Monday, December 29, 2025

किष्किन्धाकाण्ड - Kiṣkindhākāṇḍa (भाग - ५ ;;; Part – 5)

 

किष्किन्धाकाण्ड - Kiṣkindhākāṇḍa (भाग - ;;; Part – 5)

Sarga number as per Ramayana

Shlokas extracted

No. of shlokas

Cumulative number of shlokas in this Kanda

14

सर्वे ते त्वरितं गत्वा किष्किन्धां वालिपालिताम् |
वृक्षैरात्मानमावृत्य व्यतिष्ठन्गहने वने || १||

विचार्य सर्वतो दृष्टिं कानने काननप्रियः |
सुग्रीवो विपुलग्रीवः क्रोधमाहारयद्भृशम् || २||

ततः स निनदं घोरं कृत्वा युद्धाय चाह्वयत् |
परिवारैः परिवृतो नादैर्भिन्दन्निवाम्बरम् || ३||

अथ बालार्कसदृशो दृप्तसिंहगतिस्तदा |
दृष्ट्वा रामं क्रियादक्षं सुग्रीवो वाक्यमब्रवीत् || ४||

हरिवागुरया व्याप्तं तप्तकाञ्चनतोरणाम् |
प्राप्ताः स्म ध्वजयन्त्राढ्यां किष्किन्धां वालिनः पुरीम् || ५||

प्रतिज्ञा या त्वया वीर कृता वालिवधे पुरा |
सफलां तां कुरु क्षिप्रं लतां काल इवागतः || ६||

एवमुक्तस्तु धर्मात्मा सुग्रीवेण स राघवः |
तमथोवाच सुग्रीवं वचनं शत्रुसूदनः || ७||

कृताभिज्ञान चिह्नस्त्वमनया गजसाह्वया |
विपरीत इवाकाशे सूर्यो नक्षत्र मालया || ८||

अद्य वालिसमुत्थं ते भयं वैरं च वानर |
एकेनाहं प्रमोक्ष्यामि बाणमोक्षेण संयुगे || ९||

मम दर्शय सुग्रीववैरिणं भ्रातृरूपिणम् |
वाली विनिहतो यावद्वने पांसुषु वेष्टते || १०||

यदि दृष्टिपथं प्राप्तो जीवन्स विनिवर्तते |
ततो दोषेण मा गच्छेत्सद्यो गर्हेच्च मा भवान् || ११||

प्रत्यक्षं सप्त ते साला मया बाणेन दारिताः |
ततो वेत्सि बलेनाद्य बालिनं निहतं मया || १२||

अनृतं नोक्तपूर्वं मे वीर कृच्छ्रेऽपि तिष्ठता |
धर्मलोभपरीतेन न च वक्ष्ये कथं चन || १३||

सफलां च करिष्यामि प्रतिज्ञां जहि सम्भ्रमम् |
प्रसूतं कलमं क्षेत्रे वर्षेणेव शतक्रतुः || १४||

तदाह्वाननिमित्तं त्वं वालिनो हेममालिनः |
सुग्रीव कुरु तं शब्दं निष्पतेद्येन वानरः || १५||

जितकाशी जयश्लाघी त्वया चाधर्षितः पुरात् |
निष्पतिष्यत्यसङ्गेन वाली स प्रियसंयुगः || १६||

रिपूणां धर्षणं शूरा मर्षयन्ति न संयुगे |
जानन्तस्तु स्वकं वीर्यं स्त्रीसमक्षं विशेषतः || १७||

स तु रामवचः श्रुत्वा सुग्रीवो हेमपिङ्गलः |
ननर्द क्रूरनादेन विनिर्भिन्दन्निवाम्बरम् || १८||

तस्य शब्देन वित्रस्ता गावो यान्ति हतप्रभाः |
राजदोषपरामृष्टाः कुलस्त्रिय इवाकुलाः || १९||

द्रवन्ति च मृगाः शीघ्रं भग्ना इव रणे हयाः |
पतन्ति च खगा भूमौ क्षीणपुण्या इव ग्रहाः || २०||

ततः स जीमूतगणप्रणादो
नादं व्यमुञ्चत्त्वरया प्रतीतः |
सूर्यात्मजः शौर्यविवृद्धतेजाः
सरित्पतिर्वानिलचञ्चलोर्मिः || २१||

21

411

Shri Rama assures Sugreeva that he would eliminate Vale, as promised, and asks Sugreeva to challenge Vali by way of inviting him for a duel. Sugreeva shouts out inciting Vali to the duel.

