यथातत्त्वमिदं वचनमब्रवीत् || १२||

अहं तात यथाकालमामिषार्थी खमाप्लुतः |
महेन्द्रस्य गिरेर्द्वारमावृत्य च समास्थितः || १३||

तत्र सत्त्वसहस्राणां सागरान्तरचारिणाम् |
पन्थानमेकोऽध्यवसं संनिरोद्धुमवाङ्मुखः || १४||

तत्र कश्चिन्मया दृष्टः सूर्योदयसमप्रभाम् |
स्त्रियमादाय गच्छन्वै भिन्नाञ्जनचयोपमः || १५||

सोऽहमभ्यवहारार्थी तौ दृष्ट्वा कृतनिश्चयः |
तेन साम्ना विनीतेन पन्थानमभियाचितः || १६||

न हि सामोपपन्नानां प्रहर्ता विद्यते क्व चित् |
नीचेष्वपि जनः कश्चित्किमङ्ग बत मद्विधः || १७||

स यातस्तेजसा व्योम सङ्क्षिपन्निव वेगतः |
अथाहं खे चरैर्भूतैरभिगम्य सभाजितः || १८||

दिष्ट्या जीवसि तातेति अब्रुवन्मां महर्षयः |
कथं चित्सकलत्रोऽसौ गतस्ते स्वस्त्यसंशयम् || १९||

एवमुक्तस्ततोऽहं तैः सिद्धैः परमशोभनैः |
स च मे रावणो राजा रक्षसां प्रतिवेदितः || २०||

हरन्दाशरथेर्भार्यां रामस्य जनकात्मजाम् |
भ्रष्टाभरणकौशेयां शोकवेगपराजिताम् || २१||

रामलक्ष्मणयोर्नाम क्रोशन्तीं मुक्तमूर्धजाम् |
एष कालात्ययस्तावदिति वाक्यविदां वरः || २२||

एतमर्थं समग्रं मे सुपार्श्वः प्रत्यवेदयत् |
तच्छ्रुत्वापि हि मे बुद्धिर्नासीत्का चित्पराक्रमे || २३||

अपक्षो हि कथं पक्षी कर्म किं चिदुपक्रमेत् |
यत्तु शक्यं मया कर्तुं वाग्बुद्धिगुणवर्तिना || २४||

श्रूयतां तत्प्रवक्ष्यामि भवतां पौरुषाश्रयम् |
वाङ्मतिभ्यां हि सार्वेषां करिष्यामि प्रियं हि वः |
यद्धि दाशरथेः कार्यं मम तन्नात्र संशयः || २५||

ते भवन्तो मतिश्रेष्ठा बलवन्तो मनस्विनः |
सहिताः कपिराजेन देवैरपि दुरासदाः || २६||

रामलक्ष्मणबाणाश्च निशिताः कङ्कपत्रिणः |
त्रयाणामपि लोकानां पर्याप्तास्त्राणनिग्रहे || २७||

कामं खलु दशग्रीवस्तेजोबलसमन्वितः |
भवतां तु समर्थानां न किं चिदपि दुष्करम् || २८||

तदलं कालसङ्गेन क्रियतां बुद्धिनिश्चयः |
न हि कर्मसु सज्जन्ते बुद्धिमन्तो भवद्विधाः || २९||

29

1606

Sampaati details the information given by his son Supaarshva, who is the eyewitness in her abduction by Ravana.

