Wednesday, January 7, 2026

युद्धकाण्ड - Yuddhakāṇḍa (भाग - २२ ;;; Part – 22)

 

युद्धकाण्ड - Yuddhakāṇḍa (भाग - २२ ;;; Part – 22)

Sarga number as per Ramayana

Shlokas extracted

No. of shlokas

Cumulative number of shlokas in this Kanda

73

ततो हतान्राक्षसपुङ्गवांस्तान्
देवान्तकादित्रिशिरोऽतिकायान् |
रक्षोगणास्तत्र हतावशिष्टास्
ते रावणाय त्वरितं शशंसुः || १||

ततो हतांस्तान्सहसा निशम्य
राजा मुमोहाश्रुपरिप्लुताक्षः |
पुत्रक्षयं भ्रातृवधं च घोरं
विचिन्त्य राजा विपुलं प्रदध्यौ || २||

ततस्तु राजानमुदीक्ष्य दीनं
शोकार्णवे सम्परिपुप्लुवानम् |
अथर्षभो राक्षसराजसूनुर्
अथेन्द्रजिद्वाक्यमिदं बभाषे || ३||

न तात मोहं प्रतिगन्तुमर्हसि
यत्रेन्द्रजिज्जीवति राक्षसेन्द्र |
नेन्द्रारिबाणाभिहतो हि कश् चित्
प्राणान्समर्थः समरेऽभिधर्तुम् || ४||

पश्याद्य रामं सहलक्ष्मणेन
मद्बाणनिर्भिन्नविकीर्णदेहम् |
गतायुषं भूमितले शयानं
शरैः शितैराचितसर्वगात्रम् || ५||

इमां प्रतिज्ञां शृणु शक्रशत्रोः
सुनिश्चितां पौरुषदैवयुक्ताम् |
अद्यैव रामं सहलक्ष्मणेन
सन्तापयिष्यामि शरैरमोघैः || ६||

अद्येन्द्रवैवस्वतविष्णुमित्र
साध्याश्विवैश्वानरचन्द्रसूर्याः |
द्रक्ष्यन्ति मे विक्रममप्रमेयं
विष्णोरिवोग्रं बलियज्ञवाटे || ७||

स एवमुक्त्वा त्रिदशेन्द्रशत्रुर्
आपृच्छ्य राजानमदीनसत्त्वः |
समारुरोहानिलतुल्यवेगं
रथं खरश्रेष्ठसमाधियुक्तम् || ८||

समास्थाय महातेजा रथं हरिरथोपमम् |
जगाम सहसा तत्र यत्र युद्धमरिन्दम || ९||

तं प्रस्थितं महात्मानमनुजग्मुर्महाबलाः |
संहर्षमाणा बहवो धनुःप्रवरपाणयः || १०||

गजस्कन्धगताः के चित्के चित्परमवाजिभिः |
प्रासमुद्गरनिस्त्रिंश परश्वधगदाधराः || ११||

स शङ्खनिनदैर्भीमैर्भेरीणां च महास्वनैः |
जगाम त्रिदशेन्द्रारिः स्तूयमानो निशाचरैः || १२||

स शङ्खशशिवर्णेन छत्रेण रिपुसादनः |
रराज परिपूर्णेन नभश्चन्द्रमसा यथा || १३||

अवीज्यत ततो वीरो हैमैर्हेमविभूषितैः |
चारुचामरमुख्यैश्च मुख्यः सर्वधनुष्मताम् || १४||

ततस्त्विन्द्रजिता लङ्का सूर्यप्रतिमतेजसा |
रराजाप्रतिवीर्येण द्यौरिवार्केण भास्वता || १५||

स तु दृष्ट्वा विनिर्यान्तं बलेन महता वृतम् |
राक्षसाधिपतिः श्रीमान्रावणः पुत्रमब्रवीत् || १६||

त्वमप्रतिरथः पुत्र जितस्ते युधि वासवः |
किं पुनर्मानुषं धृष्यं न वधिष्यसि राघवम् || १७||

तथोक्तो राक्षसेन्द्रेण प्रतिगृह्य महाशिषः |
रथेनाश्वयुजा वीरः शीघ्रं गत्वा निकुम्भिलाम् || १८||

स सम्प्राप्य महातेजा युद्धभूमिमरिन्दमः |
स्थापयामास रक्षांसि रथं प्रति समन्ततः || १९||

ततस्तु हुतभोक्तारं हुतभुक्सदृशप्रभः |
जुहुवे राक्षसश्रेष्ठो मन्त्रवद्विधिवत्तदा || २०||

स हविर्जालसंस्कारैर्माल्यगन्धपुरस्कृतैः |
जुहुवे पावकं तत्र राक्षसेन्द्रः प्रतापवान् || २१||

शस्त्राणि शरपत्राणि समिधोऽथ विभीतकः |
लोहितानि च वासांसि स्रुवं कार्ष्णायसं तथा || २२||

स तत्राग्निं समास्तीर्य शरपत्रैः सतोमरैः |
छागस्य सर्वकृष्णस्य गलं जग्राह जीवतः || २३||

सकृदेव समिद्धस्य विधूमस्य महार्चिषः |
बभूवुस्तानि लिङ्गानि विजयं यान्यदर्शयन् || २४||

प्रदक्षिणावर्तशिखस्तप्तकाञ्चनसंनिभः |
हविस्तत्प्रतिजग्राह पावकः स्वयमुत्थितः || २५||

सोऽस्त्रमाहारयामास ब्राह्ममस्त्रविदां वरः |
धनुश्चात्मरथं चैव सर्वं तत्राभ्यमन्त्रयत् || २६||

तस्मिन्नाहूयमानेऽस्त्रे हूयमाने च पावके |
सार्कग्रहेन्दु नक्षत्रं वितत्रास नभस्तलम् || २७||

स पावकं पावकदीप्ततेजा
हुत्वा महेन्द्रप्रतिमप्रभावः |
सचापबाणासिरथाश्वसूतः
खेऽन्तर्दध आत्मानमचिन्त्यरूपः || २८||

स सैन्यमुत्सृज्य समेत्य तूर्णं
महारणे वानरवाहिनीषु |
अदृश्यमानः शरजालमुग्रं
ववर्ष नीलाम्बुधरो यथाम्बु || २९||

ते शक्रजिद्बाणविशीर्णदेहा
मायाहता विस्वरमुन्नदन्तः |
रणे निपेतुर्हरयोऽद्रिकल्पा
यथेन्द्रवज्राभिहता नगेन्द्राः || ३०||

ते केवलं सन्ददृशुः शिताग्रान्
बाणान्रणे वानरवाहिनीषु |
माया निगूढं च सुरेन्द्रशत्रुं
न चात्र तं राक्षसमभ्यपश्यन् || ३१||

ततः स रक्षोऽधिपतिर्महात्मा
सर्वा दिशो बाणगणैः शिताग्रैः |
प्रच्छादयामास रविप्रकाशैर्
विषादयामास च वानरेन्द्रान् || ३२||

स शूलनिस्त्रिंश परश्वधानि
व्याविध्य दीप्तानलसंनिभानि |
सविस्फुलिङ्गोज्ज्वलपावकानि
ववर्ष तीव्रं प्लवगेन्द्रसैन्ये || ३३||

ततो ज्वलनसङ्काशैः शितैर्वानरयूथपाः |
ताडिताः शक्रजिद्बाणैः प्रफुल्ला इव किंशुकाः || ३४||

अन्योन्यमभिसर्पन्तो निनदन्तश् च विस्वरम् |
राक्षसेन्द्रास्त्रनिर्भिन्ना निपेतुर्वानरर्षभाः || ३५||

उदीक्षमाणा गगनं के चिन्नेत्रेषु ताडिताः |
शरैर्विविशुरन्योन्यं पेतुश्च जगतीतले || ३६||

हनूमन्तं च सुग्रीवमङ्गदं गन्धमादनम् |
जाम्बवन्तं सुषेणं च वेगदर्शिनमेव च || ३७||

मैन्दं च द्विविदं नीलं गवाक्षं गजगोमुखौ |
केसरिं हरिलोमानं विद्युद्दंष्ट्रं च वानरम् || ३८||

सूर्याननं ज्योतिमुखं तथा दधिमुखं हरिम् |
पावकाक्षं नलं चैव कुमुदं चैव वानरम् || ३९||

प्रासैः शूलैः शितैर्बाणैरिन्द्रजिन्मन्त्रसंहितैः |
विव्याध हरिशार्दूलान्सर्वांस्तान्राक्षसोत्तमः || ४०||

स वै गदाभिर्हरियूथमुख्यान्
निर्भिद्य बाणैस्तपनीयपुङ्खैः |
ववर्ष रामं शरवृष्टिजालैः
सलक्ष्मणं भास्कररश्मिकल्पैः || ४१||

