Wednesday, January 7, 2026

युद्धकाण्ड - Yuddhakāṇḍa (भाग - २२ ;;; Part – 22)

 

युद्धकाण्ड - Yuddhakāṇḍa (भाग - २२ ;;; Part – 22)

 

Sarga number as per Ramayana

Shlokas extracted

No. of shlokas

Cumulative number of shlokas in this Kanda

86

अथ तस्यामवस्थायां लक्ष्मणं रावणानुजः |
परेषामहितं वाक्यमर्थसाधकमब्रवीत् || १||

अस्यानीकस्य महतो भेदने यतलक्ष्मण |
राक्षसेन्द्रसुतोऽप्यत्र भिन्ने दृश्यो भविष्यति || २||

स त्वमिन्द्राशनिप्रख्यैः शरैरवकिरन्परान् |
अभिद्रवाशु यावद्वै नैतत्कर्म समाप्यते || ३||

जहि वीरदुरात्मानं मायापरमधार्मिकम् |
रावणिं क्रूरकर्माणं सर्वलोकभयावहम् || ४||

विभीषणवचः श्रुत्वा लक्ष्मणः शुभलक्षणः |
ववर्ष शरवर्षाणि राक्षसेन्द्रसुतं प्रति || ५||

ऋक्षाः शाखामृगाश्चैव द्रुमाद्रिवरयोधिनः |
अभ्यधावन्त सहितास्तदनीकमवस्थितम् || ६||

राक्षसाश्च शितैर्बाणैरसिभिः शक्तितोमरैः |
उद्यतैः समवर्तन्त कपिसैन्यजिघांसवः || ७||

स सम्प्रहारस्तुमुलः सञ्जज्ञे कपिरक्षसाम् |
शब्देन महता लङ्कां नादयन्वै समन्ततः || ८||

शस्त्रैर्बहुविधाकारैः शितैर्बाणैश्च पादपैः |
उद्यतैर्गिरिशृङ्गैश्च घोरैराकाशमावृतम् || ९||

ते राक्षसा वानरेषु विकृताननबाहवः |
निवेशयन्तः शस्त्राणि चक्रुस्ते सुमहद्भयम् || १०||

तथैव सकलैर्वृक्षैर्गिरिशृङ्गैश्च वानराः |
अभिजघ्नुर्निजघ्नुश्च समरे राक्षसर्षभान् || ११||

ऋक्षवानरमुख्यैश्च महाकायैर्महाबलैः |
रक्षसां वध्यमानानां महद्भयमजायत || १२||

स्वमनीकं विषण्णं तु श्रुत्वा शत्रुभिरर्दितम् |
उदतिष्ठत दुर्धर्षस्तत्कर्मण्यननुष्ठिते || १३||

वृक्षान्धकारान्निष्क्रम्य जातक्रोधः स रावणिः |
आरुरोह रथं सज्जं पूर्वयुक्तं स राक्षसः || १४||

स भीमकार्मुकशरः कृष्णाञ्जनचयोपमः |
रक्तास्यनयनः क्रूरो बभौ मृत्युरिवान्तकः || १५||

दृष्ट्वैव तु रथस्थं तं पर्यवर्तत तद्बलम् |
रक्षसां भीमवेगानां लक्ष्मणेन युयुत्सताम् || १६||

16

1902

On the advice of Vibhishana, Lakshmana discharges a multiple of arrows towards Indrajit. A fight ensues between vanaras and demons. Disturbed by the tumultuous noise of the war, Indrajit abandons his Vama ritual midway through and enters the battle-field. Shri Hanuman creates havoc among the demons and challenges Indrajit to a duel. Lakshmana beholds Indrajit, coming in his chariot.

