सुन्दरकाण्ड - Sundarakāṇḍa (भाग - १० ;;; Part – 10)
|
Sarga
number as per Ramayana |
Shlokas
extracted |
No. of shlokas |
Cumulative number of shlokas in this Kanda |
|
22 |
सीताया वचनं श्रुत्वा परुषं राक्षसाधिपः | यथा
यथा सान्त्वयिता वश्यः स्त्रीणां तथा तथा | संनियच्छति मे क्रोधं त्वयि कामः समुत्थितः | वामः
कामो मनुष्याणां यस्मिन्किल निबध्यते | एतस्मात्कारणान्न तां घतयामि वरानने | परुषाणि हि वाक्यानि यानि यानि ब्रवीषि माम् | एवमुक्त्वा तु वैदेहीं रावणो राक्षसाधिपः | द्वौ
मासौ रक्षितव्यौ मे योऽवधिस्ते मया कृतः | द्वाभ्यामूर्ध्वं तु मासाभ्यां भर्तारं मामनिच्छतीम् | तां
तर्ज्यमानां सम्प्रेक्ष्य राक्षसेन्द्रेण जानकीम् | ओष्ठप्रकारैरपरा नेत्रवक्त्रैस्तथापराः | ताभिराश्वासिता सीता रावणं राक्षसाधिपम् | नूनं
न ते जनः कश्चिदसिन्निःश्रेयसे स्थितः | मां
हि धर्मात्मनः पत्नीं शचीमिव शचीपतेः | राक्षसाधम रामस्य भार्याममिततेजसः | यथा
दृप्तश्च मातङ्गः शशश् च सहितौ वने | स
त्वमिक्ष्वाकुनाथं वै क्षिपन्निह न लज्जसे | इमे
ते नयने क्रूरे विरूपे कृष्णपिङ्गले | तस्य
धर्मात्मनः पत्नीं स्नुषां दशरथस्य च | असन्देशात्तु रामस्य तपसश्चानुपालनात् | नापहर्तुमहं शक्या तस्य रामस्य धीमतः | शूरेण
धनदभ्राता बलैः समुदितेन च | सीताया वचनं श्रुत्वा रावणो राक्षसाधिपः | नीलजीमूतसङ्काशो महाभुजशिरोधरः | चलाग्रमकुटः प्रांशुश्चित्रमाल्यानुलेपनः | श्रोणीसूत्रेण महता मेककेन सुसंवृतः | तरुणादित्यवर्णाभ्यां कुण्डलाभ्यां विभूषितः | अवेक्षमाणो वैदेहीं कोपसंरक्तलोचनः | अनयेनाभिसम्पन्नमर्थहीनमनुव्रते | इत्युक्त्वा मैथिलीं राजा रावणः शत्रुरावणः | एकाक्षीमेककर्णां च कर्णप्रावरणां तथा | हस्तिपद्य श्वपद्यौ च गोपदीं पादचूलिकाम् | अतिमात्रशिरोग्रीवामतिमात्रकुचोदरीम् | यथा
मद्वशगा सीता क्षिप्रं भवति जानकी | प्रतिलोमानुलोमैश्च सामदानादिभेदनैः | इति
प्रतिसमादिश्य राक्षसेन्द्रः पुनः पुनः | उपगम्य ततः क्षिप्रं राक्षसी धान्यमालिनी | मया
क्रीड महाराजसीतया किं तवानया | एवमुक्तस्तु राक्षस्या समुत्क्षिप्तस्ततो बली | देवगन्धर्वकन्याश्च नागकन्याश्च तास्ततः | स
मैथिलीं धर्मपरामवस्थितां |
41 |
859 |
|
Angered by Seeta’s reply,
Ravana frightens her with harsh words and gives Seetha two months to marry him
or face death. Ravana orders women demons to persuade Sita to marry him,
using any means necessary, ranging from gentle persuasion to threats and
