|
तस्मिन्हते राक्षससैन्यपाले
प्लवङ्गमानामृषभेण युद्धे |
भीमायुधं सागरतुल्यवेगं
प्रदुद्रुवे राक्षसराजसैन्यम् || १||
गत्वा
तु रक्षोऽधिपतेः शशंसुः
सेनापतिं पावकसूनुशस्तम् |
तच्चापि तेषां वचनं निशम्य
रक्षोऽधिपः क्रोधवशं जगाम || २||
सङ्ख्ये प्रहस्तं निहतं निशम्य
शोकार्दितः क्रोधपरीतचेताः |
उवाच तान्नैरृतयोधमुख्यान्
इन्द्रो यथा चामरयोधमुख्यान् || ३||
नावज्ञा रिपवे कार्या यैरिन्द्रबलसूदनः |
सूदितः सैन्यपालो मे सानुयात्रः सकुञ्जरः || ४||
सोऽहं
रिपुविनाशाय विजयायाविचारयन् |
स्वयमेव गमिष्यामि रणशीर्षं तदद्भुतम् || ५||
अद्य
तद्वानरानीकं रामं च सहलक्ष्मणम् |
निर्दहिष्यामि बाणौघैर्वनं दीप्तैरिवाग्निभिः || ६||
स
एवमुक्त्वा ज्वलनप्रकाशं
रथं तुरङ्गोत्तमराजियुक्तम् |
प्रकाशमानं वपुषा ज्वलन्तं
समारुरोहामरराजशत्रुः || ७||
स
शङ्खभेरीपटह प्रणादैर्
आस्फोटितक्ष्वेडितसिंहनादैः |
पुण्यैः स्तवैश्चाप्यभिपूज्यमानस्
तदा ययौ राक्षसराजमुख्यः || ८||
स
शैलजीमूतनिकाश रूपैर्
मांसाशनैः पावकदीप्तनेत्रैः |
बभौ वृतो राक्षसराजमुख्यैर्
भूतैर्वृतो रुद्र इवामरेशः || ९||
ततो
नगर्याः सहसा महौजा
निष्क्रम्य तद्वानरसैन्यमुग्रम् |
महार्णवाभ्रस्तनितं ददर्श
समुद्यतं पादपशैलहस्तम् || १०||
तद्राक्षसानीकमतिप्रचण्डम्
आलोक्य रामो भुजगेन्द्रबाहुः |
विभीषणं शस्त्रभृतां वरिष्ठम्
उवाच सेनानुगतः पृथुश्रीः || ११||
भाति
राक्षसराजोऽसौ प्रदीप्तैर्भीमविक्रमैः |
भूतैः परिवृतस्तीक्ष्णैर्देहवद्भिरिवान्तकः || १२||
एवमुक्त्वा ततो रामो धनुरादाय वीर्यवान् |
लक्ष्मणानुचरस्तस्थौ समुद्धृत्य शरोत्तमम् || १३||
तमापतन्तं सहसा समीक्ष्य
दीप्तेषुचापं युधि राक्षसेन्द्रम् |
महत्समुत्पाट्य महीधराग्रं
दुद्राव रक्षोऽधिपतिं हरीशः || १४||
तच्छैलशृङ्गं बहुवृक्षसानुं
प्रगृह्य चिक्षेप निशाचराय |
तमापतन्तं सहसा समीक्ष्य
बिभेद बाणैस्तपनीयपुङ्खैः || १५||
तस्मिन्प्रवृद्धोत्तमसानुवृक्षे
शृङ्गे विकीर्णे पतिते पृथिव्याम् |
महाहिकल्पं शरमन्तकाभं
समाददे राक्षसलोकनाथः || १६||
स
तं गृहीत्वानिलतुल्यवेगं
सविस्फुलिङ्गज्वलनप्रकाशम् |
बाणं महेन्द्राशनितुल्यवेगं
चिक्षेप सुग्रीववधाय रुष्टः || १७||
स
सायको रावणबाहुमुक्तः
शक्राशनिप्रख्यवपुः शिताग्रः |
सुग्रीवमासाद्य बिभेद वेगाद्
गुहेरिता क्रौचमिवोग्रशक्तिः || १८||
स
सायकार्तो विपरीतचेताः
