Saturday, January 3, 2026

सुन्दरकाण्ड - Sundarakāṇḍa (भाग - १९ ;;; Part – 19)

 

सुन्दरकाण्ड - Sundarakāṇḍa (भाग - १९ ;;; Part – 19)

 

Sarga number as per Ramayana

Shlokas extracted

No. of shlokas

Cumulative number of shlokas in this Kanda

58

(Part – 1)

ततस्तस्य गिरेः शृङ्गे महेन्द्रस्य महाबलाः |
हनुमत्प्रमुखाः प्रीतिं हरयो जग्मुरुत्तमाम् || १||

तं ततः प्रतिसंहृष्टः प्रीतिमन्तं महाकपिम् |
जाम्बवान्कार्यवृत्तान्तमपृच्छदनिलात्मजम् || २||

कथं दृष्टा त्वया देवी कथं वा तत्र वर्तते |
तस्यां वा स कथं वृत्तः क्रूरकर्मा दशाननः || ३||

तत्त्वतः सर्वमेतन्नः प्रब्रूहि त्वं महाकपे |
श्रुतार्थाश्चिन्तयिष्यामो भूयः कार्यविनिश्चयम् || ४||

यश्चार्थस्तत्र वक्तव्यो गतैरस्माभिरात्मवान् |
रक्षितव्यं च यत्तत्र तद्भवान्व्याकरोतु नः || ५||

स नियुक्तस्ततस्तेन सम्प्रहृष्टतनूरुहः |
नमस्यञ्शिरसा देव्यै सीतायै प्रत्यभाषत || ६||

प्रत्यक्षमेव भवतां महेन्द्राग्रात्खमाप्लुतः |
उदधेर्दक्षिणं पारं काङ्क्षमाणः समाहितः || ७||

गच्छतश्च हि मे घोरं विघ्नरूपमिवाभवत् |
काञ्चनं शिखरं दिव्यं पश्यामि सुमनोहरम् || ८||

अस्तं दिनकरे याते रक्षसां निलयं पुरीम् |
प्रविष्टोऽहमविज्ञातो रक्षोभिर्भीमविक्रमैः || ९||

तत्राहं सर्वरात्रं तु विचिन्वञ्जनकात्मजाम् |
रावणान्तःपुरगतो न चापश्यं सुमध्यमाम् || १०||

ततः सीतामपश्यंस्तु रावणस्य निवेशने |
शोकसागरमासाद्य न पारमुपलक्षये || ११||

शोचता च मया दृष्टं प्राकारेण समावृतम् |
काञ्चनेन विकृष्टेन गृहोपवनमुत्तमम् ||

स प्राकारमवप्लुत्य पश्यामि बहुपादपम् || १२||

अशोकवनिकामध्ये शिंशपापादपो महान् |
तमारुह्य च पश्यामि काञ्चनं कदली वनम् || १३||

अदूराच्छिंशपावृक्षात्पश्यामि वनवर्णिनीम् |
श्यामां कमलपत्राक्षीमुपवासकृशाननाम् || १४||

राक्षसीभिर्विरूपाभिः क्रूराभिरभिसंवृताम् |
मांसशोणितभक्ष्याभिर्व्याघ्रीभिर्हरिणीं यथा || १५||

तां दृष्ट्वा तादृशीं नारीं रामपत्नीमनिन्दिताम् |
तत्रैव शिंशपावृक्षे पश्यन्नहमवस्थितः || १६||

ततो हलहलाशब्दं काञ्चीनूपुरमिश्रितम् |
शृणोम्यधिकगम्भीरं रावणस्य निवेशने || १७||

ततोऽहं परमोद्विग्नः स्वरूपं प्रत्यसंहरम् |
अहं च शिंशपावृक्षे पक्षीव गहने स्थितः || १८||

ततो रावणदाराश्च रावणश्च महाबलः |
तं देशं समनुप्राप्ता यत्र सीताभवत्स्थिता || १९||

तं दृष्ट्वाथ वरारोहा सीता रक्षोगणेश्वरम् |
सङ्कुच्योरू स्तनौ पीनौ बाहुभ्यां परिरभ्य च || २०||

तामुवाच दशग्रीवः सीतां परमदुःखिताम् |
अवाक्षिराः प्रपतितो बहु मन्यस्व माम् इति || २१||