60

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 61


62

ततः कृतोदकं स्नातं तं गृध्रं हरियूथपाः |
उपविष्टा गिरौ दुर्गे परिवार्य समन्ततः || १||

तमङ्गदमुपासीनं तैः सर्वैर्हरिभिर्वृतम् |
जनितप्रत्ययो हर्षात्सम्पातिः पुनरब्रवीत् || २||

आसीच्चात्राश्रमं पुण्यं सुरैरपि सुपूजितम् |
ऋषिर्निशाकरो नाम यस्मिन्नुग्रतपाभवत् || ३||

अष्टौ वर्षसहस्राणि तेनास्मिन्नृषिणा विना |
वसतो मम धर्मज्ञाः स्वर्गते तु निशाकरे || ४||

अवतीर्य च विन्ध्याग्रात्कृच्छ्रेण विषमाच्छनैः |
तीक्ष्णदर्भां वसुमतीं दुःखेन पुनरागतः ||५ ||

तमृषिं द्रष्टु कामोऽस्मि दुःखेनाभ्यागतो भृशम् |
जटायुषा मया चैव बहुशोऽभिगतो हि सः || ६||

तस्याश्रमपदाभ्याशे ववुर्वाताः सुगन्धिनः |
वृक्षो नापुष्पितः कश्चिदफलो वा न दृश्यते || ७||

उपेत्य चाश्रमं पुण्यं वृक्षमूलमुपाश्रितः |
द्रष्टुकामः प्रतीक्षे च भगवन्तं निशाकरम् || ८||

अथापश्यमदूरस्थमृषिं ज्वलिततेजसं |
कृताभिषेकं दुर्धर्षमुपावृत्तमुदङ्मुखम् || ९||

तमृक्षाः सृमरा व्याघ्राः सिंहा नागाः सरीसृपाः |
परिवार्योपगच्छन्ति दातारं प्राणिनो यथा || १०||

ततः प्राप्तमृषिं ज्ञात्वा तानि सत्त्वानि वै ययुः |
प्रविष्टे राजनि यथा सर्वं सामात्यकं बलम् || ११||

ऋषिस्तु दृष्ट्वा मां तुष्टः प्रविष्टश्चाश्रमं पुनः |
मुहूर्तमात्रान्निष्क्रम्य ततः कार्यमपृच्छत || १२||

सौम्य वैकल्यतां दृष्ट्वा रोंणां ते नावगम्यते |
अग्निदग्धाविमौ पक्षौ त्वक्चैव व्रणिता तव || १३||

द्वौ गृध्रौ दृष्टपूर्वौ मे मातरिश्वसमौ जवे |
गृध्राणां चैव राजानौ भ्रातरौ कामरूपिणौ || १४||

ज्येष्ठस्त्वं तु च सम्पातिर्जटायुरनुजस्तव |
मानुषं रूपमास्थाय गृह्णीतां चरणौ मम || १५ ||

किं ते व्याधिसमुत्थानं पक्षयोः पतनं कथम् |
दण्डो वायं धृतः केन सर्वमाख्याहि पृच्छतः || १६||

ततस्तद्दारुणं कर्म दुष्करं साहसात्कृतम् |
आचचक्षे मुनेः सर्वं सूर्यानुगमनं तथा || १७||

एवमुक्त्वा मुनिश्रेष्ठमरुदं दुःखितो भृशम् |

अथ ध्यात्वा मुहूर्तं तु भगवानिदमब्रवीत् || १८||

पक्षौ च ते प्रपक्षौ च पुनरन्यौ भविष्यतः |

चक्षुषी चैव प्राणाश्च विक्रमश्च बलं च ते ||१९||

एष्यन्त्यन्वेषकास्तस्या रामदूताः प्लवङ्गमाः |
आख्येया राममहिषी त्वया तेभ्यो विहङ्गम ||२०||

सर्वथा तु न गन्तव्यमीदृशः क्व गमिष्यसि |
देशकालौ प्रतीक्षस्व पक्षौ त्वं प्रतिपत्स्यसे || २१||

उत्सहेयमहं कर्तुमद्यैव त्वां सपक्षकम् |
इहस्थस्त्वं तु लोकानां हितं कार्यं करिष्यसि || २२||

त्वयापि खलु तत्कार्यं तयोश्च नृपपुत्रयोः |
ब्राह्मणानां सुराणां च मुनीनां वासवस्य च || २३||

इच्छाम्यहमपि द्रष्टुं भ्रातरु रामलक्ष्मणौ |
नेच्छे चिरं धारयितुं प्राणांस्त्यक्ष्ये कलेवरम् || २४||

24

1630

Sampaati narrates his legend to Angada and others, as to how he reached a sage called Nishaakara descending Mt. Vindhya with great difficulty. Sampaati explained Sage Nishakara as to how his wings were burnt, when he and his brother Jataayu were flying competitively near at the sun.

