Tuesday, January 6, 2026

युद्धकाण्ड - Yuddhakāṇḍa (भाग - १० ;;; Part – 10)

 

युद्धकाण्ड - Yuddhakāṇḍa (भाग - १० ;;; Part – 10)

Sarga number as per Ramayana

Shlokas extracted

No. of shlokas

Cumulative number of shlokas in this Kanda

38

स तु कृत्वा सुवेलस्य मतिमारोहणं प्रति |
लक्ष्मणानुगतो रामः सुग्रीवमिदमब्रवीत् || १||

विभीषणं च धर्मज्ञमनुरक्तं निशाचरम् |
मन्त्रज्ञं च विधिज्ञं च श्लक्ष्णया परया गिरा || २||

सुवेलं साधु शैलेन्द्रमिमं धातुशतैश् चितम् |
अध्यारोहामहे सर्वे वत्स्यामोऽत्र निशामिमाम् || ३||

लङ्कां चालोकयिष्यामो निलयं तस्य रक्षसः |
येन मे मरणान्ताय हृता भार्या दुरात्मना || ४||

येन धर्मो न विज्ञातो न वृत्तं न कुलं तथा |
राक्षस्या नीचया बुद्ध्या येन तद्गर्हितं कृतम् || ५||

यस्मिन्मे वर्धते रोषः कीर्तिते राक्षसाधमे |
यस्यापराधान्नीचस्य वधं द्रक्ष्यामि रक्षसाम् || ६||

एको हि कुरुते पापं कालपाशवशं गतः |
नीचेनात्मापचारेण कुलं तेन विनश्यति || ७||

एवं संमन्त्रयन्नेव सक्रोधो रावणं प्रति |
रामः सुवेलं वासाय चित्रसानुमुपारुहत् || ८||

पृष्ठतो लक्ष्मण चैनमन्वगच्छत्समाहितः |
सशरं चापमुद्यम्य सुमहद्विक्रमे रतः || ९||

तमन्वरोहत्सुग्रीवः सामात्यः सविभीषणः |
हनूमानङ्गदो नीलो मैन्दो द्विविद एव च || १०||

गजो गवाक्षो गवयः शरभो गन्धमादनः |
पनसः कुमुदश्चैव हरो रम्भश्च यूथपः || ११||

एते चान्ये च बहवो वानराः शीघ्रगामिनः |
ते वायुवेगप्रवणास्तं गिरिं गिरिचारिणः |
अध्यारोहन्त शतशः सुवेलं यत्र राघवः || १२||

ते त्वदीर्घेण कालेन गिरिमारुह्य सर्वतः |
ददृशुः शिखरे तस्य विषक्तामिव खे पुरीम् || १३||

तां शुभां प्रवरद्वारां प्राकारवरशोभिताम् |
लङ्कां राक्षससम्पूर्णां ददृशुर्हरियूथपाः || १४||

प्राकारचयसंस्थैश्च तथा नीलैर्निशाचरैः |
ददृशुस्ते हरिश्रेष्ठाः प्राकारमपरं कृतम् || १५||

ते दृष्ट्वा वानराः सर्वे राक्षसान्युद्धकाङ्क्षिणः |
मुमुचुर्विपुलान्नादांस्तत्र रामस्य पश्यतः || १६||

ततोऽस्तमगमत्सूर्यः सन्ध्यया प्रतिरञ्जितः |
पूर्णचन्द्रप्रदीपा च क्षपा समभिवर्तते || १७||

ततः स रामो हरिवाहिनीपतिर्
विभीषणेन प्रतिनन्द्य सत्कृतः |
सलक्ष्मणो यूथपयूथसंवृतः
सुवेल पृष्ठे न्यवसद्यथासुखम् || १८||

18

836

Shri Rama desires to spend that night on Suvela mountain, and to have a clear vision of the City of Lanka and ascends that mountain along with Lakshmana, Vibhishana, Sugreeva and important leaders of Vanara army. They halt on that mountain-resort for the night.

