सुन्दरकाण्ड - Sundarakāṇḍa (भाग - १७
;;; Part – 17)
|
Sarga number
as per Ramayana |
Shlokas
extracted |
No. of shlokas |
Cumulative number of shlokas in this
Kanda |
|
51 |
तं
समीक्ष्य महासत्त्वं सत्त्ववान्हरिसत्तमः | अहं
सुग्रीवसन्देशादिह प्राप्तस्तवालयम् | भ्रातुः शृणु समादेशं सुग्रीवस्य महात्मनः | राजा
दशरथो नाम रथकुञ्जरवाजिमान् | ज्येष्ठस्तस्य महाबाहुः पुत्रः प्रियकरः प्रभुः | लक्ष्मणेन सह भ्रात्रा सीतया चापि भार्यया | तस्य
भार्या वने नष्टा सीता पतिमनुव्रता | स
मार्गमाणस्तां देवीं राजपुत्रः सहानुजः | तस्य
तेन प्रतिज्ञातं सीतायाः परिमार्गणम् | ततस्तेन मृधे हत्वा राजपुत्रेण वालिनम् | स
सीतामार्गणे व्यग्रः सुग्रीवः सत्यसङ्गरः | तां
हरीणां सहस्राणि शतानि नियुतानि च | वैनतेय समाः के चित्के चित्तत्रानिलोपमाः | अहं
तु हनुमान्नाम मारुतस्यौरसः सुतः | तद्भवान्दृष्टधर्मार्थस्तपः कृतपरिग्रहः | न
हि धर्मविरुद्धेषु बह्वपायेषु कर्मसु | कश्च
लक्ष्मणमुक्तानां रामकोपानुवर्तिनाम् | न
चापि त्रिषु लोकेषु राजन्विद्येत कश् चन | तत्त्रिकालहितं वाक्यं धर्म्यमर्थानुबन्धि च | दृष्टा हीयं मया देवी लब्धं यदिह दुर्लभम् | लक्षितेयं मया सीता तथा शोकपरायणा | नेयं
जरयितुं शक्या सासुरैरमरैरपि | तपःसन्तापलब्धस्ते योऽयं धर्मपरिग्रहः | अवध्यतां तपोभिर्यां भवान्समनुपश्यति | सुग्रीवो न हि देवोऽयं नासुरो न च मानुषः | मानुषो राघवो राजन्सुग्रीवश्च हरीश्वरः | न
तु धर्मोपसंहारमधर्मफलसंहितम् | प्राप्तं धर्मफलं तावद्भवता नात्र संशयः | जनस्थानवधं बुद्ध्वा बुद्ध्वा वालिवधं तथा | कामं
खल्वहमप्येकः सवाजिरथकुञ्जराम् | रामेण
हि प्रतिज्ञातं हर्यृक्षगणसंनिधौ | अपकुर्वन्हि रामस्य साक्षादपि पुरन्दरः | यां
सीतेत्यभिजानासि येयं तिष्ठति ते वशे | तदलं
कालपाशेन सीता विग्रहरूपिणा | सीतायास्तेजसा दग्धां रामकोपप्रपीडिताम् | स
सौष्ठवोपेतमदीनवादिनः |
36 |
1240 |
|
Shri Hanuman explained as to how Shri Rama, who is the eldest son of King Dasaratha, went to Dandaka Forest to honour the word given by his father, how Seetha was abducted in the absence of Shri Rama, how Shri Rama and Sugreeva made a friendly pact, how Vali was killed, how Sugreeva was made the king of Kishkinda, how vanaras were sent in search of Seeta and how he came to Lanka in search of Seeta and he finally declares that he had seen Seeta in Ashoka Garden. While stating that
the further course of action will be taken by Shri Rama, Shri Hanuman advices
Ravana to restore Seeta to Shri Rama so that he can save his life as well as
that of other demons, from the arrows of Shri Rama. |
|||
|
52 |
तस्य
तद्वचनं श्रुत्वा वानरस्य महात्मनः | वधे
तस्य समाज्ञप्ते रावणेन दुरात्मना | तं
रक्षोऽधिपतिं क्रुद्धं तच्च कार्यमुपस्थितम् | निश्चितार्थस्ततः साम्नापूज्य शत्रुजिदग्रजम् | राजन्धर्मविरुद्धं च लोकवृत्तेश् च गर्हितम् | असंशयं शत्रुरयं प्रवृद्धः वैरूप्यामङ्गेषु कशाभिघातो कथं
च धर्मार्थविनीतबुद्धिः न
धर्मवादे न च लोकवृत्ते न
चाप्यस्य कपेर्घाते कं चित्पश्याम्यहं गुणम् | साधुर्वा यदि वासाधुर्परैरेष समर्पितः | अपि
