Saturday, January 3, 2026

सुन्दरकाण्ड - Sundarakāṇḍa (भाग - १८ ;;; Part – 18)

 

सुन्दरकाण्ड - Sundarakāṇḍa (भाग - १८ ;;; Part – 18)

Sarga number as per Ramayana

Shlokas extracted

No. of shlokas

Cumulative number of shlokas in this Kanda

48

ततस्तु रक्षोऽधिपतिर्महात्मा
हनूमताक्षे निहते कुमारे |
मनः समाधाय तदेन्द्रकल्पं
समादिदेशेन्द्रजितं स रोषात् || १||

त्वमस्त्रविच्छस्त्रभृतां वरिष्ठः
सुरासुराणामपि शोकदाता |
सुरेषु सेन्द्रेषु च दृष्टकर्मा
पितामहाराधनसञ्चितास्त्रः || २||

तवास्त्रबलमासाद्य नासुरा न मरुद्गणाः |
न कश्चित्त्रिषु लोकेषु संयुगे न गतश्रमः || ३||

भुजवीर्याभिगुप्तश्च तपसा चाभिरक्षितः |
देशकालविभागज्ञस्त्वमेव मतिसत्तमः || ४||

न तेऽस्त्यशक्यं समरेषु कर्मणा
न तेऽस्त्यकार्यं मतिपूर्वमन्त्रणे |
न सोऽस्ति कश्चित्त्रिषु सङ्ग्रहेषु वै
न वेद यस्तेऽस्त्रबलं बलं च ते || ५||

ममानुरूपं तपसो बलं च ते
पराक्रमश्चास्त्रबलं च संयुगे |
न त्वां समासाद्य रणावमर्दे
मनः श्रमं गच्छति निश्चितार्थम् || ६||

निहता इङ्कराः सर्वे जम्बुमाली च राक्षसः |
अमात्यपुत्रा वीराश्च पञ्च सेनाग्रयायिनः || ७||

सहोदरस्ते दयितः कुमारोऽक्षश्च सूदितः |
न तु तेष्वेव मे सारो यस्त्वय्यरिनिषूदन || ८||

इदं हि दृष्ट्वा मतिमन्महद्बलं
कपेः प्रभावं च पराक्रमं च |
त्वमात्मनश्चापि समीक्ष्य सारं
कुरुष्व वेगं स्वबलानुरूपम् || ९||

बलावमर्दस्त्वयि संनिकृष्टे
यथा गते शाम्यति शान्तशत्रौ |
तथा समीक्ष्यात्मबलं परं च
समारभस्वास्त्रविदां वरिष्ठ || १०||

न खल्वियं मतिः श्रेष्ठा यत्त्वां सम्प्रेषयाम्यहम् |
इयं च राजधर्माणां क्षत्रस्य च मतिर्मता || ११||

नानाशस्त्रैश्च सङ्ग्रामे वैशारद्यमरिन्दम |
अवश्यमेव बोद्धव्यं काम्यश्च विजयो रणे || १२||

ततः पितुस्तद्वचनं निशम्य
प्रदक्षिणं दक्षसुतप्रभावः |
चकार भर्तारमदीनसत्त्वो
रणाय वीरः प्रतिपन्नबुद्धिः || १३||

ततस्तैः स्वगणैरिष्टैरिन्द्रजित्प्रतिपूजितः |
युद्धोद्धतकृतोत्साहः सङ्ग्रामं प्रतिपद्यत || १४||

श्रीमान्पद्मपलाशाक्षो राक्षसाधिपतेः सुतः |
निर्जगाम महातेजाः समुद्र इव पर्वसु || १५||

स पक्षि राजोपमतुल्यवेगैर्
व्यालैश्चतुर्भिः सिततीक्ष्णदंष्ट्रैः |
रथं समायुक्तमसङ्गवेगं
समारुरोहेन्द्रजिदिन्द्रकल्पः || १६||

स रथी धन्विनां श्रेष्ठः शस्त्रज्ञोऽस्त्रविदां वरः |
रथेनाभिययौ क्षिप्रं हनूमान्यत्र सोऽभवत् || १७||

