किष्किन्धाकाण्ड
- Kiṣkindhākāṇḍa (भाग
- ३ ;;; Part –
3)
|
Sarga
number as per Ramayana |
Shlokas
extracted |
No. of shlokas |
Cumulative number of shlokas in this
Kanda |
|
8 |
परितुष्टस्तु सुग्रीवस्तेन वाक्येन वानरः | सर्वथाहमनुग्राह्यो देवतानामसंशयः | शक्यं
खलु भवेद्राम सहायेन त्वयानघ | सोऽहं
सभाज्यो बन्धूनां सुहृदां चैव राघव | अहमप्यनुरूपस्ते वयस्यो ज्ञास्यसे शनैः | महात्मनां तु भूयिष्ठं त्वद्विधानां कृतात्मनाम् | रजतं
वा सुवर्णं वा वस्त्राण्याभरणानि वा | आढ्यो
वापि दरिद्रो वा दुःखितः सुखितोऽपि वा | धनत्यागः सुखत्यागो देहत्यागोऽपि वा पुनः | तत्तथेत्यब्रवीद्रामः सुग्रीवं प्रियवादिनम् | ततो
रामं स्थितं दृष्ट्वा लक्ष्मणं च महाबलम् | स
ददर्श ततः सालमविदूरे हरीश्वरः | तस्यैकां पर्णबहुलां भङ्क्त्वा शाखां सुपुष्पिताम् | तावासीनौ ततो दृष्ट्वा हनूमानपि लक्ष्मणम् | ततः
प्रहृष्टः सुग्रीवः श्लक्ष्णं मधुरया गिरा | अहं
विनिकृतो भ्रात्रा चराम्येष भयार्दितः | सोऽहं
त्रस्तो भये मग्नो वसाम्युद्भ्रान्तचेतनः | वालिनो मे भयार्तस्य सर्वलोकाभयङ्कर | एवमुक्तस्तु तेजस्वी धर्मज्ञो धर्मवत्सलः | उपकारफलं मित्रमपकारोऽरिलक्षणम् | इमे
हि मे महावेगाः पत्रिणस्तिग्मतेजसः | कङ्कपत्रप्रतिच्छन्ना महेन्द्राशनिसंनिभाः | भ्रातृसंज्ञममित्रं ते वालिनं कृतकिल्बिषम् | राघवस्य वचः श्रुत्वा सुग्रीवो वाहिनीपतिः | रामशोकाभिभूतोऽहं शोकार्तानां भवान्गतिः | त्वं
हि पाणिप्रदानेन वयस्यो सोऽग्निसाक्षिकः | वयस्य
इति कृत्वा च विस्रब्धं प्रवदाम्यहम् | एतावदुक्त्वा वचनं बाष्पदूषितलोचनः | बाष्पवेगं तु सहसा नदीवेगमिवागतम् | संनिगृह्य तु तं बाष्पं प्रमृज्य नयने शुभे | पुराहं वलिना राम राज्यात्स्वादवरोपितः | हृता
भार्या च मे तेन प्राणेभ्योऽपि गरीयसी | यत्नवांश्च सुदुष्टात्मा मद्विनाशाय राघव | शङ्कया त्वेतया चाहं दृष्ट्वा त्वामपि राघव | केवलं
हि सहाया मे हनुमत्प्रमुखास्त्विमे | एते
हि कपयः स्निग्धा मां रक्षन्ति समन्ततः | सङ्क्षेपस्त्वेष मे राम किमुक्त्वा विस्तरं हि ते | तद्विनाशाद्धि मे दुःखं प्रनष्टं स्यादनन्तरम् | एष
मे राम शोकान्तः शोकार्तेन निवेदितः | श्रुत्वैतच्च वचो रामः सुग्रीवमिदमब्रवीत् | सुखं
हि कारणं श्रुत्वा वैरस्य तव वानर | बलवान्हि ममामर्षः श्रुत्वा त्वामवमानितम् | हृष्टः कथय विस्रब्धो यावदारोप्यते धनुः | एवमुक्तस्तु सुग्रीवः काकुत्स्थेन महात्मना | ततः
प्रहृष्टवदनः सुग्रीवो लक्ष्मणाग्रजे | |
45 |
247 |
|
Sugriva narrates the
background to Shri Rama about his plight for fear of Vali, who considered Sugriva
an enemy and abducted his wife. Shri Rama asks Sugreeva to explain him about
the real cause of enmity, so that he can decide correctly. Sugreeva narrates
his story. |
|||
|
9 |
वाली
नाम मम भ्राता ज्येष्ठः शत्रुनिषूदनः | पितर्युपरतेऽस्माकं ज्येष्ठोऽयमिति मन्त्रिभिः | राज्यं प्रशासतस्तस्य पितृपैतामहं महत् | मायावी नाम तेजस्वी पूर्वजो दुन्दुभेः सुतः | स