intimidation. Ravana then goes back to his own house with his wives. |
|||
|
23 25 26 |
इत्युक्त्वा मैथिलीं राजा रावणः शत्रुरावणः | निष्क्रान्ते राक्षसेन्द्रे तु पुनरन्तःपुरं गते | ततः
सीतामुपागम्य राक्षस्यः क्रोधमूर्छिताः | पौलस्त्यस्य वरिष्ठस्य रावणस्य महात्मनः | ततस्त्वेकजटा नाम राक्षसी वाक्यमब्रवीत् | प्रजापतीनां षण्णां तु चतुर्थो यः प्रजापतिः | पुलस्त्यस्य तु तेजस्वी महर्षिर्मानसः सुतः | तस्य
पुत्रो विशालाक्षि रावणः शत्रुरावणः | ततो
हरिजटा नाम राक्षसी वाक्यमब्रवीत् | येन
देवास्त्रयस्त्रिंशद्देवराजश्च निर्जितः | वीर्योत्सिक्तस्य शूरस्य सङ्ग्रामेष्वनिवर्तिनः | प्रियां बहुमतां भार्यां त्यक्त्वा राजा महाबलः | समृद्धं स्त्रीसहस्रेण नानारत्नोपशोभितम् | असकृद्देवता युद्धे नागगन्धर्वदानवाः | तस्य
सर्वसमृद्धस्या रावणस्य महात्मनः | यस्य
सूर्यो न तपति भीतो यस्य च मारुतः | पुष्पवृष्टिं च तरवो मुमुचुर्यस्य वै भयात् | तस्य
नैरृतराजस्य राजराजस्य भामिनि | साधु
ते तत्त्वतो देवि कथितं साधु भामिनि | ततस्तां विनता नाम राक्षसी भीमदर्शना | अब्रवीत्कुपिताकारा कराला निर्णतोदरी || २०|| सीते
पर्याप्तमेतावद्भर्तृस्नेहो निदर्शितः | सर्वत्रातिकृतं भद्रे व्यसनायोपकल्पते || २१|| परितुष्टास्मि भद्रं ते मानुषस्ते कृतो विधिः | ममापि
तु वचः पथ्यं ब्रुवन्त्याः कुरु मैथिलि || २२|| रावणं
भज भर्तारं भर्तारं सर्वरक्षसाम् | विक्रान्तं रूपवन्तं च सुरेशमिव वासवम् || २३|| दक्षिणं त्यागशीलं च सर्वस्य प्रियवादिनम् | मानुषं कृपणं रामं त्यक्त्वा रावणमाश्रय || २४|| दिव्याङ्गरागा वैदेहि दिव्याभरणभूषिता | अद्य
प्रभृति सर्वेषां लोकानामीश्वरी भव | अग्नेः स्वाहा यथा देवी शचीवेन्द्रस्य शोभने || २५|| किं
ते रामेण वैदेहि कृपणेन गतायुषा || २१|| एतदुक्तं च मे वाक्यं यदि त्वं न करिष्यसि | अस्मिन्मुहूर्ते सर्वास्त्वां भक्षयिष्यामहे वयम् || २६|| ततस्त्वजामुखी नाम राक्षसी वाक्यमब्रवीत् | विशस्येमां ततः सर्वान्समान्कुरुत पीलुकान् || २७|| विभजाम ततः सर्वा विवादो मे न रोचते | पेयमानीयतां क्षिप्रं माल्यं च विविधं बहु || २८|| ततः
शूर्पणखा नाम राक्षसी वाक्यमब्रवीत् | अजामुखा यदुक्तं हि तदेव मम रोचते || २९|| सुरा
चानीयतां क्षिप्रं सर्वशोकविनाशिनी | मानुषं मांसमासाद्य नृत्यामोऽथ निकुम्भिलाम् || ३०|| एवं
सम्भर्त्स्यमाना सा सीता सुरसुतोपमा | राक्षसीभिः सुघोराभिर्धैर्यमुत्सृज्य रोदिति || ३१|| सा
निःश्वसन्ती दुःखार्ता शोकोपहतचेतना | आर्ता
व्यसृजदश्रूणि मैथिली विललाप ह || ३२|| हा
