Monday, December 29, 2025

किष्किन्धाकाण्ड - Kiṣkindhākāṇḍa (भाग - ४ ;;; Part – 4)

 

किष्किन्धाकाण्ड - Kiṣkindhākāṇḍa (भाग - ;;; Part – 4)

Sarga number as per Ramayana

Shlokas extracted

No. of shlokas

Cumulative number of shlokas in this Kanda

11

रामस्य वचनं श्रुत्वा हर्षपौरुषवर्धनम् |
सुग्रीवः पूजयां चक्रे राघवं प्रशशंस च || १||

असंशयं प्रज्वलितैस्तीक्ष्णैर्मर्मातिगैः शरैः |
त्वं दहेः कुपितो लोकान्युगान्त इव भास्करः || २||

वालिनः पौरुषं यत्तद्यच्च वीर्यं धृतिश्च या |
तन्ममैकमनाः श्रुत्वा विधत्स्व यदनन्तरम् || ३||

समुद्रात्पश्चिमात्पूर्वं दक्षिणादपि चोत्तरम् |
क्रामत्यनुदिते सूर्ये वाली व्यपगतक्लमः || ४||

अग्राण्यारुह्य शैलानां शिखराणि महान्त्यपि |
ऊर्ध्वमुत्क्षिप्य तरसा प्रतिगृह्णाति वीर्यवान् || ५||

बहवः सारवन्तश्च वनेषु विविधा द्रुमाः |
वालिना तरसा भग्ना बलं प्रथयतात्मनः || ६||

महिषो दुन्दुभिर्नाम कैलासशिखरप्रभः |
बलं नागसहस्रस्य धारयामास वीर्यवान् || ७||

वीर्योत्सेकेन दुष्टात्मा वरदानाच्च मोहितः |
जगाम स महाकायः समुद्रं सरितां पतिम् || ८||

ऊर्मिमन्तमतिक्रम्य सागरं रत्नसञ्चयम् |
मम युद्धं प्रयच्छेति तमुवाच महार्णवम् || ९||

ततः समुद्रो धर्मात्मा समुत्थाय महाबलः |
अब्रवीद्वचनं राजन्नसुरं कालचोदितम् || १०||

समर्थो नास्मि ते दातुं युद्धं युद्धविशारद |
श्रूयतामभिधास्यामि यस्ते युद्धं प्रदास्यति || ११||

शैलराजो महारण्ये तपस्विशरणं परम् |
शङ्करश्वशुरो नाम्ना हिमवानिति विश्रुतः || १२||

गुहा प्रस्रवणोपेतो बहुकन्दरनिर्झरः |
स समर्थस्तव प्रीतिमतुलां कर्तुमाहवे || १३||

तं भीतमिति विज्ञाय समुद्रमसुरोत्तमः |
हिमवद्वनमागच्छच्छरश्चापादिव च्युतः || १४||

ततस्तस्य गिरेः श्वेता गजेन्द्रविपुलाः शिलाः |
चिक्षेप बहुधा भूमौ दुन्दुभिर्विननाद च || १५||

ततः श्वेताम्बुदाकारः सौम्यः प्रीतिकराकृतिः |
हिमवानब्रवीद्वाक्यं स्व एव शिखरे स्थितः || १६||

क्लेष्टुमर्हसि मां न त्वं दुन्दुभे धर्मवत्सल |
रणकर्मस्वकुशलस्तपस्विशरणं ह्यहम् || १७||

तस्य तद्वचनं श्रुत्वा गिरिराजस्य धीमतः |
उवाच दुन्दुभिर्वाक्यं क्रोधात्संरक्तलोचनः || १८||

यदि युद्धेऽसमर्थस्त्वं मद्भयाद्वा निरुद्यमः |
तमाचक्ष्व प्रदद्यान्मे योऽद्य युद्धं युयुत्सतः || १९||

हिमवानब्रवीद्वाक्यं श्रुत्वा वाक्यविशारदः |
अनुक्तपूर्वं धर्मात्मा क्रोधात्तमसुरोत्तमम् || २०||

वाली नाम महाप्राज्ञः शक्रतुल्यपराक्रमः |
अध्यास्ते वानरः श्रीमान्किष्किन्धामतुलप्रभाम् || २१||

स समर्थो महाप्राज्ञस्तव युद्धविशारदः |
द्वन्द्वयुद्धं महद्दातुं नमुचेरिव वासवः || २२||

तं शीघ्रमभिगच्छ त्वं यदि युद्धमिहेच्छसि |
स हि दुर्धर्षणो नित्यं शूरः समरकर्मणि || २३||