तु सुप्ते जने रात्रौ किष्किन्धाद्वारमागतः | प्रसुप्तस्तु मम भ्राता नर्दितं भैरवस्वनम् | स
तु वै निःसृतः क्रोधात्तं हन्तुमसुरोत्तमम् | स
तु निर्धूय सर्वान्नो निर्जगाम महाबलः | स
तु मे भ्रातरं दृष्ट्वा मां च दूरादवस्थितम् | तस्मिन्द्रवति सन्त्रस्ते ह्यावां द्रुततरं गतौ | स
तृणैरावृतं दुर्गं धरण्या विवरं महत् | तं
प्रविष्टं रिपुं दृष्ट्वा बिलं रोषवशं गतः | इह
त्वं तिष्ठ सुग्रीव बिलद्वारि समाहितः | मया
त्वेतद्वचः श्रुत्वा याचितः स परन्तप | तस्य
प्रविष्टस्य बिलं साग्रः संवत्सरो गतः | अहं
तु नष्टं तं ज्ञात्वा स्नेहादागतसम्भ्रमः | अथ
दीर्घस्य कालस्य बिलात्तस्माद्विनिःसृतम् | नर्दतामसुराणां च ध्वनिर्मे श्रोत्रमागतः | अहं
त्ववगतो बुद्ध्या चिह्नैस्तैर्भ्रातरं हतम् | गूहमानस्य मे तत्त्वं यत्नतो मन्त्रिभिः श्रुतम् | राज्यं प्रशासतस्तस्य न्यायतो मम राघव | अभिषिक्तं तु मां दृष्ट्वा क्रोधात्संरक्तलोचनः | निग्रहेऽपि समर्थस्य तं पापं प्रति राघव | मानयंस्तं महात्मानं यथावच्चाभ्यवादयम् | |
24 |
271 |
|
Sugreeva narrates the
fight between Maayavi and Vali that sparked off the indignation and ire of
Vali towards Sugreeva. Sugreeva describes to Shri Rama about the strength of
Vali. |
|||
|
10 |
ततः
क्रोधसमाविष्टं संरब्धं तमुपागतम् | दिष्ट्यासि कुशली प्राप्तो निहतश्च त्वया रिपुः | इदं
बहुशलाकं ते पूर्णचन्द्रमिवोदितम् | त्वमेव राजा मानार्हः सदा चाहं यथापुरा | मा
च रोषं कृथाः सौम्य मयि शत्रुनिबर्हण | बलादस्मि समागम्य मन्त्रिभिः पुरवासिभिः | स्निग्धमेवं ब्रुवाणं मां स तु निर्भर्त्स्य वानरः | प्रकृतीश्च समानीय मन्त्रिणश्चैव संमतान् | विदितं वो यथा रात्रौ मायावी स महासुरः | तस्य
तद्गर्जितं श्रुत्वा निःसृतोऽहं नृपालयात् | स
तु दृष्ट्वैव मां रात्रौ सद्वितीयं महाबलः | तं
प्रविष्टं विदित्वा तु सुघोरं सुमहद्बिलम् | अहत्वा नास्ति मे शक्तिः प्रतिगन्तुमितः पुरीम् | स्थितोऽयमिति मत्वा तु प्रविष्टोऽहं दुरासदम् | स
तु दृष्टो मया शत्रुरनिर्वेदाद्भयावहः | तस्यास्यात्तु प्रवृत्तेन रुधिरौघेण तद्बिलम् | सूदयित्वा तु तं शत्रुं विक्रान्तं दुन्दुभेः सुतम् | विक्रोशमानस्य तु मे सुग्रीवेति पुनः पुनः | पादप्रहारैस्तु मया बहुशस्तद्विदारितम् | तत्रानेनास्मि संरुद्धो राज्यं मार्गयतात्मनः | एवमुक्त्वा तु मां तत्र वस्त्रेणैकेन वानरः | तेनाहमपविद्धश्च हृतदारश्च राघव | ऋश्यमूकं गिरिवरं भार्याहरणदुःखितः | एतत्ते सर्वमाख्यातं वैरानुकथनं महत् | वालिनस्तु भयार्तस्य सर्वलोकाभयङ्कर | एवमुक्तः स तेजस्वी धर्मज्ञो धर्मसंहितम् | अमोघाः सूर्यसङ्काशा ममेमे निशिताः शराः | यावत्तं न हि पश्येयं तव भार्यापहारिणम् | आत्मानुमानात्पश्यामि मग्नं त्वां शोकसागरे | |
29 |
300 |
|
Sugreeva informs Shri
Rama that Vali could not be appeased in spite of repeated requests as he is
resolved to treat Sugreeva as an enemy. Vali banishes Sugreeva from the
kingdom and seizes his wife Ruma. |
|||
इत्यार्षे श्री
रामायणे किष्किन्धाकाण्डे
तृतीय: भाग:
No comments:
Post a Comment