Saturday, January 3, 2026

सुन्दरकाण्ड - Sundarakāṇḍa (भाग - २० ;;; Part – 20)

 

सुन्दरकाण्ड - Sundarakāṇḍa (भाग - २० ;;; Part – 20)

Sarga number as per Ramayana

Shlokas extracted

No. of shlokas

Cumulative number of shlokas in this Kanda

54

वीक्षमाणस्ततो लङ्कां कपिः कृतमनोरथः |
वर्धमानसमुत्साहः कार्यशेषमचिन्तयत् || १||

किं नु खल्वविशिष्टं मे कर्तव्यमिह साम्प्रतम् |
यदेषां रक्षसां भूयः सन्तापजननं भवेत् || २||

वनं तावत्प्रमथितं प्रकृष्टा राक्षसा हताः |
बलैकदेशः क्षपितः शेषं दुर्गविनाशनम् || ३||

दुर्गे विनाशिते कर्म भवेत्सुखपरिश्रमम् |
अल्पयत्नेन कार्येऽस्मिन्मम स्यात्सफलः श्रमः || ४||

यो ह्ययं मम लाङ्गूले दीप्यते हव्यवाहनः |
अस्य सन्तर्पणं न्याय्यं कर्तुमेभिर्गृहोत्तमैः || ५||

ततः प्रदीप्तलाङ्गूलः सविद्युदिव तोयदः |
भवनाग्रेषु लङ्काया विचचार महाकपिः || ६||

मुमोच हनुमानग्निं कालानलशिखोपमम् || ७||

श्वसनेन च संयोगादतिवेगो महाबलः |
कालाग्निरिव जज्वाल प्रावर्धत हुताशनः || ८||

प्रदीप्तमग्निं पवनस्तेषु वेश्मसु चारयत् || ९||

तानि काञ्चनजालानि मुक्तामणिमयानि च |
भवनान्यवशीर्यन्त रत्नवन्ति महान्ति च || १०||

तानि भग्नविमानानि निपेतुर्वसुधातले |
भवनानीव सिद्धानामम्बरात्पुण्यसङ्क्षये || ११||

वज्रविद्रुमवैदूर्यमुक्तारजतसंहितान् |
विचित्रान्भवनाद्धातून्स्यन्दमानान्ददर्श सः || १२||

नाग्निस्तृप्यति काष्ठानां तृणानां च यथा तथा |
हनूमान्राक्षसेन्द्राणां वधे किं चिन्न तृप्यति || १३||

हुताशनज्वालसमावृता सा
हतप्रवीरा परिवृत्तयोधा |
हनूमातः क्रोधबलाभिभूता
बभूव शापोपहतेव लङ्का || १४||

ससम्भ्रमं त्रस्तविषण्णराक्षसां
समुज्ज्वलज्ज्वालहुताशनाङ्किताम् |
ददर्श लङ्कां हनुमान्महामनाः
स्वयम्भुकोपोपहतामिवावनिम् || १५||

स राक्षसांस्तान्सुबहूंश्च हत्वा
वनं च भङ्क्त्वा बहुपादपं तत् |
विसृज्य रक्षो भवनेषु चाग्निं
जगाम रामं मनसा महात्मा || १६||

लङ्कां समस्तां सन्दीप्य लाङ्गूलाग्निं महाकपिः |
निर्वापयामास तदा समुद्रे हरिसत्तमः || १७||

17

1721

Shri Hanuman, deciding to set fire to the city of Lanka with his blazing tail, moved over the horses in Lanka and setting all houses on fire. All the demons were frightened on seeing the blazing fire, consuming their city with its trees, houses and a host of living beings.

