Thursday, January 1, 2026

सुन्दरकाण्ड - Sundarakāṇḍa (भाग - ६ ;;; Part – 6)

 

सुन्दरकाण्ड - Sundarakāṇḍa (भाग - ;;; Part – 6)

Sarga number as per Ramayana

Shlokas extracted

No. of shlokas

Cumulative number of shlokas in this Kanda

11

अवधूय च तां बुद्धिं बभूवावस्थितस्तदा |
जगाम चापरां चिन्तां सीतां प्रति महाकपिः || १||

न रामेण वियुक्ता सा स्वप्तुमर्हति भामिनी |
न भोक्तुं नाप्यलङ्कर्तुं न पानमुपसेवितुम् || २||

नान्यं नरमुपस्थातुं सुराणामपि चेश्वरम् |
न हि रामसमः कश्चिद्विद्यते त्रिदशेष्वपि |
अन्येयमिति निश्चित्य पानभूमौ चचार सः || ३||

सर्वकामैरुपेतां च पानभूमिं महात्मनः |
ददर्श कपिशार्दूलस्तस्य रक्षःपतेर्गृहे || ४||

मृगाणां महिषाणां च वराहाणां च भागशः |
तत्र न्यस्तानि मांसानि पानभूमौ ददर्श सः || ५||

रौक्मेषु च विशलेषु भाजनेष्वर्धभक्षितान् |
ददर्श कपिशार्दूल मयूरान्कुक्कुटांस्तथा || ६||

वराहवार्ध्राणसकान्दधिसौवर्चलायुतान् |
शल्यान्मृगमयूरांश्च हनूमानन्ववैक्षत || ७||

कृकरान्विविधान्सिद्धांश्चकोरानर्धभक्षितान् |
महिषानेकशल्यांश्च छागांश्च कृतनिष्ठितान् |
लेख्यमुच्चावचं पेयं भोज्यानि विविधानि च || ८||

तथाम्ललवणोत्तंसैर्विविधै रागषाडवैः |
हार नूपुरकेयूरैरपविद्धैर्महाधनैः || ९||

पानभाजनविक्षिप्तैः फलैश् च विविधैरपि |
कृतपुष्पोपहारा भूरधिकं पुष्यति श्रियम् || १०||

तत्र तत्र च विन्यस्तैः सुश्लिष्टैः शयनासनैः |
पानभूमिर्विना वह्निं प्रदीप्तेवोपलक्ष्यते || ११||

बहुप्रकारैर्विविधैर्वरसंस्कारसंस्कृतैः |
मांसैः कुशलसंयुक्तैः पानभूमिगतैः पृथक् || १२||

दिव्याः प्रसन्ना विविधाः सुराः कृतसुरा अपि |
शर्करासवमाध्वीकाः पुष्पासवफलासवाः |
वासचूर्णैश्च विविधैर्मृष्टास्तैस्तैः पृथक्पृथक् || १३||

सन्तता शुशुभे भूमिर्माल्यैश्च बहुसंस्थितैः |
हिरण्मयैश्च करकैर्भाजनैः स्फाटिकैरपि |
जाम्बूनदमयैश्चान्यैः करकैरभिसंवृता || १४||

राजतेषु च कुम्भेषु जाम्बूनदमयेषु च |
पानश्रेष्ठं तदा भूरि कपिस्तत्र ददर्श ह || १५||

सोऽपश्यच्छातकुम्भानि शीधोर्मणिमयानि च |
राजतानि च पूर्णानि भाजनानि महाकपिः || १६||

क्व चिदर्धावशेषाणि क्व चित्पीतानि सर्वशः |
क्व चिन्नैव प्रपीतानि पानानि स ददर्श ह || १७||

क्व चिद्भक्ष्यांश्च विविधान्क्व चित्पानानि भागशः |
क्व चिदन्नावशेषाणि पश्यन्वै विचचार ह || १८||

क्व चित्प्रभिन्नैः करकैः क्व चिदालोडितैर्घटैः |
क्व चित्सम्पृक्तमाल्यानि जलानि च फलानि च || १९||

