Thursday, January 1, 2026

सुन्दरकाण्ड - Sundarakāṇḍa (भाग - ५ ;;; Part – 5)

 

सुन्दरकाण्ड - Sundarakāṇḍa (भाग - ;;; Part – 5)

Sarga number as per Ramayana

Shlokas extracted

No. of shlokas

Cumulative number of shlokas in this Kanda

9

तस्यालयवरिष्ठस्य मध्ये विपुलमायतम् |
ददर्श भवनश्रेष्ठं हनूमान्मारुतात्मजः || १||

अर्धयोजनविस्तीर्णमायतं योजनं हि तत् |
भवनं राक्षसेन्द्रस्य बहुप्रासादसङ्कुलम् || २||

मार्गमाणस्तु वैदेहीं सीतामायतलोचनाम् |
सर्वतः परिचक्राम हनूमानरिसूदनः || ३||

चतुर्विषाणैर्द्विरदैस्त्रिविषाणैस्तथैव च |
परिक्षिप्तमसम्बाधं रक्ष्यमाणमुदायुधैः || ४||

राक्षसीभिश्च पत्नीभी रावणस्य निवेशनम् |
आहृताभिश्च विक्रम्य राजकन्याभिरावृतम् || ५||

तन्नक्रमकराकीर्णं तिमिङ्गिलझषाकुलम् |
वायुवेगसमाधूतं पन्नगैरिव सागरम् || ६||

या हि वैश्वरणे लक्ष्मीर्या चेन्द्रे हरिवाहने |
सा रावणगृहे सर्वा नित्यमेवानपायिनी || ७||

या च राज्ञः कुबेरस्य यमस्य वरुणस्य च |
तादृशी तद्विशिष्टा वा ऋद्धी रक्षो गृहेष्विह || ८||

तस्य हर्म्यस्य मध्यस्थं वेश्म चान्यत्सुनिर्मितम् |
बहुनिर्यूह सङ्कीर्णं ददर्श पवनात्मजः || ९||

ब्रह्मणोऽर्थे कृतं दिव्यं दिवि यद्विश्वकर्मणा |
विमानं पुष्पकं नाम सर्वरत्नविभूषितम् || १०||

परेण तपसा लेभे यत्कुबेरः पितामहात् |
कुबेरमोजसा जित्वा लेभे तद्राक्षसेश्वरः || ११||

ईहा मृगसमायुक्तैः कार्यस्वरहिरण्मयैः |
सुकृतैराचितं स्तम्भैः प्रदीप्तमिव च श्रिया || १२||

मेरुमन्दरसङ्काशैरुल्लिखद्भिरिवाम्बरम् |
कूटागारैः शुभाकारैः सर्वतः समलङ्कृतम् || १३||

ज्वलनार्कप्रतीकाशं सुकृतं विश्वकर्मणा |
हेमसोपानसंयुक्तं चारुप्रवरवेदिकम् || १४||

जालवातायनैर्युक्तं काञ्चनैः स्थाटिकैरपि |
इन्द्रनीलमहानीलमणिप्रवरवेदिकम् |
विमानं पुष्पकं दिव्यमारुरोह महाकपिः || १५||

तत्रस्थः स तदा गन्धं पानभक्ष्यान्नसम्भवम् |
दिव्यं संमूर्छितं जिघ्रन्रूपवन्तमिवानिलम् || १६||

स गन्धस्तं महासत्त्वं बन्धुर्बन्धुमिवोत्तमम् |
इत एहीत्युवाचेव तत्र यत्र स रावणः || १७||

ततस्तां प्रस्थितः शालां ददर्श महतीं शुभाम् |
रावणस्य मनःकान्तां कान्ताम् इव वरस्त्रियम् || १८||

मणिसोपानविकृतां हेमजालविराजिताम् |
स्फाटिकैरावृततलां दन्तान्तरितरूपिकाम् || १९||

मुक्ताभिश्च प्रवालैश्च रूप्यचामीकरैरपि |
विभूषितां मणिस्तम्भैः सुबहुस्तम्भभूषिताम् || २०||