15

अथ तस्य निनादं तं सुग्रीवस्य महात्मनः |
शुश्रावान्तःपुरगतो वाली भ्रातुरमर्षणः || १||

श्रुत्वा तु तस्य निनदं सर्वभूतप्रकम्पनम् |
मदश्चैकपदे नष्टः क्रोधश्चापतितो महान् || २||

स तु रोषपरीताङ्गो वाली सन्ध्यातपप्रभः |
उपरक्त इवादित्यः सद्यो निष्प्रभतां गतः || ३||

वाली दंष्ट्रा करालस्तु क्रोधाद्दीप्ताग्निसंनिभः |
भात्युत्पतितपद्माभः समृणाल इव ह्रदः || ४||

शब्दं दुर्मर्षणं श्रुत्वा निष्पपात ततो हरिः |
वेगेन चरणन्यासैर्दारयन्निव मेदिनीम् || ५||

तं तु तारा परिष्वज्य स्नेहाद्दर्शितसौहृदा |
उवाच त्रस्तसम्भ्रान्ता हितोदर्कमिदं वचः || ६||

साधु क्रोधमिमं वीर नदी वेगमिवागतम् |
शयनादुत्थितः काल्यं त्यज भुक्ताम् इव स्रजम् || ७||

सहसा तव निष्क्रामो मम तावन्न रोचते |
श्रूयतामभिधास्यामि यन्निमित्तं निवार्यसे || ८||

पूर्वमापतितः क्रोधात्स त्वामाह्वयते युधि |
निष्पत्य च निरस्तस्ते हन्यमानो दिशो गतः || ९||

त्वया तस्य निरस्तस्य पीडितस्य विशेषतः |
इहैत्य पुनराह्वानं शङ्कां जनयतीव मे || १०||

दर्पश्च व्यवसायश्च यादृशस्तस्य नर्दतः |
निनादस्य च संरम्भो नैतदल्पं हि कारणम् || ११||

नासहायमहं मन्ये सुग्रीवं तमिहागतम् |
अवष्टब्धसहायश्च यमाश्रित्यैष गर्जति || १२||

प्रकृत्या निपुणश्चैव बुद्धिमांश्चैव वानरः |
अपरीक्षितवीर्येण सुग्रीवः सह नैष्यति || १३||

पूर्वमेव मया वीर श्रुतं कथयतो वचः |
अङ्गदस्य कुमारस्य वक्ष्यामि त्वा हितं वचः || १४||

तव भ्रातुर्हि विख्यातः सहायो रणकर्कशः |
रामः परबलामर्दी युगान्ताग्निरिवोत्थितः || १५||

निवासवृक्षः साधूनामापन्नानां परा गतिः |
आर्तानां संश्रयश्चैव यशसश्चैकभाजनम् || १६||

ज्ञानविज्ञानसम्पन्नो निदेशो निरतः पितुः |
धातूनामिव शैलेन्द्रो गुणानामाकरो महान् || १७||

तत्क्षमं न विरोधस्ते सह तेन महात्मना |
दुर्जयेनाप्रमेयेन रामेण रणकर्मसु || १८||

शूर वक्ष्यामि ते किं चिन्न चेच्छाम्यभ्यसूयितुम् |
श्रूयतां क्रियतां चैव तव वक्ष्यामि यद्धितम् || १९||

यौवराज्येन सुग्रीवं तूर्णं साध्वभिषेचय |
विग्रहं मा कृथा वीर भ्रात्रा राजन्बलीयसा || २०||

अहं हि ते क्षमं मन्ये तव रामेण सौहृदम् |
सुग्रीवेण च सम्प्रीतिं वैरमुत्सृज्य दूरतः || २१||

लालनीयो हि ते भ्राता यवीयानेष वानरः |
तत्र वा सन्निहस्थो वा सर्वथा बन्धुरेव ते || २२||

यदि ते मत्प्रियं कार्यं यदि चावैषि मां हिताम् |
याच्यमानः प्रयत्नेन साधु वाक्यं कुरुष्व मे || २३||

23

434

Tara, the wife of Vali, she advises Vali not to confront Sugreeva, as their spies informed that Shri Rama and Lakshmana were spotted with Sugriva. She says that as long as Shri Rama stands guard to him, Vali’s life is threatened.

Further she pleads with Vali to make Sugreeva as the Prince Regent of Kishkindha, even at that juncture, where she foresees a calamity to Vali. But Vali, engulfed with EGO could not understand the advice of Tara.