निरीक्षमाणश्च ततस्ताः स्त्रियः स महाकपिः |
जगाम महतीं चिन्तां धर्मसाध्वसशङ्कितः || २०||

परदारावरोधस्य प्रसुप्तस्य निरीक्षणम् |
इदं खलु ममात्यर्थं धर्मलोपं करिष्यति || २१||

न हि मे परदाराणां दृष्टिर्विषयवर्तिनी |
अयं चात्र मया दृष्टः परदारपरिग्रहः ||२२||

तस्य प्रादुरभूच्चिन्तापुनरन्या मनस्विनः |
निश्चितैकान्तचित्तस्य कार्यनिश्चयदर्शिनी || २३||

कामं दृष्ट्वा मया सर्वा विश्वस्ता रावणस्त्रियः |
न तु मे मनसः किं चिद्वैकृत्यमुपपद्यते || २४||

मनो हि हेतुः सर्वेषामिन्द्रियाणां प्रवर्तते |
शुभाशुभास्ववस्थासु तच्च मे सुव्यवस्थितम् || २५||

नान्यत्र हि मया शक्या वैदेही परिमार्गितुम् |
स्त्रियो हि स्त्रीषु दृश्यन्ते सदा सम्परिमार्गणे ||२६||

यस्य सत्त्वस्य या योनिस्तस्यां तत्परिमार्ग्यते |
न शक्यं प्रमदा नष्टा मृगीषु परिमार्गितुम् || २७||

तदिदं मार्गितं तावच्छुद्धेन मनसा मया |
रावणान्तःपुरं सरं दृश्यते न च जानकी || २८||

देवगन्धर्वकन्याश्च नागकन्याश्च वीर्यवान् |
अवेक्षमाणो हनुमान्नैवापश्यत जानकीम् || २९||

तामपश्यन्कपिस्तत्र पश्यंश्चान्या वरस्त्रियः |
अपक्रम्य तदा वीरः प्रध्यातुमुपचक्रमे || ३०||

30

489

Pondering over again and realizing that the woman he saw at Ravana's house was not Seetha, Shri Hanuman begins to search again for Seetha in that Lanka.

12

स तस्य मध्ये भवनस्य वानरो
लतागृहांश्चित्रगृहान्निशागृहान् |
जगाम सीतां प्रति दर्शनोत्सुको
न चैव तां पश्यति चारुदर्शनाम् || १||

स चिन्तयामास ततो महाकपिः
प्रियामपश्यन्रघुनन्दनस्य ताम् |
ध्रुवं नु सीता म्रियते यथा न मे
विचिन्वतो दर्शनमेति मैथिली || २||

सा राक्षसानां प्रवरेण बाला
स्वशीलसंरक्षण तत्परा सती |
अनेन नूनं प्रतिदुष्टकर्मणा
हता भवेदार्यपथे परे स्थिता || ३||

विरूपरूपा विकृता विवर्चसो
महानना दीर्घविरूपदर्शनाः |
समीक्ष्य सा राक्षसराजयोषितो
भयाद्विनष्टा जनकेश्वरात्मजा || ४||

सीतामदृष्ट्वा ह्यनवाप्य पौरुषं
विहृत्य कालं सह वानरैश् चिरम् |
न मेऽस्ति सुग्रीवसमीपगा गतिः
सुतीक्ष्णदण्डो बलवांश्च वानरः || ५||

दृष्टमन्तःपुरं सर्वं दृष्ट्वा रावणयोषितः |
न सीता दृश्यते साध्वी वृथा जातो मम श्रमः || ६||

किं नु मां वानराः सर्वे गतं वक्ष्यन्ति सङ्गताः |
गत्वा तत्र त्वया वीर किं कृतं तद्वदस्व नः || ७||

अदृष्ट्वा किं प्रवक्ष्यामि तामहं जनकात्मजाम् |
ध्रुवं प्रायमुपेष्यन्ति कालस्य व्यतिवर्तने || ८||

किं वा वक्ष्यति वृद्धश्च जाम्बवानङ्गदश्च सः |
गतं पारं समुद्रस्य वानराश्च समागताः || ९||

