Thursday, January 1, 2026

सुन्दरकाण्ड - Sundarakāṇḍa (भाग - ३ ;;; Part – 3)

 

सुन्दरकाण्ड - Sundarakāṇḍa (भाग - ;;; Part – 3)

Sarga number as per Ramayana

Shlokas extracted

No. of shlokas

Cumulative number of shlokas in this Kanda

2

स सागरमनाधृष्यमतिक्रम्य महाबलः |
त्रिकूटशिखरे लङ्कां स्थितां स्वस्थो ददर्श ह || १||

ततः पादपमुक्तेन पुष्पवर्षेण वीर्यवान् |
अभिवृष्टः स्थितस्तत्र बभौ पुष्पमयो यथा || २||

योजनानां शतं श्रीमांस्तीर्त्वाप्युत्तमविक्रमः |
अनिश्वसन्कपिस्तत्र न ग्लानिमधिगच्छति || ३||

शतान्यहं योजनानां क्रमेयं सुबहून्यपि |
किं पुनः सागरस्यान्तं सङ्ख्यातं शतयोजनम् || ४||

स तु वीर्यवतां श्रेष्ठः प्लवतामपि चोत्तमः |
जगाम वेगवाँल्लङ्कां लङ्घयित्वा महोदधिम् || ५||

शाद्वलानि च नीलानि गन्धवन्ति वनानि च |
गण्डवन्ति च मध्येन जगाम नगवन्ति च || ६||

शैलांश्च तरुसञ्चन्नान्वनराजीश्च पुष्पिताः |
अभिचक्राम तेजस्वी हनुमान्प्लवगर्षभः || ७||

स तस्मिन्नचले तिष्ठन्वनान्युपवनानि च |
स नगाग्रे च तां लङ्कां ददर्श पवनात्मजः || ८||

सरलान्कर्णिकारांश्च खर्जूरांश्च सुपुष्पितान् |
प्रियालान्मुचुलिन्दांश्च कुटजान्केतकानपि || ९||

प्रियङ्गून्गन्धपूर्णांश्च नीपान्सप्तच्छदांस्तथा |
असनान्कोविदारांश्च करवीरांश्च पुष्पितान् || १०||

पुष्पभारनिबद्धांश्च तथा मुकुलितानपि |
पादपान्विहगाकीर्णान्पवनाधूतमस्तकान् || ११||

हंसकारण्डवाकीर्णा वापीः पद्मोत्पलायुताः |
आक्रीडान्विविधान्रम्यान्विविधांश्च जलाशयान् || १२||

सन्ततान्विविधैर्वृक्षैः सर्वर्तुफलपुष्पितैः |
उद्यानानि च रम्याणि ददर्श कपिकुञ्जरः || १३||

समासाद्य च लक्ष्मीवाँल्लङ्कां रावणपालिताम् |
परिखाभिः सपद्माभिः सोत्पलाभिरलङ्कृताम् || १४||

सीतापहरणार्थेन रावणेन सुरक्षिताम् |
समन्ताद्विचरद्भिश्च राक्षसैरुग्रधन्विभिः || १५||

काञ्चनेनावृतां रम्यां प्राकारेण महापुरीम् |
अट्टालकशताकीर्णां पताकाध्वजमालिनीम् || १६||

तोरणैः काञ्चनैर्दिव्यैर्लतापङ्क्तिविचित्रितैः |
ददर्श हनुमाँल्लङ्कां दिवि देवपुरीम् इव || १७||

गिरिमूर्ध्नि स्थितां लङ्कां पाण्डुरैर्भवनैः शुभैः |
ददर्श स कपिः श्रीमान्पुरमाकाशगं यथा || १८||

पालितां राक्षसेन्द्रेण निर्मितां विश्वकर्मणा |
प्लवमानामिवाकाशे ददर्श हनुमान्पुरीम् || १९||

सम्पूर्णां राक्षसैर्घोरैर्नागैर्भोगवतीम् इव |
अचिन्त्यां सुकृतां स्पष्टां कुबेराध्युषितां पुरा || २०||

दंष्ट्रिभिर्बहुभिः शूरैः शूलपट्टिशपाणिभिः |
रक्षितां राक्षसैर्घोरैर्गुहामाशीविषैरपि || २१||

वप्रप्राकारजघनां विपुलाम्बुनवाम्बराम् |
शतघ्नीशूलकेशान्तामट्टालकवतंसकाम् || २२||

द्वारमुत्तरमासाद्य चिन्तयामास वानरः |
कैलासशिखरप्रख्यमालिखन्तमिवाम्बरम् |
ध्रियमाणमिवाकाशमुच्छ्रितैर्भवनोत्तमैः || २३||

