सुन्दरकाण्ड - Sundarakāṇḍa (भाग - २१
;;; Part – 21)
|
Sarga
number as per Ramayana |
Shlokas
extracted |
No. of shlokas |
Cumulative number of shlokas in this Kanda |
|
58 (Part – 1) |
ततस्तस्य गिरेः शृङ्गे महेन्द्रस्य महाबलाः | तं
ततः प्रतिसंहृष्टः प्रीतिमन्तं महाकपिम् | कथं
दृष्टा त्वया देवी कथं वा तत्र वर्तते | तत्त्वतः सर्वमेतन्नः प्रब्रूहि त्वं महाकपे | यश्चार्थस्तत्र वक्तव्यो गतैरस्माभिरात्मवान् | स
नियुक्तस्ततस्तेन सम्प्रहृष्टतनूरुहः | प्रत्यक्षमेव भवतां महेन्द्राग्रात्खमाप्लुतः | गच्छतश्च हि मे घोरं विघ्नरूपमिवाभवत् | स्थितं पन्थानमावृत्य मेने विघ्नं च तं नगम् || ९|| उपसङ्गम्य तं दिव्यं काञ्चनं नगसत्तमम् | प्रहतं च मया तस्य लाङ्गूलेन महागिरेः | व्यवसायं च मे बुद्ध्वा स होवाच महागिरिः | पितृव्यं चापि मां विद्धि सखायं मातरिश्वनः | पक्ष्ववन्तः पुरा पुत्र बभूवुः पर्वतोत्तमाः | श्रुत्वा नगानां चरितं महेन्द्रः पाकशासनः | अहं
तु मोक्षितस्तस्मात्तव पित्रा महात्मना | रामस्य च मया साह्ये वर्तितव्यमरिन्दम | एतच्छ्रुत्वा मया तस्य मैनाकस्य महात्मनः | तेन
चाहमनुज्ञातो मैनाकेन महात्मना | ततोऽहं सुचिरं कालं वेगेनाभ्यगमं पथि | समुद्रमध्ये सा देवी वचनं मामभाषत | एवमुक्तः सुरसया प्राञ्जलिः प्रणतः स्थितः | रामो
दाशरथिः श्रीमान्प्रविष्टो दण्डकावनम् | तस्य
सीता हृता भार्या रावणेन दुरात्मना | कर्तुमर्हसि रामस्य साह्यं विषयवासिनि || २५|| अथ
वा मैथिलीं दृष्ट्वा रामं चाक्लिष्टकारिणम् | एवमुक्ता मया सा तु सुरसा कामरूपिणी | एवमुक्तः सुरसया दशयोजनमायतः | मत्प्रमाणानुरूपं च व्यादितं तन्मुखं तया | तस्मिन्मुहूर्ते च पुनर्बभूवाङ्गुष्ठसंमितः | अब्रवीत्सुरसा देवी स्वेन रूपेण मां पुनः | समानय
च वैदेहीं राघवेण महात्मना | ततोऽहं साधु साध्वीति सर्वभूतैः प्रशंसितः | छाया
मे निगृहीता च न च पश्यामि किं चन | ततो
मे बुद्धिरुत्पन्ना किं नाम गमने मम | अधो
भागेन मे दृष्टिः शोचता पातिता मया | प्रहस्य च महानादमुक्तोऽहं भीमया तया | क्वासि गन्ता महाकाय क्षुधिताया ममेप्सितः | बाढमित्येव तां वाणीं प्रत्यगृह्णामहं ततः | तस्याश्चास्यं महद्भीमं वर्धते मम भक्षणे | ततोऽहं विपुलं रूपं सङ्क्षिप्य निमिषान्तरात् | सा
विसृष्टभुजा भीमा पपात लवणाम्भसि | शृणोमि खगतानां च सिद्धानां चारणैः सह | तां
हत्वा पुनरेवाहं कृत्यमात्ययिकं स्मरन् | अस्तं
दिनकरे याते रक्षसां निलयं पुरीम् | तत्राहं सर्वरात्रं तु विचिन्वञ्जनकात्मजाम् | ततः
सीतामपश्यंस्तु रावणस्य निवेशने | शोचता
च मया दृष्टं प्राकारेण समावृतम् | स
प्राकारमवप्लुत्य पश्यामि बहुपादपम् || ४९|| अशोकवनिकामध्ये शिंशपापादपो महान् | अदूराच्छिंशपावृक्षात्पश्यामि वनवर्णिनीम् | राक्षसीभिर्विरूपाभिः क्रूराभिरभिसंवृताम् | तां
दृष्ट्वा तादृशीं नारीं रामपत्नीमनिन्दिताम् | ततो
हलहलाशब्दं काञ्चीनूपुरमिश्रितम् | ततोऽहं परमोद्विग्नः स्वरूपं प्रत्यसंहरम् | ततो
रावणदाराश्च रावणश्च महाबलः | तं
दृष्ट्वाथ वरारोहा सीता रक्षोगणेश्वरम् | तामुवाच दशग्रीवः सीतां परमदुःखिताम् | यदि