अनिर्वेदः श्रियो मूलमनिर्वेदः परं सुखम् |
भूयस्तावद्विचेष्यामि न यत्र विचयः कृतः || १०||

अनिर्वेदो हि सततं सर्वार्थेषु प्रवर्तकः |
करोति सफलं जन्तोः कर्म यच्च करोति सः || ११||

तस्मादनिर्वेद कृतं यत्नं चेष्टेऽहमुत्तमम् |
अदृष्टांश्च विचेष्यामि देशान्रावणपालितान् || १२||

आपानशालाविचितास्तथा पुष्पगृहाणि च |
चित्रशालाश्च विचिता भूयः क्रीडागृहाणि च || १३||

निष्कुटान्तररथ्याश्च विमानानि च सर्वशः |
इति सञ्चिन्त्य भूयोऽपि विचेतुमुपचक्रमे || १४||

भूमीगृहांश्चैत्यगृहान्गृहातिगृहकानपि |
उत्पतन्निपतंश्चापि तिष्ठन्गच्छन्पुनः क्व चित् || १५||

अपावृण्वंश्च द्वाराणि कपाटान्यवघट्टयन् |
प्रविशन्निष्पतंश्चापि प्रपतन्नुत्पतन्नपि |
सर्वमप्यवकाशं स विचचार महाकपिः || १६||

चतुरङ्गुलमात्रोऽपि नावकाशः स विद्यते |
रावणान्तःपुरे तस्मिन्यं कपिर्न जगाम सः || १७||

प्राकरान्तररथ्याश्च वेदिकश्चैत्यसंश्रयाः |
श्वभ्राश्च पुष्करिण्यश्च सर्वं तेनावलोकितम् || १८||

राक्षस्यो विविधाकारा विरूपा विकृतास्तथा |
दृष्टा हनूमता तत्र न तु सा जनकात्मजा || १९||

रूपेणाप्रतिमा लोके वरा विद्याधर स्त्रियः |
दृटा हनूमता तत्र न तु राघवनन्दिनी || २०||

नागकन्या वरारोहाः पूर्णचन्द्रनिभाननाः |
दृष्टा हनूमता तत्र न तु सीता सुमध्यमा || २१||

प्रमथ्य राक्षसेन्द्रेण नागकन्या बलाद्धृताः |
दृष्टा हनूमता तत्र न सा जनकनन्दिनी || २२||

सोऽपश्यंस्तां महाबाहुः पश्यंश्चान्या वरस्त्रियः |
विषसाद महाबाहुर्हनूमान्मारुतात्मजः || २३||

उद्योगं वानरेन्द्राणं प्लवनं सागरस्य च |
व्यर्थं वीक्ष्यानिलसुतश्चिन्तां पुनरुपागमत् || २४||

अवतीर्य विमानाच्च हनूमान्मारुतात्मजः |
चिन्तामुपजगामाथ शोकोपहतचेतनः || २५||

25

514

Shri Hanuman gets depressed, as he could not find Seeta inspite of repeated searches.  He thinks that Seetha might be dead and thus, gets into pessimistic mood for a moment.

13

विमानात्तु सुसङ्क्रम्य प्राकारं हरियूथपः |
हनूमान्वेगवानासीद्यथा विद्युद्घनान्तरे || १||

सम्परिक्रम्य हनुमान्रावणस्य निवेशनान् |
अदृष्ट्वा जानकीं सीतामब्रवीद्वचनं कपिः || २||

भूयिष्ठं लोडिता लङ्का रामस्य चरता प्रियम् |
न हि पश्यामि वैदेहीं सीतां सर्वाङ्गशोभनाम् || ३||

पल्वलानि तटाकानि सरांसि सरितस्तथा |
नद्योऽनूपवनान्ताश्च दुर्गाश्च धरणीधराः |
लोडिता वसुधा सर्वा न च पश्यामि जानकीम् || ४||

इह सम्पातिना सीता रावणस्य निवेशने |
आख्याता गृध्रराजेन न च पश्यामि ताम् अहम् || ५||