कूजन्पृथिव्यां निपपात वीरः |
तं प्रेक्ष्य भूमौ पतितं विसञ्ज्मं
नेदुः प्रहृष्टा युधि यातुधानाः || १९||
ततो
गवाक्षो गवयः सुदंष्ट्रस्
तथर्षभो ज्योतिमुखो नलश् च |
शैलान्समुद्यम्य विवृद्धकायाः
प्रदुद्रुवुस्तं प्रति राक्षसेन्द्रम् || २०||
तेषां
प्रहारान्स चकार मेघान्
रक्षोऽधिपो बाणगणैः शिताग्रैः |
तान्वानरेन्द्रानपि बाणजालैर्
बिभेद जाम्बूनदचित्रपुङ्खैः || २१||
ते
वानरेन्द्रास्त्रिदशारिबाणैर्
भिन्ना निपेतुर्भुवि भीमरूपाः |
ततस्तु तद्वानरसैन्यमुग्रं
प्रच्छादयामास स बाणजालैः || २२||
ते
वध्यमानाः पतिताग्र्यवीरा
नानद्यमाना भयशल्यविद्धाः |
शाखामृगा रावणसायकार्ता
जग्मुः शरण्यं शरणं स्म रामम् || २३||
ततो
महात्मा स धनुर्धनुष्मान्
आदाय रामः सहरा जगाम |
तं लक्ष्मणः प्राञ्जलिरभ्युपेत्य
उवाच वाक्यं परमार्थयुक्तम् || २४||
काममार्यः सुपर्याप्तो वधायास्य दुरात्मनः |
विधमिष्याम्यहं नीचमनुजानीहि मां विभो || २५||
तमब्रवीन्महातेजा रामः सत्यपराक्रमः |
गच्छ यत्नपरश्चापि भव लक्ष्मण संयुगे || २६||
रावणो
हि महावीर्यो रणेऽद्भुतपराक्रमः |
त्रैलोक्येनापि सङ्क्रुद्धो दुष्प्रसह्यो न संशयः || २७||
तस्य
च्छिद्राणि मार्गस्व स्वच्छिद्राणि च गोपय |
चक्षुषा धनुषा यत्नाद्रक्षात्मानं समाहितः || २८||
राघवस्य वचः श्रुत्वा सम्परिष्वज्य पूज्य च |
अभिवाद्य ततो रामं ययौ सौमित्रिराहवम् || २९||
स
रावणं वारणहस्तबाहुर्
ददर्श दीप्तोद्यतभीमचापम् |
प्रच्छादयन्तं शरवृष्टिजालैस्
तान्वानरान्भिन्नविकीर्णदेहान् || ३०||
तमालोक्य महातेजा हनूमान्मारुतात्मजा |
निवार्य शरजालानि प्रदुद्राव स रावणम् || ३१||
रथं
तस्य समासाद्य भुजमुद्यम्य दक्षिणम् |
त्रासयन्रावणं धीमान्हनूमान्वाक्यमब्रवीत् || ३२||
देवदानवगन्धर्वा यक्षाश्च सह राक्षसैः |
अवध्यत्वात्त्वया भग्ना वानरेभ्यस्तु ते भयम् || ३३||
एष
मे दक्षिणो बाहुः पञ्चशाखः समुद्यतः |
विधमिष्यति ते देहाद्भूतात्मानं चिरोषितम् || ३४||
श्रुत्वा हनूमतो वाक्यं रावणो भीमविक्रमः |
संरक्तनयनः क्रोधादिदं वचनमब्रवीत् || ३५||
क्षिप्रं प्रहर निःशङ्कं स्थिरां कीर्तिमवाप्नुहि |
ततस्त्वां ज्ञातिविक्रान्तं नाशयिष्यामि वानर || ३६||
रावणस्य वचः श्रुत्वा वायुसूनुर्वचोऽब्रवीत् |
प्रहृतं हि मया पूर्वमक्षं स्मर सुतं तव || ३७||
एवमुक्तो महातेजा रावणो राक्षसेश्वरः |
