Saturday, January 3, 2026

सुन्दरकाण्ड - Sundarakāṇḍa (भाग - १७ ;;; Part – 17)

 

सुन्दरकाण्ड - Sundarakāṇḍa (भाग - १७ ;;; Part – 17)

Sarga number as per Ramayana

Shlokas extracted

No. of shlokas

Cumulative number of shlokas in this Kanda

46

हतान्मन्त्रिसुतान्बुद्ध्वा वानरेण महात्मना |
रावणः संवृताकारश्चकार मतिमुत्तमाम् || १||

स विरूपाक्षयूपाक्षौ दुर्धरं चैव राक्षसं |
प्रघसं भासकर्णं च पञ्चसेनाग्रनायकान् || २||

सन्दिदेश दशग्रीवो वीरान्नयविशारदान् |
हनूमद्ग्रहणे व्यग्रान्वायुवेगसमान्युधि || ३||

यात सेनाग्रगाः सर्वे महाबलपरिग्रहाः |
सवाजिरथमातङ्गाः स कपिः शास्यताम् इति || ४||

यत्तैश्च खलु भाव्यं स्यात्तमासाद्य वनालयम् |
कर्म चापि समाधेयं देशकालविरोधितम् || ५||

न ह्यहं तं कपिं मन्ये कर्मणा प्रतितर्कयन् |
सर्वथा तन्महद्भूतं महाबलपरिग्रहम् |
भवेदिन्द्रेण वा सृष्टमस्मदर्थं तपोबलात् || ६||

सनागयक्षगन्धर्वा देवासुरमहर्षयः |
युष्माभिः सहितैः सर्वैर्मया सह विनिर्जिताः || ७||

तैरवश्यं विधातव्यं व्यलीकं किं चिदेव नः |
तदेव नात्र सन्देहः प्रसह्य परिगृह्यताम् || ८||

नावमन्यो भवद्भिश्च हरिः क्रूरपराक्रमः |
दृष्टा हि हरयः शीघ्रा मया विपुलविक्रमाः || ९||

वाली च सह सुग्रीवो जाम्बवांश्च महाबलः |
नीलः सेनापतिश्चैव ये चान्ये द्विविदादयः || १०||

नैव तेषां गतिर्भीमा न तेजो न पराक्रमः |
न मतिर्न बलोत्साहो न रूपपरिकल्पनम् || ११||

महत्सत्त्वमिदं ज्ञेयं कपिरूपं व्यवस्थितम् |
प्रयत्नं महदास्थाय क्रियतामस्य निग्रहः || १२||

कामं लोकास्त्रयः सेन्द्राः ससुरासुरमानवाः |
भवतामग्रतः स्थातुं न पर्याप्ता रणाजिरे || १३||

तथापि तु नयज्ञेन जयमाकाङ्क्षता रणे |
आत्मा रक्ष्यः प्रयत्नेन युद्धसिद्धिर्हि चञ्चला || १४||

ते स्वामिवचनं सर्वे प्रतिगृह्य महौजसः |
समुत्पेतुर्महावेगा हुताशसमतेजसः || १५||

रथैश्च मत्तैर्नागैश्च वाजिभिश्च महाजवैः |
शस्त्रैश्च विविधैस्तीक्ष्णैः सर्वैश्चोपचिता बलैः || १६||

ततस्तं ददृशुर्वीरा दीप्यमानं महाकपिम् |
रश्मिमन्तमिवोद्यन्तं स्वतेजोरश्मिमालिनम् || १७||

तोरणस्थं महावेगं महासत्त्वं महाबलम् |
महामतिं महोत्साहं महाकायं महाबलम् || १८||

तं समीक्ष्यैव ते सर्वे दिक्षु सर्वास्ववस्थिताः |
तैस्तैः प्रहरणैर्भीमैरभिपेतुस्ततस्ततः || १९||

तस्य पञ्चायसास्तीक्ष्णाः सिताः पीतमुखाः शराः |
शिरस्त्युत्पलपत्राभा दुर्धरेण निपातिताः || २०||

स तैः पञ्चभिराविद्धः शरैः शिरसि वानरः |
उत्पपात नदन्व्योम्नि दिशो दश विनादयन् || २१||

ततस्तु दुर्धरो वीरः सरथः सज्जकार्मुकः |
किरञ्शरशतैर्नैकैरभिपेदे महाबलः || २२||

स कपिर्वारयामास तं व्योम्नि शरवर्षिणम् |
वृष्टिमन्तं पयोदान्ते पयोदमिव मारुतः || २३||