रामेति च दुःखार्ता पुनर्हा लक्ष्मणेति च | हा
श्वश्रु मम कौसल्ये हा सुमित्रेति भाविनि || ३३|| लोकप्रवादः सत्योऽयं पण्डितैः समुदाहृतः | अकाले
दुर्लभो मृत्युः स्त्रिया वा पुरुषस्य वा || ३४|| यत्राहमाभिः क्रूराभी राक्षसीभिरिहार्दिता | जीवामि हीना रामेण मुहूर्तमपि दुःखिता || ३५|| सर्वथा तेन हीनाया रामेण विदितात्मना | तीष्क्णं विषमिवास्वाद्य दुर्लभं मम जीवितम् || ३६|| ततो
निहतनथानां राक्षसीनां गृहे गृहे | यथाहमेवं रुदती तथा भूयो न संशयः | अन्विष्य रक्षसां लङ्कां कुर्याद्रामः सलक्ष्मणः || ३७|| न
हि ताभ्यां रिपुर्दृष्टो मुहूतमपि जीवति | चिता
धूमाकुलपथा गृध्रमण्डलसङ्कुला | अचिरेण तु लङ्केयं श्मशानसदृशी भवेत् || ३८|| अचिरेणैव कालेन प्राप्स्याम्येव मनोरथम् | दुष्प्रस्थानोऽयमाख्याति सर्वेषां वो विपर्ययः || ३९|| यादृशानि तु दृश्यन्ते लङ्कायामशुभानि तु | अचिरेणैव कालेन भविष्यति हतप्रभा || ४०|| नूनं
लङ्का हते पापे रावणे राक्षसाधिपे | शोषं
यास्यति दुर्धर्षा प्रमदा विधवा यथा || ४१|| पुष्योत्सवसमृद्धा च नष्टभर्त्री सराक्षसा | भविष्यति पुरी लङ्का नष्टभर्त्री यथाङ्गना || ४२|| नूनं
राक्षसकन्यानां रुदन्तीनां गृहे गृहे | श्रोष्यामि नचिरादेव दुःखार्तानाम् इह ध्वनिम् || ४३|| सान्धकारा हतद्योता हतराक्षसपुङ्गवा | भविष्यति पुरी लङ्का निर्दग्धा रामसायकैः || ४४|| यदि
नाम स शूरो मां रामो रक्तान्तलोचनः | जानीयाद्वर्तमानां हि रावणस्य निवेशने || ४५|| अनेन
तु नृशंसेन रावणेनाधमेन मे | समयो
यस्तु निर्दिष्टस्तस्य कालोऽयमागतः || ४६|| अकार्यं ये न जानन्ति नैरृताः पापकारिणः | अधर्मात्तु महोत्पातो भविष्यति हि साम्प्रतम् || ४७|| नैते
धर्मं विजानन्ति राक्षसाः पिशिताशनाः | ध्रुवं मां प्रातराशार्थे राक्षसः कल्पयिष्यति || ४८|| साहं
कथं करिष्यामि तं विना प्रियदर्शनम् | रामं
रक्तान्तनयनमपश्यन्ती सुदुःखिता || ४९|| यदि
कश्चित्प्रदाता मे विषस्याद्य भवेदिह | क्षिप्रं वैवस्वतं देवं पश्येयं पतिना विना || ५०|| |
50 |
909 |
|
After Ravana left
that Garden, the women demons start threating her to marry Ravana. They even threaten her to kill her at that
instant and eat away. Seeta wails and
curses that in a short time, the women in Lanka will cry, losing their near
and dear in the war lodged by Shri Rama and expresses her desire to commit
suicide. |
|||
इत्यार्षे श्री
रामायणे सुन्दरकाण्डे दशम: भाग:
No comments:
Post a Comment