Monday, December 29, 2025

किष्किन्धाकाण्ड - Kiṣkindhākāṇḍa (भाग - ३ ;;; Part – 3)

 

किष्किन्धाकाण्ड - Kiṣkindhākāṇḍa (भाग - ;;; Part – 3)

Sarga number as per Ramayana

Shlokas extracted

No. of shlokas

Cumulative number of shlokas in this Kanda

8

परितुष्टस्तु सुग्रीवस्तेन वाक्येन वानरः |
लक्ष्मणस्याग्रजं राममिदं वचनमब्रवीत् || १||

सर्वथाहमनुग्राह्यो देवतानामसंशयः |
उपपन्नगुणोपेतः सखा यस्य भवान्मम || २||

शक्यं खलु भवेद्राम सहायेन त्वयानघ |
सुरराज्यमपि प्राप्तुं स्वराज्यं किं पुनः प्रभो || ३||

सोऽहं सभाज्यो बन्धूनां सुहृदां चैव राघव |
यस्याग्निसाक्षिकं मित्रं लब्धं राघववंशजम् || ४||

अहमप्यनुरूपस्ते वयस्यो ज्ञास्यसे शनैः |
न तु वक्तुं समर्थोऽहं स्वयमात्मगतान्गुणान् || ५||

महात्मनां तु भूयिष्ठं त्वद्विधानां कृतात्मनाम् |
निश्चला भवति प्रीतिर्धैर्यमात्मवताम् इव || ६||

रजतं वा सुवर्णं वा वस्त्राण्याभरणानि वा |
अविभक्तानि साधूनामवगच्छन्ति साधवः || ७||

आढ्यो वापि दरिद्रो वा दुःखितः सुखितोऽपि वा |
निर्दोषो वा सदोषो वा वयस्यः परमा गतिः || ८||

धनत्यागः सुखत्यागो देहत्यागोऽपि वा पुनः |
वयस्यार्थे प्रवर्तन्ते स्नेहं दृष्ट्वा तथाविधम् || ९||

तत्तथेत्यब्रवीद्रामः सुग्रीवं प्रियवादिनम् |
लक्ष्मणस्याग्रतो लक्ष्म्या वासवस्येव धीमतः || १०||

ततो रामं स्थितं दृष्ट्वा लक्ष्मणं च महाबलम् |
सुग्रीवः सर्वतश्चक्षुर्वने लोलमपातयत् || ११||

स ददर्श ततः सालमविदूरे हरीश्वरः |
सुपुष्पमीषत्पत्राढ्यं भ्रमरैरुपशोभितम् || १२||

तस्यैकां पर्णबहुलां भङ्क्त्वा शाखां सुपुष्पिताम् |
सालस्यास्तीर्य सुग्रीवो निषसाद सराघवः || १३||

तावासीनौ ततो दृष्ट्वा हनूमानपि लक्ष्मणम् |
सालशाखां समुत्पाट्य विनीतमुपवेशयत् || १४||

ततः प्रहृष्टः सुग्रीवः श्लक्ष्णं मधुरया गिरा |
उवाच प्रणयाद्रामं हर्षव्याकुलिताक्षरम् || १५||

अहं विनिकृतो भ्रात्रा चराम्येष भयार्दितः |
ऋश्यमूकं गिरिवरं हृतभार्यः सुदुःखितः || १६||

सोऽहं त्रस्तो भये मग्नो वसाम्युद्भ्रान्तचेतनः |
वालिना निकृतो भ्रात्रा कृतवैरश्च राघव || १७||

वालिनो मे भयार्तस्य सर्वलोकाभयङ्कर |
ममापि त्वमनाथस्य प्रसादं कर्तुमर्हसि || १८||

एवमुक्तस्तु तेजस्वी धर्मज्ञो धर्मवत्सलः |
प्रत्युवाच स काकुत्स्थः सुग्रीवं प्रहसन्निव || १९||