अर्द्यमानस्ततस्तेन दुर्धरेणानिलात्मजः |
चकार निनदं भूयो व्यवर्धत च वेगवान् || २४||

स दूरं सहसोत्पत्य दुर्धरस्य रथे हरिः |
निपपात महावेगो विद्युद्राशिर्गिराविव || २५||

ततस्तं मथिताष्टाश्वं रथं भग्नाक्षकूवरम् |
विहाय न्यपतद्भूमौ दुर्धरस्त्यक्तजीवितः || २६||

तं विरूपाक्षयूपाक्षौ दृष्ट्वा निपतितं भुवि |
सञ्जातरोषौ दुर्धर्षावुत्पेततुररिन्दमौ || २७||

स ताभ्यां सहसोत्पत्य विष्ठितो विमलेऽम्बरे |
मुद्गराभ्यां महाबाहुर्वक्षस्यभिहतः कपिः || २८||

तयोर्वेगवतोर्वेगं विनिहत्य महाबलः |
निपपात पुनर्भूमौ सुपर्णसमविक्रमः || २९||

स सालवृक्षमासाद्य समुत्पाट्य च वानरः |
तावुभौ राक्षसौ वीरौ जघान पवनात्मजः || ३०||

ततस्तांस्त्रीन्हताञ्ज्ञात्वा वानरेण तरस्विना |
अभिपेदे महावेगः प्रसह्य प्रघसो हरिम् || ३१||

भासकर्णश्च सङ्क्रुद्धः शूलमादाय वीर्यवान् |
एकतः कपिशार्दूलं यशस्विनमवस्थितौ || ३२||

पट्टिशेन शिताग्रेण प्रघसः प्रत्यपोथयत् |
भासकर्णश्च शूलेन राक्षसः कपिसत्तमम् || ३३||

स ताभ्यां विक्षतैर्गात्रैरसृग्दिग्धतनूरुहः |
अभवद्वानरः क्रुद्धो बालसूर्यसमप्रभः || ३४||

समुत्पाट्य गिरेः शृङ्गं समृगव्यालपादपम् |
जघान हनुमान्वीरो राक्षसौ कपिकुञ्जरः || ३५||

ततस्तेष्ववसन्नेषु सेनापतिषु पञ्चसु |
बलं तदवशेषं तु नाशयामास वानरः || ३६||

अश्वैरश्वान्गजैर्नागान्योधैर्योधान्रथै रथान् |
स कपिर्नाशयामास सहस्राक्ष इवासुरान् || ३७||

हतैर्नागैश्च तुरगैर्भग्नाक्षैश्च महारथैः |
हतैश्च राक्षसैर्भूमी रुद्धमार्गा समन्ततः || ३८||

ततः कपिस्तान्ध्वजिनीपतीन्रणे
निहत्य वीरान्सबलान्सवाहनान् |
तदेव वीरः परिगृह्य तोरणं
कृतक्षणः काल इव प्रजाक्षये || ३९||

39

1479

Ravana sends five foremost army generals, ie., Virupaksha, Yupaksha, Durdhara, Praghasa and Bhasakarna, to capture Shri Hanuman. Ravana expresses his doubt that the present Vanara may not be an ordinary Vanara, and directs them to exert a great effort to capture him. Shri Hanuman kills all the 5 army generals of Ravana.

47

सेनापतीन्पञ्च स तु प्रमापितान्
हनूमता सानुचरान्सवाहनान् |
समीक्ष्य राजा समरोद्धतोन्मुखं
कुमारमक्षं प्रसमैक्षताक्षतम् || १||

स तस्य दृष्ट्यर्पणसम्प्रचोदितः
प्रतापवान्काञ्चनचित्रकार्मुकः |
समुत्पपाताथ सदस्युदीरितो
द्विजातिमुख्यैर्हविषेव पावकः || २||

ततो महद्बालदिवाकरप्रभं
प्रतप्तजाम्बूनदजालसन्ततम् |
रथां समास्थाय ययौ स वीर्यवान्
महाहरिं तं प्रति नैरृतर्षभः || ३||

ततस्तपःसङ्ग्रहसञ्चयार्जितं
प्रतप्तजाम्बूनदजालशोभितम् |
पताकिनं रत्नविभूषितध्वजं
मनोजवाष्टाश्ववरैः सुयोजितम् || ४||