स बाणवर्षैरभिवर्ष्यमाणो
धारानिपातानिव तान्विचिन्त्य |
समीक्षमाणः परमाद्भुतश्री
रामस्तदा लक्ष्मणमित्युवाच || ४२||

असौ पुनर्लक्ष्मण राक्षसेन्द्रो
ब्रह्मास्त्रमाश्रित्य सुरेन्द्रशत्रुः |
निपातयित्वा हरिसैन्यमुग्रम्
अस्माञ्शरैरर्दयति प्रसक्तम् || ४३||

स्वयम्भुवा दत्तवरो महात्मा
खमास्थितोऽन्तर्हितभीमकायः |
कथं नु शक्यो युधि नष्टदेहो
निहन्तुमद्येन्द्रजिदुद्यतास्त्रः || ४४||

मन्ये स्वयम्भूर्भगवानचिन्त्यो
यस्यैतदस्त्रं प्रभवश् च योऽस्य |
बाणावपातांस्त्वमिहाद्य धीमन्
मया सहाव्यग्रमनाः सहस्व || ४५||

प्रच्छादयत्येष हि राक्षसेन्द्रः
सर्वा दिशः सायकवृष्टिजालैः |
एतच्च सर्वं पतिताग्र्यवीरं
न भ्राजते वानरराजसैन्यम् || ४६||

आवां तु दृष्ट्वा पतितौ विसंज्ञौ
निवृत्तयुद्धौ हतरोषहर्षौ |
ध्रुवं प्रवेक्ष्यत्यमरारिवासं
असौ समादाय रणाग्रलक्ष्मीम् || ४७||

ततस्तु ताविन्द्रजिदस्त्रजालैर्
बभूवतुस्तत्र तदा विशस्तौ |
स चापि तौ तत्र विषादयित्वा
ननाद हर्षाद्युधि राक्षसेन्द्रः || ४८||

स तत्तदा वानरराजसैन्यं
रामं च सङ्ख्ये सहलक्ष्मणेन |
विषादयित्वा सहसा विवेश
पुरीं दशग्रीवभुजाभिगुप्ताम् || ४९||

49

2247

Ravana lamented after hearing the news of death of his sons and brothers. Understanding his father’s condition, Indrajit vows to destroy Shri Rama and Lakshmana.

He moves out towards the battlefield followed by his army. After reaching the battle-field, Indrajit performed a Vama ritual there, duly making an oblation to the fire and offered live black goat to the fire. A great fire of flames without smoke that appeared indicated his victory.  Then, he invoked the DIVINE Brahmastra and worshipped it.

After performing the ritual, Indrajit goes, along with his chariot, into the sky and becomes invisible.  His army then charged excitedly upon the Vanara army.

Indrajit then showers multitude of arrows towards the vanaras and attacks main vanara-warriors. Then, he showered multitude of arrows on Shri Rama and Lakshmana.

As Indrajit was fighting invisible, the arrows from the bows of Shri Rama and Lakshmana failed to meet the target.  Lakshmana gets infuriated and states that he would use Brahmastra to eliminate all demons, but Shri Rama stops him saying that for the sake of one demon, all demons should not be punished.

Terribly hurt by the missiles of Indrajit, Shri Rama and Lakshmana along with the whole army of monkeys fell unconscious. 

Indrajit returns happily and reports his work to his father.

74

तयोस्तदा सादितयो रणाग्रे
मुमोह सैन्यं हरियूथपानाम् |
सुग्रीवनीलाङ्गदजाम्बवन्तो
न चापि किं चित्प्रतिपेदिरे ते || १||

ततो विषण्णं समवेक्ष्य सैन्यं
विभीषणो बुद्धिमतां वरिष्ठः |
उवाच शाखामृगराजवीरान्
आश्वासयन्नप्रतिमैर्वचोभिः || २||

मा भैष्ट नास्त्यत्र विषादकालो
यदार्यपुत्राववशौ विषण्णौ |
स्वयम्भुवो वाक्यमथोद्वहन्तौ
यत्सादिताविन्द्रजिदस्त्रजालैः || ३||

तस्मै तु दत्तं परमास्त्रमेतत्
स्वयम्भुवा ब्राह्मममोघवेगम् |
तन्मानयन्तौ यदि राजपुत्रौ
निपातितौ कोऽत्र विषादकालः || ४||

ब्राह्ममस्त्रं तदा धीमान्मानयित्वा तु मारुतिः |
विभीषणवचः श्रुत्वा हनूमांस्तमथाब्रवीत् || ५||

एतस्मिन्निहते सैन्ये वानराणां तरस्विनाम् |
यो यो धारयते प्राणांस्तं तमाश्वासयावहे || ६||

तावुभौ युगपद्वीरौ हनूमद्राक्षसोत्तमौ |
उल्काहस्तौ तदा रात्रौ रणशीर्षे विचेरतुः || ७||

छिन्नलाङ्गूलहस्तोरुपादाङ्गुलि शिरो धरैः |
स्रवद्भिः क्षतजं गात्रैः प्रस्रवद्भिः समन्ततः || ८||

पतितैः पर्वताकारैर्वानरैरभिसङ्कुलाम् |
शस्त्रैश्च पतितैर्दीप्तैर्ददृशाते वसुन्धराम् || ९||

सुग्रीवमङ्गदं नीलं शरभं गन्धमादनम् |
जाम्बवन्तं सुषेणं च वेगदर्शनमाहुकम् || १०||

मैन्दं नलं ज्योतिमुखं द्विविदं पनसं तथा |
विभीषणो हनूमांश्च ददृशाते हतान्रणे || ११||

सप्तषष्टिर्हताः कोट्यो वानराणां तरस्विनाम् |
अह्नः पञ्चमशेषेण वल्लभेन स्वयम्भुवः || १२||

सागरौघनिभं भीमं दृष्ट्वा बाणार्दितं बलम् |
मार्गते जाम्बवन्तं स्म हनूमान्सविभीषणः || १३||

स्वभावजरया युक्तं वृद्धं शरशतैश् चितम् |
प्रजापतिसुतं वीरं शाम्यन्तमिव पावकम् || १४||

दृष्ट्वा तमुपसङ्गम्य पौलस्त्यो वाक्यमब्रवीत् |
कच्चिदार्यशरैस्तीर्ष्णैर्न प्राणा ध्वंसितास्तव || १५||

विभीषणवचः श्रुत्वा जाम्बवानृक्षपुङ्गवः |
कृच्छ्रादभ्युद्गिरन्वाक्यमिदं वचनमब्रवीत् || १६||

नैरृतेन्द्रमहावीर्यस्वरेण त्वाभिलक्षये |
पीड्यमानः शितैर्बाणैर्न त्वां पश्यामि चक्षुषा || १७||

अञ्जना सुप्रजा येन मातरिश्वा च नैरृत |
हनूमान्वानरश्रेष्ठः प्राणान्धारयते क्व चित् || १८||

श्रुत्वा जाम्बवतो वाक्यमुवाचेदं विभीषणः |
आर्यपुत्रावतिक्रम्य कस्मात्पृच्छसि मारुतिम् || १९||

नैव राजनि सुग्रीवे नाङ्गदे नापि राघवे |
आर्य सन्दर्शितः स्नेहो यथा वायुसुते परः || २०||

विभीषणवचः श्रुत्वा जाम्बवान्वाक्यमब्रवीत् |
शृणु नैरृतशार्दूल यस्मात्पृच्छामि मारुतिम् || २१||

तस्मिञ्जीवति वीरे तु हतमप्यहतं बलम् |
हनूमत्युज्झितप्राणे जीवन्तोऽपि वयं हताः || २२||

ध्रियते मारुतिस्तात मारुतप्रतिमो यदि |
वैश्वानरसमो वीर्ये जीविताशा ततो भवेत् || २३||

ततो वृद्धमुपागम्य नियमेनाभ्यवादयत् |
गृह्य जाम्बवतः पादौ हनूमान्मारुतात्मजः || २४||

श्रुत्वा हनुमतो वाक्यं तथापि व्यथितेन्द्रियः |
पुनर्जातमिवात्मानं स मेने ऋक्षपुङ्गवः || २५||

ततोऽब्रवीन्महातेजा हनूमन्तं स जाम्बवान् |
आगच्छ हरिशार्दूलवानरांस्त्रातुमर्हसि || २६||

नान्यो विक्रमपर्याप्तस्त्वमेषां परमः सखा |
त्वत्पराक्रमकालोऽयं नान्यं पश्यामि कञ् चन || २७||

ऋक्षवानरवीराणामनीकानि प्रहर्षय |
विशल्यौ कुरु चाप्येतौ सादितौ रामलक्ष्मणौ || २८||

