सुन्दरकाण्ड - Sundarakāṇḍa (भाग - ७ ;;; Part – 7)
|
Sarga
number as per Ramayana |
Shlokas
extracted |
No. of shlokas |
Cumulative number of shlokas in this
Kanda |
|
14 |
स
मुहूर्तमिव ध्यत्वा मनसा चाधिगम्य ताम् | स
तु संहृष्टसर्वाङ्गः प्राकारस्थो महाकपिः | सालानशोकान्भव्यांश्च चम्पकांश्च सुपुष्पितान् | अथाम्रवणसञ्चन्नां लताशतसमावृताम् | स
प्रविष्य विचित्रां तां विहगैरभिनादिताम् | विहगैर्मृगसङ्घैश्च विचित्रां चित्रकाननाम् | वृतां
नानाविधैर्वृक्षैः पुष्पोपगफलोपगैः | प्रहृष्टमनुजे कले मृगपक्षिसमाकुले | मार्गमाणो वरारोहां राजपुत्रीमनिन्दिताम् | उत्पतद्भिर्द्विजगणैः पक्षैः सालाः समाहताः | पुष्पावकीर्णः शुशुभे हनुमान्मारुतात्मजः | दिशः
सर्वाभिदावन्तं वृक्षषण्डगतं कपिम् | वृक्षेभ्यः पतितैः पुष्पैरवकीर्णा पृथग्विधैः | तरस्विना ते तरवस्तरसाभिप्रकम्पिताः | निर्धूतपत्रशिखराः शीर्णपुष्पफलद्रुमाः | हनूमता वेगवता कम्पितास्ते नगोत्तमाः | विहङ्गसङ्घैर्हीनास्ते स्कन्धमात्राश्रया द्रुमाः | विधूतकेशी युवतिर्यथा मृदितवर्णिका | तथा
लाङ्गूलहस्तैश्च चरणाभ्यां च मर्दिता | महालतानां दामानि व्यधमत्तरसा कपिः | स
तत्र मणिभूमीश्च राजतीश्च मनोरमाः | वापीश्च विविधाकाराः पूर्णाः परमवारिणा | मुक्ताप्रवालसिकता स्फटिकान्तरकुट्टिमाः | फुल्लपद्मोत्पलवनाश्चक्रवाकोपकूजिताः | दीर्घाभिर्द्रुमयुक्ताभिः सरिद्भिश्च समन्ततः | लताशतैरवतताः सन्तानकसमावृताः | ततोऽम्बुधरसङ्काशं प्रवृद्धशिखरं गिरिम् | शिलागृहैरवततं नानावृक्षैः समावृतम् | ददर्श
च नगात्तस्मान्नदीं निपतितां कपिः | जले
निपतिताग्रैश्च पादपैरुपशोभिताम् | पुनरावृत्ततोयां च ददर्श स महाकपिः | तस्यादूरात्स पद्मिन्यो नानाद्विजगणायुताः | कृत्रिमां दीर्घिकां चापि पूर्णां शीतेन वारिणा | विविधैर्मृगसङ्घैश्च विचित्रां चित्रकाननाम् | ये
के चित्पादपास्तत्र पुष्पोपगफलोपगाः | लताप्रतानैर्बहुभिः पर्णैश्च बहुभिर्वृताम् | सोऽपश्यद्भूमिभागांश्च गर्तप्रस्रवणानि च | तेषां
द्रुमाणां प्रभया मेरोरिव महाकपिः | तां
काञ्चनैस्तरुगणैर्मारुतेन च वीजिताम् | सुपुष्पिताग्रां रुचिरां तरुणाङ्कुरपल्लवाम् | इतो
द्रक्ष्यामि वैदेहीं राम दर्शनलालसाम् | अशोकवनिका चेयं दृढं रम्या दुरात्मनः | इयं
च नलिनी रम्या द्विजसङ्घनिषेविता | सा
राम राममहिषी राघवस्य प्रिया सदा | अथ
वा मृगशावाक्षी वनस्यास्य विचक्षणा | रामशोकाभिसन्तप्ता सा देवी वामलोचना | वनेचराणां सततं नूनं स्पृहयते पुरा | सन्ध्याकालमनाः श्यामा ध्रुवमेष्यति जानकी | तस्याश्चाप्यनुरूपेयमशोकवनिका शुभा | यदि
जिवति सा देवी ताराधिपनिभानना | एवं