चेत्त्वं तु मां दर्पान्नाभिनन्दसि गर्विते | एतच्छ्रुत्वा वचस्तस्य रावणस्य दुरात्मनः | राक्षसाधम रामस्य भार्याममिततेजसः | किंस्विद्वीर्यं तवानार्य यो मां भर्तुरसंनिधौ | न
त्वं रामस्य सदृशो दास्येऽप्यस्या न युज्यसे | जानक्या परुषं वाक्यमेवमुक्तो दशाननः | विवृत्य नयने क्रूरे मुष्टिमुद्यम्य दक्षिणम् | स्त्रीणां मध्यात्समुत्पत्य तस्य भार्या दुरात्मनः | उक्तश्च मधुरां वाणीं तया स मदनार्दितः | देवगन्धर्वकन्याभिर्यक्षकन्याभिरेव च | ततस्ताभिः समेताभिर्नारीभिः स महाबलः | याते
तस्मिन्दशग्रीवे राक्षस्यो विकृताननाः | तृणवद्भाषितं तासां गणयामास जानकी | वृथागर्जितनिश्चेष्टा राक्षस्यः पिशिताशनाः | ततस्ताः सहिताः सर्वा विहताशा निरुद्यमाः | तासु
चैव प्रसुप्तासु सीता भर्तृहिते रता | तां
चाहं तादृशीं दृष्ट्वा सीताया दारुणां दशाम् | सम्भाषणार्थे च मया जानक्याश्चिन्तितो विधिः | श्रुत्वा तु गदितां वाचं राजर्षिगणपूजिताम् | कस्त्वं केन कथं चेह प्राप्तो वानरपुङ्गव | तस्यास्तद्वचनं श्रुत्वा अहमप्यब्रुवं वचः | तस्य
मां विद्धि भृत्यं त्वं हनूमन्तमिहागतम् | इदं
च पुरुषव्याघ्रः श्रीमान्दाशरथिः स्वयम् | तदिच्छामि त्वयाज्ञप्तं देवि किं करवाण्यहम् | एतच्छ्रुत्वा विदित्वा च सीता जनकनन्दिनी | प्रणम्य शिरसा देवीमहमार्यामनिन्दिताम् | एवमुक्ता वरारोहा मणिप्रवरमुत्तमम् | ततस्तस्यै प्रणम्याहं राजपुत्र्यै समाहितः | उत्तरं पुनरेवाह निश्चित्य मनसा तदा | यथा
श्रुत्वैव नचिरात्तावुभौ रामलक्ष्मणौ | यद्यन्यथा भवेदेतद्द्वौ मासौ जीवितं मम | तच्छ्रुत्वा करुणं वाक्यं क्रोधो माम् अभ्यवर्तत | ततोऽवर्धत मे कायस्तदा पर्वतसंनिभः | तद्भग्नं वनषण्डं तु भ्रान्तत्रस्तमृगद्विजम् | मां
च दृष्ट्वा वने तस्मिन्समागम्य ततस्ततः | राजन्वनमिदं दुर्गं तव भग्नं दुरात्मना | दुर्बुद्धेस्तस्य राजेन्द्र तव विप्रियकारिणः | तच्छ्रुत्वा राक्षसेन्द्रेण विसृष्टा भृशदुर्जयाः | तेषामशीतिसाहस्रं शूलमुद्गरपाणिनाम् | तेषां
तु हतशेषा ये ते गता लघुविक्रमाः | ततो
मे बुद्धिरुत्पन्ना चैत्यप्रासादमाक्रमम् || ९९|| तत्रस्थान्राक्षसान्हत्वा शतं स्तम्भेन वै पुनः | |
100 |
1900 |
|
Shri Hanuman narrates
all the events occurred during his journey to Lanka, ie., · His encounter with Mainaka Mountain · His encounter with Surasa, his entry
into her mouth and coming out · His killing the water-born creature Simhika · His encounter with Lankhini and entry
into Lanka in a shrank form · His search in Lanka for Seeta · His finding Seeta in Ashoka Garden in
Lanka · The heated debate between Ravana and
Seeta · His approaching Seeta and convincing
her · The destruction of Ashoka Garden and
eliminating 80,000 demons and demolition of beautiful mansion in Ashoka
Garden and killing of the guards …… contd.. |
|||
इत्यार्षे श्री
रामायणे सुन्दरकाण्डे एकविंशतिः भाग:
No comments:
Post a Comment