39

तां रात्रिमुषितास्तत्र सुवेले हरिपुङ्गवाः |
लङ्कायां ददृशुर्वीरा वनान्युपवनानि च || १||

समसौम्यानि रम्याणि विशालान्यायतानि च |
दृष्टिरम्याणि ते दृष्ट्वा बभूवुर्जातविस्मयाः || २||

चम्पकाशोकपुंनागसालतालसमाकुला |
तमालवनसञ्चन्ना नागमालासमावृता || ३||

हिन्तालैरर्जुनैर्नीपैः सप्तपर्णैश्च पुष्पितैः |
तिलकैः कर्णिकारैश्च पटालैश्च समन्ततः || ४||

शुशुभे पुष्पिताग्रैश्च लतापरिगतैर्द्रुमैः |
लङ्का बहुविधैर्दिव्यैर्यथेन्द्रस्यामरावती || ५||

विचित्रकुसुमोपेतै रक्तकोमलपल्लवैः |
शाद्वलैश्च तथा नीलैश्चित्राभिर्वनराजिभिः || ६||

गन्धाढ्यान्यभिरम्याणि पुष्पाणि च फलानि च |
धारयन्त्यगमास्तत्र भूषणानीव मानवाः || ७||

तच्चैत्ररथसङ्काशं मनोज्ञं नन्दनोपमम् |
वनं सर्वर्तुकं रम्यं शुशुभे षट्पदायुतम् || ८||

नत्यूहकोयष्टिभकैर्नृत्यमानैश्च बर्हिभिः |
रुतं परभृतानां च शुश्रुवे वननिर्झरे || ९||

नित्यमत्तविहङ्गानि भ्रमराचरितानि च |
कोकिलाकुलषण्डानि विहगाभिरुतानि च || १०||

भृङ्गराजाभिगीतानि भ्रमरैः सेवितानि च |
कोणालकविघुष्टानि सारसाभिरुतानि च || ११||

विविशुस्ते ततस्तानि वनान्युपवनानि च |
हृष्टाः प्रमुदिता वीरा हरयः कामरूपिणः || १२||

तेषां प्रविशतां तत्र वानराणां महौजसाम् |
पुष्पसंसर्गसुरभिर्ववौ घ्राणसुखोऽनिलः || १३||

अन्ये तु हरिवीराणां यूथान्निष्क्रम्य यूथपाः |
सुग्रीवेणाभ्यनुज्ञाता लङ्कां जग्मुः पताकिनीम् || १४||

वित्रासयन्तो विहगांस्त्रासयन्तो मृगद्विपान् |
कम्पयन्तश्च तां लङ्कां नादैः स्वैर्नदतां वराः || १५||

कुर्वन्तस्ते महावेगा महीं चारणपीडिताम् |
रजश्च सहसैवोर्ध्वं जगाम चरणोद्धतम् || १६||

ऋक्षाः सिंहा वराहाश्च महिषा वारणा मृगाः |
तेन शब्देन वित्रस्ता जग्मुर्भीता दिशो दश || १७||

शिखरं तु त्रिकूटस्य प्रांशु चैकं दिविस्पृशम् |
समन्तात्पुष्पसञ्चन्नं महारजतसंनिभम् || १८||

शतयोजनविस्तीर्णं विमलं चारुदर्शनम् |
श्लक्ष्णं श्रीमन्महच्चैव दुष्प्रापं शकुनैरपि || १९||

मनसापि दुरारोहं किं पुनः कर्मणा जनैः |
निविष्टा तत्र शिखरे लङ्का रावणपालिता || २०||

सा पुरी गोपुरैरुच्चैः पाण्डुराम्बुदसंनिभैः |
काञ्चनेन च सालेन राजतेन च शोभिता || २१||

प्रासादैश्च विमानैश्च लङ्का परमभूषिता |
घनैरिवातपापाये मध्यमं वैष्णवं पदम् || २२||

यस्यां स्तम्भसहस्रेण प्रासादः समलङ्कृतः |
कैलासशिखराकारो दृश्यते खमिवोल्लिखन् || २३||

चैत्यः स राक्षसेन्द्रस्य बभूव पुरभूषणम् |
शतेन रक्षसां नित्यं यः समग्रेण रक्ष्यते || २४||

तां समृद्धां समृद्धार्थो लक्ष्मीवाँल्लक्ष्मणाग्रजः |
रावणस्य पुरीं रामो ददर्श सह वानरैः || २५||

तां रत्नपूर्णां बहुसंविधानां
प्रासादमालाभिरलङ्कृतां च |
पुरीं महायन्त्रकवाटमुख्यां
ददर्श रामो महता बलेन || २६||

26

862

Shri Rama and the others see the beautiful city of Lanka, located on the apex of Trikuta mountain, from the top of Suvela mountain. They saw the city with its large mansions and multi storied buildings, including the mansion of Ravana.