आजघानानिलसुतं तलेनोरसि वीर्यवान् || ३८||
स
तलाभिहतस्तेन चचाल च मुहुर्मुहुः |
आजघानाभिसङ्क्रुद्धस्तलेनैवामरद्विषम् || ३९||
ततस्तलेनाभिहतो वानरेण महात्मना |
दशग्रीवः समाधूतो यथा भूमिचलेऽचलः || ४०||
सङ्ग्रामे तं तथा दृष्ट्व रावणं तलताडितम् |
ऋषयो वानराः सिद्धा नेदुर्देवाः सहासुराः || ४१||
अथाश्वस्य महातेजा रावणो वाक्यमब्रवीत् |
साधु वानरवीर्येण श्लाघनीयोऽसि मे रिपुः || ४२||
रावणेनैवमुक्तस्तु मारुतिर्वाक्यमब्रवीत् |
धिगस्तु मम वीर्यं तु यत्त्वं जीवसि रावण || ४३||
सकृत्तु प्रहरेदानीं दुर्बुद्धे किं विकत्थसे |
ततस्त्वां मामको मुष्टिर्नयिष्यामि यथाक्षयम् |
ततो मारुतिवाक्येन क्रोधस्तस्य तदाज्वलत् || ४४||
संरक्तनयनो यत्नान्मुष्टिमुद्यम्य दक्षिणम् |
पातयामास वेगेन वानरोरसि वीर्यवान् |
हनूमान्वक्षसि व्यूधे सञ्चचाल हतः पुनः || ४५||
विह्वलं तं तदा दृष्ट्वा हनूमन्तं महाबलम् |
रथेनातिरथः शीघ्रं नीलं प्रति समभ्यगात् || ४६||
पन्नगप्रतिमैर्भीमैः परमर्मातिभेदिभिः |
शरैरादीपयामास नीलं हरिचमूपतिम् || ४७||
स
शरौघसमायस्तो नीलः कपिचमूपतिः |
करेणैकेन शैलाग्रं रक्षोऽधिपतयेऽसृजत् || ४८||
हनूमानपि तेजस्वी समाश्वस्तो महामनाः |
विप्रेक्षमाणो युद्धेप्सुः सरोषमिदमब्रवीत् || ४९||
नीलेन
सह संयुक्तं रावणं राक्षसेश्वरम् |
अन्येन युध्यमानस्य न युक्तमभिधावनम् || ५०||
रावणोऽपि महातेजास्तच्छृङ्गं सप्तभिः शरैः |
आजघान सुतीक्ष्णाग्रैस्तद्विकीर्णं पपात ह || ५१||
तद्विकीर्णं गिरेः शृङ्गं दृष्ट्वा हरिचमूपतिः |
कालाग्निरिव जज्वाल क्रोधेन परवीरहा || ५२||
सोऽश्वकर्णान्धवान्सालांश्चूतांश्चापि सुपुष्पितान् |
अन्यांश्च विविधान्वृक्षान्नीलश्चिक्षेप संयुगे || ५३||
स
तान्वृक्षान्समासाद्य प्रतिचिच्छेद रावणः |
अभ्यवर्षत्सुघोरेण शरवर्षेण पावकिम् || ५४||
अभिवृष्टः शरौघेण मेघेनेव महाचलः |
ह्रस्वं कृत्वा तदा रूपं ध्वजाग्रे निपपात ह || ५५||
पावकात्मजमालोक्य ध्वजाग्रे समवस्थितम् |
जज्वाल रावणः क्रोधात्ततो नीलो ननाद ह || ५६||
ध्वजाग्रे धनुषश्चाग्रे किरीटाग्रे च तं हरिम् |
लक्ष्मणोऽथ हनूमांश्च दृष्ट्वा रामश्च विस्मिताः || ५७||
रावणोऽपि महातेजाः कपिलाघवविस्मितः |
अस्त्रमाहारयामास दीप्तमाग्नेयमद्भुतम् || ५८||
ततस्ते चुक्रुशुर्हृष्टा लब्धलक्ष्याः प्लवङ्गमाः |
नीललाघवसम्भ्रान्तं दृष्ट्वा रावणमाहवे || ५९||
