Thursday, January 1, 2026

सुन्दरकाण्ड - Sundarakāṇḍa (भाग - ४ ;;; Part – 4)

 

सुन्दरकाण्ड - Sundarakāṇḍa (भाग - ;;; Part – 4)


Sarga number as per Ramayana

Shlokas extracted

No. of shlokas

Cumulative number of shlokas in this Kanda

11

अवधूय च तां बुद्धिं बभूवावस्थितस्तदा |
जगाम चापरां चिन्तां सीतां प्रति महाकपिः || १||

न रामेण वियुक्ता सा स्वप्तुमर्हति भामिनी |
न भोक्तुं नाप्यलङ्कर्तुं न पानमुपसेवितुम् || २||

नान्यं नरमुपस्थातुं सुराणामपि चेश्वरम् |
न हि रामसमः कश्चिद्विद्यते त्रिदशेष्वपि |
अन्येयमिति निश्चित्य पानभूमौ चचार सः || ३||

सर्वकामैरुपेतां च पानभूमिं महात्मनः |
ददर्श कपिशार्दूलस्तस्य रक्षःपतेर्गृहे || ४||

मृगाणां महिषाणां च वराहाणां च भागशः |
तत्र न्यस्तानि मांसानि पानभूमौ ददर्श सः || ५||

रौक्मेषु च विशलेषु भाजनेष्वर्धभक्षितान् |
ददर्श कपिशार्दूल मयूरान्कुक्कुटांस्तथा || ६||

वराहवार्ध्राणसकान्दधिसौवर्चलायुतान् |
शल्यान्मृगमयूरांश्च हनूमानन्ववैक्षत || ७||

कृकरान्विविधान्सिद्धांश्चकोरानर्धभक्षितान् |
महिषानेकशल्यांश्च छागांश्च कृतनिष्ठितान् |
लेख्यमुच्चावचं पेयं भोज्यानि विविधानि च || ८||

तथाम्ललवणोत्तंसैर्विविधै रागषाडवैः |
हार नूपुरकेयूरैरपविद्धैर्महाधनैः || ९||

पानभाजनविक्षिप्तैः फलैश् च विविधैरपि |
कृतपुष्पोपहारा भूरधिकं पुष्यति श्रियम् || १०||

तत्र तत्र च विन्यस्तैः सुश्लिष्टैः शयनासनैः |
पानभूमिर्विना वह्निं प्रदीप्तेवोपलक्ष्यते || ११||

बहुप्रकारैर्विविधैर्वरसंस्कारसंस्कृतैः |
मांसैः कुशलसंयुक्तैः पानभूमिगतैः पृथक् || १२||

दिव्याः प्रसन्ना विविधाः सुराः कृतसुरा अपि |
शर्करासवमाध्वीकाः पुष्पासवफलासवाः |
वासचूर्णैश्च विविधैर्मृष्टास्तैस्तैः पृथक्पृथक् || १३||

सन्तता शुशुभे भूमिर्माल्यैश्च बहुसंस्थितैः |
हिरण्मयैश्च करकैर्भाजनैः स्फाटिकैरपि |
जाम्बूनदमयैश्चान्यैः करकैरभिसंवृता || १४||

राजतेषु च कुम्भेषु जाम्बूनदमयेषु च |
पानश्रेष्ठं तदा भूरि कपिस्तत्र ददर्श ह || १५||

सोऽपश्यच्छातकुम्भानि शीधोर्मणिमयानि च |
राजतानि च पूर्णानि भाजनानि महाकपिः || १६||

क्व चिदर्धावशेषाणि क्व चित्पीतानि सर्वशः |
क्व चिन्नैव प्रपीतानि पानानि स ददर्श ह || १७||

क्व चिद्भक्ष्यांश्च विविधान्क्व चित्पानानि भागशः |
क्व चिदन्नावशेषाणि पश्यन्वै विचचार ह || १८||

क्व चित्प्रभिन्नैः करकैः क्व चिदालोडितैर्घटैः |
क्व चित्सम्पृक्तमाल्यानि जलानि च फलानि च || १९||

निरीक्षमाणश्च ततस्ताः स्त्रियः स महाकपिः |
जगाम महतीं चिन्तां धर्मसाध्वसशङ्कितः || २०||