87

एवमुक्त्वा तु सौमित्रिं जातहर्षो विभीषणः |
धनुष्पाणिनमादाय त्वरमाणो जगाम सः || १||

अविदूरं ततो गत्वा प्रविश्य च महद्वनम् |
दर्शयामास तत्कर्म लक्ष्मणाय विभीषणः || २||

नीलजीमूतसङ्काशं न्यग्रोधं भीमदर्शनम् |
तेजस्वी रावणभ्राता लक्ष्मणाय न्यवेदयत् || ३||

इहोपहारं भूतानां बलवान्रावणातजः |
उपहृत्य ततः पश्चात्सङ्ग्राममभिवर्तते || ४||

अदृश्यः सर्वभूतानां ततो भवति राक्षसः |
निहन्ति समरे शत्रून्बध्नाति च शरोत्तमैः || ५||

तमप्रविष्टं न्यग्रोधं बलिनं रावणात्मजम् |
विध्वंसय शरैस्तीक्ष्णैः सरथं साश्वसारथिम् || ६||

तथेत्युक्त्वा महातेजाः सौमित्रिर्मित्रनन्दनः |
बभूवावस्थितस्तत्र चित्रं विस्फारयन्धनुः || ७||

स रथेनाग्निवर्णेन बलवान्रावणात्मजः |
इन्द्रजित्कवची खड्गी सध्वजः प्रत्यदृश्यत || ८||

तमुवाच महातेजाः पौलस्त्यमपराजितम् |
समाह्वये त्वां समरे सम्यग्युद्धं प्रयच्छ मे || ९||

एवमुक्तो महातेजा मनस्वी रावणात्मजः |
अब्रवीत्परुषं वाक्यं तत्र दृष्ट्वा विभीषणम् || १०||

इह त्वं जातसंवृद्धः साक्षाद्भ्राता पितुर्मम |
कथं द्रुह्यसि पुत्रस्य पितृव्यो मम राक्षस || ११||

न ज्ञातित्वं न सौहार्दं न जातिस्तव दुर्मते |
प्रमाणं न च सोदर्यं न धर्मो धर्मदूषण || १२||

शोच्यस्त्वमसि दुर्बुद्धे निन्दनीयश्च साधुभिः |
यस्त्वं स्वजनमुत्सृज्य परभृत्यत्वमागतः || १३||

नैतच्छिथिलया बुद्ध्या त्वं वेत्सि महदन्तरम् |
क्व च स्वजनसंवासः क्व च नीचपराश्रयः || १४||

गुणवान्वा परजनः स्वजनो निर्गुणोऽपि वा |
निर्गुणः स्वजनः श्रेयान्यः परः पर एव सः || १५||

निरनुक्रोशता चेयं यादृशी ते निशाचर |
स्वजनेन त्वया शक्यं परुषं रावणानुज || १६||

इत्युक्तो भ्रातृपुत्रेण प्रत्युवाच विभीषणः |
अजानन्निव मच्छीलं किं राक्षस विकत्थसे || १७||

राक्षसेन्द्रसुतासाधो पारुष्यं त्यज गौरवात् |
कुले यद्यप्यहं जातो रक्षसां क्रूरकर्मणाम् |
गुणोऽयं प्रथमो नॄणां तन्मे शीलमराक्षसं || १८||

न रमे दारुणेनाहं न चाधर्मेण वै रमे |
भ्रात्रा विषमशीलेन कथं भ्राता निरस्यते || १९||

परस्वानां च हरणं परदाराभिमर्शनम् |
सुहृदामतिशङ्कां च त्रयो दोषाः क्षयावहाः || २०||

महर्षीणां वधो घोरः सर्वदेवैश्च विग्रहः |
अभिमानश्च कोपश्च वैरित्वं प्रतिकूलता || २१||

एते दोषा मम भ्रातुर्जीवितैश्वर्यनाशनाः |
गुणान्प्रच्छादयामासुः पर्वतानिव तोयदाः || २२||

दोषैरेतैः परित्यक्तो मया भ्राता पिता तव |
नेयमस्ति पुरी लङ्का न च त्वं न च ते पिता || २३||

अतिमानी च बालश्च दुर्विनीतश्च राक्षस |
बद्धस्त्वं कालपाशेन ब्रूहि मां यद्यदिच्छसि || २४||

अद्य ते व्यसनं प्राप्तं किमिह त्वं तु वक्ष्यसि |
प्रवेष्टुं न त्वया शक्यो न्यग्रोधो राक्षसाधम || २५||

धर्षयित्वा तु काकुत्स्थौ न शक्यं जीवितुं त्वया |
युध्यस्व नरदेवेन लक्ष्मणेन रणे सह |
हतस्त्वं देवता कार्यं करिष्यसि यमक्षये || २६||

निदर्शयस्वात्मबलं समुद्यतं
कुरुष्व सर्वायुधसायकव्ययम् |
न लक्ष्मणस्यैत्य हि बाणगोचरं
त्वमद्य जीवन्सबलो गमिष्यसि || २७||

27

1929

Vibhishana leads Lakshmana to the place where Indrajit was performing the Vama ritual. Lakshmana waits at a banyan tree, where the ritual is being performed. Indrajit sees Vibhishana there and starts talking harsh words to him, saying that he had ditched him by bringing Lakshmana to that place. Vibhishana replied that because of Ravana's vices, he left him and joined Rama's side. He further adds that Indrajit and his army would not survive under the attack of Lakshmana's arrows.