55

सन्दीप्यमानां विध्वस्तां त्रस्तरक्षो गणां पुरीम् |
अवेक्ष्य हानुमाँल्लङ्कां चिन्तयामास वानरः || १||

तस्याभूत्सुमहांस्त्रासः कुत्सा चात्मन्यजायत |
लङ्कां प्रदहता कर्म किंस्वित्कृतमिदं मया || २||

धन्यास्ते पुरुषश्रेष्ठ ये बुद्ध्या कोपमुत्थितम् |
निरुन्धन्ति महात्मानो दीप्तमग्निमिवाम्भसा || ३||

यदि दग्धा त्वियं लङ्का नूनमार्यापि जानकी |
दग्धा तेन मया भर्तुर्हतं कार्यमजानता || ४||

यदर्थमयमारम्भस्तत्कार्यमवसादितम् |
मया हि दहता लङ्कां न सीता परिरक्षिता || ५||

ईषत्कार्यमिदं कार्यं कृतमासीन्न संशयः |
तस्य क्रोधाभिभूतेन मया मूलक्षयः कृतः || ६||

विनष्टा जानकी व्यक्तं न ह्यदग्धः प्रदृश्यते |
लङ्कायाः कश्चिदुद्देशः सर्वा भस्मीकृता पुरी || ७||

यदि तद्विहतं कार्यं मया प्रज्ञाविपर्ययात् |
इहैव प्राणसंन्यासो ममापि ह्यतिरोचते || ८||

किमग्नौ निपताम्यद्य आहोस्विद्वडवामुखे |
शरीरमाहो सत्त्वानां दद्मि सागरवासिनाम् || ९||

कथं हि जीवता शक्यो मया द्रष्टुं हरीश्वरः |
तौ वा पुरुषशार्दूलौ कार्यसर्वस्वघातिना || १०||

मया खलु तदेवेदं रोषदोषात्प्रदर्शितम् |
प्रथितं त्रिषु लोकेषु कपितमनवस्थितम् || ११||

धिगस्तु राजसं भावमनीशमनवस्थितम् |
ईश्वरेणापि यद्रागान्मया सीता न रक्षिता || १२||

विनष्टायां तु सीतायां तावुभौ विनशिष्यतः |
तयोर्विनाशे सुग्रीवः सबन्धुर्विनशिष्यति || १३||

एतदेव वचः श्रुत्वा भरतो भ्रातृवत्सलः |
धर्मात्मा सहशत्रुघ्नः कथं शक्ष्यति जीवितुम् || १४||

इक्ष्वाकुवंशे धर्मिष्ठे गते नाशमसंशयम् |
भविष्यन्ति प्रजाः सर्वाः शोकसन्तापपीडिताः || १५||

तदहं भाग्यरहितो लुप्तधर्मार्थसङ्ग्रहः |
रोषदोषपरीतात्मा व्यक्तं लोकविनाशनः || १६||

इति चिन्तयतस्तस्य निमित्तान्युपपेदिरे |
पूरमप्युपलब्धानि साक्षात्पुनरचिन्तयत् || १७||

अथ वा चारुसर्वाङ्गी रक्षिता स्वेन तेजसा |
न नशिष्यति कल्याणी नाग्निरग्नौ प्रवर्तते || १८||

न हि धर्मान्मनस्तस्य भार्याममिततेजसः |
स्वचारित्राभिगुप्तां तां स्प्रष्टुमर्हति पावकः || १९||

नूनं रामप्रभावेन वैदेह्याः सुकृतेन च |
यन्मां दहनकर्मायं नादहद्धव्यवाहनः || २०||

त्रयाणां भरतादीनां भ्रातॄणां देवता च या |
रामस्य च मनःकान्ता सा कथं विनशिष्यति || २१||

यद्वा दहनकर्मायं सर्वत्र प्रभुरव्ययः |
न मे दहति लाङ्गूलं कथमार्यां प्रधक्ष्यति || २२||

तपसा सत्यवाक्येन अनन्यत्वाच्च भर्तरि |
अपि सा निर्दहेदग्निं न तामग्निः प्रधक्ष्यति || २३||