16

तामेवं ब्रुवतीं तारां ताराधिपनिभाननाम् |
वाली निर्भर्त्सयामास वचनं चेदमब्रवीत् || १||

गर्जतोऽस्य च संरम्भं भ्रातुः शत्रोर्विशेषतः |
मर्षयिष्याम्यहं केन कारणेन वरानने || २||

अधर्षितानां शूराणां समरेष्वनिवर्तिनाम् |
धर्षणामर्षणं भीरु मरणादतिरिच्यते || ३||

सोढुं न च समर्थोऽहं युद्धकामस्य संयुगे |
सुग्रीवस्य च संरम्भं हीनग्रीवस्य गर्जतः || ४||

न च कार्यो विषादस्ते राघवं प्रति मत्कृते |
धर्मज्ञश्च कृतज्ञश्च कथं पापं करिष्यति || ५||

निवर्तस्व सह स्त्रीभिः कथं भूयोऽनुगच्छसि |
सौहृदं दर्शितं तारे मयि भक्तिः कृता त्वया || ६||

प्रतियोत्स्याम्यहं गत्वा सुग्रीवं जहि सम्भ्रमम् |
दर्पं चास्य विनेष्यामि न च प्राणैर्विमोक्ष्यते || ७||

शापितासि मम प्राणैर्निवर्तस्व जयेन च |
अहं जित्वा निवर्तिष्ये तमलं भ्रातरं रणे || ८||

तं तु तारा परिष्वज्य वालिनं प्रियवादिनी |
चकार रुदती मन्दं दक्षिणा सा प्रदक्षिणम् || ९||

ततः स्वस्त्ययनं कृत्वा मन्त्रवद्विजयैषिणी |
अन्तःपुरं सह स्त्रीभिः प्रविष्टा शोकमोहिता || १०||

प्रविष्टायां तु तारायां सह स्त्रीभिः स्वमालयम् |
नगरान्निर्ययौ क्रुद्धो महासर्प इव श्वसन् || ११||

स निःश्वस्य महावेगो वाली परमरोषणः |
सर्वतश्चारयन्दृष्टिं शत्रुदर्शनकाङ्क्षया || १२||

स ददर्श ततः श्रीमान्सुग्रीवं हेमपिङ्गलम् |
सुसंवीतमवष्टब्धं दीप्यमानमिवानलम् || १३||

स तं दृष्ट्वा महावीर्यं सुग्रीवं पर्यवस्थितम् |
गाढं परिदधे वासो वाली परमरोषणः || १४||

स वाली गाढसंवीतो मुष्टिमुद्यम्य वीर्यवान् |
सुग्रीवमेवाभिमुखो ययौ योद्धुं कृतक्षणः || १५||

श्लिष्टमुष्टिं समुद्यम्य संरब्धतरमागतः |
सुग्रीवोऽपि समुद्दिश्य वालिनं हेममालिनम् || १६||

तं वाली क्रोधताम्राक्षः सुग्रीवं रणपण्डितम् |
आपतन्तं महावेगमिदं वचनमब्रवीत् || १७||

एष मुष्टिर्मया बद्धो गाढः सुनिहिताङ्गुलिः |
मया वेगविमुक्तस्ते प्राणानादाय यास्यति || १८||

एवमुक्तस्तु सुग्रीवः क्रुद्धो वालिनमब्रवीत् |
तवैव च हरन्प्राणान्मुष्टिः पततु मूर्धनि || १९||

ताडितस्तेन सङ्क्रुद्धः समभिक्रम्य वेगतः |
अभवच्छोणितोद्गारी सोत्पीड इव पर्वतः || २०||

सुग्रीवेण तु निःसङ्गं सालमुत्पाट्य तेजसा |
गात्रेष्वभिहतो वाली वज्रेणेव महागिरिः || २१||

स तु वाली प्रचरितः सालताडनविह्वलः |
गुरुभारसमाक्रान्ता सागरे नौरिवाभवत् || २२||

तौ भीमबलविक्रान्तौ सुपर्णसमवेगिनौ |
प्रवृद्धौ घोरवपुषौ चन्द्रसूर्याविवाम्बरे || २३||

वालिना भग्नदर्पस्तु सुग्रीवो मन्दविक्रमः |
वालिनं प्रति सामर्षो दर्शयामास लाघवम् || २४||

ततो धनुषि सन्धाय शरमाशीविषोपमम् |
राघवेण महाबाणो वालिवक्षसि पातितः || २५||

वेगेनाभिहतो वाली निपपात महीतले || २६||

अथोक्षितः शोणिततोयविस्रवैः
सुपुष्पिताशोक इवानिलोद्धतः |
विचेतनो वासवसूनुराहवे
प्रभ्रंशितेन्द्रध्वजवत्क्षितिं गतः || २७||

27

461

Vali, disregarding the Tara's advice, confronts Sugreeva. A ghastly fight ensues and Vali thrashes Sugriva, who looks for Shri Rama's help. Shri Rama shoots his arrow which hits Vali on chest, and he collapsed on the ground, but still not dead.

