Saturday, January 3, 2026

सुन्दरकाण्ड - Sundarakāṇḍa (भाग - २० ;;; Part – 20)

 

सुन्दरकाण्ड - Sundarakāṇḍa (भाग - २० ;;; Part – 20)


Sarga number as per Ramayana

Shlokas extracted

No. of shlokas

Cumulative number of shlokas in this Kanda

58

(Part – 2)

ततः प्रहस्तस्य सुतं जम्बुमालिनमादिशत् || १||

तमहं बलसम्पन्नं राक्षसं रणकोविदम् |
परिघेणातिघोरेण सूदयामि सहानुगम् || २||

तच्छ्रुत्वा राक्षसेन्द्रस्तु मन्त्रिपुत्रान्महाबलान् |
पदातिबलसम्पन्नान्प्रेषयामास रावणः |
परिघेणैव तान्सर्वान्नयामि यमसादनम् || ३||

मन्त्रिपुत्रान्हताञ्श्रुत्वा समरे लघुविक्रमान् |
पञ्चसेनाग्रगाञ्शूरान्प्रेषयामास रावणः |
तानहं सह सैन्यान्वै सर्वानेवाभ्यसूदयम् || ४||

ततः पुनर्दशग्रीवः पुत्रमक्षं महाबलम् |
बहुभी राकसैः सार्धं प्रेषयामास संयुगे || ५||

तं तु मन्दोदरी पुत्रं कुमारं रणपण्डितम् |
सहसा खं समुत्क्रान्तं पादयोश्च गृहीतवान् |
चर्मासिनं शतगुणं भ्रामयित्वा व्यपेषयम् || ६||

तमक्षमागतं भग्नं निशम्य स दशाननः |
तत इन्द्रजितं नाम द्वितीयं रावणः सुतम् |
व्यादिदेश सुसङ्क्रुद्धो बलिनं युद्धदुर्मदम् || ७||

तस्याप्यहं बलं सर्वं तं च राक्षसपुङ्गवम् |
नष्टौजसं रणे कृत्वा परं हर्षमुपागमम् || ८||

महता हि महाबाहुः प्रत्ययेन महाबलः |
प्रेषितो रावणेनैष सह वीरैर्मदोत्कटैः || ९||

ब्राह्मेणास्त्रेण स तु मां प्रबध्नाच्चातिवेगतः |
रज्जूभिरभिबध्नन्ति ततो मां तत्र राक्षसाः || १०||

रावणस्य समीपं च गृहीत्वा मामुपानयन् |
दृष्ट्वा सम्भाषितश्चाहं रावणेन दुरात्मना || ११||

पृष्टश्च लङ्कागमनं राक्षसानां च तद्वधम् |
तत्सर्वं च मया तत्र सीतार्थमिति जल्पितम् || १२||

अस्याहं दर्शनाकाङ्क्षी प्राप्तस्त्वद्भवनं विभो |
मारुतस्यौरसः पुत्रो वानरो हनुमानहम् || १३||

रामदूतं च मां विद्धि सुग्रीवसचिवं कपिम् |
सोऽहं दौत्येन रामस्य त्वत्समीपमिहागतः || १४||

शृणु चापि समादेशं यदहं प्रब्रवीमि ते |
राक्षसेश हरीशस्त्वां वाक्यमाह समाहितम् |
धर्मार्थकामसहितं हितं पथ्यमिवाशनम् || १५||

वसतो ऋष्यमूके मे पर्वते विपुलद्रुमे |
राघवो रणविक्रान्तो मित्रत्वं समुपागतः || १६||

तेन मे कथितं राजन्भार्या मे रक्षसा हृता |
तत्र साहाय्यहेतोर्मे समयं कर्तुमर्हसि || १७||

वालिना हृतराज्येन सुग्रीवेण सह प्रभुः |
चक्रेऽग्निसाक्षिकं सक्यं राघवः सहलक्ष्मणः || १८||

तेन वालिनमुत्साद्य शरेणैकेन संयुगे |
वानराणां महाराजः कृतः सम्प्लवतां प्रभुः || १९||

तस्य साहाय्यमस्माभिः कार्यं सर्वात्मना त्विह |
तेन प्रस्थापितस्तुभ्यं समीपमिह धर्मतः || २०||

क्षिप्रमानीयतां सीता दीयतां राघवस्य च |
यावन्न हरयो वीरा विधमन्ति बलं तव || २१||

वानराणां प्रभवो हि न केन विदितः पुरा |
देवतानां सकाशं च ये गच्छन्ति निमन्त्रिताः || २२||

इति वानरराजस्त्वामाहेत्यभिहितो मया |
मामैक्षत ततो रुष्टश्चक्षुषा प्रदहन्निव || २३||