स तस्य रथनिर्घोषं ज्यास्वनं कार्मुकस्य च |
निशम्य हरिवीरोऽसौ सम्प्रहृष्टतरोऽभवत् || १८||

सुमहच्चापमादाय शितशल्यांश्च सायकान् |
हनूमन्तमभिप्रेत्य जगाम रणपण्डितः || १९||

तस्मिंस्ततः संयति जातहर्षे
रणाय निर्गच्छति बाणपाणौ |
दिशश्च सर्वाः कलुषा बभूवुर्
मृगाश्च रौद्रा बहुधा विनेदुः || २०||

समागतास्तत्र तु नागयक्षा
महर्षयश्चक्रचराश्च सिद्धाः |
नभः समावृत्य च पक्षिसङ्घा
विनेदुरुच्चैः परमप्रहृष्टाः || २१||

आयन्तं सरथं दृष्ट्वा तूर्णमिन्द्रजितं कपिः |
विननाद महानादं व्यवर्धत च वेगवान् || २२||

इन्द्रजित्तु रथं दिव्यमास्थितश्चित्रकार्मुकः |
धनुर्विस्फारयामास तडिदूर्जितनिःस्वनम् || २३||

ततः समेतावतितीक्ष्णवेगौ
महाबलौ तौ रणनिर्विशङ्कौ |
कपिश्च रक्षोऽधिपतेश्च पुत्रः
सुरासुरेन्द्राविव बद्धवैरौ || २४||

स तस्य वीरस्य महारथस्या
धनुष्मतः संयति संमतस्य |
शरप्रवेगं व्यहनत्प्रवृद्धश्
चचार मार्गे पितुरप्रमेयः || २५||

ततः शरानायततीक्ष्णशल्यान्
सुपत्रिणः काञ्चनचित्रपुङ्खान् |
मुमोच वीरः परवीरहन्ता
सुसन्ततान्वज्रनिपातवेगान् || २६||

स तस्य तत्स्यन्दननिःस्वनं च
मृदङ्गभेरीपटहस्वनं च |
विकृष्यमाणस्य च कार्मुकस्य
निशम्य घोषं पुनरुत्पपात || २७||

शराणामन्तरेष्वाशु व्यवर्तत महाकपिः |
हरिस्तस्याभिलक्षस्य मोक्षयँल्लक्ष्यसङ्ग्रहम् || २८||

शराणामग्रतस्तस्य पुनः समभिवर्तत |
प्रसार्य हस्तौ हनुमानुत्पपातानिलात्मजः || २९||

तावुभौ वेगसम्पन्नौ रणकर्मविशारदौ |
सर्वभूतमनोग्राहि चक्रतुर्युद्धमुत्तमम् || ३०||

हनूमतो वेद न राक्षसोऽन्तरं
न मारुतिस्तस्य महात्मनोऽन्तरम् |
परस्परं निर्विषहौ बभूवतुः
समेत्य तौ देवसमानविक्रमौ || ३१||

ततस्तु लक्ष्ये स विहन्यमाने
शरेषु मोघेषु च सम्पतत्सु |
जगाम चिन्तां महतीं महात्मा
समाधिसंयोगसमाहितात्मा || ३२||

ततो मतिं राक्षसराजसूनुश्
चकार तस्मिन्हरिवीरमुख्ये |
अवध्यतां तस्य कपेः समीक्ष्य
कथं निगच्छेदिति निग्रहार्थम् || ३३||

ततः पैतामहां वीरः सोऽस्त्रमस्त्रविदां वरः |
सन्दधे सुमहातेजास्तं हरिप्रवरं प्रति || ३४||

अवध्योऽयमिति ज्ञात्वा तमस्त्रेणास्त्रतत्त्ववित् |
निजग्राह महाबाहुर्मारुतात्मजमिन्द्रजित् || ३५||

तेन बद्धस्ततोऽस्त्रेण राक्षसेन स वानरः |
अभवन्निर्विचेष्टश्च पपात च महीतले || ३६||