स तथा चिन्तयंस्तत्र देव्या धर्मपरिग्रहम् |
शुश्राव हनुमान्वाक्यं चारणानां महात्मनाम् || २४||

अहो खलु कृतं कर्म दुर्विषह्यं हनूमता |
अग्निं विसृजताभीक्ष्णं भीमं राक्षससद्मनि || २५||

दग्धेयं नगरी लङ्का साट्टप्राकारतोरणा |
जानकी न च दग्धेति विस्मयोऽद्भुत एव नः || २६||

स निमित्तैश्च दृष्टार्थैः कारणैश्च महागुणैः |
ऋषिवाक्यैश्च हनुमानभवत्प्रीतमानसः || २७||

ततः कपिः प्राप्तमनोरथार्थस्
तामक्षतां राजसुतां विदित्वा |
प्रत्यक्षतस्तां पुनरेव दृष्ट्वा
प्रतिप्रयाणाय मतिं चकार || २८||

28

1749

Observing that Lanka is reduced to ashes and believing that Seetha too might have lost her life in the fire, Shri Hanuman begins to rebuking himself for his uncontrolled anger. Shri Hanuman repents that if Seetha died now in this fire, Shri Rama and others will not survive upon hearing that news.

Meanwhile, Shri Hanuman experiences some good omens and thinks that Seetha could have survived. He hears of her safety from the lips of ChAranas (celestial bards) and feels consoled. Shri Hanuman decides to return only after seeing Seeta again.

56

ततस्तु शिंशपामूले जानकीं पर्यवस्थिताम् |
अभिवाद्याब्रवीद्दिष्ट्या पश्यामि त्वामिहाक्षताम् || १||

क्षिप्रमेष्यति काकुत्स्थो हर्यृक्षप्रवरैर्वृतः |
यस्ते युधि विजित्यारीञ्शोकं व्यपनयिष्यति || २||

एवमाश्वास्य वैदेहीं हनूमान्मारुतात्मजः |
गमनाय मतिं कृत्वा वैदेहीमभ्यवादयत् || ३||

ततः स कपिशार्दूलः स्वामिसन्दर्शनोत्सुकः |
आरुरोह गिरिश्रेष्ठमरिष्टमरिमर्दनः || ४||

तुङ्गपद्मकजुष्टाभिर्नीलाभिर्वनराजिभिः |
सालतालाश्वकर्णैश्च वंशैश्च बहुभिर्वृतम् || ४||

लतावितानैर्विततैः पुष्पवद्भिरलङ्कृतम् |
नानामृगगणाकीर्णं धातुनिष्यन्दभूषितम् || ६||

बहुप्रस्रवणोपेतं शिलासञ्चयसङ्कटम् |
महर्षियक्षगन्धर्वकिंनरोरगसेवितम् || ७||

लतापादपसम्बाधं सिंहाकुलितकन्दरम् |
व्याघ्रसङ्घसमाकीर्णं स्वादुमूलफलद्रुमम् || ८||

तमारुरोहातिबलः पर्वतं प्लवगोत्तमः |
रामदर्शनशीघ्रेण प्रहर्षेणाभिचोदितः || ९||

तेन पादतलाक्रान्ता रम्येषु गिरिसानुषु |
सघोषाः समशीर्यन्त शिलाश्चूर्णीकृतास्ततः || १०||

स तमारुह्य शैलेन्द्रं व्यवर्धत महाकपिः |
दक्षिणादुत्तरं पारं प्रार्थयँल्लवणाम्भसः || ११||

अधिरुह्य ततो वीरः पर्वतं पवनात्मजः |
ददर्श सागरं भीमं मीनोरगनिषेवितम् || १२||

स मारुत इवाकाशं मारुतस्यात्मसम्भवः |
प्रपेदे हरिशार्दूलो दक्षिणादुत्तरां दिशम् || १३||

13

1762

Shri Hanuman visits Ashoka Garden again, sees Seetha and consoles Seetha that Shri Rama along with his forces of vanaras would come soon and after conquering the demons in battle, would take her back. Then, he ascends Mount Arishta and enlarges his body and leaps across the ocean.