88

विभीषण वचः श्रुत्वा रावणिः क्रोधमूर्छितः |
अब्रवीत्परुषं वाक्यं वेगेनाभ्युत्पपात ह || १||

उद्यतायुधनिस्त्रिंशो रथे तु समलङ्कृते |
कालाश्वयुक्ते महति स्थितः कालान्तकोपमः || २||

महाप्रमाणमुद्यम्य विपुलं वेगवद्दृढम् |
धनुर्भीमं परामृश्य शरांश्चामित्रनाशनान् || ३||

उवाचैनं समारब्धः सौमित्रिं सविभीषणम् |
तांश्च वानरशार्दूलान्पश्यध्वं मे पराक्रमम् || ४||

अद्य मत्कार्मुकोत्सृष्टं शरवर्षं दुरासदम् |
मुक्तं वर्षमिवाकाशे वारयिष्यथ संयुगे || ५||

अद्य वो मामका बाणा महाकार्मुकनिःसृताः |
विधमिष्यन्ति गात्राणि तूलराशिमिवानलः || ६||

तीक्ष्णसायकनिर्भिन्नाञ्शूलशक्त्यृष्टितोमरैः |
अद्य वो गमयिष्यामि सर्वानेव यमक्षयम् || ७||

क्षिपतः शरवर्षाणि क्षिप्रहस्तस्य मे युधि |
जीमूतस्येव नदतः कः स्थास्यति ममाग्रतः || ८||

तच्छ्रुत्वा राक्षसेन्द्रस्य गर्जितं लक्ष्मणस्तदा |
अभीतवदनः क्रुद्धो रावणिं वाक्यमब्रवीत् || ९||

अकृत्वा कत्थसे कर्म किमर्थमिह राक्षस |
कुरु तत्कर्म येनाहं श्रद्दध्यां तव कत्थनम् || १०||

अनुक्त्वा परुषं वाक्यं किं चिदप्यनवक्षिपन् |
अविकत्थन्वधिष्यामि त्वां पश्य पुरुषादन || ११||

इत्युक्त्वा पञ्चनाराचानाकर्णापूरिताञ्शरान् |
निचखान महावेगाँल्लक्ष्मणो राक्षसोरसि || १२||

स शरैराहतस्तेन सरोषो रावणात्मजः |
सुप्रयुक्तैस्त्रिभिर्बाणैः प्रतिविव्याध लक्ष्मणम् || १३||

स बभूव महाभीमो नरराक्षससिंहयोः |
विमर्दस्तुमुलो युद्धे परस्परवधैषिणोः || १४||

उभौ हि बलसम्पन्नावुभौ विक्रमशालिनौ |
उभावपि सुविक्रान्तौ सर्वशस्त्रास्त्रकोविदौ || १५||

उभौ परमदुर्जेयावतुल्यबलतेजसौ |
युयुधाते महावीरौ ग्रहाविव नभो गतौ || १६||

बलवृत्राविव हि तौ युधि वै दुष्प्रधर्षणौ |
युयुधाते महात्मानौ तदा केसरिणाविव || १७||

बहूनवसृजन्तौ हि मार्गणौघानवस्थितौ |
नरराक्षससिंहौ तौ प्रहृष्टावभ्ययुध्यताम् || १८||

सुसम्प्रहृष्टौ नरराक्षसोत्तमौ
जयैषिणौ मार्गणचापधारिणौ |
परस्परं तौ प्रववर्षतुर्भृशं
शरौघवर्षेण बलाहकाविव || १९||

19

1948

A fierce battle of archery ensues between Indrajit and Lakshmana.

इत्यार्षे श्री रामायणे युद्धकाण्डे द्वाविंशति: भाग:

 

Yuddhakāṇḍa Part-21

Yuddhakāṇḍa Part-23

No comments:

Post a Comment