41

अथ तस्मिन्निमित्तानि दृष्ट्वा लक्ष्मणपूर्वजः |
लक्ष्मणं लक्ष्मिसम्पन्नमिदं वचनमब्रवीत् || १||

परिगृह्योदकं शीतं वनानि फलवन्ति च |
बलौघं संविभज्येमं व्यूह्य तिष्ठेम लक्ष्मण || २||

लोकक्षयकरं भीमं भयं पश्याम्युपस्थितम् |
निबर्हणं प्रवीराणामृक्षवानररक्षसाम् || ३||

वाताश्च परुषं वान्ति कम्पते च वसुन्धरा |
पर्वताग्राणि वेपन्ते पतन्ति धरणीधराः || ४||

मेघाः क्रव्यादसङ्काशाः परुषाः परुषस्वनाः |
क्रूराः क्रूरं प्रवर्षन्ति मिश्रं शोणितबिन्दुभिः || ५||

रक्तचन्दनसङ्काशा सन्ध्यापरमदारुणा |
ज्वलच्च निपतत्येतदादित्यादग्निमण्डलम् || ६||

आदित्यमभिवाश्यन्ते जनयन्तो महद्भयम् |
दीना दीनस्वरा घोरा अप्रशस्ता मृगद्विजाः || ७||

रजन्यामप्रकाशश्च सन्तापयति चन्द्रमाः |
कृष्णरक्तांशुपर्यन्तो यथा लोकस्य सङ्क्षये || ८||

ह्रस्वो रूक्षोऽप्रशस्तश्च परिवेषः सुलोहितः |
आदित्यमण्डले नीलं लक्ष्म लक्ष्मण दृश्यते || ९||

दृश्यन्ते न यथावच्च नक्षत्राण्यभिवर्तते |
युगान्तमिव लोकस्य पश्य लक्ष्मण शंसति || १०||

काकाः श्येनास्तथा गृध्रा नीचैः परिपतन्ति च |
शिवाश्चाप्यशिवा वाचः प्रवदन्ति महास्वनाः || ११||

क्षिप्रमद्य दुराधर्षां पुरीं रावणपालिताम् |
अभियाम जवेनैव सर्वतो हरिभिर्वृताः || १२||

इत्येवं तु वदन्वीरो लक्ष्मणं लक्ष्मणाग्रजः |
तस्मादवातरच्छीघ्रं पर्वताग्रान्महाबलः || १३||

अवतीर्य तु धर्मात्मा तस्माच्छैलात्स राघवः |
परैः परमदुर्धर्षं ददर्श बलमात्मनः || १४||

संनह्य तु ससुग्रीवः कपिराजबलं महत् |
कालज्ञो राघवः काले संयुगायाभ्यचोदयत् || १५||

ततः काले महाबाहुर्बलेन महता वृतः |
प्रस्थितः पुरतो धन्वी लङ्कामभिमुखः पुरीम् || १६||

तं विभीषण सुग्रीवौ हनूमाञ्जाम्बवान्नलः |
ऋक्षराजस्तथा नीलो लक्ष्मणश्चान्ययुस्तदा || १७||

ततः पश्चात्सुमहती पृतनर्क्षवनौकसाम् |
प्रच्छाद्य महतीं भूमिमनुयाति स्म राघवम् || १८||

शैलशृङ्गाणि शतशः प्रवृद्धांश्च महीरुहाम् |
जगृहुः कुञ्जरप्रख्या वानराः परवारणाः || १९||

तौ त्वदीर्घेण कालेन भ्रातरौ रामलक्ष्मणौ |
रावणस्य पुरीं लङ्कामासेदतुररिन्दमौ || २०||

पताकामालिनीं रम्यामुद्यानवनशोभिताम् |
चित्रवप्रां सुदुष्प्रापामुच्चप्राकारतोरणाम् || २१||