तेन वध्योऽहमाज्ञप्तो रक्षसा रौद्रकर्मणा || २४||

ततो विभीषणो नाम तस्य भ्राता महामतिः |
तेन राक्षसराजोऽसौ याचितो मम कारणात् || २५||

दूतवध्या न दृष्टा हि राजशास्त्रेषु राक्षस |
दूतेन वेदितव्यं च यथार्थं हितवादिना || २६||

सुमहत्यपराधेऽपि दूतस्यातुलविक्रमः |
विरूपकरणं दृष्टं न वधोऽस्तीह शास्त्रतः || २७||

विभीषणेनैवमुक्तो रावणः सन्दिदेश तान् |
राक्षसानेतदेवाद्य लाङ्गूलं दह्यताम् इति || २८||

ततस्तस्य वचः श्रुत्वा मम पुच्छं समन्ततः |
वेष्टितं शणवल्कैश्च पटैः कार्पासकैस्तथा || २९||

राक्षसाः सिद्धसंनाहास्ततस्ते चण्डविक्रमाः |
तदादीप्यन्त मे पुच्छं हनन्तः काष्ठमुष्टिभिः || ३०||

बद्धस्य बहुभिः पाशैर्यन्त्रितस्य च राक्षसैः |
न मे पीडा भवेत्का चिद्दिदृक्षोर्नगरीं दिवा || ३१||

ततस्ते राक्षसाः शूरा बद्धं मामग्निसंवृतम् |
अघोषयन्राजमार्गे नगरद्वारमागताः || ३२||

ततोऽहं सुमहद्रूपं सङ्क्षिप्य पुनरात्मनः |
विमोचयित्वा तं बन्धं प्रकृतिष्ठः स्थितः पुनः || ३३||

राघवस्य प्रभावेन भवतां चैव तेजसा |
सुग्रीवस्य च कार्यार्थं मया सर्वमनुष्ठितम् || ३४||

एतत्सर्वं मया तत्र यथावदुपपादितम् |
अत्र यन्न कृतं शेषं तत्सर्वं क्रियताम् इति || ३५||

35

1442

Shri Hanuman narrates all the events occurred during his journey to Lanka, ie.,

 

·       His killing of Jambumali, other demon warriors, Aksha, the son of Ravana

·       His encounter with Indrajit and his getting captured and getting audience of Ravana

·       His debate with Ravana and his tail put to fire by demons

·       His coming back

......concluded

60

 

 

 

 

 

 

 

 

  

 

 

 

 

 

 

तस्य तद्वचनं श्रुत्वा वालिसूनुरभाषत |

अयुक्तं तु विना देवीं दृष्टबद्भिः प्लवङ्गमाः |

समीपं गन्तुमस्माभी राघवस्य महात्मनः || १||

दृष्टा देवी न चानीता इति तत्र निवेदनम् |

अयुक्तमिव पश्यामि भवद्भिः ख्यातविक्रमैः || २||

न हि वः प्लवते कश्चिन्नापि कश्चित्पराक्रमे |

तुल्यः सामरदैत्येषु लोकेषु हरिसत्तमाः || ३||

तेष्वेवं हतवीरेषु राक्षसेषु हनूमता |

किमन्यदत्र कर्तव्यं गृहीत्वा याम जानकीम् || ४||

तमेवं कृतसङ्कल्पं जाम्बवान्हरिसत्तमः |

उवाच परमप्रीतो वाक्यमर्थवदर्थवित् || ५||

न तावदेषा मतिरक्षमा नो

यथा भवान्पश्यति राजपुत्र |

यथा तु रामस्य मतिर्निविष्टा

तथा भवान्पश्यतु कार्यसिद्धिम् || ६||

6

1448

The Prince Regent Angada says that as Shri Hanuman already created havoc in Lanka and killed many important demons, he proposes to go to Lanka and bring back Seeta with them and present her Shri Rama.  

However, the elder Jambavan says that Shri Rama send them to find where Sita is and did not say to bring Sita with them.