परदारावरोधस्य प्रसुप्तस्य निरीक्षणम् |
इदं खलु ममात्यर्थं धर्मलोपं करिष्यति || २१||

न हि मे परदाराणां दृष्टिर्विषयवर्तिनी |
अयं चात्र मया दृष्टः परदारपरिग्रहः ||२२||

तस्य प्रादुरभूच्चिन्तापुनरन्या मनस्विनः |
निश्चितैकान्तचित्तस्य कार्यनिश्चयदर्शिनी || २३||

कामं दृष्ट्वा मया सर्वा विश्वस्ता रावणस्त्रियः |
न तु मे मनसः किं चिद्वैकृत्यमुपपद्यते || २४||

मनो हि हेतुः सर्वेषामिन्द्रियाणां प्रवर्तते |
शुभाशुभास्ववस्थासु तच्च मे सुव्यवस्थितम् || २५||

नान्यत्र हि मया शक्या वैदेही परिमार्गितुम् |
स्त्रियो हि स्त्रीषु दृश्यन्ते सदा सम्परिमार्गणे ||२६||

यस्य सत्त्वस्य या योनिस्तस्यां तत्परिमार्ग्यते |
न शक्यं प्रमदा नष्टा मृगीषु परिमार्गितुम् || २७||

तदिदं मार्गितं तावच्छुद्धेन मनसा मया |
रावणान्तःपुरं सरं दृश्यते न च जानकी || २८||

देवगन्धर्वकन्याश्च नागकन्याश्च वीर्यवान् |
अवेक्षमाणो हनुमान्नैवापश्यत जानकीम् || २९||

तामपश्यन्कपिस्तत्र पश्यंश्चान्या वरस्त्रियः |
अपक्रम्य तदा वीरः प्रध्यातुमुपचक्रमे || ३०||

30

179

Pondering over again and realizing that the woman he saw at Ravana's house was not Seetha, Shri Hanuman begins to search again for Seetha in that Lanka.

12

स तस्य मध्ये भवनस्य वानरो
लतागृहांश्चित्रगृहान्निशागृहान् |
जगाम सीतां प्रति दर्शनोत्सुको
न चैव तां पश्यति चारुदर्शनाम् || १||

स चिन्तयामास ततो महाकपिः
प्रियामपश्यन्रघुनन्दनस्य ताम् |
ध्रुवं नु सीता म्रियते यथा न मे
विचिन्वतो दर्शनमेति मैथिली || २||

सा राक्षसानां प्रवरेण बाला
स्वशीलसंरक्षण तत्परा सती |
अनेन नूनं प्रतिदुष्टकर्मणा
हता भवेदार्यपथे परे स्थिता || ३||

विरूपरूपा विकृता विवर्चसो
महानना दीर्घविरूपदर्शनाः |
समीक्ष्य सा राक्षसराजयोषितो
भयाद्विनष्टा जनकेश्वरात्मजा || ४||

सीतामदृष्ट्वा ह्यनवाप्य पौरुषं
विहृत्य कालं सह वानरैश् चिरम् |
न मेऽस्ति सुग्रीवसमीपगा गतिः
सुतीक्ष्णदण्डो बलवांश्च वानरः || ५||

दृष्टमन्तःपुरं सर्वं दृष्ट्वा रावणयोषितः |
न सीता दृश्यते साध्वी वृथा जातो मम श्रमः || ६||

किं नु मां वानराः सर्वे गतं वक्ष्यन्ति सङ्गताः |
गत्वा तत्र त्वया वीर किं कृतं तद्वदस्व नः || ७||

अदृष्ट्वा किं प्रवक्ष्यामि तामहं जनकात्मजाम् |
ध्रुवं प्रायमुपेष्यन्ति कालस्य व्यतिवर्तने || ८||

किं वा वक्ष्यति वृद्धश्च जाम्बवानङ्गदश्च सः |
गतं पारं समुद्रस्य वानराश्च समागताः || ९||

अनिर्वेदः श्रियो मूलमनिर्वेदः परं सुखम् |
भूयस्तावद्विचेष्यामि न यत्र विचयः कृतः || १०||