श्रुत्वा हिमवतो वाक्यं क्रोधाविष्टः स दुन्दुभिः |
जगाम तां पुरीं तस्य किष्किन्धां वालिनस्तदा || २४||

धारयन्माहिषं रूपं तीक्ष्णशृङ्गो भयावहः |
प्रावृषीव महामेघस्तोयपूर्णो नभस्तले || २५||

ततस्तु द्वारमागम्य किष्किन्धाया महाबलः |
ननर्द कम्पयन्भूमिं दुन्दुभिर्दुन्दुभिर्यथा || २६||

समीपजान्द्रुमान्भञ्जन्वसुधां दारयन्खुरैः |
विषाणेनोल्लेखन्दर्पात्तद्द्वारं द्विरदो यथा || २७||

अन्तःपुरगतो वाली श्रुत्वा शब्दममर्षणः |
निष्पपात सह स्त्रीभिस्ताराभिरिव चन्द्रमाः || २८||

मितं व्यक्ताक्षरपदं तमुवाच स दुन्दुभिम् |
हरीणामीश्वरो वाली सर्वेषां वनचारिणाम् || २९||

किमर्थं नगरद्वारमिदं रुद्ध्वा विनर्दसि |
दुन्दुभे विदितो मेऽसि रक्ष प्राणान्महाबल || ३०||

तस्य तद्वचनं श्रुत्वा वानरेन्द्रस्य धीमतः |
उवाच दुन्दुभिर्वाक्यं क्रोधात्संरक्तलोचनः || ३१||

न त्वं स्त्रीसंनिधौ वीर वचनं वक्तुमर्हसि |
मम युद्धं प्रयच्छ त्वं ततो ज्ञास्यामि ते बलम् || ३२||

अथ वा धारयिष्यामि क्रोधमद्य निशामिमाम् |
गृह्यतामुदयः स्वैरं कामभोगेषु वानर || ३३||

यो हि मत्तं प्रमत्तं वा सुप्तं वा रहितं भृशम् |
हन्यात्स भ्रूणहा लोके त्वद्विधं मदमोहितम् || ३४||

स प्रहस्याब्रवीन्मन्दं क्रोधात्तमसुरोत्तमम् |
विसृज्य ताः स्त्रियः सर्वास्तारा प्रभिड़्तिकास्तदा || ३५||

मत्तोऽयमिति मा मंस्था यद्यभीतोऽसि संयुगे |
मदोऽयं सम्प्रहारेऽस्मिन्वीरपानं समर्थ्यताम् || ३६||

तमेवमुक्त्वा सङ्क्रुद्धो मालामुत्क्षिप्य काञ्चनीम् |
पित्रा दत्तां महेन्द्रेण युद्धाय व्यवतिष्ठत || ३७||

विषाणयोर्गृहीत्वा तं दुन्दुभिं गिरिसंनिभम् |
वाली व्यापातयां चक्रे ननर्द च महास्वनम् || ३८||

युद्धे प्राणहरे तस्मिन्निष्पिष्टो दुन्दुभिस्तदा |
श्रोत्राभ्यामथ रक्तं तु तस्य सुस्राव पात्यतः |
पपात च महाकायः क्षितौ पञ्चत्वमागतः || ३९||

तं तोलयित्वा बाहुभ्यां गतसत्त्वमचेतनम् |
चिक्षेप वेगवान्वाली वेगेनैकेन योजनम् || ४०||

तस्य वेगप्रविद्धस्य वक्त्रात्क्षतजबिन्दवः |
प्रपेतुर्मारुतोत्क्षिप्ता मतङ्गस्याश्रमं प्रति || ४१||

तान्दृष्ट्वा पतितांस्तत्र मुनिः शोणितविप्रुषः |
उत्ससर्ज महाशापं क्षेप्तारं वालिनं प्रति |
इह तेनाप्रवेष्टव्यं प्रविष्टस्य बधो भवेत् || ४२||

स महर्षिं समासाद्य याचते स्म कृताञ्जलिः || ४३||

ततः शापभयाद्भीत ऋश्यमूकं महागिरिम् |
प्रवेष्टुं नेच्छति हरिर्द्रष्टुं वापि नरेश्वर || ४४||

तस्याप्रवेशं ज्ञात्वाहमिदं राम महावनम् |
विचरामि सहामात्यो विषादेन विवर्जितः || ४५||

एषोऽस्थिनिचयस्तस्य दुन्दुभेः सम्प्रकाशते |
वीर्योत्सेकान्निरस्तस्य गिरिकूटनिभो महान् || ४६||

इमे च विपुलाः सालाः सप्त शाखावलम्बिनः |
यत्रैकं घटते वाली निष्पत्रयितुमोजसा || ४७||

