Tuesday, January 6, 2026

युद्धकाण्ड - Yuddhakāṇḍa (भाग - ९ ;;; Part – 9)

 

युद्धकाण्ड - Yuddhakāṇḍa (भाग - ;;; Part – 9)

Sarga number as per Ramayana

Shlokas extracted

No. of shlokas

Cumulative number of shlokas in this Kanda

35

तेन शङ्खविमिश्रेण भेरीशब्देन राघवः |
उपयतो महाबाहू रामः परपुरञ्जयः || १||

तं निनादं निशम्याथ रावणो राक्षसेश्वरः |
मुहूर्तं ध्यानमास्थाय सचिवानभ्युदैक्षत || २||

अथ तान्सचिवांस्तत्र सर्वानाभाष्य रावणः |
सभां संनादयन्सर्वामित्युवाच महाबलः || ३||

तरणं सागरस्यापि विक्रमं बलसञ्चयम् |
यदुक्तवन्तो रामस्य भवन्तस्तन्मया श्रुतम् |
भवतश्चाप्यहं वेद्मि युद्धे सत्यपराक्रमान् || ४||

ततस्तु सुमहाप्राज्ञो माल्यवान्नाम राक्षसः |
रावणस्य वचः श्रुत्वा मातुः पैतामहोऽब्रवीत् || ५||

विद्यास्वभिविनीतो यो राजा राजन्नयानुगः |
स शास्ति चिरमैश्वर्यमरींश्च कुरुते वशे || ६||

सन्दधानो हि कालेन विगृह्णंश्चारिभिः सह |
स्वपक्षवर्धनं कुर्वन्महदैश्वर्यमश्नुते || ७||

हीयमानेन कर्तव्यो राज्ञा सन्धिः समेन च |
न शत्रुमवमन्येत ज्यायान्कुर्वीत विग्रहम् || ८||

तन्मह्यं रोचते सन्धिः सह रामेण रावण |
यदर्थमभियुक्ताः स्म सीता तस्मै प्रदीयताम् || ९||

तस्य देवर्षयः सर्वे गन्धर्वाश्च जयैषिणः |
विरोधं मा गमस्तेन सन्धिस्ते तेन रोचताम् || १०||

इदं वचस्तत्र निगद्य माल्यवन्
परीक्ष्य रक्षोऽधिपतेर्मनः पुनः |
अनुत्तमेषूत्तमपौरुषो बली
बभूव तूष्णीं समवेक्ष्य रावणम् || ११||

11

760

Ravana hears the sound of kettle drums and couches beaten by Shri Rama’s army, indicating their arrival for war. Ravana calls his ministers to decide his further course of action. Malyavan, Ravana's maternal grandfather advises Ravana to make peace with Shri Rama and restore Seetha to him as he perceived Shri Rama’s army is more powerful than that of Ravana.

36

तत्तु माल्यवतो वाक्यं हितमुक्तं दशाननः |
न मर्षयति दुष्टात्मा कालस्य वशमागतः || १||

स बद्ध्वा भ्रुकुटिं वक्त्रे क्रोधस्य वशमागतः |
अमर्षात्परिवृत्ताक्षो माल्यवन्तमथाब्रवीत् || २||

हितबुद्ध्या यदहितं वचः परुषमुच्यते |
परपक्षं प्रविश्यैव नैतच्छ्रोत्रगतं मम || ३||

मानुषं कृपणं राममेकं शाखामृगाश्रयम् |
समर्थं मन्यसे केन त्यक्तं पित्रा वनालयम् || ४||

रक्षसामीश्वरं मां च देवतानां भयङ्करम् |
हीनं मां मन्यसे केन अहीनं सर्वविक्रमैः || ५||

वीरद्वेषेण वा शङ्के पक्षपातेन वा रिपोः |
त्वयाहं परुषाण्युक्तः परप्रोत्साहनेन वा || ६||

प्रभवन्तं पदस्थं हि परुषं कोऽह्बिधास्यति |
पण्डितः शास्त्रतत्त्वज्ञो विना प्रोत्साहनाद्रिपोः || ७||

आनीय च वनात्सीतां पद्महीनामिव श्रियम् |
किमर्थं प्रतिदास्यामि राघवस्य भयादहम् || ८||

वृतं वानरकोटीभिः ससुग्रीवं सलक्ष्मणम् |
पश्य कैश्चिदहोभिस्त्वं राघवं निहतं मया || ९||

द्वन्द्वे यस्य न तिष्ठन्ति दैवतान्यपि संयुगे |
स कस्माद्रावणो युद्धे भयमाहारयिष्यति || १०||

द्विधा भज्येयमप्येवं न नमेयं तु कस्य चित् |
एष मे सहजो दोषः स्वभावो दुरतिक्रमः || ११||

यदि तावत्समुद्रे तु सेतुर्बद्धो यदृच्छया |
रामेण विस्मयः कोऽत्र येन ते भयमागतम् || १२||