तां सुरैरपि दुर्धर्षां रामवाक्यप्रचोदिताः |
यथानिदेशं सम्पीड्य न्यविशन्त वनौकसः || २२||

लङ्कायास्तूत्तरद्वारं शैलशृङ्गमिवोन्नतम् |
रामः सहानुजो धन्वी जुगोप च रुरोध च || २३||

लङ्कामुपनिविष्टश्च रामो दशरथात्मजः |
लक्ष्मणानुचरो वीरः पुरीं रावणपालिताम् || २४||

उत्तरद्वारमासाद्य यत्र तिष्ठति रावणः |
नान्यो रामाद्धि तद्द्वारं समर्थः परिरक्षितुम् || २५||

रावणाधिष्ठितं भीमं वरुणेनेव सागरम् |
सायुधौ राक्षसैर्भीमैरभिगुप्तं समन्ततः |
लघूनां त्रासजननं पातालमिव दानवैः || २६||

विन्यस्तानि च योधानां बहूनि विविधानि च |
ददर्शायुधजालानि तथैव कवचानि च || २७||

पूर्वं तु द्वारमासाद्य नीलो हरिचमूपतिः |
अतिष्ठत्सह मैन्देन द्विविदेन च वीर्यवान् || २८||

अङ्गदो दक्षिणद्वारं जग्राह सुमहाबलः |
ऋषभेण गवाक्षेण गजेन गवयेन च || २९||

हनूमान्पश्चिमद्वारं ररक्ष बलवान्कपिः |
प्रमाथि प्रघसाभ्यां च वीरैरन्यैश्च सङ्गतः || ३०||

मध्यमे च स्वयं गुल्मे सुग्रीवः समतिष्ठत |
सह सर्वैर्हरिश्रेष्ठैः सुपर्णश्वसनोपमैः || ३१||

वानराणां तु षट्त्रिंशत्कोट्यः प्रख्यातयूथपाः |
निपीड्योपनिविष्टाश्च सुग्रीवो यत्र वानरः || ३२||

शासनेन तु रामस्य लक्ष्मणः सविभीषणः |
द्वारे द्वारे हरीणां तु कोटिं कोटिं न्यवेशयत् || ३३||

पश्चिमेन तु रामस्य सुग्रीवः सह जाम्बवान् |
अदूरान्मध्यमे गुल्मे तस्थौ बहुबलानुगः || ३४||

ते तु वानरशार्दूलाः शार्दूला इव दंष्ट्रिणः |
गृहीत्वा द्रुमशैलाग्रान्हृष्टा युद्धाय तस्थिरे || ३५||

सर्वे विकृतलाङ्गूलाः सर्वे दंष्ट्रानखायुधाः |
सर्वे विकृतचित्राङ्गाः सर्वे च विकृताननाः || ३६||

दशनागबलाः के चित्के चिद्दशगुणोत्तराः |
के चिन्नागसहस्रस्य बभूवुस्तुल्यविक्रमाः || ३७||

सन्ति चौघा बलाः के चित्के चिच्छतगुणोत्तराः |
अप्रमेयबलाश्चान्ये तत्रासन्हरियूथपाः || ३८||

अद्भुतश्च विचित्रश्च तेषामासीत्समागमः |
तत्र वानरसैन्यानां शलभानामिवोद्गमः || ३९||

परिपूर्णमिवाकाशं सञ्चन्नेव च मेदिनी |
लङ्कामुपनिविष्टैश्च सम्पतद्भिश्च वानरैः || ४०||

शतं शतसहस्राणां पृथगृक्षवनौकसाम् |
लङ्का द्वाराण्युपाजग्मुरन्ये योद्धुं समन्ततः || ४१||

आवृतः स गिरिः सर्वैस्तैः समन्तात्प्लवङ्गमैः |
अयुतानां सहस्रं च पुरीं ताम् अभ्यवर्तत || ४२||

वानरैर्बलवद्भिश्च बभूव द्रुमपाणिभिः |
सर्वतः संवृता लङ्का दुष्प्रवेशापि वायुना || ४३||

