Saturday, January 3, 2026

सुन्दरकाण्ड - Sundarakāṇḍa (भाग - १९ ;;; Part – 19)

 

सुन्दरकाण्ड - Sundarakāṇḍa (भाग - १९ ;;; Part – 19)

Sarga number as per Ramayana

Shlokas extracted

No. of shlokas

Cumulative number of shlokas in this Kanda

51

तं समीक्ष्य महासत्त्वं सत्त्ववान्हरिसत्तमः |
वाक्यमर्थवदव्यग्रस्तमुवाच दशाननम् || १||

अहं सुग्रीवसन्देशादिह प्राप्तस्तवालयम् |
राक्षसेन्द्र हरीशस्त्वां भ्राता कुशलमब्रवीत् || २||

भ्रातुः शृणु समादेशं सुग्रीवस्य महात्मनः |
धर्मार्थोपहितं वाक्यमिह चामुत्र च क्षमम् || ३||

राजा दशरथो नाम रथकुञ्जरवाजिमान् |
पितेव बन्धुर्लोकस्य सुरेश्वरसमद्युतिः || ४||

ज्येष्ठस्तस्य महाबाहुः पुत्रः प्रियकरः प्रभुः |
पितुर्निदेशान्निष्क्रान्तः प्रविष्टो दण्डकावनम् || ५||

लक्ष्मणेन सह भ्रात्रा सीतया चापि भार्यया |
रामो नाम महातेजा धर्म्यं पन्थानमाश्रितः || ६||

तस्य भार्या वने नष्टा सीता पतिमनुव्रता |
वैदेहस्य सुता राज्ञो जनकस्य महात्मनः || ७||

स मार्गमाणस्तां देवीं राजपुत्रः सहानुजः |
ऋश्यमूकमनुप्राप्तः सुग्रीवेण च सङ्गतः || ८||

तस्य तेन प्रतिज्ञातं सीतायाः परिमार्गणम् |
सुग्रीवस्यापि रामेण हरिराज्यं निवेदितम् || ९||

ततस्तेन मृधे हत्वा राजपुत्रेण वालिनम् |
सुग्रीवः स्थापितो राज्ये हर्यृक्षाणां गणेश्वरः || १०||

स सीतामार्गणे व्यग्रः सुग्रीवः सत्यसङ्गरः |
हरीन्सम्प्रेषयामास दिशः सर्वा हरीश्वरः || ११||

तां हरीणां सहस्राणि शतानि नियुतानि च |
दिक्षु सर्वासु मार्गन्ते अधश्चोपरि चाम्बरे || १२||

वैनतेय समाः के चित्के चित्तत्रानिलोपमाः |
असङ्गगतयः शीघ्रा हरिवीरा महाबलाः || १३||

अहं तु हनुमान्नाम मारुतस्यौरसः सुतः |
सीतायास्तु कृते तूर्णं शतयोजनमायतम् |
समुद्रं लङ्घयित्वैव तां दिदृक्षुरिहागतः || १४||

तद्भवान्दृष्टधर्मार्थस्तपः कृतपरिग्रहः |
परदारान्महाप्राज्ञ नोपरोद्धुं त्वमर्हसि || १५||

न हि धर्मविरुद्धेषु बह्वपायेषु कर्मसु |
मूलघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः || १६||

कश्च लक्ष्मणमुक्तानां रामकोपानुवर्तिनाम् |
शराणामग्रतः स्थातुं शक्तो देवासुरेष्वपि || १७||

न चापि त्रिषु लोकेषु राजन्विद्येत कश् चन |
राघवस्य व्यलीकं यः कृत्वा सुखमवाप्नुयात् || १८||

तत्त्रिकालहितं वाक्यं धर्म्यमर्थानुबन्धि च |
मन्यस्व नरदेवाय जानकी प्रतिदीयताम् || १९||

दृष्टा हीयं मया देवी लब्धं यदिह दुर्लभम् |
उत्तरं कर्म यच्छेषं निमित्तं तत्र राघवः || २०||

