सुन्दरकाण्ड - Sundarakāṇḍa (भाग - २२ ;;; Part – 22)
|
Sarga
number as per Ramayana |
Shlokas extracted |
No. of shlokas |
Cumulative number of shlokas in this
Kanda |
|
58 (Part – 2) |
ततः
प्रहस्तस्य सुतं जम्बुमालिनमादिशत् || १०१|| तमहं
बलसम्पन्नं राक्षसं रणकोविदम् | तच्छ्रुत्वा राक्षसेन्द्रस्तु मन्त्रिपुत्रान्महाबलान् | मन्त्रिपुत्रान्हताञ्श्रुत्वा समरे लघुविक्रमान् | ततः
पुनर्दशग्रीवः पुत्रमक्षं महाबलम् | तं
तु मन्दोदरी पुत्रं कुमारं रणपण्डितम् | तमक्षमागतं भग्नं निशम्य स दशाननः | तस्याप्यहं बलं सर्वं तं च राक्षसपुङ्गवम् | महता
हि महाबाहुः प्रत्ययेन महाबलः | ब्राह्मेणास्त्रेण स तु मां प्रबध्नाच्चातिवेगतः | रावणस्य समीपं च गृहीत्वा मामुपानयन् | पृष्टश्च लङ्कागमनं राक्षसानां च तद्वधम् | अस्याहं दर्शनाकाङ्क्षी प्राप्तस्त्वद्भवनं विभो | रामदूतं च मां विद्धि सुग्रीवसचिवं कपिम् | शृणु
चापि समादेशं यदहं प्रब्रवीमि ते | वसतो
ऋष्यमूके मे पर्वते विपुलद्रुमे | तेन
मे कथितं राजन्भार्या मे रक्षसा हृता | वालिना हृतराज्येन सुग्रीवेण सह प्रभुः | तेन
वालिनमुत्साद्य शरेणैकेन संयुगे | तस्य
साहाय्यमस्माभिः कार्यं सर्वात्मना त्विह | क्षिप्रमानीयतां सीता दीयतां राघवस्य च | वानराणां प्रभवो हि न केन विदितः पुरा | इति
वानरराजस्त्वामाहेत्यभिहितो मया | तेन
वध्योऽहमाज्ञप्तो रक्षसा रौद्रकर्मणा || १२४|| ततो
विभीषणो नाम तस्य भ्राता महामतिः | दूतवध्या न दृष्टा हि राजशास्त्रेषु राक्षस | सुमहत्यपराधेऽपि दूतस्यातुलविक्रमः | विभीषणेनैवमुक्तो रावणः सन्दिदेश तान् | ततस्तस्य वचः श्रुत्वा मम पुच्छं समन्ततः | राक्षसाः सिद्धसंनाहास्ततस्ते चण्डविक्रमाः | बद्धस्य बहुभिः पाशैर्यन्त्रितस्य च राक्षसैः | ततस्ते राक्षसाः शूरा बद्धं मामग्निसंवृतम् | ततोऽहं सुमहद्रूपं सङ्क्षिप्य पुनरात्मनः | आयसं
परिघं गृह्य तानि रक्षांस्यसूदयम् | पुच्छेन च प्रदीप्तेन तां पुरीं साट्टगोपुराम् | दग्ध्वा लङ्कां पुनश्चैव शङ्का माम् अभ्यवर्तत | अथाहं
वाचमश्रौषं चारणानां शुभाक्षराम् | ततो
मे बुद्धिरुत्पन्ना श्रुत्वा तामद्भुतां गिरम् | राघवस्य प्रभावेन भवतां चैव तेजसा | एतत्सर्वं मया तत्र यथावदुपपादितम् | |
40 |
1940 |
|
Shri Hanuman narrates
all the events occurred during his journey to Lanka, ie., · His killing of Jambumali, other demon
warriors, Aksha, the son of Ravana · His encounter with Indrajit and his
getting captured and getting audience of Ravana · His debate with Ravana and his tail
put to fire by demons · His act of putting the entire Lanka on
fire ·
His
visiting Seeta again and coming back |
|||
|
59 60 |
एतदाख्यानं तत्सर्वं हनूमान्मारुतात्मजः | सफलो
राघवोद्योगः सुग्रीवस्य च सम्भ्रमः | आर्यायाः सदृशं शीलं सीतायाः प्लवगर्षभाः | सर्वथातिप्रवृद्धोऽसौ रावणो राक्षसाधिपः | न
तदग्निशिखा कुर्यात्संस्पृष्टा पाणिना सती | अशोकवनिकामध्ये रावणस्य दुरात्मनः | राक्षसीभिः परिवृता शोकसन्तापकर्शिता | अचिन्तयन्ती वैदेही रावणं बलदर्पितम् | अनुरक्ता हि वैदेही रामं सर्वात्मना शुभा | तदेकवासःसंवीता रजोध्वस्ता तथैव च | सा