एतदस्यासमं वीर्यं मया राम प्रकाशितम् |
कथं तं वालिनं हन्तुं समरे शक्ष्यसे नृप || ४८||

यदि भिन्द्याद्भवान्सालानिमांस्त्वेकेषुणा ततः |
जानीयां त्वां महाबाहो समर्थं वालिनो वधे || ४९||

तस्य तद्वचनं श्रुत्वा सुग्रीवस्य महात्मनः |
राघवो दुन्दुभेः कायं पादाङ्गुष्ठेन लीलया |
तोलयित्वा महाबाहुश्चिक्षेप दशयोजनम् || ५०||

क्षिप्तं दृष्ट्वा ततः कायं सुग्रीवः पुनरब्रवीत् |
लक्ष्मणस्याग्रतो राममिदं वचनमर्थवत् || ५१||

आर्द्रः समांसप्रत्यग्रः क्षिप्तः कायः पुरा सखे |
लघुः सम्प्रति निर्मांसस्तृणभूतश्च राघव |
नात्र शक्यं बलं ज्ञातुं तव वा तस्य वाधिकम् || ५२||

52

352

Sugreeva narrates Vali's bravery and fearless nature in fighting and how he fought with a gigantic demon named Dundhubhi. He also narrated the curse of Sage Matanga that prohibited Vali's entry into Rishyamuka mountain area. With a view to imbibing confidence in Sugreeva, Shri Rama starts to show his valour and might.

12

एतच्च वचनं श्रुत्वा सुग्रीवेण सुभाषितम् |
प्रत्ययार्थं महातेजा रामो जग्राह कार्मुकम् || १||

स गृहीत्वा धनुर्घोरं शरमेकं च मानदः |
सालानुद्दिश्य चिक्षेप ज्यास्वनैः पूरयन्दिशः || २||

स विसृष्टो बलवता बाणः स्वर्णपरिष्कृतः |
भित्त्वा सालान्गिरिप्रस्थे सप्त भूमिं विवेश ह || ३||

प्रविष्टस्तु मुहूर्तेन रसां भित्त्वा महाजवः |
निष्पत्य च पुनस्तूर्णं स्वतूणीं प्रविवेश ह || ४||

तान्दृष्ट्वा सप्त निर्भिन्नान्सालान्वानरपुङ्गवः |
रामस्य शरवेगेन विस्मयं परमं गतः || ५||

स मूर्ध्ना न्यपतद्भूमौ प्रलम्बीकृतभूषणः |
सुग्रीवः परमप्रीतो राघवाय कृताञ्जलिः || ६||

इदं चोवाच धर्मज्ञं कर्मणा तेन हर्षितः |
रामं सर्वास्त्रविदुषां श्रेष्ठं शूरमवस्थितम् || ७||

सेन्द्रानपि सुरान्सर्वांस्त्वं बाणैः पुरुषर्षभ |
समर्थः समरे हन्तुं किं पुनर्वालिनं प्रभो || ८||

येन सप्त महासाला गिरिर्भूमिश्च दारिताः |
बाणेनैकेन काकुत्स्थ स्थाता ते को रणाग्रतः || ९||

अद्य मे विगतः शोकः प्रीतिरद्य परा मम |
सुहृदं त्वां समासाद्य महेन्द्रवरुणोपमम् || १०||

तमद्यैव प्रियार्थं मे वैरिणं भ्रातृरूपिणम् |
वालिनं जहि काकुत्स्थ मया बद्धोऽयमञ्जलिः || ११||

ततो रामः परिष्वज्य सुग्रीवं प्रियदर्शनम् |
प्रत्युवाच महाप्राज्ञो लक्ष्मणानुमतं वचः || १२||

अस्माद्गच्छाम किष्किन्धां क्षिप्रं गच्छ त्वमग्रतः |
गत्वा चाह्वय सुग्रीव वालिनं भ्रातृगन्धिनम् || १३||

सर्वे ते त्वरितं गत्वा किष्किन्धां वालिनः पुरीम् |
वृक्षैरात्मानमावृत्य व्यतिष्ठन्गहने वने || १४||

सुग्रीवो व्यनदद्घोरं वालिनो ह्वानकारणात् |
गाढं परिहितो वेगान्नादैर्भिन्दन्निवाम्बरम् || १५||

तं श्रुत्वा निनदं भ्रातुः क्रुद्धो वाली महाबलः |
निष्पपात सुसंरब्धो भास्करोऽस्ततटादिव || १६||

ततः सुतुमुलं युद्धं वालिसुग्रीवयोरभूत् |
गगने ग्रहयोर्घोरं बुधाङ्गारकयोरिव || १७||

