Tuesday, December 30, 2025

किष्किन्धाकाण्ड - Kiṣkindhākāṇḍa (भाग - ८ ;;; Part – 8)

 

किष्किन्धाकाण्ड - Kiṣkindhākāṇḍa (भाग - ;;; Part – 8)

Sarga number as per Ramayana

Shlokas extracted

No. of shlokas

Cumulative number of shlokas in this Kanda

25

सुग्रीवं चैव तारां च साङ्गदं सहलक्ष्मणः|
समानशोकः काकुत्स्थ स्सान्त्वयन्निदमब्रवीत् || १||

न शोकपरितापेन श्रेयसा युज्यते मृतः |
यदत्रानन्तरं कार्यं तत्समाधातुमर्हथ || २||

लोकवृत्तमनुष्ठेयं कृतं वो बाष्पमोक्षणम् |
न कालादुत्तरं किं चित्कर्म शक्यमुपासितुम् || ३||

नियतिः कारणं लोके नियतिः कर्मसाधनम् |
नियतिः सर्वभूतानां नियोगेष्विह कारणम् || ४||

न कर्ता कस्य चित्कश्चिन्नियोगे चापि नेश्वरः |
स्वभावे वर्तते लोकस्तस्य कालः परायणम् || ५||

न कालः कालमत्येति न कालः परिहीयते |
स्वभावं वा समासाद्य न कश् चिदतिवर्तते || ६||

न कालस्यास्ति बन्धुत्वं न हेतुर्न पराक्रमः |
न मित्रज्ञातिसम्बन्धः कारणं नात्मनो वशः || ७||

किं तु काल परीणामो द्रष्टव्यः साधु पश्यता |
धर्मश्चार्थश्च कामश्च कालक्रमसमाहिताः || ८||

इतः स्वां प्रकृतिं वाली गतः प्राप्तः क्रियाफलम् |
धर्मार्थकामसंयोगैः पवित्रं प्लवगेश्वर || ९||

स्वधर्मस्य च संयोगाज्जितस्तेन महात्मना |
स्वर्गः परिगृहीतश्च प्राणानपरिरक्षता || १०||

एषा वै नियतिः श्रेष्ठा यां गतो हरियूथपः |
तदलं परितापेन प्राप्तकालमुपास्यताम् || ११||

वचनान्ते तु रामस्य लक्ष्मणः परवीरहा |
अवदत्प्रश्रितं वाक्यं सुग्रीवं गतचेतसं || १२||

कुरु त्वमस्य सुग्रीव प्रेतकार्यमनन्तरम् |
ताराङ्गदाभ्यां सहितो वालिनो दहनं प्रति || १३||

समाज्ञापय काष्ठानि शुष्काणि च बहूनि च |
चन्दनानि च दिव्यानि वालिसंस्कारकारणात् || १४||

समाश्वासय चैनं त्वमङ्गदं दीनचेतसं |
मा भूर्बालिशबुद्धिस्त्वं त्वदधीनमिदं पुरम् || १५||

अङ्गदस्त्वानयेन्माल्यं वस्त्राणि विविधानि च |
घृतं तैलमथो गन्धान्यच्चात्र समनन्तरम् || १६||

त्वं तार शिबिकां शीघ्रमादायागच्छ सम्भ्रमात् |
त्वरा गुणवती युक्ता ह्यस्मिन्काले विशेषतः || १७||

सज्जीभवन्तु प्लवगाः शिबिकावाहनोचिताः |
समर्था बलिनश्चैव निर्हरिष्यन्ति वालिनम् || १८||

एवमुक्त्वा तु सुग्रीवं सुमित्रानन्दवर्धनः |
तस्थौ भ्रातृसमीपस्थो लक्ष्मणः परवीरहा || १९||

लक्ष्मणस्य वचः श्रुत्वा तारः सम्भ्रान्तमानसः |
प्रविवेश गुहां शीघ्रं शिबिकासक्तमानसः || २०||

आदाय शिबिकां तारः स तु पर्यापयत्पुनः |
वानरैरुह्यमानां तां शूरैरुद्वहनोचितैः || २१||