तस्याश्च महतीं गुप्तिं सागरं च निरीक्ष्य सः |
रावणं च रिपुं घोरं चिन्तयामास वानरः || २४||

आगत्यापीह हरयो भविष्यन्ति निरर्थकाः |
न हि युद्धेन वै लङ्का शक्या जेतुं सुरैरपि || २५||

इमां तु विषमां दुर्गां लङ्कां रावणपालिताम् |
प्राप्यापि स महाबाहुः किं करिष्यति राघवः || २६||

अवकाशो न सान्त्वस्य राक्षसेष्वभिगम्यते |
न दानस्य न भेदस्य नैव युद्धस्य दृश्यते || २७||

चतुर्णामेव हि गतिर्वानराणां महात्मनाम् |
वालिपुत्रस्य नीलस्य मम राज्ञश्च धीमतः || २८||

यावज्जानामि वैदेहीं यदि जीवति वा न वा |
तत्रैव चिन्तयिष्यामि दृष्ट्वा तां जनकात्मजाम् || २९||

ततः स चिन्तयामास मुहूर्तं कपिकुञ्जरः |
गिरिशृङ्गे स्थितस्तस्मिन्रामस्याभ्युदये रतः || ३०||

अनेन रूपेण मया न शक्या रक्षसां पुरी |
प्रवेष्टुं राक्षसैर्गुप्ता क्रूरैर्बलसमन्वितैः || ३१||

उग्रौजसो महावीर्यो बलवन्तश्च राक्षसाः |
वञ्चनीया मया सर्वे जानकीं परिमार्गिता || ३२||

लक्ष्यालक्ष्येण रूपेण रात्रौ लङ्का पुरी मया |
प्रवेष्टुं प्राप्तकालं मे कृत्यं साधयितुं महत् || ३३||

तां पुरीं तादृशीं दृष्ट्वा दुराधर्षां सुरासुरैः |
हनूमांश्चिन्तयामास विनिःश्वस्य मुहुर्मुहुः || ३४||

केनोपायेन पश्येयं मैथिलीं जनकात्मजाम् |
अदृष्टो राक्षसेन्द्रेण रावणेन दुरात्मना || ३५||

न विनश्येत्कथं कार्यं रामस्य विदितात्मनः |
एकामेकश्च पश्येयं रहिते जनकात्मजाम् || ३६||

भूताश्चार्थो विपद्यन्ते देशकालविरोधिताः |
विक्लवं दूतमासाद्य तमः सूर्योदये यथा || ३७||

अर्थानर्थान्तरे बुद्धिर्निश्चितापि न शोभते |
घातयन्ति हि कार्याणि दूताः पण्डितमानिनः || ३८||

न विनश्येत्कथं कार्यं वैक्लव्यं न कथं भवेत् |
लङ्घनं च समुद्रस्य कथं नु न वृथा भवेत् || ३९||

मयि दृष्टे तु रक्षोभी रामस्य विदितात्मनः |
भवेद्व्यर्थमिदं कार्यं रावणानर्थमिच्छतः || ४०||

न हि शक्यं क्व चित्स्थातुमविज्ञातेन राक्षसैः |
अपि राक्षसरूपेण किमुतान्येन केन चित् || ४१||

वायुरप्यत्र नाज्ञातश् चरेदिति मतिर्मम |
न ह्यस्त्यविदितं किं चिद्राक्षसानां बलीयसाम् || ४२||

इहाहं यदि तिष्ठामि स्वेन रूपेण संवृतः |
विनाशमुपयास्यामि भर्तुरर्थश्च हीयते || ४३||

तदहं स्वेन रूपेण रजन्यां ह्रस्वतां गतः |
लङ्कामभिपतिष्यामि राघवस्यार्थसिद्धये || ४४||

रावणस्य पुरीं रात्रौ प्रविश्य सुदुरासदाम् |
विचिन्वन्भवनं सर्वं द्रक्ष्यामि जनकात्मजाम् || ४५||

इति सञ्चिन्त्य हनुमान्सूर्यस्यास्तमयं कपिः |
आचकाङ्क्षे तदा वीरा वैदेह्या दर्शनोत्सुकः |
पृषदंशकमात्रः सन्बभूवाद्भुतदर्शनः || ४६||

46

236

Shri Hanuman reaches Lanka and observes the beautiful city from a mountain top and decides to wait for night to arrive, so that he can enter the city.