गत्वा परममध्वानमुपर्युपरि सागरम् |
हिमवन्तं नगश्रेष्ठं हनूमन्गन्तुमर्हसि || २९||

ततः काञ्चनमत्युग्रमृषभं पर्वतोत्तमम् |
कैलासशिखरं चापि द्रक्ष्यस्यरिनिषूदन || ३०||

तयोः शिखरयोर्मध्ये प्रदीप्तमतुलप्रभम् |
सर्वौषधियुतं वीर द्रक्ष्यस्यौषधिपर्वतम् || ३१||

तस्य वानरशार्दूलचतस्रो मूर्ध्नि सम्भवाः |
द्रक्ष्यस्योषधयो दीप्ता दीपयन्त्यो दिशो दश || ३२||

मृतसञ्जीवनीं चैव विशल्यकरणीम् अपि |
सौवर्णकरणीं चैव सन्धानीं च महौषधीम् || ३३||

ताः सर्वा हनुमन्गृह्य क्षिप्रमागन्तुमर्हसि |
आश्वासय हरीन्प्राणैर्योज्य गन्धवहात्मजः || ३४||

श्रुत्वा जाम्बवतो वाक्यं हनूमान्हरिपुङ्गवः |
आपूर्यत बलोद्धर्षैस्तोयवेगैरिवार्णवः || ३५||

स पर्वततटाग्रस्थः पीडयन्पर्वतोत्तरम् |
हनूमान्दृश्यते वीरो द्वितीय इव पर्वतः || ३६||

नमस्कृत्वाथ रामाय मारुतिर्भीमविक्रमः |
राघवार्थे परं कर्म समैहत परन्तपः || ३७||

स पुच्छमुद्यम्य भुजङ्गकल्पं
विनम्य पृष्ठं श्रवणे निकुञ्च्य |
विवृत्य वक्त्रं वडवामुखाभम्
आपुप्लुवे व्योम्नि स चण्डवेगः || ३८||

आदित्यपथमाश्रित्य जगाम स गतश्रमः |
स ददर्श हरिश्रेष्ठो हिमवन्तं नगोत्तमम् || ३९||

कैलासमग्र्यं हिमवच्छिलां च
तथर्षभं काञ्चनशैलमग्र्यम् |
स दीप्तसर्वौषधिसम्प्रदीप्तं
ददर्श सर्वौषधिपर्वतेन्द्रम् || ४०||

स तं समीक्ष्यानलरश्मिदीप्तं
विसिष्मिये वासवदूतसूनुः |
आप्लुत्य तं चौषधिपर्वतेन्द्रं
तत्रौषधीनां विचयं चकार || ४१||

स योजनसहस्राणि समतीत्य महाकपिः |
दिव्यौषधिधरं शैलं व्यचरन्मारुतात्मजः || ४२||

महौषध्यस्तु ताः सर्वास्तस्मिन्पर्वतसत्तमे |
विज्ञायार्थिनमायान्तं ततो जग्मुरदर्शनम् || ४३||

स ता महात्मा हनुमानपश्यंश्
चुकोप कोपाच्च भृशं ननाद |
अमृष्यमाणोऽग्निनिकाशचक्षुर्
महीधरेन्द्रं तमुवाच वाक्यम् || ४४||

किमेतदेवं सुविनिश्चितं ते
यद्राघवे नासि कृतानुकम्पः |
पश्याद्य मद्बाहुबलाभिभूतो
विकीर्णमात्मानमथो नगेन्द्र || ४५||

स तस्य शृङ्गं सनगं सनागं
सकाञ्चनं धातुसहस्रजुष्टम् |
विकीर्णकूटं चलिताग्रसानुं
प्रगृह्य वेगात्सहसोन्ममाथ || ४६||

स तं समुत्पाट्य खमुत्पपात
वित्रास्य लोकान्ससुरान्सुरेन्द्रान् |
संस्तूयमानः खचरैरनेकैर्
जगाम वेगाद्गरुडोग्रवीर्यः || ४७||

स भास्कराध्वानमनुप्रपन्नस्
तद्भास्कराभं शिखरं प्रगृह्य |
बभौ तदा भास्करसंनिकाशो
रवेः समीपे प्रतिभास्कराभः || ४८||

तं वानराः प्रेक्ष्य तदा विनेदुः
स तानपि प्रेक्ष्य मुदा ननाद |
तेषां समुद्घुष्टरवं निशम्य
लङ्कालया भीमतरं विनेदुः || ४९||

ततो महात्मा निपपात तस्मिञ्
शैलोत्तमे वानरसैन्यमध्ये |
हर्युत्तमेभ्यः शिरसाभिवाद्य
विभीषणं तत्र च सस्वजे सः || ५०||

तावप्युभौ मानुषराजपुत्रौ
तं गन्धमाघ्राय महौषधीनाम् |
बभूवतुस्तत्र तदा विशल्याव्
उत्तस्थुरन्ये च हरिप्रवीराः || ५१||

ततो हरिर्गन्धवहात्मजस्तु
तमोषधीशैलमुदग्रवीर्यः |
निनाय वेगाद्धिमवन्तमेव
पुनश्च रामेण समाजगाम || ५२||

52

2299

On that day Indrajit killed 67 crores of vanaras by the Brahmastra.  Shri Hanuman and Vibhishana, who are in conscious state, roamed about in the battle-front with torches in their hands and searched for Jambavan. When Shri Hanuman touches the feet of Jambavan, Jambavan tells Shri Hanuman to leap towards to Himalayas, and to bring four important herbs, viz. Mrita Sanjivani, Vishalyakarani, Suvarnakarani and Sandhanakarani; so that Shri Rama, Lakshmana and the army of vanaras can be made active.

Shri Hanuma fly towards Himalayas and reaches Mount Rishabha, where the wonderful herbs exist. As Shri Hanuman searched for the four wonderful herbs, the herbs remained invisible for him. Hence, Shri Hanuman uproots the entire mountain and carries it along with him. Inhaling the medicinal vapours of those herbs, Shri Rama, Lakshmana and all the vanaras regain their normal health.

इत्यार्षे श्री रामायणे युद्धकाण्डे द्वाविंशति: भाग:

 

Yuddhakāṇḍa Part-21

Yuddhakāṇḍa Part-23

युद्धकाण्ड - Yuddhakāṇḍa (भाग - २१ ;;; Part – 21)

 

युद्धकाण्ड - Yuddhakāṇḍa (भाग - २१ ;;; Part – 21)

Sarga number as per Ramayana

Shlokas extracted

No. of shlokas

Cumulative number of shlokas in this Kanda

70

नरान्तकं हतं दृष्ट्वा चुक्रुशुर्नैरृतर्षभाः |
देवान्तकस्त्रिमूर्धा च पौलस्त्यश्च महोदरः || १||

आरूढो मेघसङ्काशं वारणेन्द्रं महोदरः |
वालिपुत्रं महावीर्यमभिदुद्राव वीर्यवान् || २||

भ्रातृव्यसनसन्तप्तस्तदा देवान्तको बली |
आदाय परिघं दीप्तमङ्गदं समभिद्रवत् || ३||

रथमादित्यसङ्काशं युक्तं परमवाजिभिः |
आस्थाय त्रिशिरा वीरो वालिपुत्रमथाभ्ययात् || ४||

स त्रिभिर्देवदर्पघ्नैर्नैरृतेन्द्रैरभिद्रुतः |
वृक्षमुत्पाटयामास महाविटपमङ्गदः || ५||

देवान्तकाय तं वीरश्चिक्षेप सहसाङ्गदः |
महावृक्षं महाशाखं शक्रो दीप्तमिवाशनिम् || ६||

त्रिशिरास्तं प्रचिच्छेद शरैराशीविषोपमैः |
स वृक्षं कृत्तमालोक्य उत्पपात ततोऽङ्गदः || ७||

स ववर्ष ततो वृक्षाञ्शिलाश्च कपिकुञ्जरः |
तान्प्रचिच्छेद सङ्क्रुद्धस्त्रिशिरा निशितैः शरैः || ८||

परिघाग्रेण तान्वृक्षान्बभञ्ज च सुरान्तकः |
त्रिशिराश्चाङ्गदं वीरमभिदुद्राव सायकैः || ९||

गजेन समभिद्रुत्य वालिपुत्रं महोदरः |
जघानोरसि सङ्क्रुद्धस्तोमरैर्वज्रसंनिभैः || १०||

देवान्तकश्च सङ्क्रुद्धः परिघेण तदाङ्गदम् |
उपगम्याभिहत्याशु व्यपचक्राम वेगवान् || ११||

स त्रिभिर्नैरृतश्रेष्ठैर्युगपत्समभिद्रुतः |
न विव्यथे महातेजा वालिपुत्रः प्रतापवान् || १२||