ततो वालिनमुद्यम्य सुग्रीवः शिबिकां तदा |
आरोपयत विक्रोशन्नङ्गदेन सहैव तु || २२||

आरोप्य शिबिकां चैव वालिनं गतजीवितम् |
अलङ्कारैश्च विविधैर्माल्यैर्वस्त्रैश्च भूषितम् || २३||

आज्ञापयत्तदा राजा सुग्रीवः प्लवगेश्वरः |
और्ध्वदेहिकमार्यस्य क्रियतामनुरूपतः || २४||

विश्राणयन्तो रत्नानि विविधानि बहूनि च |
अग्रतः प्लवगा यान्तु शिबिका तदनन्तरम् || २५||

राज्ञामृद्धिविशेषा हि दृश्यन्ते भुवि यादृशाः |
तादृशं वालिनः क्षिप्रं प्राकुर्वन्नौर्ध्वदेहिकम् || २६||

अङ्गदमप्रिगृह्याशु तारप्रभृतयस्तथा |
क्रोशन्तः प्रययुः सर्वे वानरा हतबान्धवाः || २७||

ताराप्रभृतयः सर्वा वानर्यो हतयूथपाः |
अनुजग्मुर्हि भर्तारं क्रोशन्त्यः करुणस्वनाः || २८||

तासां रुदितशब्देन वानरीणां वनान्तरे |
वनानि गिरयः सर्वे विक्रोशन्तीव सर्वतः || २९||

पुलिने गिरिनद्यास्तु विविक्ते जलसंवृते |
चितां चक्रुः सुबहवो वानरा वनचारिणः || ३०||

अवरोप्य ततः स्कन्धाच्छिबिकां वहनोचिताः |
तस्थुरेकान्तमाश्रित्य सर्वे शोकसमन्विताः || ३१||

ततस्तारा पतिं दृष्ट्वा शिबिकातलशायिनम् |
आरोप्याङ्के शिरस्तस्य विललाप सुदुःखिता || ३२||

जनं च पश्यसीमं त्वं कस्माच्छोकाभिपीडितम् |
प्रहृष्टमिव ते वक्त्रं गतासोरपि मानद |
अस्तार्कसमवर्णं च लक्ष्यते जीवतो यथा || ३३||

एष त्वां रामरूपेण कालः कर्षति वानर |
येन स्म विधवाः सर्वाः कृता एकेषुणा रणे || ३४||

इमास्तास्तव राजेन्द्रवानर्यो वल्लभाः सदा |
पादैर्विकृष्टमध्वानमागताः किं न बुध्यसे || ३५||

तवेष्टा ननु नामैता भार्याश्चन्द्रनिभाननाः |
इदानीं नेक्षसे कस्मात्सुग्रीवं प्लवगेश्वरम् || ३६||

एते हि सचिवा राजंस्तारप्रभृतयस्तव |
पुरवासिजनश्चायं परिवार्यासतेऽनघ || ३७||

विसर्जयैनान्प्रवलान्यथोचितमरिन्दम |
ततः क्रीडामहे सर्वा वनेषु मदिरोत्कटाः || ३८||

एवं विलपतीं तारां पतिशोकपरिप्लुताम् |
उत्थापयन्ति स्म तदा वानर्यः शोककर्शिताः || ३९||

सुग्रीवेण ततः सार्धमङ्गदः पितरं रुदन् |
चितामारोपयामास शोकेनाभिहतेन्द्रियः || ४०||

ततोऽग्निं विधिवद्दत्त्वा सोऽपसव्यं चकार ह |
पितरं दीर्घमध्वानं प्रस्थितं व्याकुलेन्द्रियः || ४१||

संस्कृत्य वालिनं ते तु विधिपूर्वं प्लवङ्गमाः |
आजग्मुरुदकं कर्तुं नदीं शीतजलां शुभाम् || ४२||

ततस्ते सहितास्तत्र अङ्गदं स्थाप्य चाग्रतः |
सुग्रीवतारासहिताः सिषिचुर्वालिने जलम् || ४३||

सुग्रीवेणैव दीनेन दीनो भूत्वा महाबलः |
समानशोकः काकुत्स्थः प्रेतकार्याण्यकारयत् || ४४||

44

732

Shri Rama consoles Sugreeva to proceed with the funeral rites of Vali.  Supported by Sugreeva, Angada, the son of Vali, committed Vali's body is to fire, for his voyage to heavens on a remote avenue.  Thereafter, water oblations were given by the vanaras to departed Vali.