उपकारफलं मित्रमपकारोऽरिलक्षणम् |
अद्यैव तं हनिष्यामि तव भार्यापहारिणम् || २०||

इमे हि मे महावेगाः पत्रिणस्तिग्मतेजसः |
कार्तिकेयवनोद्भूताः शरा हेमविभूषिताः || २१||

कङ्कपत्रप्रतिच्छन्ना महेन्द्राशनिसंनिभाः |
सुपर्वाणः सुतीक्ष्णाग्रा सरोषा भुजगा इव || २२||

भ्रातृसंज्ञममित्रं ते वालिनं कृतकिल्बिषम् |
शरैर्विनिहतं पश्य विकीर्णमिव पर्वतम् || २३||

राघवस्य वचः श्रुत्वा सुग्रीवो वाहिनीपतिः |
प्रहर्षमतुलं लेभे साधु साध्विति चाब्रवीत् || २४||

रामशोकाभिभूतोऽहं शोकार्तानां भवान्गतिः |
वयस्य इति कृत्वा हि त्वय्यहं परिदेवये || २५||

त्वं हि पाणिप्रदानेन वयस्यो सोऽग्निसाक्षिकः |
कृतः प्राणैर्बहुमतः सत्येनापि शपाम्यहम् || २६||

वयस्य इति कृत्वा च विस्रब्धं प्रवदाम्यहम् |
दुःखमन्तर्गतं यन्मे मनो दहति नित्यशः || २७||

एतावदुक्त्वा वचनं बाष्पदूषितलोचनः |
बाष्पोपहतया वाचा नोच्चैः शक्नोति भाषितुम् || २८||

बाष्पवेगं तु सहसा नदीवेगमिवागतम् |
धारयामास धैर्येण सुग्रीवो रामसंनिधौ || २९||

संनिगृह्य तु तं बाष्पं प्रमृज्य नयने शुभे |
विनिःश्वस्य च तेजस्वी राघवं पुनरब्रवीत् || ३०||

पुराहं वलिना राम राज्यात्स्वादवरोपितः |
परुषाणि च संश्राव्य निर्धूतोऽस्मि बलीयसा || ३१||

हृता भार्या च मे तेन प्राणेभ्योऽपि गरीयसी |
सुहृदश्च मदीया ये संयता बन्धनेषु ते || ३२||

यत्नवांश्च सुदुष्टात्मा मद्विनाशाय राघव |
बहुशस्तत्प्रयुक्ताश्च वानरा निहता मया || ३३||

शङ्कया त्वेतया चाहं दृष्ट्वा त्वामपि राघव |
नोपसर्पाम्यहं भीतो भये सर्वे हि बिभ्यति || ३४||

केवलं हि सहाया मे हनुमत्प्रमुखास्त्विमे |
अतोऽहं धारयाम्यद्य प्राणान्कृच्छ्र गतोऽपि सन् || ३५||

एते हि कपयः स्निग्धा मां रक्षन्ति समन्ततः |
सह गच्छन्ति गन्तव्ये नित्यं तिष्ठन्ति च स्थिते || ३६||

सङ्क्षेपस्त्वेष मे राम किमुक्त्वा विस्तरं हि ते |
स मे ज्येष्ठो रिपुर्भ्राता वाली विश्रुतपौरुषः || ३७||

तद्विनाशाद्धि मे दुःखं प्रनष्टं स्यादनन्तरम् |
सुखं मे जीवितं चैव तद्विनाशनिबन्धनम् || ३८||

एष मे राम शोकान्तः शोकार्तेन निवेदितः |
दुःखितोऽदुःखितो वापि सख्युर्नित्यं सखा गतिः || ३९||

श्रुत्वैतच्च वचो रामः सुग्रीवमिदमब्रवीत् |
किंनिमित्तमभूद्वैरं श्रोतुमिच्छामि तत्त्वतः || ४०||