तु मत्वा हनुमान्महात्मा |
51 |
634 |
|
Shri Hanuman enters
the Ashoka Garden and keeps on moving from one tree top to another tree top
and searching for Seeta, while observing its beauty. |
|||
|
15 |
अशोकवनिकायां तु तस्यां वानरपुङ्गवः | मध्ये
स्तम्भसहस्रेण स्थितं कैलासपाण्डुरम् | मुष्णन्तमिव चक्षूंषि द्योतमानमिव श्रिया | ततो
मलिनसंवीतां राक्षसीभिः समावृताम् | मन्दप्रख्यायमानेन रूपेण रुचिरप्रभाम् | पीतेनैकेन संवीतां क्लिष्टेनोत्तमवाससा | व्रीडितां दुःखसन्तप्तां परिम्लानां तपस्विनीम् | अश्रुपूर्णमुखीं दीनां कृशामननशेन च | प्रियं जनमपश्यन्तीं पश्यन्तीं राक्षसीगणम् | नीलनागाभया वेण्या जघनं गतयैकया | तां
समीक्ष्य विशालाक्षीमधिकं मलिनां कृशाम् | ह्रियमाणा तदा तेन रक्षसा कामरूपिणा | पूर्णचन्द्राननां सुभ्रूं चारुवृत्तपयोधराम् | तां
नीलकेशीं बिम्बौष्ठीं सुमध्यां सुप्रतिष्ठिताम् | इष्टां सर्वस्य जगतः पूर्णचन्द्रप्रभाम् इव | निःश्वासबहुलां भीरुं भुजगेन्द्रवधूम् इव | संसक्तां धूमजालेन शिखामिव विभावसोः | विहतामिव च श्रद्धामाशां प्रतिहताम् इव | अभूतेनापवादेन कीर्तिं निपतिताम् इव | अबलां
मृगशावाक्षीं वीक्षमाणां ततस्ततः | मलपङ्कधरां दीनां मण्डनार्हाममण्डिताम् | तस्य
सन्दिदिहे बुद्धिर्मुहुः सीतां निरीक्ष्य तु | दुःखेन बुबुधे सीतां हनुमाननलङ्कृताम् | तां
समीक्ष्य विशालाक्षीं राजपुत्रीमनिन्दिताम् | वैदेह्या यानि चाङ्गेषु तदा रामोऽन्वकीर्तयत् | सुकृतौ कर्णवेष्टौ च श्वदंष्ट्रौ च सुसंस्थितौ | श्यामानि चिरयुक्तत्वात्तथा संस्थानवन्ति च | तत्र
यान्यवहीनानि तान्यहं नोपलक्षये | पीतं
कनकपट्टाभं स्रस्तं तद्वसनं शुभम् | भूषणानि च मुख्यानि दृष्टानि धरणीतले | इदं
चिरगृहीतत्वाद्वसनं क्लिष्टवत्तरम् | इयं
कनकवर्णाङ्गी रामस्य महिषी प्रिया | इयं
सा यत्कृते रामश्चतुर्भिः परितप्यते | स्त्री प्रनष्टेति कारुण्यादाश्रितेत्यानृशंस्यतः | अस्या
देव्या यथा रूपमङ्गप्रत्यङ्गसौष्ठवम् | अस्या
देव्या मनस्तस्मिंस्तस्य चास्यां प्रतिष्ठितम् | दुष्करं कुरुते रामो य इमां मत्तकाशिनीम् | एवं
सीतां तदा दृष्ट्वा हृष्टः पवनसम्भवः | |
38 |
672 |
|
Shri Hanuman
continues his search in the Ashoka Garden for Seetha and finally sits over a
big Shimshupa tree. He sees an emaciated woman, sitting below the tree on
which top he is sitting, surrounded by demonesses. From her clothing etc, Shri
Hanuman recognizes her to be Seetha. |
|||
इत्यार्षे श्री
रामायणे सुन्दरकाण्डे सप्तम: भाग:
No comments:
Post a Comment