Monday, December 29, 2025

किष्किन्धाकाण्ड - Kiṣkindhākāṇḍa (भाग - ६ ;;; Part – 6)

 

किष्किन्धाकाण्ड - Kiṣkindhākāṇḍa (भाग - ;;; Part – 6)

Sarga number as per Ramayana

Shlokas extracted

No. of shlokas

Cumulative number of shlokas in this Kanda

18

इत्युक्तः प्रश्रितं वाक्यं धर्मार्थसहितं हितम् |
परुषं वालिना रामो निहतेन विचेतसा || १||

तं निष्प्रभमिवादित्यं मुक्ततोयमिवाम्बुदम् |
उक्तवाक्यं हरिश्रेष्ठमुपशान्तमिवानलम् || २||

धर्मार्थगुणसम्पन्नं हरीश्वरमनुत्तमम् |
अधिक्षिप्तस्तदा रामः पश्चाद्वालिनमब्रवीत् || ३||

धर्ममर्थं च कामं च समयं चापि लौकिकम् |
अविज्ञाय कथं बाल्यान्मामिहाद्य विगर्हसे || ४||

अपृष्ट्वा बुद्धिसम्पन्नान्वृद्धानाचार्यसंमतान् |
सौम्य वानरचापल्यात्त्वं मां वक्तुमिहेच्छसि || ५||

इक्ष्वाकूणामियं भूमिः सशैलवनकानना |
मृगपक्षिमनुष्याणां निग्रहानुग्रहावपि || ६||

तां पालयति धर्मात्मा भरतः सत्यवागृजुः |
धर्मकामार्थतत्त्वज्ञो निग्रहानुग्रहे रतः || ७||

नयश्च विनयश्चोभौ यस्मिन्सत्यं च सुस्थितम् |
विक्रमश्च यथा दृष्टः स राजा देशकालवित् || ८||

तस्य धर्मकृतादेशा वयमन्ये च पार्थिवः |
चरामो वसुधां कृत्स्नां धर्मसन्तानमिच्छवः || ९||

तस्मिन्नृपतिशार्दूल भरते धर्मवत्सले |
पालयत्यखिलां भूमिं कश् चरेद्धर्मनिग्रहम् || १०||

ते वयं मार्गविभ्रष्टं स्वधर्मे परमे स्थिताः |
भरताज्ञां पुरस्कृत्य निगृह्णीमो यथाविधि || ११||

त्वं तु सङ्क्लिष्टधर्मा च कर्मणा च विगर्हितः |
कामतन्त्रप्रधानश्च न स्थितो राजवर्त्मनि || १२||

ज्येष्ठो भ्राता पिता चैव यश्च विद्यां प्रयच्छति |
त्रयस्ते पितरो ज्ञेया धर्मे च पथि वर्तिनः || १३||

यवीयानात्मनः पुत्रः शिष्यश्चापि गुणोदितः |
पुत्रवत्ते त्रयश्चिन्त्या धर्मश्चेदत्र कारणम् || १४||

सूक्ष्मः परमदुर्ज्ञेयः सतां धर्मः प्लवङ्गम |
हृदिस्थः सर्वभूतानामात्मा वेद शुभाशुभम् || १५||

चपलश्चपलैः सार्धं वानरैरकृतात्मभिः |
जात्यन्ध इव जात्यन्धैर्मन्त्रयन्द्रक्ष्यसे नु किम् || १६||

अहं तु व्यक्ततामस्य वचनस्य ब्रवीमि ते |
न हि मां केवलं रोषात्त्वं विगर्हितुमर्हसि || १७||

तदेतत्कारणं पश्य यदर्थं त्वं मया हतः |
भ्रातुर्वर्तसि भार्यायां त्यक्त्वा धर्मं सनातनम् || १८||

अस्य त्वं धरमाणस्य सुग्रीवस्य महात्मनः |
रुमायां वर्तसे कामात्स्नुषायां पापकर्मकृत् || १९||

तद्व्यतीतस्य ते धर्मात्कामवृत्तस्य वानर |
भ्रातृभार्याभिमर्शेऽस्मिन्दण्डोऽयं प्रतिपादितः || २०||

न हि धर्मविरुद्धस्य लोकवृत्तादपेयुषः |
दण्डादन्यत्र पश्यामि निग्रहं हरियूथप || २१||

