युद्धकाण्ड - Yuddhakāṇḍa (भाग - ११ ;;; Part – 11)
|
Sarga
number as per Ramayana |
Shlokas
extracted |
No. of shlokas |
Cumulative number of shlokas in this
Kanda |
|
42 |
ततस्ते राक्षसास्तत्र गत्वा रावणमन्दिरम् | रुद्धां तु नगरीं श्रुत्वा जातक्रोधो निशाचरः | स
ददर्शावृतां लङ्कां सशैलवनकाननाम् | स
दृष्ट्वा वानरैः सर्वां वसुधां कवलीकृताम् | स
चिन्तयित्वा सुचिरं धैर्यमालम्ब्य रावणः | प्रेक्षतो राक्षसेन्द्रस्य तान्यनीकानि भागशः | ते
ताम्रवक्त्रा हेमाभा रामार्थे त्यक्तजीविताः | ते
द्रुमैः पर्वताग्रैश्च मुष्टिभिश्च प्लवङ्गमाः | पारिखाः पूरयन्ति स्म प्रसन्नसलिलायुताः | ततः
सहस्रयूथाश्च कोटियूथाश्च यूथपाः | काञ्चनानि प्रमृद्नन्तस्तोरणानि प्लवङ्गमाः | आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवङ्गमाः | जयत्यतिबलो रामो लक्ष्मणश्च महाबलः | इत्येवं घोषयन्तश्च गर्जन्तश्च प्लवङ्गमाः | वीरबाहुः सुबाहुश्च नलश्च वनगोचरः | एतस्मिन्नन्तरे चक्रुः स्कन्धावारनिवेशनम् || १६|| पूर्वद्वारं तु कुमुदः कोटिभिर्दशभिर्वृतः | दक्षिणद्वारमागम्य वीरः शतबलिः कपिः | सुषेणः पश्चिमद्वारं गतस्तारा पिता हरिः | उत्तरद्वारमासाद्य रामः सौमित्रिणा सह | गोलाङ्गूलो महाकायो गवाक्षो भीमदर्शनः | ऋष्काणां भीमवेगानां धूम्रः शत्रुनिबर्हणः | संनद्धस्तु महावीर्यो गदापाणिर्विभीषणः | गजो
गवाक्षो गवयः शरभो गन्धमादनः | ततः
कोपपरीतात्मा रावणो राक्षसेश्वरः | निष्पतन्ति ततः सैन्या हृष्टा रावणचोदिताः | एतस्मिन्नन्तरे घोरः सङ्ग्रामः समपद्यत | ते
गदाभिः प्रदीप्ताभिः शक्तिशूलपरश्वधैः | तथा
वृक्षैर्महाकायाः पर्वताग्रैश्च वानराः | राक्षसास्त्वपरे भीमाः प्राकारस्था महीगतान् | वानराश्चापि सङ्क्रुद्धाः प्राकारस्थान्महीगताः | स
सम्प्रहारस्तुमुलो मांसशोणितकर्दमः | |
32 |
978 |
|
The demons inform the
news of besieging of Lanka to Ravana. Ravana ascends his mansion and observes
the Lanka being sieged by the innumerable troops of vanaras. Shri Rama issues a order
to the vanaras to attack the enemy. The vanaras start demolishing various
important defensive structures of the city of Lanka and besiege all the
city-gates. Ravana also issues order
to his army to commence war. Demons began to strike the vanaras with their
weapons and the vanaras respond the strike with trees, mountain-tops, nails
and teeth. |
|||
|
43 |
युध्यतां तु ततस्तेषां वानराणां महात्मनाम् | ते
हयैः काञ्चनापीडैर्ध्वजैश्चाग्निशिखोपमैः | निर्ययू राक्षसव्याघ्रा नादयन्तो दिशो दश | वानराणामपि चमूर्महती जयमिच्चताम् | एतस्मिन्नन्तरे तेषामन्योन्यमभिधावताम् | अङ्गदेनेन्द्रजित्सार्धं वालिपुत्रेण राक्षसः | प्रजङ्घेन च सम्पातिर्नित्यं दुर्मर्षणो रणे | सङ्गतः सुमहाक्रोधो राक्षसो रावणानुजः | तपनेन
गजः सार्धं राक्षसेन महाबलः | वानरेन्द्रस्तु सुग्रीवः प्रघसेन समागतः | अग्निकेतुश्च दुर्धर्षो रश्मिकेतुश्च राक्षसः | वज्रमुष्टिस्तु मैन्देन द्विविदेनाशनिप्रभः | वीरः
प्रतपनो घोरो राक्षसो रणदुर्धरः | धर्मस्य पुत्रो बलवान्सुषेण इति विश्रुतः | वानराश्चापरे भीमा राक्षसैरपरैः सह | तत्रासीत्सुमहद्युद्धं तुमुलं लोमहर्षणम् | हरिराक्षसदेहेभ्यः प्रसृताः केशशाड्वलाः | आजघानेन्द्रजित्क्रुद्धो वज्रेणेव शतक्रतुः | तस्य
काञ्चनचित्राङ्गं रथं साश्वं ससारथिम् | सम्पातिस्तु त्रिभिर्बाणैः प्रजङ्घेन समाहतः | जम्बूमाली रथस्थस्तु रथशक्त्या महाबलः | तस्य
तं रथमास्थाय हनूमान्मारुतात्मजः | भिन्नगात्रः शरैस्तीक्ष्णैः क्षिप्रहस्तेन रक्षसा | ग्रसन्तमिव सैन्यानि प्रघसं वानराधिपः | प्रपीड्य शरवर्षेण राक्षसं भीमदर्शनम् | अग्निकेतुश्च दुर्धर्षो रश्मिकेतुश्च राक्षसः | तेषां