किं नु सीताथ वैदेही मैथिली जनकात्मजा |
उपतिष्ठेत विवशा रावणं दुष्टचारिणम् || ६||

क्षिप्रमुत्पततो मन्ये सीतामादाय रक्षसः |
बिभ्यतो रामबाणानामन्तरा पतिता भवेत् || ७||

अथ वा ह्रियमाणायाः पथि सिद्धनिषेविते |
मन्ये पतितमार्याया हृदयं प्रेक्ष्य सागरम् || ८||

रावणस्योरुवेगेन भुजाभ्यां पीडितेन च |
तया मन्ये विशालाक्ष्या त्यक्तं जीवितमार्यया || ९||

उपर्युपरि वा नूनं सागरं क्रमतस्तदा |
विवेष्टमाना पतिता समुद्रे जनकात्मजा || १०||

आहो क्षुद्रेण चानेन रक्षन्ती शीलमात्मनः |
अबन्धुर्भक्षिता सीता रावणेन तपस्विनी || ११||

अथ वा राक्षसेन्द्रस्य पत्नीभिरसितेक्षणा |
अदुष्टा दुष्टभावाभिर्भक्षिता सा भविष्यति || १२||

सम्पूर्णचन्द्रप्रतिमं पद्मपत्रनिभेक्षणम् |
रामस्य ध्यायती वक्त्रं पञ्चत्वं कृपणा गता || १३||

हा राम लक्ष्मणेत्येव हायोध्येति च मैथिली |
विलप्य बहु वैदेही न्यस्तदेहा भविष्यति || १४||

अथ वा निहिता मन्ये रावणस्य निवेशने |
नूनं लालप्यते मन्दं पञ्जरस्थेव शारिका || १५||

जनकस्य कुले जाता रामपत्नी सुमध्यमा |
कथमुत्पलपत्राक्षी रावणस्य वशं व्रजेत् || १६||

विनष्टा वा प्रनष्टा वा मृता वा जनकात्मजा |
रामस्य प्रियभार्यस्य न निवेदयितुं क्षमम् || १७||

निवेद्यमाने दोषः स्याद्दोषः स्यादनिवेदने |
कथं नु खलु कर्तव्यं विषमं प्रतिभाति मे || १८||

अस्मिन्नेवङ्गते कर्ये प्राप्तकालं क्षमं च किम् |
भवेदिति मतिं भूयो हनुमान्प्रविचारयन् || १९||

यदि सीतामदृष्ट्वाहं वानरेन्द्रपुरीमितः |
गमिष्यामि ततः को मे पुरुषार्थो भविष्यति || २०||

ममेदं लङ्घनं व्यर्थं सागरस्य भविष्यति |
प्रवेशश्चिव लङ्काया राक्षसानां च दर्शनम् || २१||

किं वा वक्ष्यति सुग्रीवो हरयो व समागताः |
किष्किन्धां समनुप्राप्तौ तौ वा दशरथात्मजौ || २२||

गत्वा तु यदि काकुत्स्थं वक्ष्यामि परमप्रियम् |
न दृष्टेति मया सीता ततस्त्यक्ष्यन्ति जीवितम् || २३||

परुषं दारुणं क्रूरं तीक्ष्णमिन्द्रियतापनम् |
सीतानिमित्तं दुर्वाक्यं श्रुत्वा स न भविष्यति || २४||

तं तु कृच्छ्रगतं दृष्ट्वा पञ्चत्वगतमानसं |
भृशानुरक्तो मेधावी न भविष्यति लक्ष्मणः || २५||

विनष्टौ भ्रातरौ श्रुत्वा भरतोऽपि मरिष्यति |
भरतं च मृतं दृष्ट्वा शत्रुघ्नो न भविष्यति || २६||

पुत्रान्मृतान्समीक्ष्याथ न भविष्यन्ति मातरः |
कौसल्या च सुमित्रा च कैकेयी च न संशयः || २७||