समैरृजुभिरत्युच्चैः समन्तात्सुविभूषितैः |
स्तम्भैः पक्षैरिवात्युच्चैर्दिवं सम्प्रस्थिताम् इव || २१||

महत्या कुथयास्त्रीणं पृथिवीलक्षणाङ्कया |
पृथिवीमिव विस्तीर्णां सराष्ट्रगृहमालिनीम् || २२||

नादितां मत्तविहगैर्दिव्यगन्धाधिवासिताम् |
परार्ध्यास्तरणोपेतां रक्षोऽधिपनिषेविताम् || २३||

धूम्रामगरुधूपेन विमलां हंसपाण्डुराम् |
चित्रां पुष्पोपहारेण कल्माषीमिव सुप्रभाम् || २४||

मनःसंह्लादजननीं वर्णस्यापि प्रसादिनीम् |
तां शोकनाशिनीं दिव्यां श्रियः सञ्जननीम् इव || २५||

इन्द्रियाणीन्द्रियार्थैस्तु पञ्च पञ्चभिरुत्तमैः |
तर्पयामास मातेव तदा रावणपालिता || २६||

स्वर्गोऽयं देवलोकोऽयमिन्द्रस्येयं पुरी भवेत् |
सिद्धिर्वेयं परा हि स्यादित्यमन्यत मारुतिः || २७||

प्रध्यायत इवापश्यत्प्रदीपांस्तत्र काञ्चनान् |
धूर्तानिव महाधूर्तैर्देवनेन पराजितान् || २८||

दीपानां च प्रकाशेन तेजसा रावणस्य च |
अर्चिर्भिर्भूषणानां च प्रदीप्तेत्यभ्यमन्यत || २९||

ततोऽपश्यत्कुथासीनं नानावर्णाम्बरस्रजम् |
सहस्रं वरनारीणां नानावेषविभूषितम् || ३०||

परिवृत्तेऽर्धरात्रे तु पाननिद्रावशं गतम् |
क्रीडित्वोपरतं रात्रौ सुष्वाप बलवत्तदा || ३१||

तत्प्रसुप्तं विरुरुचे निःशब्दान्तरभूषणम् |
निःशब्दहंसभ्रमरं यथा पद्मवनं महत् || ३२||

तासां संवृतदन्तानि मीलिताक्षाणि मारुतिः |
अपश्यत्पद्मगन्धीनि वदनानि सुयोषिताम् || ३३||

प्रबुद्धानीव पद्मानि तासां भूत्वा क्षपाक्षये |
पुनःसंवृतपत्राणि रात्राविव बभुस्तदा || ३४||

इमानि मुखपद्मानि नियतं मत्तषट्पदाः |
अम्बुजानीव फुल्लानि प्रार्थयन्ति पुनः पुनः || ३५||

इति वामन्यत श्रीमानुपपत्त्या महाकपिः |
मेने हि गुणतस्तानि समानि सलिलोद्भवैः || ३६||

सा तस्य शुशुभे शाला ताभिः स्त्रीभिर्विराजिता |
शारदीव प्रसन्ना द्यौस्ताराभिरभिशोभिता || ३७||

स च ताभिः परिवृतः शुशुभे राक्षसाधिपः |
यथा ह्युडुपतिः श्रीमांस्ताराभिरभिसंवृतः || ३८||

याश्च्यवन्तेऽम्बरात्ताराः पुण्यशेषसमावृताः |
इमास्ताः सङ्गताः कृत्स्ना इति मेने हरिस्तदा || ३९||

ताराणामिव सुव्यक्तं महतीनां शुभार्चिषाम् |
प्रभावर्णप्रसादाश्च विरेजुस्तत्र योषिताम् || ४०||

व्यावृत्तगुरुपीनस्रक्प्रकीर्णवरभूषणाः |
पानव्यायामकालेषु निद्रापहृतचेतसः || ४१||

व्यावृत्ततिलकाः काश्चित्काश्चिदुद्भ्रान्तनूपुराः |
पार्श्वे गलितहाराश्च काश्चित्परमयोषितः || ४२||