17

ततः शरेणाभिहतो रामेण रणकर्कशः |
पपात सहसा वाली निकृत्त इव पादपः || १||

स भूमौ न्यस्तसर्वाङ्गस्तप्तकाञ्चनभूषणः |
अपतद्देवराजस्य मुक्तरश्मिरिव ध्वजः || २||

तस्मिन्निपतिते भूमौ हर्यृषाणां गणेश्वरे |
नष्टचन्द्रमिव व्योम न व्यराजत भूतलम् || ३||

भूमौ निपतितस्यापि तस्य देहं महात्मनः |
न श्रीर्जहाति न प्राणा न तेजो न पराक्रमः || ४||

शक्रदत्ता वरा माला काञ्चनी रत्नभूषिता |
दधार हरिमुख्यस्य प्राणांस्तेजः श्रियं च सा || ५||

स तया मालया वीरो हैमया हरियूथपः |
सन्ध्यानुगतपर्यन्तः पयोधर इवाभवत् || ६||

तस्य माला च देहश्च मर्मघाती च यः शरः |
त्रिधेव रचिता लक्ष्मीः पतितस्यापि शोभते || ७||

तदस्त्रं तस्य वीरस्य स्वर्गमार्गप्रभावनम् |
रामबाणासनक्षिप्तमावहत्परमां गतिम् || ८||

तं तथा पतितं सङ्ख्ये गतार्चिषमिवानलम् |
ययातिमिव पुण्यान्ते देवलोकात्परिच्युतम् || ९||

आदित्यमिव कालेन युगान्ते भुवि पातितम् |
महेन्द्रमिव दुर्धर्षं महेन्द्रमिव दुःसहम् || १०||

महेन्द्रपुत्रं पतितं वालिनं हेममालिनम् |
सिंहोरस्कं महाबाहुं दीप्तास्यं हरिलोचनम् |
लक्ष्मणानुगतो रामो ददर्शोपससर्प च || ११||

स दृष्ट्वा राघवं वाली लक्ष्मणं च महाबलम् |
अब्रवीत्प्रश्रितं वाक्यं परुषं धर्मसंहितम् || १२||

पराङ्मुखवधं कृत्वा को नु प्राप्तस्त्वया गुणः |
यदहं युद्धसंरब्धस्त्वत्कृते निधनं गतः || १३||

कुलीनः सत्त्वसम्पन्नस्तेजस्वी चरितव्रतः |
रामः करुणवेदी च प्रजानां च हिते रतः || १४||

सानुक्रोशो महोत्साहः समयज्ञो दृढव्रतः |
इति ते सर्वभूतानि कथयन्ति यशो भुवि || १५||

तान्गुणान्सम्प्रधार्याहमग्र्यं चाभिजनं तव |
तारया प्रतिषिद्धः सन्सुग्रीवेण समागतः || १६||

न मामन्येन संरब्धं प्रमत्तं वेद्धुमर्हसि |
इति मे बुद्धिरुत्पन्ना बभूवादर्शने तव || १७||

न त्वां विनिहतात्मानं धर्मध्वजमधार्मिकम् |
जाने पापसमाचारं तृणैः कूपमिवावृतम् || १८||

सतां वेषधरं पापं प्रच्छन्नमिव पावकम् |
नाहं त्वामभिजानानि धर्मच्छद्माभिसंवृतम् || १९||

विषये वा पुरे वा ते यदा नापकरोम्यहम् |
न च त्वां प्रतिजानेऽहं कस्मात्त्वं हंस्यकिल्बिषम् || २०||

फलमूलाशनं नित्यं वानरं वनगोचरम् |
मामिहाप्रतियुध्यन्तमन्येन च समागतम् || २१||

त्वं नराधिपतेः पुत्रः प्रतीतः प्रियदर्शनः |
लिङ्गमप्यस्ति ते राजन्दृश्यते धर्मसंहितम् || २२||