चास्मिन्हते राजन्नान्यं पश्यामि खेचरम् | तस्मान्नास्य वधे यत्नः कार्यः परपुरञ्जय | अस्मिन्विनष्टे न हि दूतमन्यं पराक्रमोत्साहमनस्विनां च हिताश्च शूराश्च समाहिताश् च तदेकदेशेन बलस्य तावत् प्रसीद लङ्केश्वर राक्षसेन्द्र | धर्मार्थयुक्तम् वचनम् शृणुष्व | दूतानवध्यान् समयेषु राजन् | सर्वेषु सर्वत्र वदन्ति सन्तः ||१८ || |
18 |
1258 |
|
Ravana orders to
kills Shri Hanuman, but Vibhishana advises Ravana to desist from such a
dastardly act, quoting scriptures. He
added that killing of an envoy is prohibited according to scriptures. |
|||
|
53 |
तस्य
तद्वचनं श्रुत्वा दशग्रीवो महाबलः | सम्यगुक्तं हि भवता दूतवध्या विगर्हिता | कपीनां किल लाङ्गूलमिष्टं भवति भूषणम् | ततः
पश्यन्त्विमं दीनमङ्गवैरूप्यकर्शितम् | आज्ञापयद्राक्षसेन्द्रः पुरं सर्वं सचत्वरम् | तस्य
तद्वचनं श्रुत्वा राक्षसाः कोपकर्कशाः | संवेष्ट्यमाने लाङ्गूले व्यवर्धत महाकपिः | तैलेन
परिषिच्याथ तेऽग्निं तत्रावपातयन् || ८|| लाङ्गूलेन प्रदीप्तेन राक्षसांस्तानपातयत् | स
भूयः सङ्गतैः क्रूरै राकसैर्हरिसत्तमः | कामं
खलु न मे शक्ता निबधस्यापि राक्षसाः | सर्वेषामेव पर्याप्तो राक्षसानामहं युधि | लङ्का
चरयितव्या मे पुनरेव भवेदिति | कामं
बन्धैश्च मे भूयः पुच्छस्योद्दीपनेन च | ततस्ते संवृताकारं सत्त्ववन्तं महाकपिम् | शङ्खभेरीनिनादैस्तैर्घोषयन्तः स्वकर्मभिः | हनुमांश्चारयामास राक्षसानां महापुरीम् | संवृतान्भूमिभागांश्च सुविभक्तांश्च चत्वरान् | चत्वरेषु चतुष्केषु राजमार्गे तथैव च | दीप्यमाने ततस्तस्य लाङ्गूलाग्रे हनूमतः | यस्त्वया कृतसंवादः सीते ताम्रमुखः कपिः | श्रुत्वा तद्वचनं क्रूरमात्मापहरणोपमम् | मङ्गलाभिमुखी तस्य सा तदासीन्महाकपेः | यद्यस्ति पतिशुश्रूषा यद्यस्ति चरितं तपः | यदि
कश्चिदनुक्रोशस्तस्य मय्यस्ति धीमतः | यदि
मां वृत्तसम्पन्नां तत्समागमलालसाम् | यदि
मां तारयत्यार्यः सुग्रीवः सत्यसङ्गरः | ततस्तीक्ष्णार्चिरव्यग्रः प्रदक्षिणशिखोऽनलः | दह्यमाने च लाङ्गूले चिन्तयामास वानरः | दृश्यते च महाज्वालः करोति च न मे रुजम् | अथ
वा तदिदं व्यक्तं यद्दृष्टं प्लवता मया | यदि
तावत्समुद्रस्य मैनाकस्य च धीमथ | सीतायाश्चानृशंस्येन तेजसा राघवस्य च | भूयः
स चिन्तयामास मुहूर्तं कपिकुञ्जरः | पुरद्वारं ततः श्रीमाञ्शैलशृङ्गमिवोन्नतम् | स
भूत्वा शैलसङ्काशः क्षणेन पुनरात्मवान् | विमुक्तश्चाभवच्छ्रीमान्पुनः पर्वतसंनिभः | स
तं गृह्य महाबाहुः कालायसपरिष्कृतम् | निर्वापयामास तदा समुद्रे हरिसत्तमः|| ३८|| |
38 |
1296 |
|
Paying heed to Vibhishana’s advice, Ravana ordered the tail of Shri Hanuman be put to fire. The demons wrap up old rags around Shri Hanuman's tail, pour oil to it and burn it with fire. The demons tie Shri Hanuman with ropes and parade him in the entire city, declaring him to be a spy to the citizens of Lanka. The women demons
inform Seetha about the burning of Shri Hanuman's tail and parading him
around the city by demons. Then, Seetha prays the fire-God to do good to Shri
Hanuman. As if in response to her prayers, fire-god makes Shri Hanuman feel
cool with his burning tail. Shri Hanuman gets himself freed and taking an
iron-rod from the arched door of the city gate and kills all the
security-guards there and douses the fire at his tail with sea water. |
|||
इत्यार्षे श्री रामायणे सुन्दरकाण्डे सप्तदश: भाग:
No comments:
Post a Comment