अनिर्वेदो हि सततं सर्वार्थेषु प्रवर्तकः |
करोति सफलं जन्तोः कर्म यच्च करोति सः || ११||

तस्मादनिर्वेद कृतं यत्नं चेष्टेऽहमुत्तमम् |
अदृष्टांश्च विचेष्यामि देशान्रावणपालितान् || १२||

आपानशालाविचितास्तथा पुष्पगृहाणि च |
चित्रशालाश्च विचिता भूयः क्रीडागृहाणि च || १३||

निष्कुटान्तररथ्याश्च विमानानि च सर्वशः |
इति सञ्चिन्त्य भूयोऽपि विचेतुमुपचक्रमे || १४||

भूमीगृहांश्चैत्यगृहान्गृहातिगृहकानपि |
उत्पतन्निपतंश्चापि तिष्ठन्गच्छन्पुनः क्व चित् || १५||

अपावृण्वंश्च द्वाराणि कपाटान्यवघट्टयन् |
प्रविशन्निष्पतंश्चापि प्रपतन्नुत्पतन्नपि |
सर्वमप्यवकाशं स विचचार महाकपिः || १६||

चतुरङ्गुलमात्रोऽपि नावकाशः स विद्यते |
रावणान्तःपुरे तस्मिन्यं कपिर्न जगाम सः || १७||

सोऽपश्यंस्तां महाबाहुः पश्यंश्चान्या वरस्त्रियः |
विषसाद महाबाहुर्हनूमान्मारुतात्मजः || १८||

18

197

Shri Hanuman gets depressed, as he could not find Seeta inspite of repeated searches.  He thinks that Seetha might be dead and thus, gets into pessimistic mood for a moment.

13

विमानात्तु सुसङ्क्रम्य प्राकारं हरियूथपः |
हनूमान्वेगवानासीद्यथा विद्युद्घनान्तरे || १||

सम्परिक्रम्य हनुमान्रावणस्य निवेशनान् |
अदृष्ट्वा जानकीं सीतामब्रवीद्वचनं कपिः || २||

भूयिष्ठं लोडिता लङ्का रामस्य चरता प्रियम् |
न हि पश्यामि वैदेहीं सीतां सर्वाङ्गशोभनाम् || ३||

पल्वलानि तटाकानि सरांसि सरितस्तथा |
नद्योऽनूपवनान्ताश्च दुर्गाश्च धरणीधराः |
लोडिता वसुधा सर्वा न च पश्यामि जानकीम् || ४||

इह सम्पातिना सीता रावणस्य निवेशने |
आख्याता गृध्रराजेन न च पश्यामि ताम् अहम् || ५||

अशोकवनिका चापि महतीयं महाद्रुमा |
इमामभिगमिष्यामि न हीयं विचिता मया || ६||

वसून्रुद्रांस्तथादित्यानश्विनौ मरुतोऽपि च |
नमस्कृत्वा गमिष्यामि रक्षसां शोकवर्धनः || ७||

जित्वा तु राक्षसान्देवीमिक्ष्वाकुकुलनन्दिनीम् |
सम्प्रदास्यामि रामाया यथासिद्धिं तपस्विने ||८||

स मुहूर्तमिव ध्यात्वा चिन्ताविग्रथितेन्द्रियः |
उदतिष्ठन्महाबाहुर्हनूमान्मारुतात्मजः || ९||

नमोऽस्तु रामाय सलक्ष्मणाय
देव्यै च तस्यै जनकात्मजायै |
नमोऽस्तु रुद्रेन्द्रयमानिलेभ्यो
नमोऽस्तु चन्द्रार्कमरुद्गणेभ्यः || १०||

स तेभ्यस्तु नमस्कृत्वा सुग्रीवाय च मारुतिः |
दिशः सर्वाः समालोक्य अशोकवनिकां प्रति || ११||

11

208

Shri Hanuman overcomes his initial depressed mood, and thinks to search the Ashoka garden which was not searched till then.

इत्यार्षे श्री रामायणे सुन्दरकाण्डे चतुर्थ: भाग:

 

Sundarakāṇḍa Part-3

Sundarakāṇḍa Part-5

 

No comments:

Post a Comment