औरसीं भगिनीं वापि भार्यां वाप्यनुजस्य यः |
प्रचरेत नरः कामात्तस्य दण्डो वधः स्मृतः || २२||

भरतस्तु महीपालो वयं त्वादेशवर्तिनः |
त्वं च धर्मादतिक्रान्तः कथं शक्यमुपेक्षितुम् || २३||

गुरुधर्मव्यतिक्रान्तं प्राज्ञो धर्मेण पालयन् |
भरतः कामवृत्तानां निग्रहे पर्यवस्थितः || २४||

वयं तु भरतादेशं विधिं कृत्वा हरीश्वर |
त्वद्विधान्भिन्नमर्यादान्नियन्तुं पर्यवस्थिताः || २५||

सुग्रीवेण च मे सख्यं लक्ष्मणेन यथा तथा |
दारराज्यनिमित्तं च निःश्रेयसि रतः स मे || २६||

प्रतिज्ञा च मया दत्ता तदा वानरसंनिधौ |
प्रतिज्ञा च कथं शक्या मद्विधेनानवेक्षितुम् || २७||

तदेभिः कारणैः सर्वैर्महद्भिर्धर्मसंहितैः |
शासनं तव यद्युक्तं तद्भवाननुमन्यताम् || २८||

सर्वथा धर्म इत्येव द्रष्टव्यस्तव निग्रहः |
वयस्यस्योपकर्तव्यं धर्ममेवानुपश्यता || २९||

राजभिर्धृतदण्डास्तु कृत्वा पापानि मानवाः |
निर्मलाः स्वर्गमायान्ति सन्तः सुकृतिनो यथा || ३०||

आर्येण मम मान्धात्रा व्यसनं घोरमीप्सितम् |
श्रमणेन कृते पापे यथा पापं कृतं त्वया || ३१||

अन्यैरपि कृतं पापं प्रमत्तैर्वसुधाधिपैः |
प्रायश्चित्तं च कुर्वन्ति तेन तच्छाम्यते रजः || ३२||

तदलं परितापेन धर्मतः परिकल्पितः |
वधो वानरशार्दूल न वयं स्ववशे स्थिताः || ३३||

वागुराभिश्च पाशैश्च कूटैश्च विविधैर्नराः |
प्रतिच्छन्नाश्च दृश्याश्च गृह्णन्ति सुबहून्मृगान् |
प्रधावितान्वा वित्रस्तान्विस्रब्धानतिविष्ठितान् || ३४||

प्रमत्तानप्रमत्तान्वा नरा मांसार्थिनो भृशम् |
विध्यन्ति विमुखांश्चापि न च दोषोऽत्र विद्यते || ३५||

यान्ति राजर्षयश्चात्र मृगयां धर्मकोविदाः |
तस्मात्त्वं निहतो युद्धे मया बाणेन वानर |
अयुध्यन्प्रतियुध्यन्वा यस्माच्छाखामृगो ह्यसि || ३६||

दुर्लभस्य च धर्मस्य जीवितस्य शुभस्य च |
राजानो वानरश्रेष्ठ प्रदातारो न संशयः || ३७||

तान्न हिंस्यान्न चाक्रोशेन्नाक्षिपेन्नाप्रियं वदेत् |
देवा मानुषरूपेण चरन्त्येते महीतले || ३८||

त्वं तु धर्ममविज्ञाय केवलं रोषमास्थितः |
प्रदूषयसि मां धर्मे पितृपैतामहे स्थितम् || ३९||

एवमुक्तस्तु रामेण वाली प्रव्यथितो भृशम् |
प्रत्युवाच ततो रामं प्राञ्जलिर्वानरेश्वरः || ४०||

यत्त्वमात्थ नरश्रेष्ठ तदेवं नात्र संशयः |
प्रतिवक्तुं प्रकृष्टे हि नापकृष्टस्तु शक्नुयात् || ४१||

यदयुक्तं मया पूर्वं प्रमादाद्वाक्यमप्रियम् |
तत्रापि खलु मे दोषं कर्तुं नार्हसि राघव || ४२||

त्वं हि दृष्टार्थतत्त्वज्ञः प्रजानां च हिते रतः |
कार्यकारणसिद्धौ ते प्रसन्ना बुद्धिरव्यया || ४३||

मामप्यवगतं धर्माद्व्यतिक्रान्तपुरस्कृतम् |
धर्मसंहितया वाचा धर्मज्ञ परिपालय || ४४||