मुखा हारवृताश्चान्याः काश्चित्प्रस्रस्तवाससः |
व्याविद्धरशना दामाः किशोर्य इव वाहिताः || ४३||

सुकुण्डलधराश्चान्या विच्छिन्नमृदितस्रजः |
गजेन्द्रमृदिताः फुल्ला लता इव महावने || ४४||

चन्द्रांशुकिरणाभाश्च हाराः कासां चिदुत्कटाः |
हंसा इव बभुः सुप्ताः स्तनमध्येषु योषिताम् || ४५||

अपरासां च वैदूर्याः कादम्बा इव पक्षिणः |
हेमसूत्राणि चान्यासां चक्रवाका इवाभवन् || ४६||

हंसकारण्डवाकीर्णाश्चक्रवाकोपशोभिताः |
आपगा इव ता रेजुर्जघनैः पुलिनैरिव || ४७||

किङ्किणीजालसङ्काशास्ता हेमविपुलाम्बुजाः |
भावग्राहा यशस्तीराः सुप्ता नद्य इवाबभुः || ४८||

मृदुष्वङ्गेषु कासां चित्कुचाग्रेषु च संस्थिताः |
बभूवुर्भूषणानीव शुभा भूषणराजयः || ४९||

अंशुकान्ताश्च कासां चिन्मुखमारुतकम्पिताः |
उपर्युपरि वक्त्राणां व्याधूयन्ते पुनः पुनः || ५०||

ताः पाताका इवोद्धूताः पत्नीनां रुचिरप्रभाः |
नानावर्णसुवर्णानां वक्त्रमूलेषु रेजिरे || ५१||

ववल्गुश्चात्र कासां चित्कुण्डलानि शुभार्चिषाम् |
मुखमारुतसंसर्गान्मन्दं मन्दं सुयोषिताम् || ५२||

शर्करासवगन्धः स प्रकृत्या सुरभिः सुखः |
तासां वदननिःश्वासः सिषेवे रावणं तदा || ५३||

रावणाननशङ्काश्च काश्चिद्रावणयोषितः |
मुखानि स्म सपत्नीनामुपाजिघ्रन्पुनः पुनः || ५४||

अत्यर्थं सक्तमनसो रावणे ता वरस्त्रियः |
अस्वतन्त्राः सपत्नीनां प्रियमेवाचरंस्तदा || ५५||

बाहूनुपनिधायान्याः पारिहार्य विभूषिताः |
अंशुकानि च रम्याणि प्रमदास्तत्र शिश्यिरे || ५६||

अन्या वक्षसि चान्यस्यास्तस्याः का चित्पुनर्भुजम् |
अपरा त्वङ्कमन्यस्यास्तस्याश्चाप्यपरा भुजौ || ५७||

ऊरुपार्श्वकटीपृष्ठमन्योन्यस्य समाश्रिताः |
परस्परनिविष्टाङ्ग्यो मदस्नेहवशानुगाः || ५८||

अन्योन्यस्याङ्गसंस्पर्शात्प्रीयमाणाः सुमध्यमाः |
एकीकृतभुजाः सर्वाः सुषुपुस्तत्र योषितः || ५९||

अन्योन्यभुजसूत्रेण स्त्रीमालाग्रथिता हि सा |
मालेव ग्रथिता सूत्रे शुशुभे मत्तषट्पदा || ६०||

लतानां माधवे मासि फुल्लानां वायुसेवनात् |
अन्योन्यमालाग्रथितं संसक्तकुसुमोच्चयम् || ६१||

व्यतिवेष्टितसुस्कन्थमन्योन्यभ्रमराकुलम् |
आसीद्वनमिवोद्धूतं स्त्रीवनं रावणस्य तत् || ६२||

उचितेष्वपि सुव्यक्तं न तासां योषितां तदा |
विवेकः शक्य आधातुं भूषणाङ्गाम्बरस्रजाम् || ६३||