3

अथ सा हरिशार्दूलम् प्रविशन्तिम् महाबलम् |
नगरी स्वेन रूपेण ददर्श पवनात्मजम् || १||

सा तम् हरिवरम् दृष्ट्वा लङ्का रावणपालिता |
स्वयमेवोत्थिता तत्र विकृताननदर्शना || २||

पुरस्तत्क पिवर्यस्य वायुसूनोरतिष्ठत |
मुञ्चमाना महानादमब्रवीत्पवनात्मजम् ||३||

कस्त्वम् केन च कार्येण इह प्राप्तो वनालय |
कथय स्वेह यत्तत्त्वम् यावत्प्राणा धरन्ति ते || ४||

न शक्यम् खल्वियम् लङ्का प्रवेष्टुम् वानर त्वया |
रक्षिता रावणबलैरभिगुप्ता समन्ततः || ५||

अथ तामब्रवीद्वीरो हनुमानग्रतः स्थिताम् |
कथयिष्यामि ते तत्त्वम् यन्मम् त्वम् परिपृच्छसि || ६||

का त्वम् विरूपनयना पुरद्वारेऽवतिष्ठसि |
किमर्थम् चापि माम् रुद्ध्वा निर्भर्त्सयसि दारुणा || ७||

हनुमाद्वचनं श्रुत्वा लङ्का सा कामरूपिणी।

उवाच वचनं क्रुद्धा परुषं पवनात्मजम्॥८||

अहं राक्षसराजस्य रावणस्य महात्मनः।

अज्ञाप्रतीक्षा दुर्दर्षा रक्षामि नगरीं इमाम्॥९||

न शक्या मामवज्ञाय प्रवेष्ठुं नगरी त्वया।

अद्य प्राणैः परित्यक्तः स्वप्स्यसे निहतो मया॥१०||

अहं हि नगरी लङ्का स्वयमेव प्लवंगम।

सर्वतः परिरक्षामि ह्येतत्ते कथितं मया॥११||

लङ्काया वचनं श्रुत्वा हनुमान्मारुतात्मजः।

यत्नवान् स हरिश्रेष्ठः स्थितश्शैल इवापरः॥१२||

स तां स्त्रीरूप विकृतां दृष्ट्वा वानरपुंगवः।

अबभाषेऽथ मेधावी सत्त्ववान् प्लवगर्षभः॥१३||

द्रक्ष्यामि नगरीं लङ्कां साट्टप्राकारतोरणाम्।

इत्यर्थमिह संप्राप्तः परं कौतूहलम् हि मे ॥१४||

ववान्युपवनानीह लङ्कायाः काननानिच ।

सर्वतो गृहमुख्यानि द्रष्टुमागमनं हि मे॥ १५||

तस्य तद्वचनं श्रुत्वा लङ्का सा कामरूपिणी।

भूय एव पुनर्वाक्यं बभाषे परुषाक्षरम्॥१६||

मामनिर्जित्य दुर्बुद्धे राक्षसेश्वरपालिताम्।

न शक्यमद्य ते द्रष्टुं पुरीयं वानराधमा॥१७||

ततस्स कपिशार्दूलः तां उवाच निशाचरीम्।

दृष्ट्वापुरीं इमां भद्रे पुनर्यास्ये यथागतम्॥१८||

ततः कृत्वा महानादं सावै लङ्का भयावहं ।

तलेन वानरश्रेष्ठं ताडयामास वेगिता ॥१९||

ततस्स कपिशार्दूलो लङ्कया ताडितो भृशम्।

ननाद सु महानादं वीर्यवान् पवनात्मजः॥२०||

ततस्संवर्तयामास वामहस्तस्यसोऽङ्गुळीः।

मुष्ठिनाऽभिजघानैनां हनुमान् क्रोधमूर्च्छितः॥२१||

स्त्रीचेति मन्यमानेन नाति क्रोधः स्वयं कृतः।

सा तु तेन प्रहारेण विह्वलाङ्गी निशाचरी॥२२||

पपात सहसा भुमौ विकृतानन दर्शना।

ततस्तु हनुमान् प्राज्ञस्तां दृष्ट्वा विनिपातिताम्॥२३||

कृपां चकार तेजस्वी मन्यमानः स्त्रियम् तु ताम्।

ततो वैभृश संविग्ना लङ्का सा गद्गदाक्षरम्॥२४||

उवाच गर्वितं वाक्यं हनूमंतं प्लवङ्गमम्।

प्रसीद सुमहाबाहो त्रायस्व हरिसत्तम॥२५||

समये सौम्य तिष्ठंति सत्त्ववंतो महाबलाः।

अहं तु नगरी लङ्का स्वयमेव प्लवङ्गम॥२६||

निर्जिताहं त्वया वीर विक्रमेण महाबल।

इदं तु तथ्यं शृणूवै ब्रुवंत्या हरीश्वर॥२७||

स्वयंभुवा पुरा दत्तं वरदानं यथा मम।