वानराणां च नादेन संरब्धो रावणस्तदा |
सम्भ्रमाविष्टहृदयो न किं चित्प्रत्यपद्यत || ६०||
आग्नेयेनाथ संयुक्तं गृहीत्वा रावणः शरम् |
ध्वजशीर्षस्थितं नीलमुदैक्षत निशाचरः || ६१||
ततोऽब्रवीन्महातेजा रावणो राक्षसेश्वरः |
कपे लाघवयुक्तोऽसि मायया परयानया || ६२||
जीवितं खलु रक्षस्व यदि शक्नोषि वानर |
तानि तान्यात्मरूपाणि सृजसे त्वमनेकशः || ६३||
तथापि
त्वां मया मुक्तः सायकोऽस्त्रप्रयोजितः |
जीवितं परिरक्षन्तं जीविताद्भ्रंशयिष्यति || ६४||
एवमुक्त्वा महाबाहू रावणो राक्षसेश्वरः |
सन्धाय बाणमस्त्रेण चमूपतिमताडयत् || ६५||
सोऽस्त्रयुक्तेन बाणेन नीलो वक्षसि ताडितः |
निर्दह्यमानः सहसा निपपात महीतले || ६६||
पितृमाहात्म्य संयोगादात्मनश्चापि तेजसा |
जानुभ्यामपतद्भूमौ न च प्राणैर्व्ययुज्यत || ६७||
विसंज्ञं वानरं दृष्ट्वा दशग्रीवो रणोत्सुकः |
रथेनाम्बुदनादेन सौमित्रिमभिदुद्रुवे || ६८||
तमाह
सौमित्रिरदीनसत्त्वो
विस्फारयन्तं धनुरप्रमेयम् |
अन्वेहि मामेव निशाचरेन्द्र
न वानरांस्त्वं प्रति योद्धुमर्हसि || ६९||
स
तस्य वाक्यं परिपूर्णघोषं
ज्याशब्दमुग्रं च निशम्य राजा |
आसाद्य सौमित्रिमवस्थितं तं
कोपान्वितं वाक्यमुवाच रक्षः || ७०||
दिष्ट्यासि मे राघव दृष्टिमार्गं
प्राप्तोऽन्तगामी विपरीतबुद्धिः |
अस्मिन्क्षणे यास्यसि मृत्युदेशं
संसाद्यमानो मम बाणजालैः || ७१||
तमाह
सौमित्रिरविस्मयानो
गर्जन्तमुद्वृत्तसिताग्रदंष्ट्रम् |
राजन्न गर्जन्ति महाप्रभावा
विकत्थसे पापकृतां वरिष्ठ || ७२||
जानामि वीर्यं तव राक्षसेन्द्र
बलं प्रतापं च पराक्रमं च |
अवस्थितोऽहं शरचापपाणिर्
आगच्छ किं मोघविकत्थनेन || ७३||
स
एवमुक्तः कुपितः ससर्ज
रक्षोऽधिपः सप्तशरान्सुपुङ्खान् |
ताँल्लक्ष्मणः काञ्चनचित्रपुङ्खैश्
चिच्छेद बाणैर्निशिताग्रधारैः || ७४||
तान्प्रेक्षमाणः सहसा निकृत्तान्
निकृत्तभोगानिव पन्नगेन्द्रान् |
लङ्केश्वरः क्रोधवशं जगाम
ससर्ज चान्यान्निशितान्पृषत्कान् || ७५||
स
बाणवर्षं तु ववर्ष तीव्रं
रामानुजः कार्मुकसम्प्रयुक्तम् |
क्षुरार्धचन्द्रोत्तमकर्णिभल्लैः
शरांश्च चिच्छेद न चुक्षुभे च || ७६||
स
लक्ष्मणश्चाशु शराञ्शिताग्रान्
महेन्द्रवज्राशनितुल्यवेगान् |
सन्धाय चापे ज्वलनप्रकाशान्
ससर्ज रक्षोऽधिपतेर्वधाय || ७७||
स
तान्प्रचिच्छेद हि राक्षसेन्द्रश्
छित्त्वा च ताँल्लक्ष्मणमाजघान |
शरेण कालाग्निसमप्रभेण
