सुन्दरकाण्ड - Sundarakāṇḍa (भाग - १८
;;; Part – 18)
|
Sarga
number as per Ramayana |
Shlokas
extracted |
No. of shlokas |
Cumulative number of shlokas in this
Kanda |
|
56 |
ततः
स कपिशार्दूलः स्वामिसन्दर्शनोत्सुकः | तुङ्गपद्मकजुष्टाभिर्नीलाभिर्वनराजिभिः | लतावितानैर्विततैः पुष्पवद्भिरलङ्कृतम् | बहुप्रस्रवणोपेतं शिलासञ्चयसङ्कटम् | लतापादपसम्बाधं सिंहाकुलितकन्दरम् | तमारुरोहातिबलः पर्वतं प्लवगोत्तमः | तेन
पादतलाक्रान्ता रम्येषु गिरिसानुषु | स
तमारुह्य शैलेन्द्रं व्यवर्धत महाकपिः | अधिरुह्य ततो वीरः पर्वतं पवनात्मजः | स
मारुत इवाकाशं मारुतस्यात्मसम्भवः | |
10 |
1306 |
|
Shri Hanuman visits
Ashoka Garden again, sees Seetha and consoles Seetha that Shri Rama along
with his forces of vanaras would come soon and after conquering the demons in
battle, would take her back. Then, he ascends Mount Arishta and enlarges his
body and leaps across the ocean. |
|||
|
57 |
सचन्द्रकुमुदं रम्यं सार्ककारण्डवं शुभम् | पुनर्वसु महामीनं लोहिताङ्गमहाग्रहम् | वातसङ्घातजातोर्मिं चन्द्रांशुशिशिराम्बुमत् | ग्रसमान इवाकाशं ताराधिपमिवालिखन् | मारुतस्यालयं श्रीमान्कपिर्व्योमचरो महान् | पाण्डुरारुणवर्णानि नीलमाञ्जिष्ठकानि च | प्रविशन्नभ्रजालानि निष्क्रमंश्च पुनः पुनः | नदन्नादेन महता मेघस्वनमहास्वनः | पर्वतेन्द्रं सुनाभं च समुपस्पृश्य वीर्यवान् | स
किं चिदनुसम्प्राप्तः समालोक्य महागिरिम् | निशम्य नदतो नादं वानरास्ते समन्ततः | जाम्बवान्स हरिश्रेष्ठः प्रीतिसंहृष्टमानसः | सर्वथा कृतकार्योऽसौ हनूमान्नात्र संशयः | तस्या
बाहूरुवेगं च निनादं च महात्मनः | ते
नगाग्रान्नगाग्राणि शिखराच्छिखराणि च | ते
प्रीताः पादपाग्रेषु गृह्य शाखाः सुपुष्पिताः | तमभ्रघनसङ्काशमापतन्तं महाकपिम् | ततस्तु वेगवांस्तस्य गिरेर्गिरिनिभः कपिः | ततस्ते प्रीतमनसः सर्वे वानरपुङ्गवाः | परिवार्य च ते सर्वे परां प्रीतिमुपागताः | उपायनानि चादाय मूलानि च फलानि च | विनेदुर्मुदिताः के चिच्चक्रुः किल किलां तथा | हनूमांस्तु गुरून्वृद्धाञ्जाम्बवत्प्रमुखांस्तदा | स
ताभ्यां पूजितः पूज्यः कपिभिश्च प्रसादितः | निषसाद च हस्तेन गृहीत्वा वालिनः सुतम् | हनूमानब्रवीद्धृष्टस्तदा तान्वानरर्षभान् | रक्ष्यमाणा सुघोराभी राक्षसीभिरनिन्दिता | ततो
दृष्टेति वचनं महार्थममृतोपमम् | क्ष्वेडन्त्यन्ये नदन्त्यन्ये गर्जन्त्यन्ये महाबलाः | के
चिदुच्छ्रितलाङ्गूलाः प्रहृष्टाः कपिकुञ्जराः | अपरे
तु हनूमन्तं वानरा वारणोपमम् | उक्तवाक्यं हनूमन्तमङ्गदस्तु तदाब्रवीत् | सत्त्वे वीर्ये न ते कश्चित्समो वानरविद्यते | दिष्ट्या दृष्टा त्वया देवी रामपत्नी यशस्विनी | ततोऽङ्गदं हनूमन्तं जाम्बवन्तं च वानराः | श्रोतुकामाः समुद्रस्य लङ्घनं वानरोत्तमाः | तस्थौ
तत्राङ्गदः श्रीमान्वानरैर्बहुभिर्वृतः | हनूमता कीर्तिमता यशस्विना |
38 |
1344 |
|
Shri Hanuman travels
from coast of Lanka, touches Mount Mainaka, and roars at the top of his voice
at the sight of Mount Mahendra. The vanaras become jubilant on hearing Shri
Hanuman’s roar. Having descended on the mountain, greeted Jambavan, Angada
and others, Shri Hanuman narrates to them briefly the story of his discovery
of Seetha. |
|||
इत्यार्षे श्री रामायणे सुन्दरकाण्डे अष्टादश: भाग:
No comments:
Post a Comment