सुरासुराधृष्यमसङ्गचारिणं
रविप्रभं व्योमचरं समाहितम् |
सतूणमष्टासिनिबद्धबन्धुरं
यथाक्रमावेशितशक्तितोमरम् || ५||

विराजमानं प्रतिपूर्णवस्तुना
सहेमदाम्ना शशिसूर्यवर्वसा |
दिवाकराभं रथमास्थितस्ततः
स निर्जगामामरतुल्यविक्रमः || ६||

स पूरयन्खं च महीं च साचलां
तुरङ्गमतङ्गमहारथस्वनैः |
बलैः समेतैः स हि तोरणस्थितं
समर्थमासीनमुपागमत्कपिम् || ७||

स तं समासाद्य हरिं हरीक्षणो
युगान्तकालाग्निमिव प्रजाक्षये |
अवस्थितं विस्मितजातसम्भ्रमः
समैक्षताक्षो बहुमानचक्षुषा || ८||

स तस्य वेगं च कपेर्महात्मनः
पराक्रमं चारिषु पार्ह्तिवात्मजः |
विचारयन्खं च बलं महाबलो
हिमक्षये सूर्य इवाभिवर्धते || ९||

स जातमन्युः प्रसमीक्ष्य विक्रमं
स्थिरः स्थितः संयति दुर्निवारणम् |
समाहितात्मा हनुमन्तमाहवे
प्रचोदयामास शरैस्त्रिभिः शितैः || १०||

ततः कपिं तं प्रसमीक्ष्य गर्वितं
जितश्रमं शत्रुपराजयोर्जितम् |
अवैक्षताक्षः समुदीर्णमानसः
सबाणपाणिः प्रगृहीतकार्मुकः || ११||

स हेमनिष्काङ्गदचारुकुण्डलः
समाससादाशु पराक्रमः कपिम् |
तयोर्बभूवाप्रतिमः समागमः
सुरासुराणामपि सम्भ्रमप्रदः || १२||

ररास भूमिर्न तताप भानुमान्
ववौ न वायुः प्रचचाल चाचलः |
कपेः कुमारस्य च वीक्ष्य संयुगं
ननाद च द्यौरुदधिश्च चुक्षुभे || १३||

ततः स वीरः सुमुखान्पतत्रिणः
सुवर्णपुङ्खान्सविषानिवोरगान् |
समाधिसंयोगविमोक्षतत्त्वविच्
छरानथ त्रीन्कपिमूर्ध्न्यपातयत् || १४||

स तैः शरैर्मूर्ध्नि समं निपातितैः
क्षरन्नसृग्दिग्धविवृत्तलोचनः |
नवोदितादित्यनिभः शरांशुमान्
व्यराजतादित्य इवांशुमालिकः || १५||

ततः स पिङ्गाधिपमन्त्रिसत्तमः
समीक्ष्य तं राजवरात्मजं रणे |
उदग्रचित्रायुधचित्रकार्मुकं
जहर्ष चापूर्यत चाहवोन्मुखः || १६||

स मन्दराग्रस्थ इवांशुमाली
विवृद्धकोपो बलवीर्यसंयुतः |
कुमारमक्षं सबलं सवाहनं
ददाह नेत्राग्निमरीचिभिस्तदा || १७||

ततः स बाणासनशक्रकार्मुकः
शरप्रवर्षो युधि राक्षसाम्बुदः |
शरान्मुमोचाशु हरीश्वराचले
बलाहको वृष्टिमिवाचलोत्तमे || १८||

ततः कपिस्तं रणचण्डविक्रमं
विवृद्धतेजोबलवीर्यसायकम् |
कुमारमक्षं प्रसमीक्ष्य संयुगे
ननाद हर्षाद्घनतुल्यविक्रमः || १९||

स बालभावाद्युधि वीर्यदर्पितः
प्रवृद्धमन्युः क्षतजोपमेक्षणः |
समाससादाप्रतिमं रणे कपिं
गजो महाकूपमिवावृतं तृणैः || २०||

स तेन बाणैः प्रसभं निपातितैश्
चकार नादं घननादनिःस्वनः |
समुत्पपाताशु नभः स मारुतिर्
भुजोरुविक्षेपण घोरदर्शनः || २१||

समुत्पतन्तं समभिद्रवद्बली
स राक्षसानां प्रवरः प्रतापवान् |
रथी रथश्रेष्ठतमः किरञ्शरैः
पयोधरः शैलमिवाश्मवृष्टिभिः || २२||