रावणे सुखसंविष्टे ताः स्त्रियो विविधप्रभाः |
ज्वलन्तः काञ्चना दीपाः प्रेक्षन्तानिमिषा इव || ६४||

राजर्षिपितृदैत्यानां गन्धर्वाणां च योषितः |
रक्षसां चाभवन्कन्यास्तस्य कामवशं गताः || ६५||

न चाकुलीना न च हीनरूपा
नादक्षिणा नानुपचार युक्ता |
भार्याभवत्तस्य न हीनसत्त्वा
न चापि कान्तस्य न कामनीया || ६६||

बभूव बुद्धिस्तु हरीश्वरस्य
यदीदृशी राघवधर्मपत्नी |
इमा यथा राक्षसराजभार्याः
सुजातमस्येति हि साधुबुद्धेः || ६७||

पुनश्च सोऽचिन्तयदार्तरूपो
ध्रुवं विशिष्टा गुणतो हि सीता |
अथायमस्यां कृतवान्महात्मा
लङ्केश्वरः कष्टमनार्यकर्म || ६८||

68

424

Shri Hanuman searches in the Ravana’s mansion, duly observing keenly the sleeping wives of Ravana.

10

तत्र दिव्योपमं मुख्यं स्फाटिकं रत्नभूषितम् |
अवेक्षमाणो हनुमान्ददर्श शयनासनम् || १||

तस्य चैकतमे देशे सोऽग्र्यमाल्यविभूषितम् |
ददर्श पाण्डुरं छत्रं ताराधिपतिसंनिभम् || २||

बालव्यजनहस्ताभिर्वीज्यमानं समन्ततः |
गन्धैश्च विविधैर्जुष्टं वरधूपेन धूपितम् || ३||

परमास्तरणास्तीर्णमाविकाजिनसंवृतम् |
दामभिर्वरमाल्यानां समन्तादुपशोभितम् || ४||

तस्मिञ्जीमूतसङ्काशं प्रदीप्तोत्तमकुण्डलम् |
लोहिताक्षं महाबाहुं महारजतवाससं || ५||

लोहितेनानुलिप्ताङ्गं चन्दनेन सुगन्धिना |
सन्ध्यारक्तमिवाकाशे तोयदं सतडिद्गुणम् || ६||

वृतमाभरणैर्दिव्यैः सुरूपं कामरूपिणम् |
सवृक्षवनगुल्माढ्यं प्रसुप्तमिव मन्दरम् || ७||

क्रीडित्वोपरतं रात्रौ वराभरणभूषितम् |
प्रियं राक्षसकन्यानां राक्षसानां सुखावहम् || ८||

पीत्वाप्युपरतं चापि ददर्श स महाकपिः |
भास्करे शयने वीरं प्रसुप्तं राक्षसाधिपम् || ९||

निःश्वसन्तं यथा नागं रावणं वानरोत्तमः |
आसाद्य परमोद्विग्नः सोऽपासर्पत्सुभीतवत् || १०||

अथारोहणमासाद्य वेदिकान्तरमाश्रितः |
सुप्तं राक्षसशार्दूलं प्रेक्षते स्म महाकपिः || ११||

शुशुभे राक्षसेन्द्रस्य स्वपतः शयनोत्तमम् |
गन्धहस्तिनि संविष्टे यथाप्रस्रवणं महत् || १२||

काञ्चनाङ्गदनद्धौ च ददर्श स महात्मनः |
विक्षिप्तौ राक्षसेन्द्रस्य भुजाविन्द्रध्वजोपमौ || १३||

ऐरावतविषाणाग्रैरापीडितकृतव्रणौ |
वज्रोल्लिखितपीनांसौ विष्णुचक्रपरिक्षितौ || १४||

पीनौ समसुजातांसौ सङ्गतौ बलसंयुतौ |
सुलक्षण नखाङ्गुष्ठौ स्वङ्गुलीतललक्षितौ || १५||