तलेन भृशमुत्पत्य जघानास्य महागजम् |
पेततुर्लोचने तस्य विननाद स वारणः || १३||

विषाणं चास्य निष्कृष्य वालिपुत्रो महाबलः |
देवान्तकमभिद्रुत्य ताडयामास संयुगे || १४||

स विह्वलितसर्वाङ्गो वातोद्धत इव द्रुमः |
लाक्षारससवर्णं च सुस्राव रुधिरं मुखात् || १५||

अथाश्वास्य महातेजाः कृच्छ्राद्देवान्तको बली |
आविध्य परिघं घोरमाजघान तदाङ्गदम् || १६||

परिघाभिहतश्चापि वानरेन्द्रात्मजस्तदा |
जानुभ्यां पतितो भूमौ पुनरेवोत्पपात ह || १७||

समुत्पतन्तं त्रिशिरास्त्रिभिराशीविषोपमैः |
घोरैर्हरिपतेः पुत्रं ललाटेऽभिजघान ह || १८||

ततोऽङ्गदं परिक्षिप्तं त्रिभिर्नैरृतपुङ्गवैः |
हनूमानपि विज्ञाय नीलश्चापि प्रतस्थतुः || १९||

ततश्चिक्षेप शैलाग्रं नीलस्त्रिशिरसे तदा |
तद्रावणसुतो धीमान्बिभेद निशितैः शरैः || २०||

तद्बाणशतनिर्भिन्नं विदारितशिलातलम् |
सविस्फुलिङ्गं सज्वालं निपपात गिरेः शिरः || २१||

ततो जृम्भितमालोक्य हर्षाद्देवान्तकस्तदा |
परिघेणाभिदुद्राव मारुतात्मजमाहवे || २२||

तमापतन्तमुत्पत्य हनूमान्मारुतात्मजः |
आजघान तदा मूर्ध्नि वज्रवेगेन मुष्टिना || २३||

स मुष्टिनिष्पिष्टविकीर्णमूर्धा
निर्वान्तदन्ताक्षिविलम्बिजिह्वः |
देवान्तको राक्षसराजसूनुर्
गतासुरुर्व्यां सहसा पपात || २४||

तस्मिन्हते राक्षसयोधमुख्ये
महाबले संयति देवशत्रौ |
क्रुद्धस्त्रिमूर्धा निशिताग्रमुग्रं
ववर्ष नीलोरसि बाणवर्षम् || २५||

स तैः शरौघैरभिवर्ष्यमाणो
विभिन्नगात्रः कपिसैन्यपालः |
नीलो बभूवाथ विसृष्टगात्रो
विष्टम्भितस्तेन महाबलेन || २६||

ततस्तु नीलः प्रतिलभ्य संज्ञां
शैलं समुत्पाट्य सवृक्षषण्डम् |
ततः समुत्पत्य भृशोग्रवेगो
महोदरं तेन जघान मूर्ध्नि || २७||

ततः स शैलाभिनिपातभग्नो
महोदरस्तेन सह द्विपेन |
विपोथितो भूमितले गतासुः
पपात वर्जाभिहतो यथाद्रिः || २८||

पितृव्यं निहतं दृष्ट्वा त्रिशिराश्चापमाददे |
हनूमन्तं च सङ्क्रुद्धो विव्याध निशितैः शरैः || २९||

हनूमांस्तु समुत्पत्य हयांस्त्रिशिरसस्तदा |
विददार नखैः क्रुद्धो गजेन्द्रं मृगराड् इव || ३०||

अथ शक्तिं समादाय कालरात्रिमिवान्तकः |
चिक्षेपानिलपुत्राय त्रिशिरा रावणात्मजः || ३१||

दिवि क्षिप्तामिवोल्कां तां शक्तिं क्षिप्तामसङ्गताम् |
गृहीत्वा हरिशार्दूलो बभञ्ज च ननाद च || ३२||

तां दृष्ट्वा घोरसङ्काशां शक्तिं भग्नां हनूमता |
प्रहृष्टा वानरगणा विनेदुर्जलदा इव || ३३||

ततः खड्गं समुद्यम्य त्रिशिरा राक्षसोत्तमः |
निचखान तदा रोषाद्वानरेन्द्रस्य वक्षसि || ३४||

खड्गप्रहाराभिहतो हनूमान्मारुतात्मजः |
आजघान त्रिमूर्धानं तलेनोरसि वीर्यवान् || ३५||

स तलभिहतस्तेन स्रस्तहस्ताम्बरो भुवि |
निपपात महातेजास्त्रिशिरास्त्यक्तचेतनः || ३६||

स तस्य पततः खड्गं समाच्छिद्य महाकपिः |
ननाद गिरिसङ्काशस्त्रासयन्सर्वनैरृतान् || ३७||

अमृष्यमाणस्तं घोषमुत्पपात निशाचरः |
उत्पत्य च हनूमन्तं ताडयामास मुष्टिना || ३८||

तेन मुष्टिप्रहारेण सञ्चुकोप महाकपिः |
कुपितश्च निजग्राह किरीटे राक्षसर्षभम् || ३९||

स तस्य शीर्षाण्यसिना शितेन
किरीटजुष्टानि सकुण्डलानि |
क्रुद्धः प्रचिच्छेद सुतोऽनिलस्य
त्वष्टुः सुतस्येव शिरांसि शक्रः || ४०||

तान्यायताक्षाण्यगसंनिभानि
प्रदीप्तवैश्वानरलोचनानि |
पेतुः शिरांसीन्द्ररिपोर्धरण्यां
ज्योतींषि मुक्तानि यथार्कमार्गात् || ४१||

तस्मिन्हते देवरिपौ त्रिशीर्षे
हनूमत शक्रपराक्रमेण |
नेदुः प्लवङ्गाः प्रचचाल भूमी
रक्षांस्यथो दुद्रुविरे समन्तात् || ४२||

हतं त्रिशिरसं दृष्ट्वा तथैव च महोदरम् |
हतौ प्रेक्ष्य दुराधर्षौ देवान्तकनरान्तकौ || ४३||

चुकोप परमामर्षी महापार्श्वो महाबलः |
जग्राहार्चिष्मतीं चापि गदां सर्वायसीं शुभाम् || ४४||

हेमपट्टपरिक्षिप्तां मांसशोणितलेपनाम् |
विराजमानां वपुषा शत्रुशोणितरञ्जिताम् || ४५||

तेजसा सम्प्रदीप्ताग्रां रक्तमाल्यविभूषिताम् |
ऐरावतमहापद्मसार्वभौम भयावहाम् || ४६||

गदामादाय सङ्क्रुद्धो महापार्श्वो महाबलः |
हरीन्समभिदुद्राव युगान्ताग्निरिव ज्वलन् || ४७||

अथर्षयः समुत्पत्य वानरो रवणानुजम् |
महापार्श्वमुपागम्य तस्थौ तस्याग्रतो बली || ४८||

तं पुरस्तात्स्थितं दृष्ट्वा वानरं पर्वतोपमम् |
आजघानोरसि क्रुद्धो गदया वज्रकल्पया || ४९||

स तयाभिहतस्तेन गदया वानरर्षभः |
भिन्नवक्षाः समाधूतः सुस्राव रुधिरं बहु || ५०||

स सम्प्राप्य चिरात्संज्ञामृषभो वानरर्षभः |
क्रुद्धो विस्फुरमाणौष्ठो महापार्श्वमुदैक्षत || ५१||

तां गृहीत्वा गदां भीमामाविध्य च पुनः पुनः |
मत्तानीकं महापार्श्वं जघान रणमूर्धनि || ५२||

स स्वया गदया भिन्नो विकीर्णदशनेक्षणः |
निपपात महापार्श्वो वज्राहत इवाचलः || ५३||

तस्मिन्हते भ्रातरि रावणस्य
तन्नैरृतानां बलमर्णवाभम् |
त्यक्तायुधं केवलजीवितार्थं
दुद्राव भिन्नार्णवसंनिकाशम् || ५४||

54

2119

Beholding Narantaka’s death at the hands of Angada, Mahodara, Trishira and Devantaka made a combined onslaught on Angada, who valiantly counters them. 

Seeing Angada being attacked by three demons, Shri Hanuman and Neela come to his rescue. With a strong blow of fist on Devantaka’s head, Shri Hanuman eliminated him.

Trishira and Mahodara attack Neela and Mahodara dies by the attack of Neela 

Meanwhile, Shri Hanuman and Trishira engaged in a one-to-one combat, with Shri Hanuman attacking Trishira with rock and Trishira countering him with arrows. Shri Hanuman finally snatches Trishira’s sword and chops off his three heads with the same sword.

Then, Mahaparshva attacked Rishabha with his mace. Though wounded, Rishabha charged on Mahaparshva, snatched his mace and killed him with that mace itself.