कः क्षत्रियकुले जातः श्रुतवान्नष्टसंशयः |
धर्मलिङ्ग प्रतिच्छन्नः क्रूरं कर्म समाचरेत् || २३||

राम राजकुले जातो धर्मवानिति विश्रुतः |
अभव्यो भव्यरूपेण किमर्थं परिधावसि || २४||

साम दानं क्षमा धर्मः सत्यं धृतिपराक्रमौ |
पार्थिवानां गुणा राजन्दण्डश्चाप्यपकारिषु || २५||

वयं वनचरा राम मृगा मूलफलाशनाः |
एषा प्रकृतिरस्माकं पुरुषस्त्वं नरेश्वरः || २६||

भूमिर्हिरण्यं रूप्यं च निग्रहे कारणानि च |
तत्र कस्ते वने लोभो मदीयेषु फलेषु वा || २७||

नयश्च विनयश्चोभौ निग्रहानुग्रहावपि |
राजवृत्तिरसङ्कीर्णा न नृपाः कामवृत्तयः || २८||

त्वं तु कामप्रधानश्च कोपनश्चानवस्थितः |
राजवृत्तैश्च सङ्कीर्णः शरासनपरायणः || २९||

न तेऽस्त्यपचितिर्धर्मे नार्थे बुद्धिरवस्थिता |
इन्द्रियैः कामवृत्तः सन्कृष्यसे मनुजेश्वर || ३०||

हत्वा बाणेन काकुत्स्थ मामिहानपराधिनम् |
किं वक्ष्यसि सतां मध्ये कर्म कृत्वा जुगुप्सितम् || ३१||

राजहा ब्रह्महा गोघ्नश्चोरः प्राणिवधे रतः |
नास्तिकः परिवेत्ता च सर्वे निरयगामिनः || ३२||

अधार्यं चर्म मे सद्भी रोमाण्यस्थि च वर्जितम् |
अभक्ष्याणि च मांसानि त्वद्विधैर्धर्मचारिभिः || ३३||

पञ्च पञ्चनखा भक्ष्या ब्रह्मक्षत्रेण राघव |
शल्यकः श्वाविधो गोधा शशः कूर्मश्च पञ्चमः || ३४||

चर्म चास्थि च मे राजन्न स्पृशन्ति मनीषिणः |
अभक्ष्याणि च मांसानि सोऽहं पञ्चनखो हतः || ३५||

त्वया नाथेन काकुत्स्थ न सनाथा वसुन्धरा |
प्रमदा शीलसम्पन्ना धूर्तेन पतिता यथा || ३६||

शठो नैकृतिकः क्षुद्रो मिथ्या प्रश्रितमानसः |
कथं दशरथेन त्वं जातः पापो महात्मना || ३७||

छिन्नचारित्र्यकक्ष्येण सतां धर्मातिवर्तिना |
त्यक्तधर्माङ्कुशेनाहं निहतो रामहस्तिना || ३८||

दृश्यमानस्तु युध्येथा मया युधि नृपात्मज |
अद्य वैवस्वतं देवं पश्येस्त्वं निहतो मया || ३९||

त्वयादृश्येन तु रणे निहतोऽहं दुरासदः |
प्रसुप्तः पन्नगेनेव नरः पानवशं गतः || ४०||

सुग्रीवप्रियकामेन यदहं निहतस्त्वया |
कण्ठे बद्ध्वा प्रदद्यां तेऽनिहतं रावणं रणे || ४१||

न्यस्तां सागरतोये वा पाताले वापि मैथिलीम् |
जानयेयं तवादेशाच्छ्वेतामश्वतरीम् इव || ४२||

युक्तं यत्प्रप्नुयाद्राज्यं सुग्रीवः स्वर्गते मयि |
अयुक्तं यदधर्मेण त्वयाहं निहतो रणे || ४३||

काममेवंविधं लोकः कालेन विनियुज्यते |
क्षमं चेद्भवता प्राप्तमुत्तरं साधु चिन्त्यताम् || ४४||

इत्येवमुक्त्वा परिशुष्कवक्त्रः
शराभिघाताद्व्यथितो महात्मा |
समीक्ष्य रामं रविसंनिकाशं
तूष्णीं बभूवामरराजसूनुः || ४५||

45

506

When Shri Rama and Lakshmana approach dying Vali, he questions Shri Rama’s propriety of  striking from behind.

इत्यार्षे श्री रामायणे किष्किन्धाकाण्डे पञ्चम: भाग:

 

Kiṣkindhākāṇḍa Part-4

Kiṣkindhākāṇḍa Part-6

No comments:

Post a Comment