61

ततो जाम्बवतो वाक्यमगृह्णन्त वनौकसः |
अङ्गदप्रमुखा वीरा हनूमांश्च महाकपिः || १||

प्रीतिमन्तस्ततः सर्वे वायुपुत्रपुरःसराः |
महेन्द्राग्रं परित्यज्य पुप्लुवुः प्लवगर्षभाः || २||

मेरुमन्दरसङ्काशा मत्ता इव महागजाः |
छादयन्त इवाकाशं महाकाया महाबलाः || ३||

सभाज्यमानं भूतैस्तमात्मवन्तं महाबलम् |
हनूमन्तं महावेगं वहन्त इव दृष्टिभिः || ४||

राघवे चार्थनिर्वृत्तिं भर्तुश्च परमं यशः |
समाधाय समृद्धार्थाः कर्मसिद्धिभिरुन्नताः || ५||

प्रियाख्यानोन्मुखाः सर्वे सर्वे युद्धाभिनन्दिनः |
सर्वे रामप्रतीकारे निश्चितार्था मनस्विनः || ६||

प्लवमानाः खमाप्लुत्य ततस्ते काननौक्षकः |
नन्दनोपममासेदुर्वनं द्रुमलतायुतम् || ७||

यत्तन्मधुवनं नाम सुग्रीवस्याभिरक्षितम् |
अधृष्यं सर्वभूतानां सर्वभूतमनोहरम् || ८||

यद्रक्षति महावीर्यः सदा दधिमुखः कपिः |
मातुलः कपिमुख्यस्य सुग्रीवस्य महात्मनः || ९||

ते तद्वनमुपागम्य बभूवुः परमोत्कटाः |
वानरा वानरेन्द्रस्य मनःकान्ततमं महत् || १०||

ततस्ते वानरा हृष्टा दृष्ट्वा मधुवनं महत् |
कुमारमभ्ययाचन्त मधूनि मधुपिङ्गलाः || ११||

ततः कुमारस्तान्वृद्धाञ्जाम्बवत्प्रमुखान्कपीन् |
अनुमान्य ददौ तेषां निसर्गं मधुभक्षणे || १२||

ततश्चानुमताः सर्वे सम्प्रहृष्टा वनौकसः |
मुदिताश्च ततस्ते च प्रनृत्यन्ति ततस्ततः || १३||

गायन्ति के चित्प्रणमन्ति के चिन्
नृत्यन्ति के चित्प्रहसन्ति के चित् |
पतन्ति के चिद्विचरन्ति के चित्
प्लवन्ति के चित्प्रलपन्ति के चित् || १४||

परस्परं के चिदुपाश्रयन्ते
परस्परं के चिदतिब्रुवन्ते |
द्रुमाद्द्रुमं के चिदभिप्लवन्ते
क्षितौ नगाग्रान्निपतन्ति के चित् || १५||

महीतलात्के चिदुदीर्णवेगा
महाद्रुमाग्राण्यभिसम्पतन्ते |
गायन्तमन्यः प्रहसन्नुपैति
हसन्तमन्यः प्रहसन्नुपैति || १६||

रुदन्तमन्यः प्ररुदन्नुपैति
नुदन्तमन्यः प्रणुदन्नुपैति |
समाकुलं तत्कपिसैन्यमासीन्
मधुप्रपानोत्कट सत्त्वचेष्टम् |
न चात्र कश्चिन्न बभूव मत्तो
न चात्र कश्चिन्न बभूव तृप्तो || १७||

ततो वनं तत्परिभक्ष्यमाणं
द्रुमांश्च विध्वंसितपत्रपुष्पान् |
समीक्ष्य कोपाद्दधिवक्त्रनामा
निवारयामास कपिः कपींस्तान् || १८||

स तैः प्रवृद्धैः परिभर्त्स्यमानो
वनस्य गोप्ता हरिवीरवृद्धः |
चकार भूयो मतिमुग्रतेजा
वनस्य रक्षां प्रति वानरेभ्यः || १९||

उवाच कांश्चित्परुषाणि धृष्टम्
असक्तमन्यांश्च तलैर्जघान |
समेत्य कैश्चित्कलहं चकार
तथैव साम्नोपजगाम कांश् चित् || २०||

स तैर्मदाच्चाप्रतिवार्य वेगैर्
बलाच्च तेनाप्रतिवार्यमाणैः |
प्रधर्षितस्त्यक्तभयैः समेत्य
प्रकृष्यते चाप्यनवेक्ष्य दोषम् || २१||

नखैस्तुदन्तो दशनैर्दशन्तस्
तलैश्च पादैश्च समाप्नुवन्तः |
मदात्कपिं तं कपयः समग्रा
महावनं निर्विषयं च चक्रुः || २२||

22

1470

Leaving Mahendra Mountain and leaping ahead towards Kishkindha, the monkeys on their way halt at Madhuvana, which is a protected grove abundant in honey and was dear to Sugreeva and guarded by the Vanara, Dahimukha. When the vanaras started to enjoy drinking of honey in the grove with the permission of Prince Angada, Dadhimukha stops them. The vanaras attack and bruise Dadhimukha and other guards with their nails and teeth.

इत्यार्षे श्री रामायणे सुन्दरकाण्डे विंशतिः भाग:

Sundarakāṇḍa Part-19

Sundarakāṇḍa Part-21

 

No comments:

Post a Comment