57

सचन्द्रकुमुदं रम्यं सार्ककारण्डवं शुभम् |
तिष्यश्रवणकदम्बमभ्रशैवलशाद्वलम् || १||

पुनर्वसु महामीनं लोहिताङ्गमहाग्रहम् |
ऐरावतमहाद्वीपं स्वातीहंसविलोडितम् || २||

वातसङ्घातजातोर्मिं चन्द्रांशुशिशिराम्बुमत् |
भुजङ्गयक्षगन्धर्वप्रबुद्धकमलोत्पलम् || ३||

ग्रसमान इवाकाशं ताराधिपमिवालिखन् |
हरन्निव सनक्षत्रं गगनं सार्कमण्डलम् || ४||

मारुतस्यालयं श्रीमान्कपिर्व्योमचरो महान् |
हनूमान्मेघजालानि विकर्षन्निव गच्छति || ५||

पाण्डुरारुणवर्णानि नीलमाञ्जिष्ठकानि च |
हरितारुणवर्णानि महाभ्राणि चकाशिरे || ६||

प्रविशन्नभ्रजालानि निष्क्रमंश्च पुनः पुनः |
प्रच्छन्नश्च प्रकाशश्च चन्द्रमा इव लक्ष्यते || ७||

नदन्नादेन महता मेघस्वनमहास्वनः |
आजगाम महातेजाः पुनर्मध्येन सागरम् || ८||

पर्वतेन्द्रं सुनाभं च समुपस्पृश्य वीर्यवान् |
ज्यामुक्त इव नाराचो महावेगोऽभ्युपागतः || ९||

स किं चिदनुसम्प्राप्तः समालोक्य महागिरिम् |
महेन्द्रमेघसङ्काशं ननाद हरिपुङ्गवः || १०||

निशम्य नदतो नादं वानरास्ते समन्ततः |
बभूवुरुत्सुकाः सर्वे सुहृद्दर्शनकाङ्क्षिणः || ११||

जाम्बवान्स हरिश्रेष्ठः प्रीतिसंहृष्टमानसः |
उपामन्त्र्य हरीन्सर्वानिदं वचनमब्रवीत् || १२||

सर्वथा कृतकार्योऽसौ हनूमान्नात्र संशयः |
न ह्यस्याकृतकार्यस्य नाद एवंविधो भवेत् || १३||

तस्या बाहूरुवेगं च निनादं च महात्मनः |
निशम्य हरयो हृष्टाः समुत्पेतुस्ततस्ततः || १४||

ते नगाग्रान्नगाग्राणि शिखराच्छिखराणि च |
प्रहृष्टाः समपद्यन्त हनूमन्तं दिदृक्षवः || १५||

ते प्रीताः पादपाग्रेषु गृह्य शाखाः सुपुष्पिताः |
वासांसीव प्रकाशानि समाविध्यन्त वानराः || १६||

तमभ्रघनसङ्काशमापतन्तं महाकपिम् |
दृष्ट्वा ते वानराः सर्वे तस्थुः प्राञ्जलयस्तदा || १७||

ततस्तु वेगवांस्तस्य गिरेर्गिरिनिभः कपिः |
निपपात महेन्द्रस्य शिखरे पादपाकुले || १८||

ततस्ते प्रीतमनसः सर्वे वानरपुङ्गवाः |
हनूमन्तं महात्मानं परिवार्योपतस्थिरे || १९||

परिवार्य च ते सर्वे परां प्रीतिमुपागताः |
प्रहृष्टवदनाः सर्वे तमरोगमुपागतम् || २०||

उपायनानि चादाय मूलानि च फलानि च |
प्रत्यर्चयन्हरिश्रेष्ठं हरयो मारुतात्मजम् || २१||