स तु तीर्त्वार्णवं रामः सह वानरसेनया |
प्रतिजानामि ते सत्यं न जीवन्प्रतियास्यति || १३||

एवं ब्रुवाणं संरब्धं रुष्टं विज्ञाय रावणम् |
व्रीडितो माल्यवान्वाक्यं नोत्तरं प्रत्यपद्यत || १४||

जयाशिषा च राजानं वर्धयित्वा यथोचितम् |
माल्यवानभ्यनुज्ञातो जगाम स्वं निवेशनम् || १५||

रावणस्तु सहामात्यो मन्त्रयित्वा विमृश्य च |
लङ्कायामतुलां गुप्तिं कारयामास राक्षसः || १६||

व्यादिदेश च पूर्वस्यां प्रहस्तं द्वारि राक्षसं |
दक्षिणस्यां महावीर्यौ महापार्श्व महोदरौ || १७||

पश्चिमायामथो द्वारि पुत्रमिन्द्रजितं तथा |
व्यादिदेश महामायं राक्षसैर्बहुभिर्वृतम् || १८||

उत्तरस्यां पुरद्वारि व्यादिश्य शुकसारणौ |
स्वयं चात्र भविष्यामि मन्त्रिणस्तानुवाच ह || १९||

राक्षसं तु विरूपाक्षं महावीर्यपराक्रमम् |
मध्यमेऽस्थापयद्गुल्मे बहुभिः सह राक्षसैः || २०||

एवंविधानं लङ्कायां कृत्वा राक्षसपुङ्गवः |
मेने कृतार्थमात्मानं कृतान्तवशमागतः || २१||

विसर्जयामास ततः स मन्त्रिणो
विधानमाज्ञाप्य पुरस्य पुष्कलम् |
जयाशिषा मन्त्रगणेन पूजितो
विवेश सोऽन्तःपुरमृद्धिमन्महत् || २२||

22

782

Ravana gets angry with the wise counsel of Malyavan and even abuses him that the latter was exaggerating the strength of Shri Rama and that he would not restore Seetha to Shri Rama even if he was cut to 2 parts. 

Ravana further said that he would not consider Shri Rama’s building a bridge over ocean as a great achievement. He added that having crossed the ocean and reached Lanka, Shri Rama and his army would not go back alive. 

Then, Ravana assigns East gate to Prahasta, Southern gate to Mahaparshva and Mahodara, Western gate to Indrajit and Northern gate to himself and his ministers Shuka and Saarana to guard against the onslaught of the enemy.

37

नरवानरराजौ तौ स च वायुसुतः कपिः |
जाम्बवानृक्षराजश्च राक्षसश्च विभीषणः || १||

अङ्गदो वालिपुत्रश्च सौमित्रिः शरभः कपिः |
सुषेणः सहदायादो मैन्दो द्विविद एव च || २||

गजो गवाक्षो कुमुदो नलोऽथ पनसस्तथा |
अमित्रविषयं प्राप्ताः समवेताः समर्थयन् || ३||

इयं सा लक्ष्यते लङ्का पुरी रावणपालिता |
सासुरोरगगन्धर्वैरमरैरपि दुर्जया || ४||

कार्यसिद्धिं पुरस्कृत्य मन्त्रयध्वं विनिर्णये |
नित्यं संनिहितो ह्यत्र रावणो राक्षसाधिपः || ५||

तथा तेषु ब्रुवाणेषु रावणावरजोऽब्रवीत् |
वाक्यमग्राम्यपदवत्पुष्कलार्थं विभीषणः || ६||

अनलः शरभश्चैव सम्पातिः प्रघसस्तथा |
गत्वा लङ्कां ममामात्याः पुरीं पुनरिहागताः || ७||

भूत्वा शकुनयः सर्वे प्रविष्टाश् च रिपोर्बलम् |
विधानं विहितं यच्च तद्दृष्ट्वा समुपस्थिताः || ८||

संविधानं यथाहुस्ते रावणस्य दुरात्मनः |
राम तद्ब्रुवतः सर्वं यथातथ्येन मे शृणु || ९||

पूर्वं प्रहस्तः सबलो द्वारमासाद्य तिष्ठति |
दक्षिणं च महावीर्यौ महापार्श्वमहोदरौ || १०||

इन्द्रजित्पश्चिमद्वारं राक्षसैर्बहुभिर्वृतः |
पट्टसासिधनुष्मद्भिः शूलमुद्गरपाणिभिः || ११||

नानाप्रहरणैः शूरैरावृतो रावणात्मजः |
राक्षसानां सहस्रैस्तु बहुभिः शस्त्रपाणिभिः || १२||

युक्तः परमसंविग्नो राक्षसैर्बहुभिर्वृतः |
उत्तरं नगरद्वारं रावणः स्वयमास्थितः || १३||