सुखं हि कारणं श्रुत्वा वैरस्य तव वानर |
आनन्तर्यं विधास्यामि सम्प्रधार्य बलाबलम् || ४१||

बलवान्हि ममामर्षः श्रुत्वा त्वामवमानितम् |
वर्धते हृदयोत्कम्पी प्रावृड्वेग इवाम्भसः || ४२||

हृष्टः कथय विस्रब्धो यावदारोप्यते धनुः |
सृष्टश्च हि मया बाणो निरस्तश् च रिपुस्तव || ४३||

एवमुक्तस्तु सुग्रीवः काकुत्स्थेन महात्मना |
प्रहर्षमतुलं लेभे चतुर्भिः सह वानरैः || ४४||

ततः प्रहृष्टवदनः सुग्रीवो लक्ष्मणाग्रजे |
वैरस्य कारणं तत्त्वमाख्यातुमुपचक्रमे || ४५||

45

247

Sugriva narrates the background to Shri Rama about his plight for fear of Vali, who considered Sugriva an enemy and abducted his wife. Shri Rama asks Sugreeva to explain him about the real cause of enmity, so that he can decide correctly. Sugreeva narrates his story.

9

वाली नाम मम भ्राता ज्येष्ठः शत्रुनिषूदनः |
पितुर्बहुमतो नित्यं मम चापि तथा पुरा || १||

पितर्युपरतेऽस्माकं ज्येष्ठोऽयमिति मन्त्रिभिः |
कपीनामीश्वरो राज्ये कृतः परमसंमतः || २||

राज्यं प्रशासतस्तस्य पितृपैतामहं महत् |
अहं सर्वेषु कालेषु प्रणतः प्रेष्यवत्स्थितः || ३||

मायावी नाम तेजस्वी पूर्वजो दुन्दुभेः सुतः |
तेन तस्य महद्वैरं स्त्रीकृतं विश्रुतं पुरा || ४||

स तु सुप्ते जने रात्रौ किष्किन्धाद्वारमागतः |
नर्दति स्म सुसंरब्धो वालिनं चाह्वयद्रणे || ५||

प्रसुप्तस्तु मम भ्राता नर्दितं भैरवस्वनम् |
श्रुत्वा न ममृषे वाली निष्पपात जवात्तदा || ६||

स तु वै निःसृतः क्रोधात्तं हन्तुमसुरोत्तमम् |
वार्यमाणस्ततः स्त्रीभिर्मया च प्रणतात्मना || ७||

स तु निर्धूय सर्वान्नो निर्जगाम महाबलः |
ततोऽहमपि सौहार्दान्निःसृतो वालिना सह || ८||

स तु मे भ्रातरं दृष्ट्वा मां च दूरादवस्थितम् |
असुरो जातसन्त्रासः प्रदुद्राव तदा भृशम् || ९||

तस्मिन्द्रवति सन्त्रस्ते ह्यावां द्रुततरं गतौ |
प्रकाशोऽपि कृतो मार्गश्चन्द्रेणोद्गच्छता तदा || १०||

स तृणैरावृतं दुर्गं धरण्या विवरं महत् |
प्रविवेशासुरो वेगादावामासाद्य विष्ठितौ || ११||

तं प्रविष्टं रिपुं दृष्ट्वा बिलं रोषवशं गतः |
मामुवाच तदा वाली वचनं क्षुभितेन्द्रियः || १२||

इह त्वं तिष्ठ सुग्रीव बिलद्वारि समाहितः |
यावदत्र प्रविश्याहं निहन्मि समरे रिपुम् || १३||

मया त्वेतद्वचः श्रुत्वा याचितः स परन्तप |
शापयित्वा च मां पद्भ्यां प्रविवेश बिलं तदा || १४||

तस्य प्रविष्टस्य बिलं साग्रः संवत्सरो गतः |
स्थितस्य च मम द्वारि स कालो व्यत्यवर्तत || १५||