विनेदुर्मुदिताः के चिच्चक्रुः किल किलां तथा |
हृष्टाः पादपशाखाश्च आनिन्युर्वानरर्षभाः || २२||

हनूमांस्तु गुरून्वृद्धाञ्जाम्बवत्प्रमुखांस्तदा |
कुमारमङ्गदं चैव सोऽवन्दत महाकपिः || २३||

स ताभ्यां पूजितः पूज्यः कपिभिश्च प्रसादितः |
दृष्टा देवीति विक्रान्तः सङ्क्षेपेण न्यवेदयत् || २४||

निषसाद च हस्तेन गृहीत्वा वालिनः सुतम् |
रमणीये वनोद्देशे महेन्द्रस्य गिरेस्तदा || २५||

हनूमानब्रवीद्धृष्टस्तदा तान्वानरर्षभान् |
अशोकवनिकासंस्था दृष्टा सा जनकात्मजा || २६||

रक्ष्यमाणा सुघोराभी राक्षसीभिरनिन्दिता |
एकवेणीधरा बाला रामदर्शनलालसा |
उपवासपरिश्रान्ता मलिना जटिला कृशा || २७||

ततो दृष्टेति वचनं महार्थममृतोपमम् |
निशम्य मारुतेः सर्वे मुदिता वानरा भवन् || २८||

क्ष्वेडन्त्यन्ये नदन्त्यन्ये गर्जन्त्यन्ये महाबलाः |
चक्रुः किल किलामन्ये प्रतिगर्जन्ति चापरे || २९||

के चिदुच्छ्रितलाङ्गूलाः प्रहृष्टाः कपिकुञ्जराः |
अञ्चितायतदीर्घाणि लाङ्गूलानि प्रविव्यधुः || ३०||

अपरे तु हनूमन्तं वानरा वारणोपमम् |
आप्लुत्य गिरिशृङ्गेभ्यः संस्पृशन्ति स्म हर्षिताः || ३१||

उक्तवाक्यं हनूमन्तमङ्गदस्तु तदाब्रवीत् |
सर्वेषां हरिवीराणां मध्ये वाचमनुत्तमाम् || ३२||

सत्त्वे वीर्ये न ते कश्चित्समो वानरविद्यते |
यदवप्लुत्य विस्तीर्णं सागरं पुनरागतः || ३३||

दिष्ट्या दृष्टा त्वया देवी रामपत्नी यशस्विनी |
दिष्ट्या त्यक्ष्यति काकुत्स्थः शोकं सीता वियोगजम् || ३४||

ततोऽङ्गदं हनूमन्तं जाम्बवन्तं च वानराः |
परिवार्य प्रमुदिता भेजिरे विपुलाः शिलाः || ३५||

श्रोतुकामाः समुद्रस्य लङ्घनं वानरोत्तमाः |
दर्शनं चापि लङ्कायाः सीताया रावणस्य च |
तस्थुः प्राञ्जलयः सर्वे हनूमद्वदनोन्मुखाः || ३६||

तस्थौ तत्राङ्गदः श्रीमान्वानरैर्बहुभिर्वृतः |
उपास्यमानो विबुधैर्दिवि देवपतिर्यथा || ३७||

हनूमता कीर्तिमता यशस्विना
तथाङ्गदेनाङ्गदबद्धबाहुना |
मुदा तदाध्यासितमुन्नतं महन्
महीधराग्रं ज्वलितं श्रियाभवत् || ३८||

38

1800

Shri Hanuman travels from coast of Lanka, touches Mount Mainaka, and roars at the top of his voice at the sight of Mount Mahendra. The vanaras become jubilant on hearing Shri Hanuman’s roar. Having descended on the mountain, greeted Jambavan, Angada and others, Shri Hanuman narrates to them briefly the story of his discovery of Seetha.

इत्यार्षे श्री रामायणे सुन्दरकाण्डे विंशतिः भाग:

Sundarakāṇḍa Part-19

Sundarakāṇḍa Part-21

 

No comments:

Post a Comment