तलैरशनिकल्पैश्च वज्रकल्पैश्च मुष्टिभिः |
जघ्नतुः समरेऽन्योन्यं भ्रातरौ क्रोधमूर्छितौ || १८||

ततो रामो धनुष्पाणिस्तावुभौ समुदीक्ष्य तु |
अन्योन्यसदृशौ वीरावुभौ देवाविवाश्विनौ || १९||

यन्नावगच्छत्सुग्रीवं वालिनं वापि राघवः |
ततो न कृतवान्बुद्धिं मोक्तुमन्तकरं शरम् || २०||

एतस्मिन्नन्तरे भग्नः सुग्रीवस्तेन वालिना |
अपश्यन्राघवं नाथमृश्यमूकं प्रदुद्रुवे || २१||

क्लान्तो रुधिरसिक्ताङ्गः प्रहारैर्जर्जरीकृतः |
वालिनाभिद्रुतः क्रोधात्प्रविवेश महावनम् || २२||

तं प्रविष्टं वनं दृष्ट्वा वाली शापभयात्ततः |
मुक्तो ह्यसि त्वमित्युक्त्वा स निवृत्तो महाबलः || २३||

राघवोऽपि सह भ्रात्रा सह चैव हनूमता |
तदेव वनमागच्छत्सुग्रीवो यत्र वानरः || २४||

तं समीक्ष्यागतं रामं सुग्रीवः सहलक्ष्मणम् |
ह्रीमान्दीनमुवाचेदं वसुधाम् अवलोकयन् || २५||

आह्वयस्वेति मामुक्त्वा दर्शयित्वा च विक्रमम् |
वैरिणा घातयित्वा च किमिदानीं त्वया कृतम् || २६||

तामेव वेलां वक्तव्यं त्वया राघव तत्त्वतः |
वालिनं न निहन्मीति ततो नाहमितो व्रजे || २७||

तस्य चैवं ब्रुवाणस्य सुग्रीवस्य महात्मनः |
करुणं दीनया वाचा राघवः पुनरब्रवीत् || २८||

सुग्रीव श्रूयतां तातः क्रोधश्च व्यपनीयताम् |
कारणं येन बाणोऽयं न मया स विसर्जितः || २९||

अलङ्कारेण वेषेण प्रमाणेन गतेन च |
त्वं च सुग्रीव वाली च सदृशौ स्थः परस्परम् || ३०||

स्वरेण वर्चसा चैव प्रेक्षितेन च वानर |
विक्रमेण च वाक्यैश्च व्यक्तिं वां नोपलक्षये || ३१||

ततोऽहं रूपसादृश्यान्मोहितो वानरोत्तम |
नोत्सृजामि महावेगं शरं शत्रुनिबर्हणम् || ३२||

एतन्मुहूर्ते तु मया पश्य वालिनमाहवे |
निरस्तमिषुणैकेन वेष्टमानं महीतले || ३३||

अभिज्ञानं कुरुष्व त्वमात्मनो वानरेश्वर |
येन त्वामभिजानीयां द्वन्द्वयुद्धमुपागतम् || ३४||

गजपुष्पीमिमां फुल्लामुत्पाट्य शुभलक्षणाम् |
कुरु लक्ष्मण कण्ठेऽस्य सुग्रीवस्य महात्मनः || ३५||

ततो गिरितटे जातामुत्पाट्य कुसुमायुताम् |
लक्ष्मणो गजपुष्पीं तां तस्य कण्ठे व्यसर्जयत् || ३६||

स तथा शुशुभे श्रीमाँल्लतया कण्ठसक्तया |
मालयेव बलाकानां ससन्ध्य इव तोयदः || ३७||

विभ्राजमानो वपुषा रामवाक्यसमाहितः |
जगाम सह रामेण किष्किन्धां वालिपालिताम् || ३८||

38

390

In order to imbue confidence in Sugreeva, Shri Rama discharges his arrow that penetrates seven (7) sala trees and also the subterranean planes of earth and returns into his quiver. Recognising the prowess of Shri Rama, Sugreeva gains courage to challenge Vali for a duel.

Accordingly, a duel ensues wherein Vali assaults Sugreeva and chases him off. Battered and belittled, Sugreeva implores upon Shri Rama as to why he did not come to his rescue.  Shri Rama apologetically states that he could not make out difference between the two brothers for they are alike.

Shri Rama asks Sugreeva to wear a garland of flowers and again challenge Vali, so with that identification of garland he could aim his arrow at the other dueller. Again, they all advance towards Kishkindha for the duel with Vali.

इत्यार्षे श्री रामायणे किष्किन्धाकाण्डे चतुर्थ: भाग:

 

Kiṣkindhākāṇḍa Part-3

Kiṣkindhākāṇḍa Part-5

No comments:

Post a Comment