संहतौ परिघाकारौ वृत्तौ करिकरोपमौ |
विक्षिप्तौ शयने शुभ्रे पञ्चशीर्षाविवोरगौ || १६||

शशक्षतजकल्पेन सुशीतेन सुगन्धिना |
चन्दनेन परार्ध्येन स्वनुलिप्तौ स्वलङ्कृतौ || १७||

उत्तमस्त्रीविमृदितौ गन्धोत्तमनिषेवितौ |
यक्षपन्नगगन्धर्वदेवदानवराविणौ || १८||

ददर्श स कपिस्तस्य बाहू शयनसंस्थितौ |
मन्दरस्यान्तरे सुप्तौ महार्ही रुषिताविव || १९||

ताभ्यां स परिपूर्णाभ्यां भुजाभ्यां राक्षसाधिपः |
शुशुभेऽचलसङ्काशः शृङ्गाभ्यामिव मन्दरः || २०||

चूतपुंनागसुरभिर्बकुलोत्तमसंयुतः |
मृष्टान्नरससंयुक्तः पानगन्धपुरःसरः || २१||

तस्य राक्षससिंहस्य निश्चक्राम मुखान्महान् |
शयानस्य विनिःश्वासः पूरयन्निव तद्गृहम् || २२||

मुक्तामणिविचित्रेण काञ्चनेन विराजता |
मुकुटेनापवृत्तेन कुण्डलोज्ज्वलिताननम् || २३||

रक्तचन्दनदिग्धेन तथा हारेण शोभिता |
पीनायतविशालेन वक्षसाभिविराजितम् || २४||

पाण्डुरेणापविद्धेन क्षौमेण क्षतजेक्षणम् |
महार्हेण सुसंवीतं पीतेनोत्तमवाससा || २५||

माषराशिप्रतीकाशं निःश्वसन्तं भुजङ्गवत् |
गाङ्गे महति तोयान्ते प्रसुतमिव कुञ्जरम् || २६||

चतुर्भिः काञ्चनैर्दीपैर्दीप्यमानैश्चतुर्दिशम् |
प्रकाशीकृतसर्वाङ्गं मेघं विद्युद्गणैरिव || २७||

पादमूलगताश्चापि ददर्श सुमहात्मनः |
पत्नीः स प्रियभार्यस्य तस्य रक्षःपतेर्गृहे || २८||

शशिप्रकाशवदना वरकुण्डलभूषिताः |
अम्लानमाल्याभरणा ददर्श हरियूथपः || २९||

नृत्तवादित्रकुशला राक्षसेन्द्रभुजाङ्कगाः |
वराभरणधारिण्यो निषन्ना ददृशे कपिः || ३०||

तासामेकान्तविन्यस्ते शयानां शयने शुभे |
ददर्श रूपसम्पन्नामपरां स कपिः स्त्रियम् || ३१||

मुक्तामणिसमायुक्तैर्भूषणैः सुविभूषिताम् |
विभूषयन्तीमिव च स्वश्रिया भवनोत्तमम् || ३२||

गौरीं कनकवर्णाभामिष्टामन्तःपुरेश्वरीम् |
कपिर्मन्दोदरीं तत्र शयानां चारुरूपिणीम् || ३३||

स तां दृष्ट्वा महाबाहुर्भूषितां मारुतात्मजः |
तर्कयामास सीतेति रूपयौवनसम्पदा |
हर्षेण महता युक्तो ननन्द हरियूथपः || ३४||

आश्पोटयामास चुचुम्ब पुच्छं
ननन्द चिक्रीड जगौ जगाम |
स्तम्भानरोहन्निपपात भूमौ
निदर्शयन्स्वां प्रकृतिं कपीनाम् || ३५||

35

459

Shri Hanuman observes Ravana sleeping on a magnificent cot in the house. He also sees Mandodari and thinks her to be Seetha and gets elated.

इत्यार्षे श्री रामायणे सुन्दरकाण्डे पञ्चम: भाग:

Sundarakāṇḍa Part-4

Sundarakāṇḍa Part-6

 

No comments:

Post a Comment