अहं तु नष्टं तं ज्ञात्वा स्नेहादागतसम्भ्रमः |
भ्रातरं न हि पश्यामि पापशङ्कि च मे मनः || १६||

अथ दीर्घस्य कालस्य बिलात्तस्माद्विनिःसृतम् |
सफेनं रुधिरं रक्तमहं दृष्ट्वा सुदुःखितः || १७||

नर्दतामसुराणां च ध्वनिर्मे श्रोत्रमागतः |
निरस्तस्य च सङ्ग्रामे क्रोशतो निःस्वनो गुरोः || १८||

अहं त्ववगतो बुद्ध्या चिह्नैस्तैर्भ्रातरं हतम् |
पिधाय च बिलद्वारं शिलया गिरिमात्रया |
शोकार्तश्चोदकं कृत्वा किष्किन्धामागतः सखे || १९||

गूहमानस्य मे तत्त्वं यत्नतो मन्त्रिभिः श्रुतम् |
ततोऽहं तैः समागम्य समेतैरभिषेचितः || २०||

राज्यं प्रशासतस्तस्य न्यायतो मम राघव |
आजगाम रिपुं हत्वा वाली तमसुरोत्तमम् || २१||

अभिषिक्तं तु मां दृष्ट्वा क्रोधात्संरक्तलोचनः |
मदीयान्मन्त्रिणो बद्ध्वा परुषं वाक्यमब्रवीत् || २२||

निग्रहेऽपि समर्थस्य तं पापं प्रति राघव |
न प्रावर्तत मे बुद्धिर्भ्रातृगौरवयन्त्रिता || २३||

मानयंस्तं महात्मानं यथावच्चाभ्यवादयम् |
उक्ताश्च नाशिषस्तेन सन्तुष्टेनान्तरात्मना || २४||

24

271

Sugreeva narrates the fight between Maayavi and Vali that sparked off the indignation and ire of Vali towards Sugreeva. Sugreeva describes to Shri Rama about the strength of Vali.

10

ततः क्रोधसमाविष्टं संरब्धं तमुपागतम् |
अहं प्रसादयां चक्रे भ्रातरं प्रियकाम्यया || १||

दिष्ट्यासि कुशली प्राप्तो निहतश्च त्वया रिपुः |
अनाथस्य हि मे नाथस्त्वमेकोऽनाथनन्दनः || २||

इदं बहुशलाकं ते पूर्णचन्द्रमिवोदितम् |
छत्रं सवालव्यजनं प्रतीच्छस्व मयोद्यतम् || ३||

त्वमेव राजा मानार्हः सदा चाहं यथापुरा |
न्यासभूतमिदं राज्यं तव निर्यातयाम्यहम् || ४||

मा च रोषं कृथाः सौम्य मयि शत्रुनिबर्हण |
याचे त्वां शिरसा राजन्मया बद्धोऽयमञ्जलिः || ५||

बलादस्मि समागम्य मन्त्रिभिः पुरवासिभिः |
राजभावे नियुक्तोऽहं शून्यदेशजिगीषया || ६||

स्निग्धमेवं ब्रुवाणं मां स तु निर्भर्त्स्य वानरः |
धिक्त्वामिति च मामुक्त्वा बहु तत्तदुवाच ह || ७||

प्रकृतीश्च समानीय मन्त्रिणश्चैव संमतान् |
मामाह सुहृदां मध्ये वाक्यं परमगर्हितम् || ८||

विदितं वो यथा रात्रौ मायावी स महासुरः |
मां समाह्वयत क्रूरो युद्धाकाङ्क्षी सुदुर्मतिः || ९||

तस्य तद्गर्जितं श्रुत्वा निःसृतोऽहं नृपालयात् |
अनुयातश्च मां तूर्णमयं भ्राता सुदारुणः || १०||