ततोऽथ बुद्ध्वा स तदास्त्रबन्धं
प्रभोः प्रभावाद्विगताल्पवेगः |
पितामहानुग्रहमात्मनश् च
विचिन्तयामास हरिप्रवीरः || ३७||

ततः स्वायम्भुवैर्मन्त्रैर्ब्रह्मास्त्रमभिमन्त्रितम् |
हनूमांश्चिन्तयामास वरदानं पितामहात् || ३८||

न मेऽस्त्रबन्धस्य च शक्तिरस्ति
विमोक्षणे लोकगुरोः प्रभावात् |
इत्येवमेवंविहितोऽस्त्रबन्धो
मयात्मयोनेरनुवर्तितव्यः || ३९||

स वीर्यमस्त्रस्य कपिर्विचार्य
पितामहानुग्रहमात्मनश् च |
विमोक्षशक्तिं परिचिन्तयित्वा
पितामहाज्ञाम् अनुवर्तते स्म || ४०||

अस्त्रेणापि हि बद्धस्य भयं मम न जायते |
पितामहमहेन्द्राभ्यां रक्षितस्यानिलेन च || ४१||

ग्रहणे चापि रक्षोभिर्महन्मे गुणदर्शनम् |
राक्षसेन्द्रेण संवादस्तस्माद्गृह्णन्तु मां परे || ४२||

स निश्चितार्थः परवीरहन्ता
समीक्ष्य करी विनिवृत्तचेष्टः |
परैः प्रसह्याभिगतैर्निगृह्य
ननाद तैस्तैः परिभर्त्स्यमानः || ४३||

ततस्तं राक्षसा दृष्ट्वा निर्विचेष्टमरिन्दमम् |
बबन्धुः शणवल्कैश्च द्रुमचीरैश्च संहतैः || ४४||

स रोचयामास परैश्च बन्धनं
प्रसह्य वीरैरभिनिग्रहं च |
कौतूहलान्मां यदि राक्षसेन्द्रो
द्रष्टुं व्यवस्येदिति निश्चितार्थः || ४५||

स बद्धस्तेन वल्केन विमुक्तोऽस्त्रेण वीर्यवान् |
अस्त्रबन्धः स चान्यं हि न बन्धमनुवर्तते || ४६||

अथेन्द्रजित्तं द्रुमचीरबन्धं
विचार्य वीरः कपिसत्तमं तम् |
विमुक्तमस्त्रेण जगाम चिन्ताम्
अन्येन बद्धो ह्यनुवर्ततेऽस्त्रम् || ४७||

अहो महत्कर्म कृतं निरर्थकं
न राक्षसैर्मन्त्रगतिर्विमृष्टा |
पुनश्च नास्त्रे विहतेऽस्त्रमन्यत्
प्रवर्तते संशयिताः स्म सर्वे || ४८||

अस्त्रेण हनुमान्मुक्तो नात्मानमवबुध्यते |
कृष्यमाणस्तु रक्षोभिस्तैश्च बन्धैर्निपीडितः || ४९||

हन्यमानस्ततः क्रूरै राक्षसैः काष्ठमुष्टिभिः |
समीपं राक्षसेन्द्रस्य प्राकृष्यत स वानरः || ५०||

अथेन्द्रजित्तं प्रसमीक्ष्य मुक्तम्
अस्त्रेण बद्धं द्रुमचीरसूत्रैः |
व्यदर्शयत्तत्र महाबलं तं
हरिप्रवीरं सगणाय राज्ञे || ५१||

तं मत्तमिव मातङ्गं बद्धं कपिवरोत्तमम् |
राक्षसा राक्षसेन्द्राय रावणाय न्यवेदयन् || ५२||

कोऽयं कस्य कुतो वापि किं कार्यं को व्यपाश्रयः |
इति राक्षसवीराणां तत्र सञ्जज्ञिरे कथाः || ५३||

हन्यतां दह्यतां वापि भक्ष्यतामिति चापरे |
राक्षसास्तत्र सङ्क्रुद्धाः परस्परमथाब्रुवन् || ५४||