यदि चेत्त्वं तु मां दर्पान्नाभिनन्दसि गर्विते |
द्विमासानन्तरं सीते पास्यामि रुधिरं तव || २२||

एतच्छ्रुत्वा वचस्तस्य रावणस्य दुरात्मनः |
उवाच परमक्रुद्धा सीता वचनमुत्तमम् || २३||

राक्षसाधम रामस्य भार्याममिततेजसः |
इक्ष्वाकुकुलनाथस्य स्नुषां दशरथस्य च |
अवाच्यं वदतो जिह्वा कथं न पतिता तव || २४||

किंस्विद्वीर्यं तवानार्य यो मां भर्तुरसंनिधौ |
अपहृत्यागतः पाप तेनादृष्टो महात्मना || २५||

न त्वं रामस्य सदृशो दास्येऽप्यस्या न युज्यसे |
यज्ञीयः सत्यवाक्चैव रणश्लाघी च राघवः || २६||

जानक्या परुषं वाक्यमेवमुक्तो दशाननः |
जज्वाल सहसा कोपाच्चितास्थ इव पावकः || २७||

विवृत्य नयने क्रूरे मुष्टिमुद्यम्य दक्षिणम् |
मैथिलीं हन्तुमारब्धः स्त्रीभिर्हाहाकृतं तदा || २८||

स्त्रीणां मध्यात्समुत्पत्य तस्य भार्या दुरात्मनः |
वरा मन्दोदरी नाम तया स प्रतिषेधितः || २९||

उक्तश्च मधुरां वाणीं तया स मदनार्दितः |
सीतया तव किं कार्यं महेन्द्रसमविक्रम |
मया सह रमस्वाद्य मद्विशिष्टा न जानकी || ३०||

देवगन्धर्वकन्याभिर्यक्षकन्याभिरेव च |
सार्धं प्रभो रमस्वेह सीतया किं करिष्यसि || ३१||

ततस्ताभिः समेताभिर्नारीभिः स महाबलः |
उत्थाप्य सहसा नीतो भवनं स्वं निशाचरः || ३२||

याते तस्मिन्दशग्रीवे राक्षस्यो विकृताननाः |
सीतां निर्भर्त्सयामासुर्वाक्यैः क्रूरैः सुदारुणैः || ३३||

तृणवद्भाषितं तासां गणयामास जानकी |
तर्जितं च तदा तासां सीतां प्राप्य निरर्थकम् || ३४||

वृथागर्जितनिश्चेष्टा राक्षस्यः पिशिताशनाः |
रावणाय शशंसुस्ताः सीताव्यवसितं महत् || ३५||

ततस्ताः सहिताः सर्वा विहताशा निरुद्यमाः |
परिक्षिप्य समन्तात्तां निद्रावशमुपागताः || ३६||

तासु चैव प्रसुप्तासु सीता भर्तृहिते रता |
विलप्य करुणं दीना प्रशुशोच सुदुःखिता || ३७||

तां चाहं तादृशीं दृष्ट्वा सीताया दारुणां दशाम् |
चिन्तयामास विश्रान्तो न च मे निर्वृतं मनः || ३८||

सम्भाषणार्थे च मया जानक्याश्चिन्तितो विधिः |
इक्ष्वाकुकुलवंशस्तु ततो मम पुरस्कृतः || ३९||

श्रुत्वा तु गदितां वाचं राजर्षिगणपूजिताम् |
प्रत्यभाषत मां देवी बाष्पैः पिहितलोचना || ४०||

कस्त्वं केन कथं चेह प्राप्तो वानरपुङ्गव |
का च रामेण ते प्रीतिस्तन्मे शंसितुमर्हसि || ४१||

तस्यास्तद्वचनं श्रुत्वा अहमप्यब्रुवं वचः |
देवि रामस्य भर्तुस्ते सहायो भीमविक्रमः |
सुग्रीवो नाम विक्रान्तो वानरेन्दो महाबलः || ४२||

तस्य मां विद्धि भृत्यं त्वं हनूमन्तमिहागतम् |
भर्त्राहं प्रहितस्तुभ्यं रामेणाक्लिष्टकर्मणा || ४३||