कृतज्ञः सत्यसन्धश्च सुग्रीवः प्लवगाधिपः |
रामं तथा गतं दृष्ट्वा ततस्त्यक्ष्यन्ति जीवितम् || २८||

दुर्मना व्यथिता दीना निरानन्दा तपस्विनी |
पीडिता भर्तृशोकेन रुमा त्यक्ष्यति जीवितम् || २९||

वालिजेन तु दुःखेन पीडिता शोककर्शिता |
पञ्चत्वगमने राज्ञस्तारापि न भविष्यति || ३०||

मातापित्रोर्विनाशेन सुग्रीव व्यसनेन च |
कुमारोऽप्यङ्गदः कस्माद्धारयिष्यति जीवितम् || ३१||

भर्तृजेन तु शोकेन अभिभूता वनौकसः |
शिरांस्यभिहनिष्यन्ति तलैर्मुष्टिभिरेव च || ३२||

सान्त्वेनानुप्रदानेन मानेन च यशस्विना |
लालिताः कपिराजेन प्राणांस्त्यक्ष्यन्ति वानराः || ३३||

न वनेषु न शैलेषु न निरोधेषु वा पुनः |
क्रीडामनुभविष्यन्ति समेत्य कपिकुञ्जराः || ३४||

सपुत्रदाराः सामात्या भर्तृव्यसनपीडिताः |
शैलाग्रेभ्यः पतिष्यन्ति समेत्य विषमेषु च || ३५||

विषमुद्बन्धनं वापि प्रवेशं ज्वलनस्य वा |
उपवासमथो शस्त्रं प्रचरिष्यन्ति वानराः || ३६||

घोरमारोदनं मन्ये गते मयि भविष्यति |
इक्ष्वाकुकुलनाशश्च नाशश्चैव वनौकसाम् || ३७||

सोऽहं नैव गमिष्यामि किष्किन्धां नगरीमितः |
न हि शक्ष्याम्यहं द्रष्टुं सुग्रीवं मैथिलीं विना || ३८||

मय्यगच्छति चेहस्थे धर्मात्मानौ महारथौ |
आशया तौ धरिष्येते वनराश्च मनस्विनः || ३९||

हस्तादानो मुखादानो नियतो वृक्षमूलिकः |
वानप्रस्थो भविष्यामि अदृष्ट्वा जनकात्मजाम् || ४०||

सागरानूपजे देशे बहुमूलफलोदके |
चितां कृत्वा प्रवेक्ष्यामि समिद्धमरणीसुतम् || ४१||

उपविष्टस्य वा सम्यग्लिङ्गिनं साधयिष्यतः |
शरीरं भक्षयिष्यन्ति वायसाः श्वापदानि च || ४२||

इदमप्यृषिभिर्दृष्टं निर्याणमिति मे मतिः |
सम्यगापः प्रवेक्ष्यामि न चेत्पश्यामि जानकीम् || ४३||

सुजातमूला सुभगा कीर्तिमालायशस्विनी |
प्रभग्ना चिररात्रीयं मम सीतामपश्यतः || ४४||

तापसो वा भविष्यामि नियतो वृक्षमूलिकः |
नेतः प्रतिगमिष्यामि तामदृष्ट्वासितेक्षणाम् || ४५||

यदीतः प्रतिगच्छामि सीतामनधिगम्य ताम् |
अङ्गदः सहितैः सर्वैर्वानरैर्न भविष्यति || ४६||

विनाशे बहवो दोषा जीवन्प्राप्नोति भद्रकम् |
तस्मात्प्राणान्धरिष्यामि ध्रुवो जीवति सङ्गमः || ४७||

एवं बहुविधं दुःखं मनसा धारयन्मुहुः |
नाध्यगच्छत्तदा पारं शोकस्य कपिकुञ्जरः || ४८||

रावणं वा वधिष्यामि दशग्रीवं महाबलम् |
काममस्तु हृता सीता प्रत्याचीर्णं भविष्यति || ४९||