71

स्वबलं व्यथितं दृष्ट्वा तुमुलं लोमहर्षणम् |
भ्रातॄंश्च निहतान्दृष्ट्वा शक्रतुल्यपराक्रमान् || १||

पितृव्यौ चापि सन्दृश्य समरे संनिषूदितौ |
महोदरमहापार्श्वौ भ्रातरौ राक्षसर्षभौ || २||

चुकोप च महातेजा ब्रह्मदत्तवरो युधि |
अतिकायोऽद्रिसङ्काशो देवदानवदर्पहा || ३||

स भास्करसहस्रस्य सङ्घातमिव भास्वरम् |
रथमास्थाय शक्रारिरभिदुद्राव वानरान् || ४||

स विस्फार्य महच्चापं किरीटी मृष्टकुण्डलः |
नाम विश्रावयामास ननाद च महास्वनम् || ५||

तेन सिंहप्रणादेन नामविश्रावणेन च |
ज्याशब्देन च भीमेन त्रासयामास वानरान् || ६||

ते तस्य रूपमालोक्य यथा विष्णोस्त्रिविक्रमे |
भयार्ता वानराः सर्वे विद्रवन्ति दिशो दश || ७||

तेऽतिकायं समासाद्य वानरा मूढचेतसः |
शरण्यं शरणं जग्मुर्लक्ष्मणाग्रजमाहवे || ८||

ततोऽतिकायं काकुत्स्थो रथस्थं पर्वतोपमम् |
ददर्श धन्विनं दूराद्गर्जन्तं कालमेघवत् || ९||

स तं दृष्ट्वा महात्मानं राघवस्तु सुविस्मितः |
वानरान्सान्त्वयित्वा तु विभीषणमुवाच ह || १०||

कोऽसौ पर्वतसङ्काशो धनुष्मान्हरिलोचनः |
युक्ते हयसहस्रेण विशाले स्यन्दने स्थितः || ११||

स पृष्ठो राजपुत्रेण रामेणामिततेजसा |

आचचक्षे महातेजा राघवाय विभीषणः || १२||

दशग्रीवो महातेजा राजा वैश्रवणानुजः |

भीमकर्मा महोत्साहो रावणो राक्षसाधिपः || १३||

तस्यासीद्वीर्यवान्पुत्रो रावणप्रतिमो रणे |

वृद्धसेवी श्रुतधरः सर्वास्त्रविदुषां वरः || १४||

अश्वपृष्ठे रथे नागे खड्गे धनुषि कर्षणे |

भेदे सान्त्वे च दाने च नये मन्त्रे च संमतः || १५||

यस्य बाहुं समाश्रित्य लङ्का भवति निर्भया |

तनयं धान्यमालिन्या अतिकायमिमं विदुः ||१६||

एतेनाराधितो ब्रह्मा तपसा भावितात्मना |

अस्त्राणि चाप्यवाप्तानि रिपवश्च पराजिताः || १७||

सुरासुरैरवध्यत्वं दत्तमस्मै स्वयम्भुवा |

एतच्च कवचं दिव्यं रथश्चैषोऽर्कभास्करः || १८||

एतेन शतशो देवा दानवाश्च पराजिताः |

रक्षितानि च रक्षामि यक्षाश्चापि निषूदिताः || १९||

वज्रं विष्टम्भितं येन बाणैरिन्द्रस्य धीमतः |

पाशः सलिलराजस्य युद्धे प्रतिहतस्तथा || २०||

एषोऽतिकायो बलवान्राक्षसानामथर्षभः |

रावणस्य सुतो धीमान्देवदनव दर्पहा || २१||

तदस्मिन्क्रियतां यत्नः क्षिप्रं पुरुषपुङ्गव |

पुरा वानरसैन्यानि क्षयं नयति सायकैः ||२२||

ततोऽतिकायो बलवान्प्रविश्य हरिवाहिनीम् |

विस्फारयामास धनुर्ननाद च पुनः पुनः ||२३||

तं भीमवपुषं दृष्ट्वा रथस्थं रथिनां वरम् |

अभिपेतुर्महात्मानो ये प्रधानाः प्लवङ्गमाः || २४||

कुमुदो द्विविदो मैन्दो नीलः शरभ एव च |

पादपैर्गिरिशृङ्गैश् च युगपत्समभिद्रवन् ||२५||

तेषां वृक्षांश्च शैलांश्च शरैः काञ्चनभूषणैः |

अतिकायो महातेजाश्चिच्छेदास्त्रविदां वरः || २६||

तांश्चैव सरान्स हरीञ्शरैः सर्वायसैर्बली |

विव्याधाभिमुखः सङ्ख्ये भीमकायो निशाचरः || २७||

तेऽर्दिता बाणबर्षेण भिन्नगात्राः प्लवङ्गमाः |

न शेकुरतिकायस्य प्रतिकर्तुं महारणे ||२८||

तत्सैन्यं हरिवीराणां त्रासयामास राक्षसः |

मृगयूथमिव क्रुद्धो हरिर्यौवनमास्थितः ||२९||

स राषसेन्द्रो हरिसैन्यमध्ये

नायुध्यमानं निजघान कं चित् |

उपेत्य रामं सधनुः कलापी

सगर्वितं वाक्यमिदं बभाषे ||३०||

रथे स्थितोऽहं शरचापपाणिर्

न प्राकृतं कं चन योधयामि |

यस्यास्ति शक्तिर्व्यवसाय युक्ता

ददातुं मे क्षिप्रमिहाद्य युद्धम् ||३१||

तत्तस्य वाक्यं ब्रुवतो निशम्य

चुकोप सौमित्रिरमित्रहन्ता |

अमृष्यमाणश्च समुत्पपात

जग्राह चापं च ततः स्मयित्वा || ३२||

क्रुद्धः सौमित्रिरुत्पत्य तूणादाक्षिप्य सायकम् |

पुरस्तादतिकायस्य विचकर्ष महद्धनुः || ३३||

पूरयन्स महीं शैलानाकाशं सागरं दिशः |

ज्याशब्दो लक्ष्मणस्योग्रस्त्रासयन्रजनीचरान् || ३४||

सौमित्रेश्चापनिर्घोषं श्रुत्वा प्रतिभयं तदा |

विसिष्मिये महातेजा राक्षसेन्द्रात्मजो बली || ३५||

अथातिकायः कुपितो दृष्ट्वा लक्ष्मणमुत्थितम् |

आदाय निशितं बाणमिदं वचनमब्रवीत् || ३६||

बालस्त्वमसि सौमित्रे विक्रमेष्वविचक्षणः |

गच्छ किं कालसदृशं मां योधयितुमिच्छसि || ३७||

न हि मद्बाहुसृष्टानामस्त्राणां हिमवानपि |

सोढुमुत्सहते वेगमन्तरिक्षमथो मही || ३८||

श्रुत्वातिकायस्य वचः सरोषं

सगर्वितं संयति राजपुत्रः |

स सञ्चुकोपातिबलो बृहच्छ्रीर्

उवाच वाक्यं च ततो महार्थम् || ३९||

न वाक्यमात्रेण भवान्प्रधानो

न कत्थनात्सत्पुरुषा भवन्ति |

मयि स्थिते धन्विनि बाणपाणौ

विदर्शयस्वात्मबलं दुरात्मन् || ४०||

कर्मणा सूचयात्मानं न विकत्थितुमर्हसि |

पौरुषेण तु यो युक्तः स तु शूर इति स्मृतः || ४१||

लक्ष्मणस्य वचः श्रुत्वा हेतुमत्परमार्थवत् |
अतिकायः प्रचुक्रोध बाणं चोत्तममाददे || ४२||

ततो विद्याधरा भूता देवा दैत्या महर्षयः |
गुह्यकाश्च महात्मानस्तद्युद्धं ददृशुस्तदा || ४३||

ततोऽतिकायः कुपितश्चापमारोप्य सायकम् |
लक्ष्मणस्य प्रचिक्षेप सङ्क्षिपन्निव चाम्बरम् || ४४||

तमापतन्तं निशितं शरमाशीविषोपमम् |
अर्धचन्द्रेण चिच्छेद लक्ष्मणः परवीरहा || ४५||

तं निकृत्तं शरं दृष्ट्वा कृत्तभोगमिवोरगम् |
अतिकायो भृशं क्रुद्धः पञ्चबाणान्समाददे || ४६||

ताञ्शरान्सम्प्रचिक्षेप लक्ष्मणाय निशाचरः |
तानप्राप्ताञ्शरैस्तीक्ष्णैश्चिच्छेद भरतानुजः || ४७||

स तांश्छित्त्वा शरैस्तीक्ष्णैर्लक्ष्मणः परवीरहा |
आददे निशितं बाणं ज्वलन्तमिव तेजसा || ४८||

