Thursday, January 1, 2026

सुन्दरकाण्ड - Sundarakāṇḍa (भाग - ४ ;;; Part – 4)

 

सुन्दरकाण्ड - Sundarakāṇḍa (भाग - ;;; Part – 4)

Sarga number as per Ramayana

Shlokas extracted

No. of shlokas

Cumulative number of shlokas in this Kanda

6

स निकामं विनामेषु विचरन्कामरूपधृक् |
विचचार कपिर्लङ्कां लाघवेन समन्वितः || १||

आससादाथ लक्ष्मीवान्राक्षसेन्द्रनिवेशनम् |
प्राकारेणार्कवर्णेन भास्वरेणाभिसंवृतम् || २||

रक्षितं राक्षसैर्भीमैः सिंहैरिव महद्वनम् |
समीक्षमाणो भवनं चकाशे कपिकुञ्जरः || ३||

रूप्यकोपहितैश्चित्रैस्तोरणैर्हेमभूषितैः |
विचित्राभिश्च कक्ष्याभिर्द्वारैश्च रुचिरैर्वृतम् || ४||

गजास्थितैर्महामात्रैः शूरैश्च विगतश्रमैः |
उपस्थितमसंहार्यैर्हयैः स्यन्दनयायिभिः || ५||

सिंहव्याघ्रतनुत्राणैर्दान्तकाञ्चनराजतैः |
घोषवद्भिर्विचित्रैश्च सदा विचरितं रथैः || ६||

बहुरत्नसमाकीर्णं परार्ध्यासनभाजनम् |
महारथसमावासं महारथमहासनम् || ७||

दृश्यैश्च परमोदारैस्तैस्तैश्च मृगपक्षिभिः |
विविधैर्बहुसाहस्रैः परिपूर्णं समन्ततः || ८||

विनीतैरन्तपालैश्च रक्षोभिश्च सुरक्षितम् |
मुख्याभिश्च वरस्त्रीभिः परिपूर्णं समन्ततः || ९||

मुदितप्रमदा रत्नं राक्षसेन्द्रनिवेशनम् |
वराभरणनिर्ह्रादैः समुद्रस्वननिःस्वनम् || १०||

तद्राजगुणसम्पन्नं मुख्यैश्च वरचन्दनैः |
भेरीमृदङ्गाभिरुतं शङ्खघोषविनादितम् || ११||

नित्यार्चितं पर्वहुतं पूजितं राक्षसैः सदा |
समुद्रमिव गम्भीरं समुद्रमिव निःस्वनम् || १२||

महात्मानो महद्वेश्म महारत्नपरिच्छदम् |
महाजनसमाकीर्णं ददर्श स महाकपिः || १३||

विराजमानं वपुषा गजाश्वरथसङ्कुलम् |
लङ्काभरणमित्येव सोऽमन्यत महाकपिः || १४||

गृहाद्गृहं राक्षसानामुद्यानानि च वानरः |
वीक्षमाणो ह्यसन्त्रस्तः प्रासादांश्च चचार सः || १५||

अवप्लुत्य महावेगः प्रहस्तस्य निवेशनम् |
ततोऽन्यत्पुप्लुवे वेश्म महापार्श्वस्य वीर्यवान् || १६||

अथ मेघप्रतीकाशं कुम्भकर्णनिवेशनम् |
विभीषणस्य च तथा पुप्लुवे स महाकपिः || १७||

महोदरस्य च तथा विरूपाक्षस्य चैव हि |
विद्युज्जिह्वस्य भवनं विद्युन्मालेस्तथैव च |
वज्रदंष्ट्रस्य च तथा पुप्लुवे स महाकपिः || १८||

शुकस्य च महावेगः सारणस्य च धीमतः |
तथा चेन्द्रजितो वेश्म जगाम हरियूथपः || १९||

जम्बुमालेः सुमालेश्च जगाम हरियूथपः |
रश्मिकेतोश्च भवनं सूर्यशत्रोस्तथैव च || २०||

धूम्राक्षस्य च सम्पातेर्भवनं मारुतात्मजः |
विद्युद्रूपस्य भीमस्य घनस्य विघनस्य च || २१||

शुकनाभस्य वक्रस्य शठस्य विकटस्य च |
ह्रस्वकर्णस्य दंष्ट्रस्य रोमशस्य च रक्षसः || २२||

युद्धोन्मत्तस्य मत्तस्य ध्वजग्रीवस्य नादिनः |
विद्युज्जिह्वेन्द्रजिह्वानां तथा हस्तिमुखस्य च || २३||

करालस्य पिशाचस्य शोणिताक्षस्य चैव हि |
क्रममाणः क्रमेणैव हनूमान्मारुतात्मजः || २४||

तेषु तेषु महार्हेषु भवनेषु महायशाः |
तेषामृद्धिमतामृद्धिं ददर्श स महाकपिः || २५||

सर्वेषां समतिक्रम्य भवनानि समन्ततः |
आससादाथ लक्ष्मीवान्राक्षसेन्द्रनिवेशनम् || २६||