बाष्पसंरुद्धकण्ठस्तु वाली सार्तरवः शनैः |
उवाच रामं सम्प्रेक्ष्य पङ्कलग्न इव द्विपः || ४५||

न त्वात्मानमहं शोचे न तारां नापि बान्धवान् |
यथा पुत्रं गुणश्रेष्ठमङ्गदं कनकाङ्गदम् || ४६||

स ममादर्शनाद्दीनो बाल्यात्प्रभृति लालितः |
तटाक इव पीताम्बुरुपशोषं गमिष्यति || ४७||

सुग्रीवे चाङ्गदे चैव विधत्स्व मतिमुत्तमाम् |
त्वं हि शास्ता च गोप्ता च कार्याकार्यविधौ स्थितः || ४८||

या ते नरपते वृत्तिर्भरते लक्ष्मणे च या |
सुग्रीवे चाङ्गदे राजंस्तां चिन्तयितुमर्हसि || ४९||

मद्दोषकृतदोषां तां यथा तारां तपस्विनीम् |
सुग्रीवो नावमन्येत तथावस्थातुमर्हसि || ५०||

त्वया ह्यनुगृहीतेन शक्यं राज्यमुपासितुम् |
त्वद्वशे वर्तमानेन तव चित्तानुवर्तिना || ५१||

स तमाश्वासयद्रामो वालिनं व्यक्तदर्शनम् || ५२||

न वयं भवता चिन्त्या नाप्यात्मा हरिसत्तम |
वयं भवद्विशेषेण धर्मतः कृतनिश्चयाः || ५३||

दण्ड्ये यः पातयेद्दण्डं दण्ड्यो यश्चापि दण्ड्यते |
कार्यकारणसिद्धार्थावुभौ तौ नावसीदतः || ५४||

तद्भवान्दण्डसंयोगादस्माद्विगतकल्मषः |
गतः स्वां प्रकृतिं धर्म्यां धर्मदृष्ट्तेन वर्त्मना || ५५||

स तस्य वाक्यं मधुरं महात्मनः
समाहितं धर्मपथानुवर्तिनः |
निशम्य रामस्य रणावमर्दिनो
वचः सुयुक्तं निजगाद वानरः || ५६||

शराभितप्तेन विचेतसा मया
प्रदूषितस्त्वं यदजानता प्रभो |
इदं महेन्द्रोपमभीमविक्रम
प्रसादितस्त्वं क्षम मे महीश्वर || ५७||

57

563

Shri Rama explains to dying Vali as to why he gave such a punishment, with reference to scriptures. Vali finally agrees to the explanation given by Shri Rama.

19

स वानरमहाराजः शयानः शरविक्षतः |
प्रत्युक्तो हेतुमद्वाक्यैर्नोत्तरं प्रत्यपद्यत || १||

अश्मभिः परिभिन्नाङ्गः पादपैराहतो भृशम् |
रामबाणेन चाक्रान्तो जीवितान्ते मुमोह सः || २||

तं भार्याबाणमोक्षेण रामदत्तेन संयुगे |
हतं प्लवगशार्दूलं तारा शुश्राव वालिनम् || ३||

सा सपुत्राप्रियं श्रुत्वा वधं भर्तुः सुदारुणम् |
निष्पपात भृशं त्रस्ता विविधाद्गिरिगह्वरात् || ४||

ये त्वङ्गदपरीवारा वानरा हि महाबलाः |
ते सकार्मुकमालोक्य रामं त्रस्ताः प्रदुद्रुवुः || ५||

सा ददर्श ततस्त्रस्तान्हरीनापततो द्रुतम् |
यूथादिव परिभ्रष्टान्मृगान्निहतयूथपान् || ६||

तानुवाच समासाद्य दुःखितान्दुःखिता सती |
राम वित्रासितान्सर्वाननुबद्धानिवेषुभिः || ७||

वानरा राजसिंहस्य यस्य यूयं पुरःसराः |
तं विहाय सुवित्रस्ताः कस्माद्द्रवत दुर्गताः || ८||

राज्यहेतोः स चेद्भ्राता भ्राता रौद्रेण पातितः |
रामेण प्रसृतैर्दूरान्मार्गणैर्दूर पातिभिः || ९||

कपिपत्न्या वचः श्रुत्वा कपयः कामरूपिणः |
प्राप्तकालमविश्लिष्टमूचुर्वचनमङ्गनाम् || १०||