लक्षितेयं मया सीता तथा शोकपरायणा |
गृह्य यां नाभिजानासि पञ्चास्यामिव पन्नगीम् || २१||

नेयं जरयितुं शक्या सासुरैरमरैरपि |
विषसंसृष्टमत्यर्थं भुक्तमन्नमिवौजसा || २२||

तपःसन्तापलब्धस्ते योऽयं धर्मपरिग्रहः |
न स नाशयितुं न्याय्य आत्मप्राणपरिग्रहः || २३||

अवध्यतां तपोभिर्यां भवान्समनुपश्यति |
आत्मनः सासुरैर्देवैर्हेतुस्तत्राप्ययं महान् || २४||

सुग्रीवो न हि देवोऽयं नासुरो न च मानुषः |
न राक्षसो न गन्धर्वो न यक्षो न च पन्नगः || २५||

मानुषो राघवो राजन्सुग्रीवश्च हरीश्वरः |
तस्मात्प्राणपरित्राणं कथं राजन्करिष्यसि || २६||

न तु धर्मोपसंहारमधर्मफलसंहितम् |
तदेव फलमन्वेति धर्मश्चाधर्मनाशनः || २७||

प्राप्तं धर्मफलं तावद्भवता नात्र संशयः |
फलमस्याप्यधर्मस्य क्षिप्रमेव प्रपत्स्यसे || २८||

जनस्थानवधं बुद्ध्वा बुद्ध्वा वालिवधं तथा |
रामसुग्रीवसख्यं च बुध्यस्व हितमात्मनः || २९||

कामं खल्वहमप्येकः सवाजिरथकुञ्जराम् |
लङ्कां नाशयितुं शक्तस्तस्यैष तु विनिश्चयः || ३०||

रामेण हि प्रतिज्ञातं हर्यृक्षगणसंनिधौ |
उत्सादनममित्राणां सीता यैस्तु प्रधर्षिता || ३१||

अपकुर्वन्हि रामस्य साक्षादपि पुरन्दरः |
न सुखं प्राप्नुयादन्यः किं पुनस्त्वद्विधो जनः || ३२||

यां सीतेत्यभिजानासि येयं तिष्ठति ते वशे |
कालरात्रीति तां विद्धि सर्वलङ्काविनाशिनीम् || ३३||

तदलं कालपाशेन सीता विग्रहरूपिणा |
स्वयं स्कन्धावसक्तेन क्षममात्मनि चिन्त्यताम् || ३४||

सीतायास्तेजसा दग्धां रामकोपप्रपीडिताम् |
दह्यमनामिमां पश्य पुरीं साट्टप्रतोलिकाम् || ३५||

स सौष्ठवोपेतमदीनवादिनः
कपेर्निशम्याप्रतिमोऽप्रियं वचः |
दशाननः कोपविवृत्तलोचनः
समादिशत्तस्य वधं महाकपेः || ३६||

36

1647

Shri Hanuman explained as to how Shri Rama, who is the eldest son of King Dasaratha, went to Dandaka Forest to honour the word given by his father, how  Seetha was abducted in the absence of Shri Rama, how Shri Rama and Sugreeva made a friendly pact, how Vali was killed, how Sugreeva was made the king of Kishkinda, how vanaras were sent in search of Seeta and how he came to Lanka in search of Seeta and he finally declares that he had seen Seeta in Ashoka Garden.

While stating that the further course of action will be taken by Shri Rama, Shri Hanuman advices Ravana to restore Seeta to Shri Rama so that he can save his life as well as that of other demons, from the arrows of Shri Rama.