अतीत्य मार्गं सहसा महात्मा
स तत्र रक्षोऽधिपपादमूले |
ददर्श राज्ञः परिचारवृद्धान्
गृहं महारत्नविभूषितं च || ५५||

स ददर्श महातेजा रावणः कपिसत्तमम् |
रक्षोभिर्विकृताकारैः कृष्यमाणमितस्ततः || ५६||

राक्षसाधिपतिं चापि ददर्श कपिसत्तमः |
तेजोबलसमायुक्तं तपन्तमिव भास्करम् || ५७||

57

1575

Ravana directs his eldest son Indrajit and asks him to go for a battle against Shri Hanuman. Indrajit rushes quickly in a chariot to face Shri Hanuman in combat. The arrows discharged by Indrajit could not reach Shri Hanuman, due to his manoeuvring skills. Realizing that Shri Hanuman cannot be killed, Indrajit captures him by employing Brahmastra. Shri Hanuman falls on the ground motionless. The demons tie him with ropes and drag him to the presence of Ravana.

49

ततः स कर्मणा तस्य विस्मितो भीमविक्रमः |
हनुमान्रोषताम्राक्षो रक्षोऽधिपमवैक्षत || १||

भाजमानं महार्हेण काञ्चनेन विराजता |
मुक्ताजालावृतेनाथ मुकुटेन महाद्युतिम् || २||

वज्रसंयोगसंयुक्तैर्महार्हमणिविग्रहैः |
हैमैराभरणैश्चित्रैर्मनसेव प्रकल्पितैः || ३||

महार्हक्षौमसंवीतं रक्तचन्दनरूषितम् |
स्वनुलिप्तं विचित्राभिर्विविधभिश्च भक्तिभिः || ४||

विपुलैर्दर्शनीयैश्च रक्षाक्षैर्भीमदर्शनैः |
दीप्ततीक्ष्णमहादंष्ट्रैः प्रलम्बदशनच्छदैः || ५||

शिरोभिर्दशभिर्वीरं भ्राजमानं महौजसं |
नानाव्यालसमाकीर्णैः शिखरैरिव मन्दरम् || ६||

नीलाञ्जनचय प्रख्यं हारेणोरसि राजता |
पूर्णचन्द्राभवक्त्रेण सबलाकमिवाम्बुदम् || ७||

बाहुभिर्बद्धकेयूरैश्चन्दनोत्तमरूषितैः |
भ्राजमानाङ्गदैः पीनैः पञ्चशीर्षैरिवोरगैः || ८||

महति स्फाटिके चित्रे रत्नसंयोगसंस्कृते |
उत्तमास्तरणास्तीर्णे उपविष्टं वरासने || ९||

अलङ्कृताभिरत्यर्थं प्रमदाभिः समन्ततः |
वालव्यजनहस्ताभिरारात्समुपसेवितम् || १०||

दुर्धरेण प्रहस्तेन महापार्श्वेन रक्षसा |
मन्त्रिभिर्मन्त्रतत्त्वज्ञैर्निकुम्भेन च मन्त्रिणा || ११||

उपोपविष्टं रक्षोभिश्चतुर्भिर्बलदर्पितैः |
कृत्स्नैः परिवृतं लोकं चतुर्भिरिव सागरैः || १२||

मन्त्रिभिर्मन्त्रतत्त्वज्ञैरन्यैश्च शुभबुद्धिभिः |
अन्वास्यमानं सचिवैः सुरैरिव सुरेश्वरम् || १३||

अपश्यद्राक्षसपतिं हनूमानतितेजसं |
विष्ठितं मेरुशिखरे सतोयमिव तोयदम् || १४||

स तैः सम्पीड्यमानोऽपि रक्षोभिर्भीमविक्रमैः |
विस्मयं परमं गत्वा रक्षोऽधिपमवैक्षत || १५||

भ्राजमानं ततो दृष्ट्वा हनुमान्राक्षसेश्वरम् |
मनसा चिन्तयामास तेजसा तस्य मोहितः || १६||

अहो रूपमहो धैर्यमहो सत्त्वमहो द्युतिः |
अहो राक्षसराजस्य सर्वलक्षणयुक्तता || १७||