तमादाय धनुः श्रेष्ठे योजयामास लक्ष्मणः |
विचकर्ष च वेगेन विससर्ज च सायकम् || ४९||

पूर्णायतविसृष्टेन शरेणानत पर्वणा |
ललाटे राक्षसश्रेष्ठमाजघान स वीर्यवान् || ५०||

स ललाटे शरो मग्नस्तस्य भीमस्य रक्षसः |
ददृशे शोणितेनाक्तः पन्नगेन्द्र इवाहवे || ५१||

राक्षसः प्रचकम्पे च लक्ष्मणेषु प्रकम्पितः |
रुद्रबाणहतं भीमं यथा त्रिपुरगोपुरम् || ५२||

चिन्तयामास चाश्वस्य विमृश्य च महाबलः |
साधु बाणनिपातेन श्वाघनीयोऽसि मे रिपुः || ५३||

विचार्यैवं विनम्यास्यं विनम्य च भुजावुभौ |
स रथोपस्थमास्थाय रथेन प्रचचार ह || ५४||

स चकार तदात्मानं विशल्यं सहसा विभुः |
जग्राह च शरं तीष्णमस्त्रेणापि समादधे || ५५||

आग्नेयेन तदास्त्रेण योजयामास सायकम् |
स जज्वाल तदा बाणो धनुश्चास्य महात्मनः || ५६||

अतिकायोऽतितेजस्वी सौरमस्त्रं समाददे |
तेन बाणं भुजङ्गाभं हेमपुङ्खमयोजयत् || ५७||

ततस्तं ज्वलितं घोरं लक्ष्मणः शरमाहितम् |
अतिकायाय चिक्षेप कालदण्डमिवान्तकः || ५८||

आग्नेयेनाभिसंयुक्तं दृष्ट्वा बाणं निशाचरः |
उत्ससर्ज तदा बाणं दीप्तं सूर्यास्त्रयोजितम् || ५९||

तावुभावम्बरे बाणावन्योन्यमभिजघ्नतुः |
तेजसा सम्प्रदीप्ताग्रौ क्रुद्धाविव भुजं गमौ || ६०||

तावन्योन्यं विनिर्दह्य पेततुर्धरणीतले |
निरर्चिषौ भस्मकृतौ न भ्राजेते शरोत्तमौ || ६१||

ततोऽतिकायः सङ्क्रुद्धस्त्वस्त्रमैषीकमुत्सृजत् |
तत्प्रचिच्छेद सौमित्रिरस्त्रमैन्द्रेण वीर्यवान् || ६२||

ऐषीकं निहतं दृष्ट्वा कुमारो रावणात्मजः |
याम्येनास्त्रेण सङ्क्रुद्धो योजयामास सायकम् || ६३||

ततस्तदस्त्रं चिक्षेप लक्ष्मणाय निशाचरः |
वायव्येन तदस्त्रं तु निजघान स लक्ष्मणः || ६४||

अथैनं शरधाराभिर्धाराभिरिव तोयदः |
अभ्यवर्षत सङ्क्रुद्धो लक्ष्मणो रावणात्मजम् ||६५ ||

तेऽतिकायं समासाद्य कवचे वज्रभूषिते |
भग्नाग्रशल्याः सहसा पेतुर्बाणा महीतले || ६६||

तान्मोघानभिसम्प्रेक्ष्य लक्ष्मणः परवीरहा |
अभ्यवर्षत बाणानां सहस्रेण महायशाः || ६७|

स वर्ष्यमाणो बाणौघैरतिकायो महाबलः |
अवध्यकवचः सङ्ख्ये राक्षसो नैव विव्यथे || ६८||

न शशाक रुजं कर्तुं युधि तस्य नरोत्तमः |
अथैनमभ्युपागम्य वायुर्वाक्यमुवाच ह || ६९||

ब्रह्मदत्तवरो ह्येष अवध्य कवचावृतः |
ब्राह्मेणास्त्रेण भिन्ध्येनमेष वध्यो हि नान्यथा ||७० ||

ततः स वायोर्वचनं निशम्य
सौमित्रिरिन्द्रप्रतिमानवीर्यः |
समाददे बाणममोघवेगं
तद्ब्राह्ममस्त्रं सहसा नियोज्य || ७१||

तस्मिन्वरास्त्रे तु नियुज्यमाने
सौमित्रिणा बाणवरे शिताग्रे |
दिशः सचन्द्रार्कमहाग्रहाश् च
नभश्च तत्रास ररास चोर्वी || ७२||

तं ब्रह्मणोऽस्त्रेण नियुज्य चापे
शरं सुपुङ्खं यमदूतकल्पम् |
सौमित्रिरिन्द्रारिसुतस्य तस्य
ससर्ज बाणं युधि वज्रकल्पम् || ७३|

तं लक्ष्मणोत्सृष्टममोघवेगं
समापतन्तं ज्वलनप्रकाशम् |
सुवर्णवज्रोत्तमचित्रपुङ्खं
तदातिकायः समरे ददर्श || ७४||

तं प्रेक्षमाणः सहसातिकायो
जघान बाणैर्निशितैरनेकैः |
स सायकस्तस्य सुपर्णवेगस्
तदातिवेगेन जगाम पार्श्वम् || ७५||

तमागतं प्रेक्ष्य तदातिकायो
बाणं प्रदीप्तान्तककालकल्पम् |
जघान शक्त्यृष्टिगदाकुठारैः
शूलैर्हलैश्चाप्यविपन्नचेष्टः || ७६||

तान्यायुधान्यद्भुतविग्रहाणि
मोघानि कृत्वा स शरोऽग्निदीप्तः |
प्रसह्य तस्यैव किरीटजुष्टं
तदातिकायस्य शिरो जहार || ७७||

तच्छिरः सशिरस्त्राणं लक्ष्मणेषुप्रपीडितम् |
पपात सहसा भूमौ शृङ्गं हिमवतो यथा || ७८||

प्रहर्षयुक्ता बहवस्तु वानरा
प्रबुद्धपद्मप्रतिमाननास्तदा |
अपूजयँल्लक्ष्मणमिष्टभागिनं
हते रिपौ भीमबले दुरासदे || ७९||

79

2198

Seeing Trishira, Devantaka, Narantaka and Atikaya, Mahodara and Mahaparshva getting killed in the battlefield, Atikaya, with a colossal body, charged on the vanara army.  He withstood the combined onslaught of vanara generals Kumuda, Dwivida, Mainda, Neela, Sharabha and caused them to retreat. 

He reaches Shri Rama and challenges him for a combat. Then, a one-to-one combat ensues between Lakshmana and Atikaya. After a great war, finally Lakshmana uses Brahmastra, which beheads Atikaya.

इत्यार्षे श्री रामायणे युद्धकाण्डे एकविंशतिः भाग:

Yuddhakāṇḍa Part-20

Yuddhakāṇḍa Part-22

 

 

युद्धकाण्ड - Yuddhakāṇḍa (भाग - २० ;;; Part – 20)

 

युद्धकाण्ड - Yuddhakāṇḍa (भाग - २० ;;; Part – 20)

Sarga number as per Ramayana

Shlokas extracted

No. of shlokas

Cumulative number of shlokas in this Kanda

68

कुम्भकर्णं हतं दृष्ट्वा राघवेण महात्मना |
राक्षसा राक्षसेन्द्राय रावणाय न्यवेदयन् || १||

श्रुत्वा विनिहतं सङ्ख्ये कुम्भकर्णं महाबलम् |
रावणः शोकसन्तप्तो मुमोह च पपात च || २||

पितृव्यं निहतं श्रुत्वा देवान्तकनरान्तकौ |
त्रिशिराश्चातिकायश्च रुरुदुः शोकपीडिताः || ३||

भ्रातरं निहतं श्रुत्वा रामेणाक्लिष्टकर्मणा |
महोदरमहापार्श्वौ शोकाक्रान्तौ बभूवतुः || ४||

ततः कृच्छ्रात्समासाद्य संज्ञां राक्षसपुङ्गवः |
कुम्भकर्णवधाद्दीनो विललाप स रावणः || ५||

हा वीर रिपुदर्पघ्न कुम्भकर्ण महाबल |
शत्रुसैन्यं प्रताप्यैकः क्व मां सन्त्यज्य गच्छसि || ६||

इदानीं खल्वहं नास्मि यस्य मे पतितो भुजः |
दक्षिणो यं समाश्रित्य न बिभेमि सुरासुरान् || ७||

कथमेवंविधो वीरो देवदानवदर्पहा |
कालाग्निप्रतिमो ह्यद्य राघवेण रणे हतः || ८||

यस्य ते वज्रनिष्पेषो न कुर्याद्व्यसनं सदा |
स कथं रामबाणार्तः प्रसुप्तोऽसि महीतले || ९||