52

तस्य तद्वचनं श्रुत्वा वानरस्य महात्मनः |
आज्ञापयद्वधं तस्य रावणः क्रोधमूर्छितः || १||

वधे तस्य समाज्ञप्ते रावणेन दुरात्मना |
निवेदितवतो दौत्यं नानुमेने विभीषणः || २||

तं रक्षोऽधिपतिं क्रुद्धं तच्च कार्यमुपस्थितम् |
विदित्वा चिन्तयामास कार्यं कार्यविधौ स्थितः || ३||

निश्चितार्थस्ततः साम्नापूज्य शत्रुजिदग्रजम् |
उवाच हितमत्यर्थं वाक्यं वाक्यविशारदः || ४||

राजन्धर्मविरुद्धं च लोकवृत्तेश् च गर्हितम् |
तव चासदृशं वीर कपेरस्य प्रमापणम् || ५||

असंशयं शत्रुरयं प्रवृद्धः
कृतं ह्यनेनाप्रियमप्रमेयम् |
न दूतवध्यां प्रवदन्ति सन्तो
दूतस्य दृष्टा बहवो हि दण्डाः || ६||

वैरूप्यामङ्गेषु कशाभिघातो
मौण्ड्यं तथा लक्ष्मणसंनिपातः |
एतान्हि दूते प्रवदन्ति दण्डान्
वधस्तु दूतस्य न नः श्रुतोऽपि || ७||

कथं च धर्मार्थविनीतबुद्धिः
परावरप्रत्ययनिश्चितार्थः |
भवद्विधः कोपवशे हि तिष्ठेत्
कोपं नियच्छन्ति हि सत्त्ववन्तः || ८||

न धर्मवादे न च लोकवृत्ते
न शास्त्रबुद्धिग्रहणेषु वापि |
विद्येत कश्चित्तव वीरतुल्यस्
त्वं ह्युत्तमः सर्वसुरासुराणाम् || ९||

न चाप्यस्य कपेर्घाते कं चित्पश्याम्यहं गुणम् |
तेष्वयं पात्यतां दण्डो यैरयं प्रेषितः कपिः || १०||

साधुर्वा यदि वासाधुर्परैरेष समर्पितः |
ब्रुवन्परार्थं परवान्न दूतो वधमर्हति || ११||

अपि चास्मिन्हते राजन्नान्यं पश्यामि खेचरम् |
इह यः पुनरागच्छेत्परं पारं महोदधिः || १२||

तस्मान्नास्य वधे यत्नः कार्यः परपुरञ्जय |
भवान्सेन्द्रेषु देवेषु यत्नमास्थातुमर्हति || १३||

अस्मिन्विनष्टे न हि दूतमन्यं
पश्यामि यस्तौ नरराजपुत्रौ |
युद्धाय युद्धप्रियदुर्विनीताव्
उद्योजयेद्दीर्घपथावरुद्धौ || १४||

पराक्रमोत्साहमनस्विनां च
सुरासुराणाम् अपि दुर्जयेन |
त्वया मनोनन्दन नैरृतानां
युद्धायतिर्नाशयितुं न युक्ता || १५||

हिताश्च शूराश्च समाहिताश् च
कुलेषु जाताश्च महागुणेषु |
मनस्विनः शस्त्रभृतां वरिष्ठाः
कोट्यग्रशस्ते सुभृताश्च योधाः || १६||

तदेकदेशेन बलस्य तावत्
के चित्तवादेशकृतोऽपयान्तु |
तौ राजपुत्रौ विनिगृह्य मूढौ
परेषु ते भावयितुं प्रभावम् || १७||

प्रसीद लङ्केश्वर राक्षसेन्द्र |

धर्मार्थयुक्तम् वचनम् शृणुष्व |

दूतानवध्यान् समयेषु राजन् |

सर्वेषु सर्वत्र वदन्ति सन्तः ||१८ ||

18

1665

Ravana orders to kills Shri Hanuman, but Vibhishana advises Ravana to desist from such a dastardly act, quoting scriptures.  He added that killing of an envoy is prohibited according to scriptures.