26

ततः शोकाभिसन्तप्तं सुग्रीवं क्लिन्नवासनम् |
शाखामृगमहामात्राः परिवार्योपतस्थिरे || १||

अभिगम्य महाबाहुं राममक्लिष्टकारिणम् |
स्थिताः प्राञ्जलयः सर्वे पितामहमिवर्षयः || २||

ततः काञ्चनशैलाभस्तरुणार्कनिभाननः |
अब्रवीत्प्राञ्जलिर्वाक्यं हनुमान्मारुतात्मजः || ३||

भवत्प्रसादात्सुग्रीवः पितृपैतामहं महत् |
वानराणां सुदुष्प्रापं प्राप्तो राज्यमिदं प्रभो || ४||

भवता समनुज्ञातः प्रविश्य नगरं शुभम् |
संविधास्यति कार्याणि सर्वाणि ससुहृज्जनः || ५||

स्नातोऽयं विविधैर्गन्धैरौषधैश्च यथाविधि |
अर्चयिष्यति रत्नैश्च माल्यैश्च त्वां विशेषतः || ६||

इमां गिरिगुहां रम्याम् अभिगन्तुमितोऽर्हसि |
कुरुष्व स्वामि सम्बन्धं वानरान्सम्प्रहर्षयन् || ७||

एवमुक्तो हनुमता राघवः परवीरहा |
प्रत्युवाच हनूमन्तं बुद्धिमान्वाक्यकोविदः || ८||

चतुर्दशसमाः सौम्य ग्रामं वा यदि वा पुरम् |
न प्रवेक्ष्यामि हनुमन्पितुर्निर्देशपालकः || ९||

सुसमृद्धां गुहां दिव्यां सुग्रीवो वानरर्षभः |
प्रविष्टो विधिवद्वीरः क्षिप्रं राज्येऽभिषिच्यताम् || १०||

एवमुक्त्वा हनूमन्तं रामः सुग्रीवमब्रवीत् |
इममप्यङ्गदं वीर यौवराज्येऽभिषेचय || ११||

पूर्वोऽयं वार्षिको मासः श्रावणः सलिलागमः |
प्रवृत्ताः सौम्य चत्वारो मासा वार्षिकसंज्ञिताः || १२||

नायमुद्योगसमयः प्रविश त्वं पुरीं शुभाम् |
अस्मिन्वत्स्याम्यहं सौम्य पर्वते सहलक्ष्मणः || १३||

इयं गिरिगुहा रम्या विशाला युक्तमारुता |
प्रभूतसलिला सौम्य प्रभूतकमलोत्पला || १४||

कार्तिके समनुप्राप्ते त्वं रावणवधे यत |
एष नः समयः सौम्य प्रविश त्वं स्वमालयम् |
अभिषिञ्चस्व राज्ये च सुहृदः सम्प्रहर्षय || १५||

इति रामाभ्यनुज्ञातः सुग्रीवो वानरर्षभः |
प्रविवेश पुरीं रम्यां किष्किन्धां वालिपालिताम् || १६||

तं वानरसहस्राणि प्रविष्टं वानरेश्वरम् |
अभिवाद्य प्रहृष्टानि सर्वतः पर्यवारयन् || १७||

ततः प्रकृतयः सर्वा दृष्ट्वा हरिगणेश्वरम् |
प्रणम्य मूर्ध्ना पतिता वसुधायां समाहिताः || १८||

सुग्रीवः प्रकृतीः सर्वाः सम्भाष्योत्थाप्य वीर्यवान् |
भ्रातुरन्तःपुरं सौम्यं प्रविवेश महाबलः || १९||

प्रविश्य त्वभिनिष्क्रान्तं सुग्रीवं वानरर्षभम् |
अभ्यषिञ्चन्त सुहृदः सहस्राक्षमिवामराः || २०||