यदा त्वां वानरः कश्चित् विक्रमात् वशमानयेत्॥२८||

तदा त्वया हि विज्ञेयं रक्षसां भयमागतम्

स हि मे समयः सौम्य प्राप्तोsद्यतवदर्शनात्॥२९||

स्वयंभूविहितः सत्यो न तस्यास्ति व्यतिक्रमः ।

सीतानिमित्तं राज्ञस्तु रावणस्य दुरात्मनः॥३०||

रक्षसां चैव सर्वेषां विनाशः समुपागतः।

तत्प्रविश्य हरिश्रेष्ठ पुरीं रावणपालिताम् |

विधत्स्वसर्व कार्याणि यानि यानीह वांच्छसि॥३१ ||

31

267

Shri Hanuman reduces the size of the body at that night to a size equal to that of a cat and tried to enter the Lanka.  However, the soul of Lanka, Lankhini, who is guarding Lanka at the behest of Ravana, stops Shri Hanuman and queries as to the purpose of his visit. Shri Hanuman subdues her with a single light hit with his left fist. Thereafter, he enters Lanka.

4

स लम्बशिखरे लम्बे लम्बतोयदसंनिभे |
सत्त्वमास्थाय मेधावी हनुमान्मारुतात्मजः || १||

निशि लङ्कां महासत्त्वो विवेश कपिकुञ्जरः |
रम्यकाननतोयाढ्यां पुरीं रावणपालिताम् || २||

शारदाम्बुधरप्रख्यैर्भवनैरुपशोभिताम् |
सागरोपमनिर्घोषां सागरानिलसेविताम् || ३||

सुपुष्टबलसङ्गुप्तां यथैव विटपावतीम् |
चारुतोरणनिर्यूहां पाण्डुरद्वारतोरणाम् || ४||

भुजगाचरितां गुप्तां शुभां भोगवतीम् इव |
तां सविद्युद्घनाकीर्णां ज्योतिर्मार्गनिषेविताम् || ५||

चण्डमारुतनिर्ह्रादां यथेन्द्रस्यामरावतीम् |
शातकुम्भेन महता प्राकारेणाभिसंवृताम् || ६||

किङ्किणीजालघोषाभिः पताकाभिरलङ्कृताम् |
आसाद्य सहसा हृष्टः प्राकारमभिपेदिवान् || ७||

विस्मयाविष्टहृदयः पुरीमालोक्य सर्वतः |
जाम्बूनदमयैर्द्वारैर्वैदूर्यकृतवेदिकैः || ८||

मणिस्फटिक मुक्ताभिर्मणिकुट्टिमभूषितैः |
तप्तहाटकनिर्यूहै राजतामलपाण्डुरैः || ९||

वैदूर्यतलसोपानैः स्फाटिकान्तरपांसुभिः |
चारुसञ्जवनोपेतैः खमिवोत्पतितैः शुभैः || १०||

क्रौञ्चबर्हिणसङ्घुष्टे राजहंसनिषेवितैः |
तूर्याभरणनिर्घोषैः सर्वतः प्रतिनादिताम् || ११||

वस्वोकसाराप्रतिमां समीक्ष्य नगरीं ततः |
खमिवोत्पतितां लङ्कां जहर्ष हनुमान्कपिः || १२||

तां समीक्ष्य पुरीं लङ्कां राक्षसाधिपतेः शुभाम् |
अनुत्तमामृद्धियुतां चिन्तयामास वीर्यवान् || १३||

नेयमन्येन नगरी शक्या धर्षयितुं बलात् |
रक्षिता रावणबलैरुद्यतायुधधारिभिः || १४||

कुमुदाङ्गदयोर्वापि सुषेणस्य महाकपेः |
प्रसिद्धेयं भवेद्भूमिर्मैन्दद्विविदयोरपि || १५||

विवस्वतस्तनूजस्य हरेश्च कुशपर्वणः |
ऋक्षस्य केतुमालस्य मम चैव गतिर्भवेत् || १६||

समीक्ष्य तु महाबाहो राघवस्य पराक्रमम् |
लक्ष्मणस्य च विक्रान्तमभवत्प्रीतिमान्कपिः || १७||

तां रत्नवसनोपेतां कोष्ठागारावतंसकाम् |
यन्त्रागारस्तनीमृद्धां प्रमदामिव भूषिताम् || १८||

तां नष्टतिमिरां दीपैर्भास्वरैश्च महागृहैः |
नगरीं राक्षसेन्द्रस्य ददर्श स महाकपिः || १९||