स तु दृष्ट्वैव मां रात्रौ सद्वितीयं महाबलः |
प्राद्रवद्भयसन्त्रस्तो वीक्ष्यावां तमनुद्रुतौ |
अनुद्रुतस्तु वेगेन प्रविवेश महाबिलम् || ११||

तं प्रविष्टं विदित्वा तु सुघोरं सुमहद्बिलम् |
अयमुक्तोऽथ मे भ्राता मया तु क्रूरदर्शनः || १२||

अहत्वा नास्ति मे शक्तिः प्रतिगन्तुमितः पुरीम् |
बिलद्वारि प्रतीक्ष त्वं यावदेनं निहन्म्यहम् || १३||

स्थितोऽयमिति मत्वा तु प्रविष्टोऽहं दुरासदम् |
तं च मे मार्गमाणस्य गतः संवत्सरस्तदा || १४||

स तु दृष्टो मया शत्रुरनिर्वेदाद्भयावहः |
निहतश्च मया तत्र सोऽसुरो बन्धुभिः सह || १५||

तस्यास्यात्तु प्रवृत्तेन रुधिरौघेण तद्बिलम् |
पूर्णमासीद्दुराक्रामं स्तनतस्तस्य भूतले || १६||

सूदयित्वा तु तं शत्रुं विक्रान्तं दुन्दुभेः सुतम् |
निष्क्रामन्नेव पश्यामि बिलस्य पिहितं मुखम् || १७||

विक्रोशमानस्य तु मे सुग्रीवेति पुनः पुनः |
यदा प्रतिवचो नास्ति ततोऽहं भृशदुःखितः || १८||

पादप्रहारैस्तु मया बहुशस्तद्विदारितम् |
ततोऽहं तेन निष्क्रम्य यथा पुनरुपागतः || १९||

तत्रानेनास्मि संरुद्धो राज्यं मार्गयतात्मनः |
सुग्रीवेण नृशंसेन विस्मृत्य भ्रातृसौहृदम् || २०||

एवमुक्त्वा तु मां तत्र वस्त्रेणैकेन वानरः |
तदा निर्वासयामास वाली विगतसाध्वसः || २१||

तेनाहमपविद्धश्च हृतदारश्च राघव |
तद्भयाच्च महीकृत्स्ना क्रान्तेयं सवनार्णवा || २२||

ऋश्यमूकं गिरिवरं भार्याहरणदुःखितः |
प्रविष्टोऽस्मि दुराधर्षं वालिनः कारणान्तरे || २३||

एतत्ते सर्वमाख्यातं वैरानुकथनं महत् |
अनागसा मया प्राप्तं व्यसनं पश्य राघव || २४||

वालिनस्तु भयार्तस्य सर्वलोकाभयङ्कर |
कर्तुमर्हसि मे वीर प्रसादं तस्य निग्रहात् || २५||

एवमुक्तः स तेजस्वी धर्मज्ञो धर्मसंहितम् |
वचनं वक्तुमारेभे सुग्रीवं प्रहसन्निव || २६||

अमोघाः सूर्यसङ्काशा ममेमे निशिताः शराः |
तस्मिन्वालिनि दुर्वृत्ते पतिष्यन्ति रुषान्विताः || २७||

यावत्तं न हि पश्येयं तव भार्यापहारिणम् |
तावत्स जीवेत्पापात्मा वाली चारित्रदूषकः || २८||

आत्मानुमानात्पश्यामि मग्नं त्वां शोकसागरे |
त्वामहं तारयिष्यामि कामं प्राप्स्यसि पुष्कलम् || २९||

29

300

Sugreeva informs Shri Rama that Vali could not be appeased in spite of repeated requests as he is resolved to treat Sugreeva as an enemy. Vali banishes Sugreeva from the kingdom and seizes his wife Ruma.

इत्यार्षे श्री रामायणे किष्किन्धाकाण्डे तृतीय: भाग:

 

Kiṣkindhākāṇḍa Part-2

Kiṣkindhākāṇḍa Part-4

 

No comments:

Post a Comment