53

तस्य तद्वचनं श्रुत्वा दशग्रीवो महाबलः |
देशकालहितं वाक्यं भ्रातुरुत्तममब्रवीत् || १||

सम्यगुक्तं हि भवता दूतवध्या विगर्हिता |
अवश्यं तु वधादन्यः क्रियतामस्य निग्रहः || २||

कपीनां किल लाङ्गूलमिष्टं भवति भूषणम् |
तदस्य दीप्यतां शीघ्रं तेन दग्धेन गच्छतु || ३||

ततः पश्यन्त्विमं दीनमङ्गवैरूप्यकर्शितम् |
समित्रा ज्ञातयः सर्वे बान्धवाः ससुहृज्जनाः || ४||

आज्ञापयद्राक्षसेन्द्रः पुरं सर्वं सचत्वरम् |
लाङ्गूलेन प्रदीप्तेन रक्षोभिः परिणीयताम् || ५||

तस्य तद्वचनं श्रुत्वा राक्षसाः कोपकर्कशाः |
वेष्टन्ते तस्य लाङ्गूलं जीर्णैः कार्पासिकैः पटैः || ६||

संवेष्ट्यमाने लाङ्गूले व्यवर्धत महाकपिः |
शुष्कमिन्धनमासाद्य वनेष्विव हुताशनः || ७||

तैलेन परिषिच्याथ तेऽग्निं तत्रावपातयन् || ८||

लाङ्गूलेन प्रदीप्तेन राक्षसांस्तानपातयत् |
रोषामर्षपरीतात्मा बालसूर्यसमाननः || ९||

स भूयः सङ्गतैः क्रूरै राकसैर्हरिसत्तमः |
निबद्धः कृतवान्वीरस्तत्कालसदृशीं मतिम् || १०||

कामं खलु न मे शक्ता निबधस्यापि राक्षसाः |
छित्त्वा पाशान्समुत्पत्य हन्यामहमिमान्पुनः || ११||

सर्वेषामेव पर्याप्तो राक्षसानामहं युधि |
किं तु रामस्य प्रीत्यर्थं विषहिष्येऽहमीदृशम् || १२||

लङ्का चरयितव्या मे पुनरेव भवेदिति |
रात्रौ न हि सुदृष्टा मे दुर्गकर्मविधानतः |
अवश्यमेव द्रष्टव्या मया लङ्का निशाक्षये || १३||

कामं बन्धैश्च मे भूयः पुच्छस्योद्दीपनेन च |
पीडां कुर्वन्तु रक्षांसि न मेऽस्ति मनसः श्रमः || १४||

ततस्ते संवृताकारं सत्त्ववन्तं महाकपिम् |
परिगृह्य ययुर्हृष्टा राक्षसाः कपिकुञ्जरम् || १५||

शङ्खभेरीनिनादैस्तैर्घोषयन्तः स्वकर्मभिः |
राक्षसाः क्रूरकर्माणश्चारयन्ति स्म तां पुरीम् || १६||

हनुमांश्चारयामास राक्षसानां महापुरीम् |
अथापश्यद्विमानानि विचित्राणि महाकपिः || १७||

संवृतान्भूमिभागांश्च सुविभक्तांश्च चत्वरान् |
रथ्याश्च गृहसम्बाधाः कपिः शृङ्गाटकानि च || १८||

चत्वरेषु चतुष्केषु राजमार्गे तथैव च |
घोषयन्ति कपिं सर्वे चारीक इति राक्षसाः || १९||

दीप्यमाने ततस्तस्य लाङ्गूलाग्रे हनूमतः |
राक्षस्यस्ता विरूपाक्ष्यः शंसुर्देव्यास्तदप्रियम् || २०||

यस्त्वया कृतसंवादः सीते ताम्रमुखः कपिः |
लाङ्गूलेन प्रदीप्तेन स एष परिणीयते || २१||

श्रुत्वा तद्वचनं क्रूरमात्मापहरणोपमम् |
वैदेही शोकसन्तप्ता हुताशनमुपागमत् || २२||