राक्षसा विस्मयं जग्मुः सहसाभिनिपीडिताः |
वानरैर्मेघसङ्काशैः शक्रतुल्यपराक्रमैः || ४४||

महाञ्शब्दोऽभवत्तत्र बलौघस्याभिवर्ततः |
सागरस्येव भिन्नस्य यथा स्यात्सलिलस्वनः || ४५||

तेन शब्देन महता सप्राकारा सतोरणा |
लङ्का प्रचलिता सर्वा सशैलवनकानना || ४६||

रामलक्ष्मणगुप्ता सा सुग्रीवेण च वाहिनी |
बभूव दुर्धर्षतरा सर्वैरपि सुरासुरैः || ४७||

राघवः संनिवेश्यैवं सैन्यं स्वं रक्षसां वधे |
संमन्त्र्य मन्त्रिभिः सार्धं निश्चित्य च पुनः पुनः || ४८||

आनन्तर्यमभिप्रेप्सुः क्रमयोगार्थतत्त्ववित् |
विभीषणस्यानुमते राजधर्ममनुस्मरन् |
अङ्गदं वालितनयं समाहूयेदमब्रवीत् || ४९||

गत्वा सौम्य दशग्रीवं ब्रूहि मद्वचनात्कपे |
लङ्घयित्वा पुरीं लङ्कां भयं त्यक्त्वा गतव्यथः || ५०||

भ्रष्टश्रीकगतैश्वर्यमुमूर्षो नष्टचेतनः |
ऋषीणां देवतानां च गन्धर्वाप्सरसां तथा || ५१||

नागानामथ यक्षाणां राज्ञां च रजनीचर |
यच्च पापं कृतं मोहादवलिप्तेन राक्षस || ५२||

नूनमद्य गतो दर्पः स्वयम्भू वरदानजः |
यस्य दण्डधरस्तेऽहं दाराहरणकर्शितः |
दण्डं धारयमाणस्तु लङ्काद्वरे व्यवस्थितः || ५३||

पदवीं देवतानां च महर्षीणां च राक्षस |
राजर्षीणां च सर्वेणां गमिष्यसि मया हतः || ५४||

बलेन येन वै सीतां मायया राक्षसाधम |
मामतिक्रामयित्वा त्वं हृतवांस्तद्विदर्शय || ५५||

अराक्षसमिमं लोकं कर्तास्मि निशितैः शरैः |
न चेच्छरणमभ्येषि मामुपादाय मैथिलीम् || ५६||

धर्मात्मा रक्षसां श्रेष्ठः सम्प्राप्तोऽयं विभीषणः |
लङ्कैश्वर्यं ध्रुवं श्रीमानयं प्राप्नोत्यकण्टकम् || ५७||

न हि राज्यमधर्मेण भोक्तुं क्षणमपि त्वया |
शक्यं मूर्खसहायेन पापेनाविजितात्मना || ५८||

युध्यस्व वा धृतिं कृत्वा शौर्यमालम्ब्य राक्षस |
मच्छरैस्त्वं रणे शान्तस्ततः पूतो भविष्यसि || ५९||

यद्याविशसि लोकांस्त्रीन्पक्षिभूतो मनोजवः |
मम चक्षुष्पथं प्राप्य न जीवन्प्रतियास्यसि || ६०||

ब्रवीमि त्वां हितं वाक्यं क्रियताम् और्ध्वदेकिकम् |
सुदृष्टा क्रियतां लङ्का जीवितं ते मयि स्थितम् || ६१||

इत्युक्तः स तु तारेयो रामेणाक्लिष्टकर्मणा |
जगामाकाशमाविश्य मूर्तिमानिव हव्यवाट् || ६२||

सोऽतिपत्य मुहूर्तेन श्रीमान्रावणमन्दिरम् |
ददर्शासीनमव्यग्रं रावणं सचिवैः सह || ६३||

ततस्तस्याविदूरेण निपत्य हरिपुङ्गवः |
दीप्ताग्निसदृशस्तस्थावङ्गदः कनकाङ्गदः || ६४||

तद्रामवचनं सर्वमन्यूनाधिकमुत्तमम् |
सामात्यं श्रावयामास निवेद्यात्मानमात्मना || ६५||