जीव पुत्रे निवर्तस्य पुत्रं रक्षस्व चान्दगम् |
अन्तको राम रूपेण हत्वा नयति वालिनम् || ११||

क्षिप्तान्वृक्षान्समाविध्य विपुलाश्च शिलास्तथा |
वाली वज्रसमैर्बाणैर्वज्रेणेव निपातितः || १२||

अभिद्रुतमिदं सर्वं विद्रुतं प्रसृतं बलम् |
अस्मिन्प्लवगशार्दूले हते शक्रसमप्रभे || १३||

रक्ष्यतां नगरं शूरैरङ्गदश्चाभिषिच्यताम् |
पदस्थं वालिनः पुत्रं भजिष्यन्ति प्लवङ्गमाः || १४||

अथ वा रुचिरं स्थानमिह ते रुचिरानने |
आविशन्ति हि दुर्गाणि क्षिप्रमद्यैव वानराः || १५||

अभार्याः सह भार्याश्च सन्त्यत्र वनचारिणः |
लुब्धेभ्यो विप्रयुक्तेभ्यः स्वेभ्यो नस्तुमुलं भयम् || १६||

अल्पान्तरगतानां तु श्रुत्वा वचनमङ्गना |
आत्मनः प्रतिरूपं सा बभाषे चारुहासिनी || १७||

पुत्रेण मम किं कार्यं किं राज्येन किमात्मना |
कपिसिंहे महाभागे तस्मिन्भर्तरि नश्यति || १८||

पादमूलं गमिष्यामि तस्यैवाहं महात्मनः |
योऽसौ रामप्रयुक्तेन शरेण विनिपातितः || १९||

एवमुक्त्वा प्रदुद्राव रुदती शोककर्शिता |
शिरश्चोरश्च बाहुभ्यां दुःखेन समभिघ्नती || २०||

आव्रजन्ती ददर्शाथ पतिं निपतितं भुवि |
हन्तारं दानवेन्द्राणां समरेष्वनिवर्तिनाम् || २१||

क्षेप्तारं पर्वतेन्द्राणां वज्राणामिव वासवम् |
महावातसमाविष्टं महामेघौघनिःस्वनम् || २२||

शक्रतुल्यपराक्रान्तं वृष्ट्वेवोपरतं घनम् |
नर्दन्तं नर्दतां भीमं शूरं शूरेण पातितम् || २३||

शार्दूलेनामिषस्यार्थे मृगराजं यथा हतम् |
अर्चितं सर्वलोकस्य सपताकं सवेदिकम् || २४||

नागहेतोः सुपर्णेन चैत्यमुन्मथितं यथा |
अवष्टभ्यावतिष्ठन्तं ददर्श धनुरूर्जितम् || २५||

रामं रामानुजं चैव भर्तुश्चैवानुजं शुभा |
तानतीत्य समासाद्य भर्तारं निहतं रणे || २६||

समीक्ष्य व्यथिता भूमौ सम्भ्रान्ता निपपात ह |
सुप्तेव पुनरुत्थाय आर्यपुत्रेति क्रोशती || २७||

रुरोद सा पतिं दृष्ट्वा सन्दितं मृत्युदामभिः |
तामवेक्ष्य तु सुग्रीवः क्रोशन्तीं कुररीम् इव |

विषादमगमत्कष्टं दृष्ट्वा चाङ्गदमागतम् || २८||

28

591

Tara rushes out to reach her slain husband. And, she sees Shri Rama and his brother Lakshmana, her husband Vali and his brother Sugreeva. She faints and wails for the departing soul of Vali.

20

रामचापविसृष्टेन शरेणान्तकरेण तम् |
दृष्ट्वा विनिहतं भूमौ तारा ताराधिपानना || १||

सा समासाद्य भर्तारं पर्यष्वजत भामिनी |
इषुणाभिहतं दृष्ट्वा वालिनं कुञ्जरोपमम् || २||

वानरेन्द्रं महेन्द्राभं शोकसन्तप्तमानसा |
तारा तरुमिवोन्मूलं पर्यदेवयदातुरा || ३||

रणे दारुणविक्रान्त प्रवीर प्लवतां वर |
किं दीनामपुरोभागामद्य त्वं नाभिभाषसे || ४||