स ताञ्शरांस्तस्य विमोक्षयन्कपिश्
चचार वीरः पथि वायुसेविते |
शरान्तरे मारुतवद्विनिष्पतन्
मनोजवः संयति चण्डविक्रमः || २३||

तमात्तबाणासनमाहवोन्मुखं
खमास्तृणन्तं विविधैः शरोत्तमैः |
अवैक्षताक्षं बहुमानचक्षुषा
जगाम चिन्तां च स मारुतात्मजः || २४||

ततः शरैर्भिन्नभुजान्तरः कपिः
कुमारवर्येण महात्मना नदन् |
महाभुजः कर्मविशेषतत्त्वविद्
विचिन्तयामास रणे पराक्रमम् || २५||

अबालवद्बालदिवाकरप्रभः
करोत्ययं कर्म महन्महाबलः |
न चास्य सर्वाहवकर्मशोभिनः
प्रमापणे मे मतिरत्र जायते || २६||

अयं महात्मा च महांश्च वीर्यतः
समाहितश्चातिसहश्च संयुगे |
असंशयं कर्मगुणोदयादयं
सनागयक्षैर्मुनिभिश्च पूजितः || २७||

पराक्रमोत्साहविवृद्धमानसः
समीक्षते मां प्रमुखागतः स्थितः |
पराक्रमो ह्यस्य मनांसि कम्पयेत्
सुरासुराणामपि शीघ्रकारिणः || २८||

न खल्वयं नाभिभवेदुपेक्षितः
पराक्रमो ह्यस्य रणे विवर्धते |
प्रमापणं त्वेव ममास्य रोचते
न वर्धमानोऽग्निरुपेक्षितुं क्षमः || २९||

इति प्रवेगं तु परस्य तर्कयन्
स्वकर्मयोगं च विधाय वीर्यवान् |
चकार वेगं तु महाबलस्तदा
मतिं च चक्रेऽस्य वधे महाकपिः || ३०||

स तस्य तानष्टहयान्महाजवान्
समाहितान्भारसहान्विवर्तने |
जघान वीरः पथि वायुसेविते
तलप्रहालैः पवनात्मजः कपिः || ३१||

ततस्तलेनाभिहतो महारथः
स तस्य पिङ्गाधिपमन्त्रिनिर्जितः |
स भग्ननीडः परिमुक्तकूबरः
पपात भूमौ हतवाजिरम्बरात् || ३२||

स तं परित्यज्य महारथो रथं
सकार्मुकः खड्गधरः खमुत्पतत् |
तपोऽभियोगादृषिरुग्रवीर्यवान्
विहाय देहं मरुतामिवालयम् || ३३||

ततः कपिस्तं विचरन्तमम्बरे
पतत्रिराजानिलसिद्धसेविते |
समेत्य तं मारुतवेगविक्रमः
क्रमेण जग्राह च पादयोर्दृढम् || ३४||

स तं समाविध्य सहस्रशः कपिर्
महोरगं गृह्य इवाण्डजेश्वरः |
मुमोच वेगात्पितृतुल्यविक्रमो
महीतले संयति वानरोत्तमः || ३५||

स भग्नबाहूरुकटीशिरो धरः
क्षरन्नसृन्निर्मथितास्थिलोचनः |
स भिन्नसन्धिः प्रविकीर्णबन्धनो
हतः क्षितौ वायुसुतेन राक्षसः || ३६||

महाकपिर्भूमितले निपीड्य तं
चकार रक्षोऽधिपतेर्महद्भयम् || ३७||

महर्षिभिश्चक्रचरैर्महाव्रतैः
समेत्य भूतैश्च सयक्षपन्नगैः |
सुरैश्च सेन्द्रैर्भृशजातविस्मयैर्
हते कुमारे स कपिर्निरीक्षितः || ३८||

निहत्य तं वज्रसुतोपमप्रभं
कुमारमक्षं क्षतजोपमेक्षणम् |
तदेव वीरोऽभिजगाम तोरणं
कृतक्षणः काल इव प्रजाक्षये || ३९||

39

1518

Ravana sends Aksha, his son, to fight against Shri Hanuman. Aksha though still young, approaches and fights with Shri Hanuman valiantly.  Shri Hanuman kills even Aksha also.

इत्यार्षे श्री रामायणे सुन्दरकाण्डे सप्तदश: भाग:

 

Sundarakāṇḍa Part-16

Sundarakāṇḍa Part-18

 

 

No comments:

Post a Comment