किष्किन्धाकाण्ड - Kiṣkindhākāṇḍa (भाग - ७
;;; Part – 7)
|
Sarga number
as per Ramayana |
Shlokas
extracted |
No. of shlokas |
Cumulative number of shlokas in this
Kanda |
|
21 |
ततो
निपतितां तारां च्युतां तारामिवाम्बरात् | गुणदोषकृतं जन्तुः स्वकर्मफलहेतुकम् | शोच्या शोचसि कं शोच्यं दीनं दीनानुकम्पसे | अङ्गदस्तु कुमारोऽयं द्रष्टव्यो जीवपुत्रया | जानास्यनियतामेवं भूतानामागतिं गतिम् | यस्मिन्हरिसहस्राणि प्रयुतान्यर्बुदानि च | यदयं
न्यायदृष्टार्थः सामदानक्षमापरः | सर्वे
च हरिशार्दूल पुत्रश्चायं तवाङ्गदः | ताविमौ शोकसन्तप्तौ शनैः प्रेरय भामिनि | सन्ततिश्च यथादृष्टा कृत्यं यच्चापि साम्प्रतम् | संस्कार्यो हरिराजस्तु अङ्गदश्चाभिषिच्यताम् | सा
तस्य वचनं श्रुत्वा भर्तृव्यसनपीडिता | अङ्गद
प्रतिरूपाणां पुत्राणामेकतः शतम् | न
चाहं हरिराजस्य प्रभवाम्यङ्गदस्य वा | न
ह्येषा बुद्धिरास्थेया हनूमन्नङ्गदं प्रति | न
हि मम हरिराजसंश्रयात् |
16 |
632 |
|
Hanuma tries to
console Tara. He states that Angada would not be neglected. Though Vali is
dying, Tara alone is the ruler of the Kishkindha kingdom. However, Tara
prefers self-immolation along with her husband Vali. |
|||
|
22 |
वीक्षमाणस्तु मन्दासुः सर्वतो मन्दमुच्छ्वसन् | तं
प्राप्तविजयं वाली सुग्रीवं प्लवगेश्वरम् | सुग्रीवदोषेण न मां गन्तुमर्हसि किल्बिषात् | युगपद्विहितं तात न मन्ये सुखमावयोः | प्रतिपद्य त्वमद्यैव राज्यमेषां वनौकसाम् | जीवितं च हि राज्यं च श्रियं च विपुलामिमाम् | अस्यां त्वहमवस्थायां वीर वक्ष्यामि यद्वचः | सुखार्हं सुखसंवृद्धं बालमेनमबालिशम् | मम
प्राणैः प्रियतरं पुत्रं पुत्रमिवौरसं | त्वमप्यस्य हि दाता च परित्राता च सर्वतः | एष
तारात्मजः श्रीमांस्त्वया तुल्यपराक्रमः | अनुरूपाणि कर्माणि विक्रम्य बलवान्रणे | सुषेणदुहिता चेयमर्थसूक्ष्मविनिश्चये | यदेषा
साध्विति ब्रूयात्कार्यं तन्मुक्तसंशयम् | राघवस्य च ते कार्यं कर्तव्यमविशङ्कया | इमां
च मालामाधत्स्व दिव्यां सुग्रीवकाञ्चनीम् | इत्येवमुक्तः सुग्रीवो वालिना भ्रातृसौहृदात् | तद्वालिवचनाच्छान्तः कुर्वन्युक्तमतन्द्रितः | तां
मालां काञ्चनीं दत्त्वा वाली दृष्ट्वात्मजं स्थितम् | देशकालौ भजस्वाद्य क्षममाणः प्रियाप्रिये | यथा
हि त्वं महाबाहो लालितः सततं मया | मास्यामित्रैर्गतं गच्छेर्मा शत्रुभिररिन्दम | न
चातिप्रणयः कार्यः कर्तव्योऽप्रणयश् च ते | इत्युक्त्वाथ विवृत्ताक्षः शरसम्पीडितो भृशम् | हते
तु वीरे प्लवगाधिपे तदा ततस्तु तारा व्यसनार्णव प्लुता |
26 |
658 |
|
The dying Vali regains
his consciousness and gives his parting messages to Sugreeva and Angada. He
also gives his Golden pendant, given by his father Indra, to Sugreeva and
asks him to become the king of Kishkindha kingdom. Angada is advised to behave
appropriately with Sugreeva, for he is becoming a father-less son now. Then
Vali breathes his last. |
|||
|
23 |
ततः
समुपजिघ्रन्ती कपिराजस्य तन्मुखम् | शेषे
त्वं विषमे दुःखमकृत्वा वचनं मम | मत्तः
प्रियतरा नूनं वानरेन्द्र मही तव | सुग्रीव एव विक्रान्तो वीर साहसिक प्रिय | एषां
विलपितं कृच्छ्रमङ्गदस्य च शोचतः | इदं
तच्छूरशयनं यत्र शेषे हतो युधि | विशुद्धसत्त्वाभिजन प्रिययुद्ध मम प्रिय | शूराय
न प्रदातव्या कन्या खलु विपश्चिता | अवभग्नश्च मे मानो भग्ना मे शाश्वती गतिः | अश्मसारमयं नूनमिदं मे हृदयं दृढम् | सुहृच्चैव हि भर्ता च प्रकृत्या च मम प्रियः | पतिहीना तु या नारी कामं भवतु पुत्रिणी | स्वगात्रप्रभवे वीर शेषे रुधिरमण्डले | रेणुशोणितसंवीतं गात्रं तव समन्ततः | कृतकृत्योऽद्य सुग्रीवो वैरेऽस्मिन्नतिदारुणे | शरेण
हृदि लग्नेन गात्रसंस्पर्शने तव | उद्बबर्ह शरं नीलस्तस्य गात्रगतं तदा | तस्य
निष्कृष्यमाणस्य बाणस्य च बभौ द्युतिः | पेतुः
क्षतजधारास्तु व्रणेभ्यस्तस्य सर्वशः | अवकीर्णं विमार्जन्ती भर्तारं रणरेणुना | रुधिरोक्षितसर्वाङ्गं दृष्ट्वा विनिहतं पतिम् | अवस्थां पश्चिमां पश्य पितुः पुत्र सुदारुणाम् | बालसूर्योदयतनुं प्रयान्तं यमसादनम् | एवमुक्तः समुत्थाय जग्राह चरणौ पितुः | अभिवादयमानं त्वामङ्गदं त्वं यथापुरा | अहं
पुत्रसहाया त्वामुपासे गतचेतनम् | इष्ट्वा सङ्ग्रामयज्ञेन नानाप्रहरणाम्भसा | या
दत्ता देवराजेन तव तुष्टेन संयुगे | राजश्रीर्न जहाति त्वां गतासुमपि मानद | न
मे वचः पथ्यमिदं त्वया कृतं |
30 |
688 |
|
Tara's laments for
her departed husband Vali. |
|||
इत्यार्षे श्री
रामायणे किष्किन्धाकाण्डे
सप्तम: भाग:
No comments:
Post a Comment