सुन्दरकाण्ड - Sundarakāṇḍa (भाग - ८ ;;; Part – 8)
|
Sarga
number as per Ramayana |
Shlokas
extracted |
No. of shlokas |
Cumulative number of shlokas in this
Kanda |
|
16 |
प्रशस्य तु प्रशस्तव्यां सीतां तां हरिपुङ्गवः | स
मुहूर्तमिव ध्यात्वा बाष्पपर्याकुलेक्षणः | मान्या गुरुविनीतस्य लक्ष्मणस्य गुरुप्रिया | रामस्य व्यवसायज्ञा लक्ष्मणस्य च धीमतः | तुल्यशीलवयोवृत्तां तुल्याभिजनलक्षणाम् | तां
दृष्ट्वा नवहेमाभां लोककान्तामिव श्रियम् | अस्या
हेतोर्विशालाक्ष्या हतो वाली महाबलः | विराधश्च हतः सङ्ख्ये राक्षसो भीमविक्रमः | चतुर्दशसहस्राणि रक्षसां भीमकर्मणाम् | खरश्च
निहतः सङ्ख्ये त्रिशिराश्च निपातितः | ऐश्वर्यं वानराणां च दुर्लभं वालिपालितम् | सागरश्च मया क्रान्तः श्रीमान्नदनदीपतिः | यदि
रामः समुद्रान्तां मेदिनीं परिवर्तयेत् | राज्यं वा त्रिषु लोकेषु सीता वा जनकात्मजा | इयं
सा धर्मशीलस्य मैथिलस्य महात्मनः | उत्थिता मेदिनीं भित्त्वा क्षेत्रे हलमुखक्षते | विक्रान्तस्यार्यशीलस्य संयुगेष्वनिवर्तिनः | धर्मज्ञस्य कृतज्ञस्य रामस्य विदितात्मनः | सर्वान्भोगान्परित्यज्य भर्तृस्नेहबलात्कृता | सन्तुष्टा फलमूलेन भर्तृशुश्रूषणे रता | सेयं
कनकवर्णाङ्गी नित्यं सुस्मितभाषिणी | इमां
तु शीलसम्पन्नां द्रष्टुमिच्छति राघवः | अस्या
नूनं पुनर्लाभाद्राघवः प्रीतिमेष्यति | कामभोगैः परित्यक्ता हीना बन्धुजनेन च | नैषा
पश्यति राक्षस्यो नेमान्पुष्पफलद्रुमान् | भर्ता
नाम परं नार्या भूषणं भूषणादपि | दुष्करं कुरुते रामो हीनो यदनया प्रभुः | इमामसितकेशान्तां शतपत्रनिभेक्षणाम् | क्षितिक्षमा पुष्करसंनिभाक्षी हिमहतनलिनीव नष्टशोभा अस्या
हि पुष्पावनताग्रशाखाः इत्येवमर्थं कपिरन्ववेक्ष्य |
32 |
704 |
|
Shri Hanuman is grief-stricken
upon finding the pitiable state of Seetha in that garden being guarded by women
demons. |
|||
|
18 |
तथा
विप्रेक्षमाणस्य वनं पुष्पितपादपम् | षडङ्गवेदविदुषां क्रतुप्रवरयाजिनाम् | अथ
मङ्गलवादित्रैः शब्दैः श्रोत्रमनोहरैः | विबुध्य तु यथाकालं राक्षसेन्द्रः प्रतावपान् | भृशं
नियुक्तस्तस्यां च मदनेन मदोत्कटः | स
सर्वाभरणैर्युक्तो बिभ्रच्छ्रियमनुत्तमाम् | वृतां
पुष्करिणीभिश्च नानापुष्पोपशोभिताम् | ईहामृगैश्च विविधैश्वृतां दृष्टिमनोहरैः | नानामृगगणाकीर्णां फलैः प्रपतितैर्वृताम् | अङ्गनाशतमात्रं तु तं व्रजन्तमनुव्रजत् | दीपिकाः काञ्चनीः काश्चिज्जगृहुस्तत्र योषितः | काञ्चनैरपि भृङ्गारैर्जह्रुः सलिलमग्रतः | का
चिद्रत्नमयीं पात्रीं पूर्णां पानस्य भामिनी | राजहंसप्रतीकाशं छत्रं पूर्णशशिप्रभम् | निद्रामदपरीताक्ष्यो रावणस्योत्तमस्त्रियः | ततः
काञ्चीनिनादं च नूपुराणां च निःस्वनम् | तं
चाप्रतिमकर्माणमचिन्त्यबलपौरुषम् | दीपिकाभिरनेकाभिः समन्तादवभासितम् | कामदर्पमदैर्युक्तं जिह्मताम्रायतेक्षणम् | मथितामृतफेनाभमरजो वस्त्रमुत्तमम् | तं
पत्रविटपे लीनः पत्रपुष्पघनावृतः | अवेक्षमाणश्च ततो ददर्श कपिकुञ्जरः | ताभिः
परिवृतो राजा सुरूपाभिर्महायशाः | क्षीबो विचित्राभरणः शङ्कुकर्णो महाबलः | वृतः
परमनारीभिस्ताराभिरिव चन्द्रमाः | रावणोऽयं महाबाहुरिति सञ्चिन्त्य वानरः | स
तथाप्युग्रतेजाः सन्निर्धूतस्तस्य तेजसा | स
तामसितकेशान्तां सुश्रोणीं संहतस्तनीम् | |
28 |
732 |
|
The night time is
almost completed and in the early hours, Shri Hanuman heard the recitation of
Vedic mantras. Ravana gets up in that
time and remembers Sita and proceeds towards Ashoka Garden. Shri Hanuman sees Ravana entering Ashoka
Garden with a retinue of his wives following him. |
|||
इत्यार्षे श्री
रामायणे सुन्दरकाण्डे अष्टम: भाग:
No comments:
Post a Comment