रावणस्योपशायिन्यो ददर्श हरिसत्तमः |
विचरन्हरिशार्दूलो राक्षसीर्विकृतेक्षणाः |
शूलमुद्गरहस्ताश्च शक्तो तोमरधारिणीः || २७||

ददर्श विविधान्गुल्मांस्तस्य रक्षःपतेर्गृहे || २८||

रक्ताञ्श्वेतान्सितांश्चैव हरींश्चैव महाजवान् |
कुलीनान्रूपसम्पन्नान्गजान्परगजारुजान् || २९||

निष्ठितान्गजशिखायामैरावतसमान्युधि |
निहन्तॄन्परसैन्यानां गृहे तस्मिन्ददर्श सः || ३०||

क्षरतश्च यथा मेघान्स्रवतश्च यथा गिरीन् |
मेघस्तनितनिर्घोषान्दुर्धर्षान्समरे परैः || ३१||

सहस्रं वाहिनीस्तत्र जाम्बूनदपरिष्कृताः |
हेमजालैरविच्छिन्नास्तरुणादित्यसंनिभाः || ३२||

ददर्श राक्षसेन्द्रस्य रावणस्य निवेशने |
शिबिका विविधाकाराः स कपिर्मारुतात्मजः || ३३||

लतागृहाणि चित्राणि चित्रशालागृहाणि च |
क्रीडागृहाणि चान्यानि दारुपर्वतकानपि || ३४||

कामस्य गृहकं रम्यं दिवागृहकमेव च |
ददर्श राक्षसेन्द्रस्य रावणस्य निवेशने || ३५||

स मन्दरतलप्रख्यं मयूरस्थानसङ्कुलम् |
ध्वजयष्टिभिराकीर्णं ददर्श भवनोत्तमम् || ३६||

अनन्तरत्ननिचयं निधिजालं समन्ततः |
धीरनिष्ठितकर्मान्तं गृहं भूतपतेरिव || ३७||

अर्चिर्भिश्चापि रत्नानां तेजसा रावणस्य च |
विरराजाथ तद्वेश्म रश्मिमानिव रश्मिभिः || ३८||

जाम्बूनदमयान्येव शयनान्यासनानि च |
भाजनानि च शुभ्राणि ददर्श हरियूथपः || ३९||

मध्वासवकृतक्लेदं मणिभाजनसङ्कुलम् |
मनोरममसम्बाधं कुबेरभवनं यथा || ४०||

नूपुराणां च घोषेण काञ्चीनां निनदेन च |
मृदङ्गतलघोषैश्च घोषवद्भिर्विनादितम् || ४१||

प्रासादसङ्घातयुतं स्त्रीरत्नशतसङ्कुलम् |
सुव्यूढकक्ष्यं हनुमान्प्रविवेश महागृहम् || ४२||

42

348

Shri Hanuman searches one house after another in the city of Lanka in search of Seetha. He observes amazing wealth and riches abounding in that city of Lanka. He finally enters the huge mansion of Ravana.

8

स तस्य मध्ये भवनस्य संस्थितम् महद्विमानं मणिवज्रचित्रितम्।
प्रतप्त जंबूनदजालकृत्रिमम् ददर्श वीरः पवनात्मजः कपिः॥१||

तदप्रमेयाप्रतिकारकृत्रिमम् कृतं स्वयं साध्विति विश्वकर्मणा।
दिवं गतं वायुपथप्रतिष्टितम् व्यराजताssदित्य पथस्य लक्ष्मवत्॥ २||

नतत्र किंचि न्नकृतं प्रयत्नतो न तत्रकिंचिन्न महार्हरत्नवत्।
न ते विशेषा नियता स्सुरेष्वपि न तत्र किंचिन्न महाविशेषवत्॥ ३||
तपस्समाधानपराक्रमार्जितम् मनस्समाधानविचारचारिणम्।
अनेकसंस्थान विशेषनिर्मितम् ततस्ततस्तुल्य विशेषदर्शनम्॥ ४||

मनस्समाधाय तु शीघ्रगामिनम् दुरावरं मारुततुल्यगामिनम्।
महात्मनां पुण्यकृतां महार्थिनाम् यशस्विनामग्र्यमुदा मिवालयम्॥५||

विशेषमालांब्य विशेषसंस्थितम् विचित्रकूटं बहुकूटमंडितम्।
मनोभिरामं शरदिंदु निर्मलम् विचित्रकूटं शिखरं गिरेर्यथा ॥६||

वहंति यं कुंडलशोभिताननाः महाशना व्योमचरा निशाचराः।
विवृत विध्वस्तविशाललोचनाः महाजवा भूतगणा स्सहस्रशः॥७||

वसंतपुष्कोत्करचारुदर्शनम् वसंतमासादपि कांत दर्शनम्।
स पुष्पकं तत्र विमानमुत्तमम् ददर्श तद्वानरवीरसत्तमः॥८||

8

356

Pushpaka Vimana, an aerial car, has been narrated here.

इत्यार्षे श्री रामायणे सुन्दरकाण्डे चतुर्थ: भाग:

 

Sundarakāṇḍa Part-3

Sundarakāṇḍa Part-5

 

No comments:

Post a Comment