दूतोऽहं कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणः |
वालिपुत्रोऽङ्गदो नाम यदि ते श्रोत्रमागतः || ६६||

आह त्वां राघवो रामः कौसल्यानन्दवर्धनः |
निष्पत्य प्रतियुध्यस्व नृशंसं पुरुषाधम || ६७||

हन्तास्मि त्वां सहामात्यं सपुत्रज्ञातिबान्धवम् |
निरुद्विग्नास्त्रयो लोका भविष्यन्ति हते त्वयि || ६८||

देवदानवयक्षाणां गन्धर्वोरगरक्षसाम् |
शत्रुमद्योद्धरिष्यामि त्वामृषीणां च कण्टकम् || ६९||

विभीषणस्य चैश्वर्यं भविष्यति हते त्वयि |
न चेत्सत्कृत्य वैदेहीं प्रणिपत्य प्रदास्यसि || ७०||

इत्येवं परुषं वाक्यं ब्रुवाणे हरिपुङ्गवे |
अमर्षवशमापन्नो निशाचरगणेश्वरः || ७१||

ततः स रोषताम्राक्षः शशास सचिवांस्तदा |
गृह्यतामेष दुर्मेधा वध्यतामिति चासकृत् || ७२||

रावणस्य वचः श्रुत्वा दीप्ताग्निसमतेजसः |
जगृहुस्तं ततो घोराश्चत्वारो रजनीचराः || ७३||

ग्राहयामास तारेयः स्वयमात्मानमात्मना |
बलं दर्शयितुं वीरो यातुधानगणे तदा || ७४||

स तान्बाहुद्वये सक्तानादाय पतगानिव |
प्रासादं शैलसङ्काशमुत्पापाताङ्गदस्तदा || ७५||

तेऽन्तरिक्षाद्विनिर्धूतास्तस्य वेगेन राक्षसाः |
भुमौ निपतिताः सर्वे राक्षसेन्द्रस्य पश्यतः || ७६||

ततः प्रासादशिखरं शैलशृङ्गमिवोन्नतम् |
तत्पफाल तदाक्रान्तं दशग्रीवस्य पश्यतः || ७७||

भङ्क्त्वा प्रासादशिखरं नाम विश्राव्य चात्मनः |
विनद्य सुमहानादमुत्पपात विहायसा || ७८||

रावणस्तु परं चक्रे क्रोधं प्रासादधर्षणात् |
विनाशं चात्मनः पश्यन्निःश्वासपरमोऽभवत् || ७९||

रामस्तु बहुभिर्हृष्टैर्निनदद्भिः प्लवङ्गमैः |
वृतो रिपुवधाकाङ्क्षी युद्धायैवाभ्यवर्तत || ८०||

सुषेणस्तु महावीर्यो गिरिकूटोपमो हरिः |
बहुभिः संवृतस्तत्र वानरैः कामरूपिभिः || ८१||

चतुर्द्वाराणि सर्वाणि सुग्रीववचनात्कपिः |
पर्याक्रमत दुर्धर्षो नक्षत्राणीव चन्द्रमाः || ८२||

तेषामक्षौहिणिशतं समवेक्ष्य वनौकसाम् |
लङ्कामुपनिविष्टानां सागरं चातिवर्तताम् || ८३||

राक्षसा विस्मयं जग्मुस्त्रासं जग्मुस्तथापरे |
अपरे समरोद्धर्षाद्धर्षमेवोपपेदिरे || ८४||

84

946

Shri Rama shares his observation with Lakshmana about the various evil portents he had seen. Then, Shri Rama commands the Vanara army generals to besiege all the three gates of Lanka, as decided earlier. He himself along with Lakshmana, besieged the northern gate being guarded by Ravana.

Then, Shri Rama sends Angada to convey his final message to Ravana to restore Seeta to him and make peace. Angada conveys that message to Ravana, but in vain. Ravana orders his servants to seize Angada. Angada thrashes out those attendants who tried to capture him and ascends the roof of Ravana's palace, tramples and crushes it down by his strength. Angada finally returns to Shri Rama.

इत्यार्षे श्री रामायणे युद्धकाण्डे दशम: भाग:

 

Yuddhakāṇḍa Part-9

Yuddhakāṇḍa Part-11

 

No comments:

Post a Comment