एते देवगणाः सार्धमृषिभिर्गगने स्थिताः |
निहतं त्वां रणे दृष्ट्वा निनदन्ति प्रहर्षिताः || १०||

ध्रुवमद्यैव संहृष्टा लब्धलक्ष्याः प्लवङ्गमाः |
आरोक्ष्यन्तीह दुर्गाणि लङ्काद्वाराणि सर्वशः || ११||

राज्येन नास्ति मे कार्यं किं करिष्यामि सीतया |
कुम्भकर्णविहीनस्य जीविते नास्ति मे रतिः || १२||

यद्यहं भ्रातृहन्तारं न हन्मि युधि राघवम् |
ननु मे मरणं श्रेयो न चेदं व्यर्थजीवितम् || १३||

अद्यैव तं गमिष्यामि देशं यत्रानुजो मम |
न हि भ्रातॄन्समुत्सृज्य क्षणं जीवितुमुत्सहे || १४||

देवा हि मां हसिष्यन्ति दृष्ट्वा पूर्वापकारिणम् |
कथमिन्द्रं जयिष्यामि कुम्भकर्णहते त्वयि || १५||

तदिदं मामनुप्राप्तं विभीषणवचः शुभम् |
यदज्ञानान्मया तस्य न गृहीतं महात्मनः || १६||

विभीषणवचो यावत्कुम्भकर्णप्रहस्तयोः |
विनाशोऽयं समुत्पन्नो मां व्रीडयति दारुणः || १७||

तस्यायं कर्मणः प्रातो विपाको मम शोकदः |
यन्मया धार्मिकः श्रीमान्स निरस्तो विभीषणः || १८||

इति बहुविधमाकुलान्तरात्मा
कृपणमतीव विलप्य कुम्भकर्णम् |
न्यपतदथ दशाननो भृशार्तस्
तमनुजमिन्द्ररिपुं हतं विदित्वा || १९||

19

1991

Upon hearing the news of Kumbhakarna’s death, Ravana wails thinking that he had virtually lost his right arm. Ravana lost consciousness and on regaining consciousness, Ravana again wonders how the Kumbhakarna, who could withstand Indra, was slain in battle. He remembers the sane advice of Vibhishana, and repents for not paying heed to his advice.  

69

एवं विलपमानस्य रावणस्य दुरात्मनः |
श्रुत्वा शोकाभितप्तस्य त्रिशिरा वाक्यमब्रवीत् || १||

एवमेव महावीर्यो हतो नस्तात मध्यमः |
न तु सत्पुरुषा राजन्विलपन्ति यथा भवान् || २||

नूनं त्रिभुवणस्यापि पर्याप्तस्त्वमसि प्रभो |
स कस्मात्प्राकृत इव शोकस्यात्मानमीदृशम् || ३||

ब्रह्मदत्तास्ति ते शक्तिः कवचः सायको धनुः |
सहस्रखरसंयुक्तो रथो मेघसमस्वनः || ४||

त्वयासकृद्विशस्त्रेण विशस्ता देवदानवाः |
स सर्वायुधसम्पन्नो राघवं शास्तुमर्हसि || ५||

कामं तिष्ठ महाराजनिर्गमिष्याम्यहं रणम् |
उद्धरिष्यामि ते शत्रून्गरुडः पन्नगानिह || ६||

शम्बरो देवराजेन नरको विष्णुना यथा |
तथाद्य शयिता रामो मया युधि निपातितः || ७||

श्रुत्वा त्रिशिरसो वाक्यं रावणो राक्षसाधिपः |
पुनर्जातमिवात्मानं मन्यते कालचोदितः || ८||

श्रुत्वा त्रिशिरसो वाक्यं देवान्तकनरान्तकौ |
अतिकायश्च तेजस्वी बभूवुर्युद्धहर्षिताः || ९||

ततोऽहमहमित्येवं गर्जन्तो नैरृतर्षभाः |
रावणस्य सुता वीराः शक्रतुल्यपराक्रमाः || १०||

अन्तरिक्षचराः सर्वे सर्वे माया विशारदाः |
सर्वे त्रिदशदर्पघ्नाः सर्वे च रणदुर्मदाः || ११||

सर्वेऽस्त्रबलसम्पन्नाः सर्वे विस्तीर्ण कीर्तयः |
सर्वे समरमासाद्य न श्रूयन्ते स्म निर्जिताः || १२||

सर्वेऽस्त्रविदुषो वीराः सर्वे युद्धविशारदाः |
सर्वे प्रवरजिज्ञानाः सर्वे लब्धवरास्तथा || १३||

स तैस्तथा भास्करतुल्यवर्चसैः
सुतैर्वृतः शत्रुबलप्रमर्दनैः |
रराज राजा मघवान्यथामरैर्
वृतो महादानवदर्पनाशनैः || १४||

स पुत्रान्सम्परिष्वज्य भूषयित्वा च भूषणैः |
आशीर्भिश्च प्रशस्ताभिः प्रेषयामास संयुगे || १५||

महोदरमहापार्श्वौ भ्रातरौ चापि रावणः |
रक्षणार्थं कुमाराणां प्रेषयामास संयुगे || १६||

तेऽभिवाद्य महात्मानं रावणं रिपुरावणम् |
कृत्वा प्रदक्षिणं चैव महाकायाः प्रतस्थिरे || १७||

सर्वौषधीभिर्गन्धैश्च समालभ्य महाबलाः |
निर्जग्मुर्नैरृतश्रेष्ठाः षडेते युद्धकाङ्क्षिणः || १८||

ततः सुदर्शनं नाम नीलजीमूतसंनिभम् |
ऐरावतकुले जातमारुरोह महोदरः || १९||

सर्वायुधसमायुक्तं तूणीभिश्च स्वलङ्कृतम् |
रराज गजमास्थाय सवितेवास्तमूर्धनि || २०||

हयोत्तमसमायुक्तं सर्वायुधसमाकुलम् |
आरुरोह रथश्रेष्ठं त्रिशिरा रावणात्मजः || २१||

त्रिशिरा रथमास्थाय विरराज धनुर्धरः |
सविद्युदुल्कः सज्वालः सेन्द्रचाप इवाम्बुदः || २२||

त्रिभिः किरीटैस्त्रिशिराः शुशुभे स रथोत्तमे |
हिमवानिव शैलेन्द्रस्त्रिभिः काञ्चनपर्वतैः || २३||

अतिकायोऽपि तेजस्वी राक्षसेन्द्रसुतस्तदा |
आरुरोह रथश्रेष्ठं श्रेष्ठः सर्वधनुष्मताम् || २४||

सुचक्राक्षं सुसंयुक्तं सानुकर्षं सकूबरम् |
तूणीबाणासनैर्दीप्तं प्रासासि परिघाकुलम् || २५||

स काञ्चनविचित्रेण किरीटेन विराजता |
भूषणैश्च बभौ मेरुः प्रभाभिरिव भास्वरः || २६||

स रराज रथे तस्मिन्राजसूनुर्महाबलः |
वृतो नैरृतशार्दूलैर्वज्रपाणिरिवामरैः || २७||

हयमुच्चैःश्रवः प्रख्यं श्वेतं कनकभूषणम् |
मनोजवं महाकायमारुरोह नरान्तकः || २८||

गृहीत्वा प्रासमुक्लाभं विरराज नरान्तकः |
शक्तिमादाय तेजस्वी गुहः शत्रुष्विवाहवे || २९||

देवान्तकः समादाय परिघं वज्रभूषणम् |
परिगृह्य गिरिं दोर्भ्यां वपुर्विष्णोर्विडम्बयन् || ३०||

महापार्श्वो महातेजा गदामादाय वीर्यवान् |
विरराज गदापाणिः कुबेर इव संयुगे || ३१||

ते प्रतस्थुर्महात्मानो बलैरप्रतिमैर्वृताः |
सुरा इवामरावत्यां बलैरप्रतिमैर्वृताः || ३२||

तान्गजैश्च तुरङ्गैश्च रथैश्चाम्बुदनिस्वनैः |
अनुजग्मुर्महात्मानो राक्षसाः प्रवरायुधाः || ३३||

ते विरेजुर्महात्मानो कुमाराः सूर्यवर्चसः |
किरीटिनः श्रिया जुष्टा ग्रहा दीप्ता इवाम्बरे || ३४||

प्रगृहीता बभौ तेषां छत्राणामावलिः सिता |
शारदाभ्रप्रतीकाशां हंसावलिरिवाम्बरे || ३५||

मरणं वापि निश्चित्य शत्रूणां वा पराजयम् |
इति कृत्वा मतिं वीरा निर्जग्मुः संयुगार्थिनः || ३६||