उत्तिष्ठ हरिशार्दूल भजस्व शयनोत्तमम् |
नैवंविधाः शेरते हि भूमौ नृपतिसत्तमाः || ५||

अतीव खलु ते कान्ता वसुधा वसुधाधिप |
गतासुरपि यां गात्रैर्मां विहाय निषेवसे || ६||

व्यक्तमन्या त्वया वीर धर्मतः सम्प्रवर्तता |
किष्किन्धेव पुरी रम्या स्वर्गमार्गे विनिर्मिता || ७||

यान्यस्माभिस्त्वया सार्धं वनेषु मधुगन्धिषु |
विहृतानि त्वया काले तेषामुपरमः कृतः || ८||

निरानन्दा निराशाहं निमग्ना शोकसागरे |
त्वयि पञ्चत्वमापन्ने महायूथपयूथपे || ९||

हृदयं सुस्थिरं मह्यं दृष्ट्वा विनिहतं भुवि |
यन्न शोकाभिसन्तप्तं स्फुटतेऽद्य सहस्रधा || १०||

सुग्रीवस्य त्वया भार्या हृता स च विवासितः |
यत्तत्तस्य त्वया व्युष्टिः प्राप्तेयं प्लवगाधिप || ११||

निःश्रेयसपरा मोहात्त्वया चाहं विगर्हिता |
यैषाब्रुवं हितं वाक्यं वानरेन्द्रहितैषिणी || १२||

कालो निःसंशयो नूनं जीवितान्तकरस्तव |
बलाद्येनावपन्नोऽसि सुग्रीवस्यावशो वशम् || १३||

वैधव्यं शोकसन्तापं कृपणं कृपणा सती |
अदुःखोपचिता पूर्वं वर्तयिष्याम्यनाथवत् || १४||

लालितश्चाङ्गदो वीरः सुकुमारः सुखोचितः |
वत्स्यते कामवस्थां मे पितृव्ये क्रोधमूर्छिते || १५||

कुरुष्व पितरं पुत्र सुदृष्टं धर्मवत्सलम् |
दुर्लभं दर्शनं त्वस्य तव वत्स भविष्यति || १६||

समाश्वासय पुत्रं त्वं सन्देशं सन्दिशस्व च |
मूर्ध्नि चैनं समाघ्राय प्रवासं प्रस्थितो ह्यसि || १७||

रामेण हि महत्कर्म कृतं त्वामभिनिघ्नता |
आनृण्यं तु गतं तस्य सुग्रीवस्य प्रतिश्रवे || १८||

सकामो भव सुग्रीव रुमां त्वं प्रतिपत्स्यसे |
भुङ्क्ष्व राज्यमनुद्विग्नः शस्तो भ्राता रिपुस्तव || १९||

किं मामेवं विलपतीं प्रेंणा त्वं नाभिभाषसे |
इमाः पश्य वरा बह्वीर्भार्यास्ते वानरेश्वर || २०||

तस्या विलपितं श्रुत्वा वानर्यः सर्वतश्च ताः |
परिगृह्याङ्गदं दीनं दुःखार्ताः परिचुक्रुशुः || २१||

किमङ्गदं साङ्गद वीर बाहो
विहाय यास्यद्य चिरप्रवासं |
न युक्तमेवं गुणसंनिकृष्टं
विहाय पुत्रं प्रियपुत्र गन्तुम् || २२||

किमप्रियं ते प्रियचारुवेष
कृतं मया नाथ सुतेन वा ते |
सहायिनीमद्य विहाय वीर
यमक्षयं गच्छसि दुर्विनीतम् || २३||

यद्यप्रियं किं चिदसम्प्रधार्य
कृतं मया स्यात्तव दीर्घबाहो |
क्षमस्व मे तद्धरिवंश नाथ
व्रजामि मूर्ध्ना तव वीर पादौ || २४||

तथा तु तारा करुणं रुदन्ती
भर्तुः समीपे सह वानरीभिः |
व्यवस्यत प्रायमनिन्द्यवर्णा
उपोपवेष्टुं भुवि यत्र वाली || २५||

25

616

Tara's lamentation for her departing husband Vali. She holds Sugreeva responsible for the untimely death of Vali.

इत्यार्षे श्री रामायणे किष्किन्धाकाण्डे षष्ठ: भाग:

 

Kiṣkindhākāṇḍa Part-5

Kiṣkindhākāṇḍa Part-7

No comments:

Post a Comment