Thursday, January 1, 2026

सुन्दरकाण्ड - Sundarakāṇḍa (भाग - ६ ;;; Part – 6)

 

सुन्दरकाण्ड - Sundarakāṇḍa (भाग - ;;; Part – 6)


Sarga number as per Ramayana

Shlokas extracted

No. of shlokas

Cumulative number of shlokas in this Kanda

18

तथा विप्रेक्षमाणस्य वनं पुष्पितपादपम् |
विचिन्वतश्च वैदेहीं किं चिच्छेषा निशाभवत् || १||

षडङ्गवेदविदुषां क्रतुप्रवरयाजिनाम् |
शुश्राव ब्रह्मघोषांश्च विरात्रे ब्रह्मरक्षसाम् || २||

अथ मङ्गलवादित्रैः शब्दैः श्रोत्रमनोहरैः |
प्राबोध्यत महाबाहुर्दशग्रीवो महाबलः || ३||

विबुध्य तु यथाकालं राक्षसेन्द्रः प्रतावपान् |
स्रस्तमाल्याम्बरधरो वैदेहीम् अन्वचिन्तयत् || ४||

भृशं नियुक्तस्तस्यां च मदनेन मदोत्कटः |
न स तं राक्षसः कामं शशाकात्मनि गूहितुम् || ५||

स सर्वाभरणैर्युक्तो बिभ्रच्छ्रियमनुत्तमाम् |
तां नगैर्विविधैर्जुष्टां सर्वपुष्पफलोपगैः || ६||

वृतां पुष्करिणीभिश्च नानापुष्पोपशोभिताम् |
सदामदैश्च विहगैर्विचित्रां परमाद्भुताम् || ७||

ईहामृगैश्च विविधैश्वृतां दृष्टिमनोहरैः |
वीथीः सम्प्रेक्षमाणश्च मणिकाञ्चनतोरणाः || ८||

नानामृगगणाकीर्णां फलैः प्रपतितैर्वृताम् |
अशोकवनिकामेव प्राविशत्सन्ततद्रुमाम् || ९||

अङ्गनाशतमात्रं तु तं व्रजन्तमनुव्रजत् |
महेन्द्रमिव पौलस्त्यं देवगन्धर्वयोषितः || १०||

दीपिकाः काञ्चनीः काश्चिज्जगृहुस्तत्र योषितः |
बालव्यजनहस्ताश्च तालवृन्तानि चापराः || ११||

काञ्चनैरपि भृङ्गारैर्जह्रुः सलिलमग्रतः |
मण्डलाग्रानसींश्चैव गृह्यान्याः पृष्ठतो ययुः || १२||

का चिद्रत्नमयीं पात्रीं पूर्णां पानस्य भामिनी |
दक्षिणा दक्षिणेनैव तदा जग्राह पाणिना || १३||

राजहंसप्रतीकाशं छत्रं पूर्णशशिप्रभम् |
सौवर्णदण्डमपरा गृहीत्वा पृष्ठतो ययौ || १४||

निद्रामदपरीताक्ष्यो रावणस्योत्तमस्त्रियः |
अनुजग्मुः पतिं वीरं घनं विद्युल्लता इव || १५||

ततः काञ्चीनिनादं च नूपुराणां च निःस्वनम् |
शुश्राव परमस्त्रीणां स कपिर्मारुतात्मजः || १६||

तं चाप्रतिमकर्माणमचिन्त्यबलपौरुषम् |
द्वारदेशमनुप्राप्तं ददर्श हनुमान्कपिः || १७||

दीपिकाभिरनेकाभिः समन्तादवभासितम् |
गन्धतैलावसिक्ताभिर्ध्रियमाणाभिरग्रतः || १८||

कामदर्पमदैर्युक्तं जिह्मताम्रायतेक्षणम् |
समक्षमिव कन्दर्पमपविद्ध शरासनम् || १९||

मथितामृतफेनाभमरजो वस्त्रमुत्तमम् |
सलीलमनुकर्षन्तं विमुक्तं सक्तमङ्गदे || २०||

तं पत्रविटपे लीनः पत्रपुष्पघनावृतः |
समीपमुपसङ्क्रान्तं निध्यातुमुपचक्रमे || २१||

अवेक्षमाणश्च ततो ददर्श कपिकुञ्जरः |
रूपयौवनसम्पन्ना रावणस्य वरस्त्रियः || २२||

ताभिः परिवृतो राजा सुरूपाभिर्महायशाः |
तन्मृगद्विजसङ्घुष्टं प्रविष्टः प्रमदावनम् || २३||

क्षीबो विचित्राभरणः शङ्कुकर्णो महाबलः |
तेन विश्रवसः पुत्रः स दृष्टो राक्षसाधिपः || २४||

वृतः परमनारीभिस्ताराभिरिव चन्द्रमाः |
तं ददर्श महातेजास्तेजोवन्तं महाकपिः || २५||

रावणोऽयं महाबाहुरिति सञ्चिन्त्य वानरः |
अवप्लुतो महातेजा हनूमान्मारुतात्मजः || २६||

स तथाप्युग्रतेजाः सन्निर्धूतस्तस्य तेजसा |
पत्रगुह्यान्तरे सक्तो हनूमान्संवृतोऽभवत् || २७||

स तामसितकेशान्तां सुश्रोणीं संहतस्तनीम् |
दिदृक्षुरसितापाङ्गीमुपावर्तत रावणः || २८||

28

325

The night time is almost completed and in the early hours, Shri Hanuman heard the recitation of Vedic mantras.  Ravana gets up in that time and remembers Sita and proceeds towards Ashoka Garden.  Shri Hanuman sees Ravana entering Ashoka Garden with a retinue of his wives following him.

इत्यार्षे श्री रामायणे सुन्दरकाण्डे षष्ठ: भाग:

 

Sundarakāṇḍa Part-5

Sundarakāṇḍa Part-7

No comments:

Post a Comment