विरूपाक्षस्तु महता शूलखड्गधनुष्मता |
बलेन राक्षसैः सार्धं मध्यमं गुल्ममास्थितः || १४||

एतानेवंविधान्गुल्माँल्लङ्कायां समुदीक्ष्य ते |
मामकाः सचिवाः सर्वे शीघ्रं पुनरिहागताः || १५||

गजानां च सहस्रं च रथानामयुतं पुरे |
हयानामयुते द्वे च साग्रकोटी च रक्षसाम् || १६||

विक्रान्ता बलवन्तश्च संयुगेष्वाततायिनः |
इष्टा राक्षसराजस्य नित्यमेते निशाचराः || १७||

एकैकस्यात्र युद्धार्थे राक्षसस्य विशां पते |
परिवारः सहस्राणां सहस्रमुपतिष्ठते || १८||

एतां प्रवृत्तिं लङ्कायां मन्त्रिप्रोक्तं विभीषणः |
रामं कमलपत्राक्षमिदमुत्तरमब्रवीत् || १९||

कुबेरं तु यदा राम रावणः प्रत्ययुध्यत |
षष्टिः शतसहस्राणि तदा निर्यान्ति राक्षसाः || २०||

पराक्रमेण वीर्येण तेजसा सत्त्वगौरवात् |
सदृशा योऽत्र दर्पेण रावणस्य दुरात्मनः || २१||

अत्र मन्युर्न कर्तव्यो रोषये त्वां न भीषये |
समर्थो ह्यसि वीर्येण सुराणाम् अपि निग्रहे || २२||

तद्भवांश्चतुरङ्गेण बलेन महता वृतः |
व्यूह्येदं वानरानीकं निर्मथिष्यसि रावणम् || २३||

रावणावरजे वाक्यमेवं ब्रुवति राघवः |
शत्रूणां प्रतिघातार्थमिदं वचनमब्रवीत् || २४||

पूर्वद्वारे तु लङ्काया नीलो वानरपुङ्गवः |
प्रहस्तं प्रतियोद्धा स्याद्वानरैर्बहुभिर्वृतः || २५||

अङ्गदो वालिपुत्रस्तु बलेन महता वृतः |
दक्षिणे बाधतां द्वारे महापार्श्वमहोदरौ || २६||

हनूमान्पश्चिमद्वारं निपीड्य पवनात्मजः |
प्रविशत्वप्रमेयात्मा बहुभिः कपिभिर्वृतः || २७||

दैत्यदानवसङ्घानामृषीणां च महात्मनाम् |
विप्रकारप्रियः क्षुद्रो वरदानबलान्वितः || २८||

परिक्रामति यः सर्वाँल्लोकान्सन्तापयन्प्रजाः |
तस्याहं राक्षसेन्द्रस्य स्वयमेव वधे धृतः || २९||

उत्तरं नगरद्वारमहं सौमित्रिणा सह |
निपीड्याभिप्रवेक्ष्यामि सबलो यत्र रावणः || ३०||

वानरेन्द्रश्च बलवानृक्षराजश्च जाम्बवान् |
राक्षसेन्द्रानुजश् चैव गुल्मे भवतु मध्यमे || ३१||

न चैव मानुषं रूपं कार्यं हरिभिराहवे |
एषा भवतु नः संज्ञा युद्धेऽस्मिन्वानरे बले || ३२||

वानरा एव निश्चिह्नं स्वजनेऽस्मिन्भविष्यति |
वयं तु मानुषेणैव सप्त योत्स्यामहे परान् || ३३||

अहमेव सह भ्रात्रा लक्ष्मणेन महौजसा |
आत्मना पञ्चमश्चायं सखा मम विभीषणः || ३४||

स रामः कार्यसिद्ध्यर्थमेवमुक्त्वा विभीषणम् |
सुवेलारोहणे बुद्धिं चकार मतिमान्मतिम् || ३५||

ततस्तु रामो महता बलेन
प्रच्छाद्य सर्वां पृथिवीं महात्मा |
प्रहृष्टरूपोऽभिजगाम लङ्कां
कृत्वा मतिं सोऽरिवधे महात्मा || ३६||

36

818

Vibhishana informs Shri Rama the arrangements made, information obtained through his ministers, at the 4 gates of Lanka.  

Shri Rama assigns East gate to Nila and his troop of vanaras, Southern gate to Angada and his troop, Western gate to Shri Hanuman and his troop and Northern gate to himself and his brother Lakshmana, for attacking the enemy troops. 

Vibhishana, Sugreeva, Jambavan will concentrate to penetrate the Ravana’s army stationed in Lanka to safeguard the central area of Lanka.

इत्यार्षे श्री रामायणे युद्धकाण्डे नवम: भाग:

 

Yuddhakāṇḍa Part-8

Yuddhakāṇḍa Part-10

 

No comments:

Post a Comment