Sage Nishakara advises Sampaati to wait for Vanaras, the messengers of Shri Rama, to come in search of Seetha. As Sampaati has to guide the Vanaras towards the location where Seetha is incarcerated, the sage told him to wait till their arrival.

63

एतैरन्यैश्च बहुभिर्वाक्यैर्वाक्यविशारदः |
मां प्रशस्याभ्यनुज्ञाप्य प्रविष्टः स स्वमाश्रमम् || १||

कन्दरात्तु विसर्पित्वा पर्वतस्य शनैः शनैः |
अहं विन्ध्यं समारुह्य भवतः प्रतिपालये || २||

अद्य त्वेतस्य कालस्य साग्रं वर्षशतं गतम् |
देशकालप्रतीक्षोऽस्मि हृदि कृत्वा मुनेर्वचः || ३||

महाप्रस्थानमासाद्य स्वर्गते तु निशाकरे |
मां निर्दहति सन्तापो वितर्कैर्बहुभिर्वृतम् || ४||

उत्थितां मरणे बुद्धिं मुनि वाक्यैर्निवर्तये |
बुद्धिर्या तेन मे दत्ता प्राणसंरक्षणाय तु |
सा मेऽपनयते दुःखं दीप्तेवाग्निशिखा तमः || ५||

बुध्यता च मया वीर्यं रावणस्य दुरात्मनः |
पुत्रः सन्तर्जितो वाग्भिर्न त्राता मैथिली कथम् || ६||

तस्या विलपितं श्रुत्वा तौ च सीता विनाकृतौ |
न मे दशरथस्नेहात्पुत्रेणोत्पादितं प्रियम् || ७||

तस्य त्वेवं ब्रुवाणस्य सम्पातेर्वानरैः सह |
उत्पेततुस्तदा पक्षौ समक्षं वनचारिणाम् || ८||

स दृष्ट्वा स्वां तनुं पक्षैरुद्गतैररुणच्छदैः |
प्रहर्षमतुलं लेभे वानरांश्चेदमब्रवीत् || ९||

निशाकरस्य महर्षेः प्रभावादमितात्मनः |
आदित्यरश्मिनिर्दग्धौ पक्षौ मे पुनरुत्थितौ || १०||

यौवने वर्तमानस्य ममासीद्यः पराक्रमः |
तमेवाद्यावगच्छामि बलं पौरुषमेव च || ११||

सर्वथा क्रियतां यत्नः सीतामधिगमिष्यथ |
पक्षलाभो ममायं वः सिद्धिप्रत्यय कारकः || १२||

इत्युक्त्वा तान्हरीन्सर्वान्सम्पातिः पततां वरः |
उत्पपात गिरेः शृङ्गाज्जिज्ञासुः खगमो गतिम् || १३||

तस्य तद्वचनं श्रुत्वा प्रीतिसंहृष्टमानसाः |
बभूवुर्हरिशार्दूला विक्रमाभ्युदयोन्मुखाः || १४||

अथ पवनसमानविक्रमाः
प्लवगवराः प्रतिलब्ध पौरुषाः |
अभिजिदभिमुखां दिशं ययुर्
जनकसुता परिमार्गणोन्मुखाः || १५||

15

1645

Sampaati regains his wings when he passes information to the vanaras. Sampaati flies away for flight-test of his newborn wings wishing the vanaras success. Then, the elated vanaras move towards the ocean.

 

इत्यार्षे श्री रामायणे किष्किन्धाकाण्डे अष्टादश: भाग:

 

Kiṣkindhākāṇḍa Part-17

Kiṣkindhākāṇḍa Part-19

 

No comments:

Post a Comment