प्रविष्टः सत्त्वसम्पन्नो निशायां मारुतात्मजः |
स महापथमास्थाय मुक्तापुष्पविराजितम् || २०||

हसितोद्घुष्टनिनदैस्तूर्यघोष पुरः सरैः |
वज्राङ्कुशनिकाशैश्च वज्रजालविभूषितैः |
गृहमेधैः पुरी रम्या बभासे द्यौरिवाम्बुदैः || २१||

प्रजज्वाल तदा लङ्का रक्षोगणगृहैः शुभैः |
सिताभ्रसदृशैश्चित्रैः पद्मस्वस्तिकसंस्थितैः |
वर्धमानगृहैश्चापि सर्वतः सुविभाषितैः || २२||

तां चित्रमाल्याभरणां कपिराजहितङ्करः |
राघवार्थं चरञ्श्रीमान्ददर्श च ननन्द च || २३||

शुश्राव मधुरं गीतं त्रिस्थानस्वरभूषितम् |
स्त्रीणां मदसमृद्धानां दिवि चाप्सरसाम् इव || २४||

शुश्राव काञ्चीनिनादं नूपुराणां च निःस्वनम् |
सोपाननिनदांश्चैव भवनेषु महात्मनम् |
आस्फोटितनिनादांश्च क्ष्वेडितांश्च ततस्ततः || २५||

स्वाध्याय निरतांश्चैव यातुधानान्ददर्श सः |
रावणस्तवसंयुक्तान्गर्जतो राक्षसानपि || २६||

राजमार्गं समावृत्य स्थितं रक्षोबलं महत् |
ददर्श मध्यमे गुल्मे राक्षसस्य चरान्बहून् || २७||

दीक्षिताञ्जटिलान्मुण्डान्गोऽजिनाम्बरवाससः |
दर्भमुष्टिप्रहरणानग्निकुण्डायुधांस्तथा || २८||

कूटमुद्गरपाणींश्च दण्डायुधधरानपि |
एकाक्षानेककर्णांश्च चलल्लम्बपयोधरान् || २९||

करालान्भुग्नवक्त्रांश्च विकटान्वामनांस्तथा |
धन्विनः खड्गिनश्चैव शतघ्नी मुसलायुधान् |
परिघोत्तमहस्तांश्च विचित्रकवचोज्ज्वलान् || ३०||

नातिष्ठूलान्नातिकृशान्नातिदीर्घातिह्रस्वकान् |
विरूपान्बहुरूपांश्च सुरूपांश्च सुवर्चसः || ३१||

शक्तिवृक्षायुधांश्चैव पट्टिशाशनिधारिणः |
क्षेपणीपाशहस्तांश्च ददर्श स महाकपिः || ३२||

स्रग्विणस्त्वनुलिप्तांश्च वराभरणभूषितान् |
तीक्ष्णशूलधरांश्चैव वज्रिणश्च महाबलान् || ३३||

शतसाहस्रमव्यग्रमारक्षं मध्यमं कपिः |
प्राकारावृतमत्यन्तं ददर्श स महाकपिः || ३४||

त्रिविष्टपनिभं दिव्यं दिव्यनादविनादितम् |
वाजिहेषितसङ्घुष्टं नादितं भूषणैस्तथा || ३५||

रथैर्यानैर्विमानैश्च तथा गजहयैः शुभैः |
वारणैश्च चतुर्दन्तैः श्वेताभ्रनिचयोपमैः || ३६||

भूषितं रुचिरद्वारं मत्तैश्च मृगपक्षिभिः |
राक्षसाधिपतेर्गुप्तमाविवेश गृहं कपिः || ३७||

अव्यक्तलेखामिव चन्द्रलेखां

पांसुप्रदिग्धामिव हेमलेखाम् |

क्षतप्ररूढामिव बाणलेखां

वायुप्रभिन्नामिव मेघलेखाम् || ३८||

सीतामपश्यन्मनुजेश्वरस्य

रामस्य पत्नीं वदतां वरस्य |

बभूव दुःखाभिहतश् चिरस्य

प्लवङ्गमो मन्द इवाचिरस्य || ३९||

39

306

Entering Lanka at night by placing his left foot desiring the destruction of enemies, Shri Hanuman hears various musical instruments being played upon inside. He also observes enemies' forces and moves towards the royal gynaeceum.

इत्यार्षे श्री रामायणे सुन्दरकाण्डे तृतीय: भाग:

 

Sundarakāṇḍa Part-2

Sundarakāṇḍa Part-4

No comments:

Post a Comment