इदं च पुरुषव्याघ्रः श्रीमान्दाशरथिः स्वयम् |
अङ्गुलीयमभिज्ञानमदात्तुभ्यं यशस्विनि || ४४||

तदिच्छामि त्वयाज्ञप्तं देवि किं करवाण्यहम् |
रामलक्ष्मणयोः पार्श्वं नयामि त्वां किमुत्तरम् || ४५||

एतच्छ्रुत्वा विदित्वा च सीता जनकनन्दिनी |
आह रावणमुत्साद्य राघवो मां नयत्विति || ४६||

प्रणम्य शिरसा देवीमहमार्यामनिन्दिताम् |
राघवस्य मनोह्लादमभिज्ञानमयाचिषम् || ४७||

एवमुक्ता वरारोहा मणिप्रवरमुत्तमम् |
प्रायच्छत्परमोद्विग्ना वाचा मां सन्दिदेश ह || ४८||

ततस्तस्यै प्रणम्याहं राजपुत्र्यै समाहितः |
प्रदक्षिणं परिक्राममिहाभ्युद्गतमानसः || ४९||

उत्तरं पुनरेवाह निश्चित्य मनसा तदा |
हनूमन्मम वृत्तान्तं वक्तुमर्हसि राघवे || ५०||

यथा श्रुत्वैव नचिरात्तावुभौ रामलक्ष्मणौ |
सुग्रीवसहितौ वीरावुपेयातां तथा कुरु || ५१||

यद्यन्यथा भवेदेतद्द्वौ मासौ जीवितं मम |
न मां द्रक्ष्यति काकुत्स्थो म्रिये साहमनाथवत् || ५२||

तच्छ्रुत्वा करुणं वाक्यं क्रोधो माम् अभ्यवर्तत |
उत्तरं च मया दृष्टं कार्यशेषमनन्तरम् || ५३||

ततोऽवर्धत मे कायस्तदा पर्वतसंनिभः |
युद्धकाङ्क्षी वनं तच्च विनाशयितुमारभे || ५४||

तद्भग्नं वनषण्डं तु भ्रान्तत्रस्तमृगद्विजम् |
प्रतिबुद्धा निरीक्षन्ते राक्षस्यो विकृताननाः || ५५||

मां च दृष्ट्वा वने तस्मिन्समागम्य ततस्ततः |
ताः समभ्यागताः क्षिप्रं रावणायाचचक्षिरे || ५६||

राजन्वनमिदं दुर्गं तव भग्नं दुरात्मना |
वानरेण ह्यविज्ञाय तव वीर्यं महाबल || ५७||

दुर्बुद्धेस्तस्य राजेन्द्र तव विप्रियकारिणः |
वधमाज्ञापय क्षिप्रं यथासौ विलयं व्रजेत् || ५८||

तच्छ्रुत्वा राक्षसेन्द्रेण विसृष्टा भृशदुर्जयाः |
राक्षसाः किङ्करा नाम रावणस्य मनोऽनुगाः || ५९||

तेषामशीतिसाहस्रं शूलमुद्गरपाणिनाम् |
मया तस्मिन्वनोद्देशे परिघेण निषूदितम् || ६०||

तेषां तु हतशेषा ये ते गता लघुविक्रमाः |
निहतं च मया सैन्यं रावणायाचचक्षिरे || ६१||

ततो मे बुद्धिरुत्पन्ना चैत्यप्रासादमाक्रमम् || ६२||

तत्रस्थान्राक्षसान्हत्वा शतं स्तम्भेन वै पुनः |
ललाम भूतो लङ्काया मया विध्वंसितो रुषा || ६३||

63

1407

Shri Hanuman narrates all the events occurred during his journey to Lanka, ie.,

·       His search in Lanka for Seeta

·       His finding Seeta in Ashoka Garden in Lanka

·       The heated debate between Ravana and Seeta

·       His approaching Seeta and convincing her

·       The destruction of Ashoka Garden and eliminating 80,000 demons and demolition of beautiful mansion in Ashoka Garden and killing of the guards

 

……  contd..

इत्यार्षे श्री रामायणे सुन्दरकाण्डे एकोनविंश: भाग:

 

Sundarakāṇḍa Part-18

Sundarakāṇḍa Part-20

No comments:

Post a Comment