यद्यधर्मो न बलवान्स्यादयं राक्षसेश्वरः |
स्यादयं सुरलोकस्य सशक्रस्यापि रक्षिता || १८||

तेन बिभ्यति खल्वस्माल्लोकाः सामरदानवाः |
अयं ह्युत्सहते क्रुद्धः कर्तुमेकार्णवं जगत् || १९||

इति चिन्तां बहुविधामकरोन्मतिमान्कपिः |
दृष्ट्वा राक्षसराजस्य प्रभावममितौजसः || २०||

20

1595

Shri Hanuman is surprised to behold the splendour and glory of Ravana. He believes that Ravana was capable of ruling even heaven, but for his gross unrighteousness.

50

तमुद्वीक्ष्य महाबाहुः पिङ्गाक्षं पुरतः स्थितम् |
रोषेण महताविष्टो रावणो लोकरावणः || १||

स राजा रोषताम्राक्षः प्रहस्तं मन्त्रिसत्तमम् |
कालयुक्तमुवाचेदं वचो विपुलमर्थवत् || २||

दुरात्मा पृच्छ्यतामेष कुतः किं वास्य कारणम् |
वनभङ्गे च कोऽस्यार्थो राक्षसीनां च तर्जने || ३||

रावणस्य वचः श्रुत्वा प्रहस्तो वाक्यमब्रवीत् |
समाश्वसिहि भद्रं ते न भीः कार्या त्वया कपे || ४||

यदि तावत्त्वमिन्द्रेण प्रेषितो रावणालयम् |
तत्त्वमाख्याहि मा ते भूद्भयं वानर मोक्ष्यसे || ५||

यदि वैश्रवणस्य त्वं यमस्य वरुणस्य च |
चारुरूपमिदं कृत्वा यमस्य वरुणस्य च || ६||

विष्णुना प्रेषितो वापि दूतो विजयकाङ्क्षिणा |
न हि ते वानरं तेजो रूपमात्रं तु वानरम् || ७||

तत्त्वतः कथयस्वाद्य ततो वानर मोक्ष्यसे |
अनृतं वदतश्चापि दुर्लभं तव जीवितम् || ८||

अथ वा यन्निमित्तस्ते प्रवेशो रावणालये || ९||

एवमुक्तो हरिवरस्तदा रक्षोगणेश्वरम् |
अब्रवीन्नास्मि शक्रस्य यमस्य वरुणस्य वा || १०||

धनदेन न मे सख्यं विष्णुना नास्मि चोदितः |
जातिरेव मम त्वेषा वानरोऽहमिहागतः || ११||

दर्शने राक्षसेन्द्रस्य दुर्लभे तदिदं मया |
वनं राक्षसराजस्य दर्शनार्थे विनाशितम् || १२||

ततस्ते राक्षसाः प्राप्ता बलिनो युद्धकाङ्क्षिणः |
रक्षणार्थं च देहस्य प्रतियुद्धा मया रणे || १३||

अस्त्रपाशैर्न शक्योऽहं बद्धुं देवासुरैरपि |
पितामहादेव वरो ममाप्येषोऽभ्युपागतः || १४||

राजानं द्रष्टुकामेन मयास्त्रमनुवर्तितम् |
विमुक्तो अहमस्त्रेण राक्षसैस्त्वतिपीडितः || १५||

दूतोऽहमिति विज्ञेयो राघवस्यामितौजसः |
श्रूयतां चापि वचनं मम पथ्यमिदं प्रभो || १६||

16

1611

Upon instructed by Ravana, Prahasta his chief minister inquires of Shri Hanuman as to who he was and also his motive in destroying the Ashoka-garden as also killing the demons. He stated that he had destroyed the Ashoka Garden so that he can have audience of Ravana and killed demons in self-defense. Shri Hanuman replies that he came to Lanka in search of Seeta, as a messenger of Shri Rama. 

इत्यार्षे श्री रामायणे सुन्दरकाण्डे अष्टादश: भाग:

 

Sundarakāṇḍa Part-17

Sundarakāṇḍa Part-19

 

 

No comments:

Post a Comment