मया राक्षसी मध्ये तर्ज्यमाना मुहुर्मुहुः | एकवेणीधरा दीना भर्तृचिन्तापरायणा | रावणाद्विनिवृत्तार्था मर्तव्यकृतनिश्चया | ततः
सम्भाषिता चैव सर्वमर्थं च दर्शिता | नियतः
समुदाचारो भक्तिर्भर्तरि चोत्तमा || १५|| यन्न
हन्ति दशग्रीवं स महात्मा दशाननः | एवमास्ते महाभागा सीता शोकपरायणा | तस्य
तद्वचनं श्रुत्वा वालिसूनुरभाषत | अयुक्तं तु विना देवीं दृष्टबद्भिः प्लवङ्गमाः | समीपं
गन्तुमस्माभी राघवस्य महात्मनः || १८|| दृष्टा देवी न चानीता इति तत्र निवेदनम् | अयुक्तमिव पश्यामि भवद्भिः ख्यातविक्रमैः || १९|| न
हि वः प्लवते कश्चिन्नापि कश्चित्पराक्रमे | तुल्यः सामरदैत्येषु लोकेषु हरिसत्तमाः || २०|| तेष्वेवं हतवीरेषु राक्षसेषु हनूमता | किमन्यदत्र कर्तव्यं गृहीत्वा याम जानकीम् || २१|| तमेवं
कृतसङ्कल्पं जाम्बवान्हरिसत्तमः | उवाच
परमप्रीतो वाक्यमर्थवदर्थवित् || २२|| न
तावदेषा मतिरक्षमा नो यथा
भवान्पश्यति राजपुत्र | यथा
तु रामस्य मतिर्निविष्टा तथा
भवान्पश्यतु कार्यसिद्धिम् || २३|| |
23 |
1963 |
|
Describing the
pitiable condition of Seeta, Shri Hanuman asks the Vanaras to think over to
do something beneficial to Sita. The
Prince Regent Angada says that as Shri Hanuman already created havoc in Lanka
and killed many important demons, he proposes to go to Lanka and bring back
Seeta with them and present her Shri Rama.
However, the elder Jambavan says that Shri Rama send them to find where Sita is and did not say to bring Sita with them. |
|||
|
61 |
ततो
जाम्बवतो वाक्यमगृह्णन्त वनौकसः | प्रीतिमन्तस्ततः सर्वे वायुपुत्रपुरःसराः | मेरुमन्दरसङ्काशा मत्ता इव महागजाः | सभाज्यमानं भूतैस्तमात्मवन्तं महाबलम् | राघवे
चार्थनिर्वृत्तिं भर्तुश्च परमं यशः | प्रियाख्यानोन्मुखाः सर्वे सर्वे युद्धाभिनन्दिनः | प्लवमानाः खमाप्लुत्य ततस्ते काननौक्षकः | यत्तन्मधुवनं नाम सुग्रीवस्याभिरक्षितम् | यद्रक्षति महावीर्यः सदा दधिमुखः कपिः | ते
तद्वनमुपागम्य बभूवुः परमोत्कटाः | ततस्ते वानरा हृष्टा दृष्ट्वा मधुवनं महत् | ततः
कुमारस्तान्वृद्धाञ्जाम्बवत्प्रमुखान्कपीन् | ततश्चानुमताः सर्वे सम्प्रहृष्टा वनौकसः | गायन्ति के चित्प्रणमन्ति के चिन् परस्परं के चिदुपाश्रयन्ते महीतलात्के चिदुदीर्णवेगा रुदन्तमन्यः प्ररुदन्नुपैति ततो
वनं तत्परिभक्ष्यमाणं स
तैः प्रवृद्धैः परिभर्त्स्यमानो उवाच
कांश्चित्परुषाणि धृष्टम् स
तैर्मदाच्चाप्रतिवार्य वेगैर् नखैस्तुदन्तो दशनैर्दशन्तस् |
22 |
1985 |
|
Leaving Mahendra
Mountain and leaping ahead towards Kishkindha, the monkeys on their way halt
at Madhuvana, which is a protected grove abundant in honey and was dear to
Sugreeva and guarded by the Vanara, Dahimukha. When the vanaras started to
enjoy drinking of honey in the grove with the permission of Prince Angada, Dadhimukha
stops them. The vanaras attack and bruise Dadhimukha and other guards with
their nails and teeth. |
|||
इत्यार्षे श्री
रामायणे सुन्दरकाण्डे द्वाविंशति: भाग:
No comments:
Post a Comment