चतुर्णां रामस्तु शिरांसि समरे शरैः | वज्रमुष्टिस्तु मैन्देन मुष्टिना निहतो रणे | वज्राशनिसमस्पर्शो द्विविदोऽप्यशनिप्रभम् | द्विविदं वानरेन्द्रं तु द्रुमयोधिनमाहवे | स
शरैरतिविद्धाङ्गो द्विविदः क्रोधमूर्छितः | निकुम्भस्तु रणे नीलं नीलाञ्जनचयप्रभम् | पुनः
शरशतेनाथ क्षिप्रहस्तो निशाचरः | तस्यैव रथचक्रेण नीलो विष्णुरिवाहवे | विद्युन्माली रथस्थस्तु शरैः काञ्चनभूषणैः | तं
रथस्थमथो दृष्ट्वा सुषेणो वानरोत्तमः | लाघवेन तु संयुक्तो विद्युन्माली निशाचरः | ततः
क्रोधसमाविष्टः सुषेणो हरिपुङ्गवः | तमापतन्तं गदया विद्युन्माली निशाचरः | गदाप्रहारं तं घोरमचिन्त्यप्लवगोत्तमः | शिलाप्रहाराभिहतो विद्युन्माली निशाचरः | एवं
तैर्वानरैः शूरैः शूरास्ते रजनीचराः | भल्लैः खड्गैर्गदाभिश्च शक्तितोमर पट्टसैः | निहतैः कुञ्जरैर्मत्तैस्तथा वानरराक्षसैः | कबन्धानि समुत्पेतुर्दिक्षु वानररक्षसाम् | विदार्यमाणा हरिपुङ्गवैस्तदा |
46 |
1024 |
|
Great duels arose
between the vanaras and demons, who rushed towards each other. Indrajit
fought with Angada, Sampati with Prajanghaasura, Shri Hanuman with Jambumali,
Vibhishana with Shatrughna, Gaja with Tapana, Nila with Nikumbha, Sugreeva
with Praghasa, Lakshmana with Virupaksha, Agniketu and others with Shri Rama,
Vajramushti with Mainda, Ashaniprabha with Divivda, Pratapana with Nala and
Sushena with Vidyunmali. In a series of one-to-one encounters, the valiant vanaras
killed the valiant demons. |
|||
|
44 |
युध्यतामेव तेषां तु तदा वानररक्षसाम् | अन्योन्यं बद्धवैराणां घोराणां जयमिच्छताम् | राक्षसोऽसीति हरयो हरिश्चासीति राक्षसाः | जहि
दारय चैतीति कथं विद्रवसीति च | कालाः
काञ्चनसंनाहास्तस्मिंस्तमसि राक्षसाः | तस्मिंस्तमसि दुष्पारे राक्षसाः क्रोधमूर्छिताः | ते
हयान्काञ्चनापीडन्ध्वजांश्चाग्निशिखोपमान् | कुञ्जरान्कुञ्जरारोहान्पताकाध्वजिनो रथान् | लक्ष्मणश्चापि रामश्च शरैराशीविषोमपैः | तुरङ्गखुरविध्वस्तं रथनेमिसमुद्धतम् | वर्तमाने तथा घोरे सङ्ग्रामे लोमहर्षणे | ततो
भेरीमृदङ्गानां पणवानां च निस्वनः | हतानां स्तनमानानां राक्षसानां च निस्वनः | शस्त्रपुष्पोपहारा च तत्रासीद्युद्धमेदिनी | सा
बभूव निशा घोरा हरिराक्षसहारिणी | ततस्ते राक्षसास्तत्र तस्मिंस्तमसि दारुणे | तेषामापततां शब्दः क्रुद्धानामभिगर्जताम् | तेषां
रामः शरैः षड्भिः षड्जघान निशाचरान् | यज्ञशत्रुश्च दुर्धर्षो महापार्श्वमहोदरौ | ते
तु रामेण बाणौघः सर्वमर्मसु ताडिताः | ततः
काञ्चनचित्राङ्गैः शरैरग्निशिखोपमैः | ये
त्वन्ये राक्षसा वीरा रामस्याभिमुखे स्थिताः | सुवर्णपुङ्खैर्विशिखैः सम्पतद्भिः सहस्रशः | राक्षसानां च निनदैर्हरीणां चापि गर्जितैः | तेन
शब्देन महता प्रवृद्धेन समन्ततः | गोलाङ्गूला महाकायास्तमसा तुल्यवर्चसः | अङ्गदस्तु रणे शत्रुं निहन्तुं समुपस्थितः | इन्द्रजित्तु रथं त्यक्त्वा हताश्वो हतसारथिः | सोऽन्तर्धान गतः पापो रावणी रणकर्कशः | स
रामं लक्ष्मणं चैव घोरैर्नागमयैः शरैः | |
30 |
1054 |
|
As night set in, the
war between the demons and vanaras intensified. The demons destroy some vanaras
and vanaras dragged and killed elephants, chariots and their occupants. Shri Rama
killed the valiant demons even in that darkness. Angada strikes and
destroys Indrajit’s chariot, killed his charioteer. The wounded Indrajit
vanishes from the spot. Sugreeva and his monkeys feel delighted and praise
Angada's prowess. Indrajit comes back in an invisible form, strikes and makes
Shri Rama and Lakshmana with a serpentine network of arrows and held them captive. |
|||
इत्यार्षे श्री
रामायणे युद्धकाण्डे एकादश: भाग:
No comments:
Post a Comment