मङ्गलाभिमुखी तस्य सा तदासीन्महाकपेः |
उपतस्थे विशालाक्षी प्रयता हव्यवाहनम् || २३||

यद्यस्ति पतिशुश्रूषा यद्यस्ति चरितं तपः |
यदि चास्त्येकपत्नीत्वं शीतो भव हनूमतः || २४||

यदि कश्चिदनुक्रोशस्तस्य मय्यस्ति धीमतः |
यदि वा भाग्यशेषं मे शीतो भव हनूमतः || २५||

यदि मां वृत्तसम्पन्नां तत्समागमलालसाम् |
स विजानाति धर्मात्मा शीतो भव हनूमतः || २६||

यदि मां तारयत्यार्यः सुग्रीवः सत्यसङ्गरः |
अस्माद्दुःखान्महाबाहुः शीतो भव हनूमतः || २७||

ततस्तीक्ष्णार्चिरव्यग्रः प्रदक्षिणशिखोऽनलः |
जज्वाल मृगशावाक्ष्याः शंसन्निव शिवं कपेः || २८||

दह्यमाने च लाङ्गूले चिन्तयामास वानरः |
प्रदीप्तोऽग्निरयं कस्मान्न मां दहति सर्वतः || २९||

दृश्यते च महाज्वालः करोति च न मे रुजम् |
शिशिरस्येव सम्पातो लाङ्गूलाग्रे प्रतिष्ठितः || ३०||

अथ वा तदिदं व्यक्तं यद्दृष्टं प्लवता मया |
रामप्रभावादाश्चर्यं पर्वतः सरितां पतौ || ३१||

यदि तावत्समुद्रस्य मैनाकस्य च धीमथ |
रामार्थं सम्भ्रमस्तादृक्किमग्निर्न करिष्यति || ३२||

सीतायाश्चानृशंस्येन तेजसा राघवस्य च |
पितुश्च मम सख्येन न मां दहति पावकः || ३३||

भूयः स चिन्तयामास मुहूर्तं कपिकुञ्जरः |
उत्पपाताथ वेगेन ननाद च महाकपिः || ३४||

पुरद्वारं ततः श्रीमाञ्शैलशृङ्गमिवोन्नतम् |
विभक्तरक्षःसम्बाधमाससादानिलात्मजः || ३५||

स भूत्वा शैलसङ्काशः क्षणेन पुनरात्मवान् |
ह्रस्वतां परमां प्राप्तो बन्धनान्यवशातयत् || ३६||

विमुक्तश्चाभवच्छ्रीमान्पुनः पर्वतसंनिभः |
वीक्षमाणश्च ददृशे परिघं तोरणाश्रितम् || ३७||

स तं गृह्य महाबाहुः कालायसपरिष्कृतम् |
रक्षिणस्तान्पुनः सर्वान्सूदयामास मारुतिः || ३८||

स तान्निहत्वा रणचण्डविक्रमः
समीक्षमाणः पुनरेव लङ्काम् |
प्रदीप्तलाङ्गूलकृतार्चिमाली
प्रकाशतादित्य इवांशुमाली || ३९||

39

1704

Paying heed to Vibhishana’s advice, Ravana ordered the tail of Shri Hanuman be put to fire.  The demons wrap up old rags around Shri Hanuman's tail, pour oil to it and burn it with fire. The demons tie Shri Hanuman with ropes and parade him in  the entire city, declaring him to be a spy to the citizens of Lanka.

The Women demons inform Seetha about the burning of Shri Hanuman's tail and parading him around the city by demons. Then, Seetha prays the fire-God to do good to Shri Hanuman. As if in response to her prayers, fire-god makes Shri Hanuman feel cool with his burning tail. Shri Hanuman gets himself freed and taking an iron-rod from the arched door of the city gate and kills all the security-guards there.

इत्यार्षे श्री रामायणे सुन्दरकाण्डे एकोनविंश: भाग:

 

Sundarakāṇḍa Part-18

Sundarakāṇḍa Part-20

No comments:

Post a Comment