जगर्जुश्च प्रणेदुश्च चिक्षिपुश्चापि सायकान् |
जहृषुश्च महात्मानो निर्यान्तो युद्धदुर्मदाः || ३७||

क्ष्वेडितास्फोटनिनदैः सञ्चचालेव मेदिनी |
रक्षसां सिंहनादैश्च पुस्फोटेव तदाम्बरम् || ३८||

तेऽभिनिष्क्रम्य मुदिता राक्षसेन्द्रा महाबलाः |
ददृशुर्वानरानीकं समुद्यतशिलानगम् || ३९||

हरयोऽपि महात्मानो ददृशुर्नैरृतं बलम् |
हस्त्यश्वरथसम्बाधं किङ्किणीशतनादितम् || ४०||

नीलजीमूतसङ्काशं समुद्यतमहायुधम् |
दीप्तानलरविप्रख्यैर्नैरृतैः सर्वतो वृतम् || ४१||

तद्दृष्ट्वा बलमायान्तं लब्धलक्ष्याः प्लवङ्गमाः |
समुद्यतमहाशैलाः सम्प्रणेदुर्मुहुर्मुहुः || ४२||

ततः समुद्घुष्टरवं निशम्य
रक्षोगणा वानरयूथपानाम् |
अमृष्यमाणाः परहर्षमुग्रं
महाबला भीमतरं विनेदुः || ४३||

ते राक्षसबलं घोरं प्रविश्य हरियूथपाः |
विचेरुरुद्यतैः शैलैर्नगाः शिखरिणो यथा || ४४||

के चिदाकाशमाविश्य के चिदुर्व्यां प्लवङ्गमाः |
रक्षःसैन्येषु सङ्क्रुद्धाश्चेरुर्द्रुमशिलायुधाः || ४५||

ततो हयं मारुततुल्यवेगम्
आरुह्य शक्तिं निशितां प्रगृह्य |
नरान्तको वानरराजसैन्यं
महार्णवं मीन इवाविवेश || ४६||

स वानरान्सप्तशतानि वीरः
प्रासेन दीप्तेन विनिर्बिभेद |
एकः क्षणेनेन्द्ररिपुर्महात्मा
जघान सैन्यं हरिपुङ्गवानाम् || ४७||

ददृशुश्च महात्मानं हयपृष्ठे प्रतिष्ठितम् |
चरन्तं हरिसैन्येषु विद्याधरमहर्षयः || ४८ ||

स तस्य ददृशे मार्गो मांसशोणितकर्दमः |
पतितैः पर्वताकारैर्वानरैरभिसंवृतः || ४९ ||

यावद्विक्रमितुं बुद्धिं चक्रुः प्लवगपुङ्गवाः |
तावदेतानतिक्रम्य निर्बिभेद नरान्तकः || ५० ||

ज्वलन्तं प्रासमुद्यम्य सङ्ग्रामान्ते नरान्तकः |
ददाह हरिसैन्यानि वनानीव विभावसुः || ५१||

यावदुत्पाटयामासुर्वृक्षाञ्शैलान्वनौकसः |
तावत्प्रासहताः पेतुर्वज्रकृत्ता इवाचलाः || ५२||

दिक्षु सर्वासु बलवान्विचचार नरान्तकः |
प्रमृद्नन्सर्वतो युद्धे प्रावृट्काले यथानिलः || ५३||

न शेकुर्धावितुं वीरा न स्थातुं स्पन्दितुं कुतः |
उत्पतन्तं स्थितं यान्तं सर्वान्विव्याध वीर्यवान् || ५४||

एकेनान्तककल्पेन प्रासेनादित्यतेजसा |
भिन्नानि हरिसैन्यानि निपेतुर्धरणीतले || ५५||

वज्रनिष्पेषसदृशं प्रासस्याभिनिपातनम् |
न शेकुर्वानराः सोढुं ते विनेदुर्महास्वनम् || ५६||

पततां हरिवीराणां रूपाणि प्रचकाशिरे |
वज्रभिन्नाग्रकूटानां शैलानां पतताम् इव || ५७||

ये तु पूर्वं महात्मानः कुम्भकर्णेन पातिताः |
तेऽस्वस्था वानरश्रेष्ठाः सुग्रीवमुपतस्थिरे || ५८||

विप्रेक्षमाणः सुग्रीवो ददर्श हरिवाहिनीम् |
नरान्तकभयत्रस्तां विद्रवन्तीमितस्ततः || ५९||

विद्रुतां वाहिनीं दृष्ट्वा स ददर्श नरान्तकम् |
गृहीतप्रासमायान्तं हयपृष्ठे प्रतिष्ठितम् || ६०||

अथोवाच महातेजाः सुग्रीवो वानराधिपः |
कुमारमङ्गदं वीरं शक्रतुल्यपराक्रमम् || ६१||

गच्छैनं राक्षसं वीर योऽसौ तुरगमास्थितः |
क्षोभयन्तं हरिबलं क्षिप्रं प्राणैर्वियोजय || ६२||

स भर्तुर्वचनं श्रुत्वा निष्पपाताङ्गदस्तदा |
अनीकान्मेघसङ्काशान्मेघानीकादिवांशुमान् || ६३||

शैलसङ्घातसङ्काशो हरीणामुत्तमोऽङ्गदः |
रराजाङ्गदसंनद्धः सधातुरिव पर्वतः || ६४||

निरायुधो महातेजाः केवलं नखदंष्ट्रवान् |
नरान्तकमभिक्रम्य वालिपुत्रोऽब्रवीद्वचः || ६५||

तिष्ठ किं प्राकृतैरेभिर्हरिभिस्त्वं करिष्यसि |
अस्मिन्वज्रसमस्पर्शे प्रासं क्षिप ममोरसि || ६६||

अङ्गदस्य वचः श्रुत्वा प्रचुक्रोध नरान्तकः |
सन्दश्य दशनैरोष्ठं निश्वस्य च भुजङ्गवत् || ६७||

स प्रासमाविध्य तदाङ्गदाय
समुज्ज्वलन्तं सहसोत्ससर्ज |
स वालिपुत्रोरसि वज्रकल्पे
बभूव भग्नो न्यपतच्च भूमौ || ६८||

तं प्रासमालोक्य तदा विभग्नं
सुपर्णकृत्तोरगभोगकल्पम् |
तलं समुद्यम्य स वालिपुत्रस्
तुरङ्गमस्याभिजघान मूर्ध्नि || ६९||

निमग्नपादः स्फुटिताक्षि तारो
निष्क्रान्तजिह्वोऽचलसंनिकाशः |
स तस्य वाजी निपपात भूमौ
तलप्रहारेण विकीर्णमूर्धा || ७०||

नरान्तकः क्रोधवशं जगाम
हतं तुरगं पतितं निरीक्ष्य |
स मुष्टिमुद्यम्य महाप्रभावो
जघान शीर्षे युधि वालिपुत्रम् || ७१||

अथाङ्गदो मुष्टिविभिन्नमूर्धा
सुस्राव तीव्रं रुधिरं भृशोष्णम् |
मुहुर्विजज्वाल मुमोह चापि
संज्ञां समासाद्य विसिष्मिये च || ७२||

अथाङ्गदो वज्रसमानवेगं
संवर्त्य मुष्टिं गिरिशृङ्गकल्पम् |
निपातयामास तदा महात्मा
नरान्तकस्योरसि वालिपुत्रः || ७३||

स मुष्टिनिष्पिष्टविभिन्नवक्षा
ज्वालां वमञ्शोणितदिग्धगात्रः |
नरान्तको भूमितले पपात
यथाचलो वज्रनिपातभग्नः || ७४||

74

2065

As Ravana is bewailing over the death of Kumbhakarna, Trishira, Ravana's son consoled him and stated that he would go to the battle-field and kill Shri Rama. Listening the words of Trishira, Devantaka, Narantaka and Atikaya, Ravana's other sons also came forward to enter the battlefield. Then, Ravana sends all them to the battle. He also sends his brothers Mahodara and Mahaparshva to guard his sons. Great army of demons accompanied them.

The demons, riding on elephants, horses and chariots, attacked the vanaras with arrows, while the vanaras hit them with huge rocks and trees. 

Beholding several demons being killed in battle, Narantaka kills several vanaras with his javelin. Then, Sugreeva sends Angada to fight with Narantaka.  Narantaka hurls his javelin towards Angada's chest, but the javelin breaks and fells down. Angada killed Narantaka's horse with his fist. After exchanging blows with their fists, Angada finally hits on Narantaka’s chest and he dies.

इत्यार्षे श्री रामायणे युद्धकाण्डे विंशतिः भाग:

Yuddhakāṇḍa Part-19

Yuddhakāṇḍa Part-21