तस्य पाण्डुरमाजह्रुश्छत्रं हेमपरिष्कृतम् |
शुक्ले च बालव्यजने हेमदण्डे यशस्करे || २१||

तथा सर्वाणि रत्नानि सर्वबीजौषधानि च |
सक्षीराणां च वृक्षाणां प्ररोहान्कुसुमानि च || २२||

शुक्लानि चैव वस्त्राणि श्वेतं चैवानुलेपनम् |
सुगन्धीनि च माल्यानि स्थलजान्यम्बुजानि च || २३||

चन्दनानि च दिव्यानि गन्धांश्च विविधान्बहून् |
अक्षतं जातरूपं च प्रियङ्गुमधुसर्पिषी || २४||

दधिचर्म च वैयाघ्रं वाराही चाप्युपानहौ |
समालम्भनमादाय रोचनां समनःशिलाम् |
आजग्मुस्तत्र मुदिता वराः कन्यास्तु षोडश || २५||

ततस्ते वानरश्रेष्ठं यथाकालं यथाविधि |
रत्नैर्वस्त्रैश्च भक्ष्यैश्च तोषयित्वा द्विजर्षभान् || २६||

ततः कुशपरिस्तीर्णं समिद्धं जातवेदसं |
मन्त्रपूतेन हविषा हुत्वा मन्त्रविदो जनाः || २७||

ततो हेमप्रतिष्ठाने वरास्तरणसंवृते |
प्रासादशिखरे रम्ये चित्रमाल्योपशोभिते || २८||

प्राङ्मुखं विविधिअर्मन्त्रै् स्थापयित्वा वरासने |
नदीनदेभ्यः संहृत्य तीर्थेभ्यश्च समन्ततः || २९||

आहृत्य च समुद्रेभ्यः सर्वेभ्यो वानरर्षभाः |
अपः कनककुम्भेषु निधाय विमलाः शुभाः || ३०||

शुभैर्वृषभशृङ्गैश्च कलशैश्चापि काञ्चनैः |
शास्त्रदृष्टेन विधिना महर्षिविहितेन च || ३१||

गजो गवाक्षो गवयः शरभो गन्धमादनः |
मैन्दश्च द्विविदश्चैव हनूमाञ्जाम्बवान्नलः || ३२||

अभ्यषिञ्चन्त सुग्रीवं प्रसन्नेन सुगन्धिना |
सलिलेन सहस्राक्षं वसवो वासवं यथा || ३३||

अभिषिक्ते तु सुग्रीवे सर्वे वानरपुङ्गवाः |
प्रचुक्रुशुर्महात्मानो हृष्टास्तत्र सहस्रशः || ३४||

रामस्य तु वचः कुर्वन्सुग्रीवो हरिपुङ्गवः |
अङ्गदं सम्परिष्वज्य यौवराज्येऽभिषेचयत् || ३५||

अङ्गदे चाभिषिक्ते तु सानुक्रोशाः प्लवङ्गमाः |
साधु साध्विति सुग्रीवं महात्मानोऽभ्यपूजयन् || ३६||

हृष्टपुष्टजनाकीर्णा पताकाध्वजशोभिता |
बभूव नगरी रम्या क्षिकिन्धा गिरिगह्वरे || ३७||

निवेद्य रामाय तदा महात्मने
महाभिषेकं कपिवाहिनीपतिः |
रुमां च भार्यां प्रतिलभ्य वीर्यवान्
अवाप राज्यं त्रिदशाधिपो यथा || ३८||

38

770

Shri Hanuman proposes Shri Rama to be present at the coronation of Sugreeva. However, Shri Rama states that he could not enter villages or cities during exile, and asks the chiefs of Vanaras to perform the same.

Shri Rama also suggests that Angada to be crowned as prince regent and added that he would remain in the Prasravana giri, along with Lakshmana, till the rainy season is completed. Accordingly, Sugreeva is anointed as king and Angada as crown prince of Kishkindha.

इत्यार्षे श्री रामायणे किष्किन्धाकाण्डे अष्टम: भाग:

 

Kiṣkindhākāṇḍa Part-7

Kiṣkindhākāṇḍa Part-9

 

 

No comments:

Post a Comment