अथवैनं समुत्क्षिप्य उपर्युपरि सागरम् |
रामायोपहरिष्यामि पशुं पशुपतेरिव || ५०||

इति चिन्ता समापन्नः सीतामनधिगम्य ताम् |
ध्यानशोका परीतात्मा चिन्तयामास वानरः || ५१||

यावत्सीतां न पश्यामि रामपत्नीं यशस्विनीम् |
तावदेतां पुरीं लङ्कां विचिनोमि पुनः पुनः || ५२||

सम्पाति वचनाच्चापि रामं यद्यानयाम्यहम् |
अपश्यन्राघवो भार्यां निर्दहेत्सर्ववानरान् || ५३||

इहैव नियताहारो वत्स्यामि नियतेन्द्रियः |
न मत्कृते विनश्येयुः सर्वे ते नरवानराः || ५४||

अशोकवनिका चापि महतीयं महाद्रुमा |
इमामभिगमिष्यामि न हीयं विचिता मया || ५५||

वसून्रुद्रांस्तथादित्यानश्विनौ मरुतोऽपि च |
नमस्कृत्वा गमिष्यामि रक्षसां शोकवर्धनः || ५६||

जित्वा तु राक्षसान्देवीमिक्ष्वाकुकुलनन्दिनीम् |
सम्प्रदास्यामि रामाया यथासिद्धिं तपस्विने || ५७||

स मुहूर्तमिव ध्यात्वा चिन्ताविग्रथितेन्द्रियः |
उदतिष्ठन्महाबाहुर्हनूमान्मारुतात्मजः || ५८||

नमोऽस्तु रामाय सलक्ष्मणाय
देव्यै च तस्यै जनकात्मजायै |
नमोऽस्तु रुद्रेन्द्रयमानिलेभ्यो
नमोऽस्तु चन्द्रार्कमरुद्गणेभ्यः || ५९||

स तेभ्यस्तु नमस्कृत्वा सुग्रीवाय च मारुतिः |
दिशः सर्वाः समालोक्य अशोकवनिकां प्रति || ६०||

स गत्वा मनसा पूर्वमशोकवनिकां शुभाम् |
उत्तरं चिन्तयामास वानरो मारुतात्मजः || ६१||

ध्रुवं तु रक्षोबहुला भविष्यति वनाकुला |
अशोकवनिका चिन्त्या सर्वसंस्कारसंस्कृता || ६२||

रक्षिणश्चात्र विहिता नूनं रक्षन्ति पादपान् |
भगवानपि सर्वात्मा नातिक्षोभं प्रवायति || ६३||

सङ्क्षिप्तोऽयं मयात्मा च रामार्थे रावणस्य च |
सिद्धिं मे संविधास्यन्ति देवाः सर्षिगणास्त्विह || ६४||

ब्रह्मा स्वयम्भूर्भगवान्देवाश्चैव दिशन्तु मे |
सिद्धिमग्निश्च वायुश्च पुरुहूतश्च वज्रधृत् || ६५||

वरुणः पाशहस्तश्च सोमादित्यै तथैव च |
अश्विनौ च महात्मानौ मरुतः सर्व एव च || ६६||

सिद्धिं सर्वाणि भूतानि भूतानां चैव यः प्रभुः |
दास्यन्ति मम ये चान्ये अदृष्टाः पथि गोचराः || ६७||

तदुन्नसं पाण्डुरदन्तमव्रणं
शुचिस्मितं पद्मपलाशलोचनम् |
द्रक्ष्ये तदार्यावदनं कदा न्वहं
प्रसन्नताराधिपतुल्यदर्शनम् || ६८||

क्षुद्रेण पापेन नृशंसकर्मणा
सुदारुणालाङ्कृतवेषधारिणा |
बलाभिभूता अबला तपस्विनी
कथं नु मे दृष्टपथेऽद्य सा भवेत् || ६९||

69

583

Shri Hanuman overcomes his initial depressed mood, and thinks to search the Ashoka garden which was not searched till then.

इत्यार्षे श्री रामायणे सुन्दरकाण्डे षष्ठ: भाग:

 

Sundarakāṇḍa Part-5

Sundarakāṇḍa Part-7

No comments:

Post a Comment