स्वयम्भुदत्तेन ललाटदेशे || ७८||
स
लक्ष्मणो रावणसायकार्तश्
चचाल चापं शिथिलं प्रगृह्य |
पुनश्च संज्ञां प्रतिलभ्य कृच्छ्राच्
चिच्छेद चापं त्रिदशेन्द्रशत्रोः || ७९||
निकृत्तचापं त्रिभिराजघान
बाणैस्तदा दाशरथिः शिताग्रैः |
स सायकार्तो विचचाल राजा
कृच्छ्राच्च संज्ञां पुनराससाद || ८०||
स
कृत्तचापः शरताडितश् च
स्वेदार्द्रगात्रो रुधिरावसिक्तः |
जग्राह शक्तिं समुदग्रशक्तिः
स्वयम्भुदत्तां युधि देवशत्रुः || ८१||
स
तां विधूमानलसंनिकाशां
वित्रासनीं वानरवाहिनीनाम् |
चिक्षेप शक्तिं तरसा ज्वलन्तीं
सौमित्रये राक्षसराष्ट्रनाथः || ८२||
तामापतन्तीं भरतानुजोऽस्त्रैर्
जघान बाणैश्च हुताग्निकल्पैः |
तथापि सा तस्य विवेश शक्तिर्
भुजान्तरं दाशरथेर्विशालम् || ८३||
अथ
वायुसुतः क्रुद्धो रावणं समभिद्रवत् |
आजघानोरसि क्रुद्धो वज्रकल्पेन मुष्टिना || ८४||
तेन
मुष्टिप्रहारेण रावणो राक्षसेश्वरः |
जानुभ्यामपतद्भूमौ चचाल च पपात च || ८५||
विसंज्ञं रावणं दृष्ट्वा समरे भीमविक्रमम् |
ऋषयो वानराश्चैव नेदुर्देवाः सवासवाः || ८६||
हनूमानपि तेजस्वी लक्ष्मणं रावणार्दितम् |
अनयद्राघवाभ्याशं बाहुभ्यां परिगृह्य तम् || ८७||
वायुसूनोः सुहृत्त्वेन भक्त्या परमया च सः |
शत्रूणामप्रकम्प्योऽपि लघुत्वमगमत्कपेः || ८८||
तं
समुत्सृज्य सा शक्तिः सौमित्रिं युधि दुर्जयम् |
रावणस्य रथे तस्मिन्स्थानं पुनरुपागमत् || ८९||
रावणोऽपि महातेजाः प्राप्य संज्ञां महाहवे |
आददे निशितान्बाणाञ्जग्राह च महद्धनुः || ९०||
निपातितमहावीरां वानराणां महाचमूम् |
राघवस्तु रणे दृष्ट्वा रावणं समभिद्रवत् || ९१||
अथैनमुपसङ्गम्य हनूमान्वाक्यमब्रवीत् |
मम पृष्ठं समारुह्य रक्षसं शास्तुमर्हसि || ९२||
तच्छ्रुत्वा राघवो वाक्यं वायुपुत्रेण भाषितम् |
आरोहत्सहसा शूरो हनूमन्तं महाकपिम् |
रथस्थं रावणं सङ्ख्ये ददर्श मनुजाधिपः || ९३||
तमालोक्य महातेजाः प्रदुद्राव स राघवः |
वैरोचनमिव क्रुद्धो विष्णुरभ्युद्यतायुधः || ९४||
ज्याशब्दमकरोत्तीव्रं वज्रनिष्पेषनिस्वनम् |
गिरा गम्भीरया रामो राक्षसेन्द्रमुवाच ह || ९५||
तिष्ठ
तिष्ठ मम त्वं हि कृत्वा विप्रियमीदृशम् |
क्व नु राक्षसशार्दूल गतो मोक्षमवाप्स्यसि || ९६||
यदीन्द्रवैवस्वत भास्करान्वा
स्वयम्भुवैश्वानरशङ्करान्वा |
गमिष्यसि त्वं दश वा दिशो वा
तथापि मे नाद्य गतो विमोक्ष्यसे || ९७||
यश्चैष शक्त्याभिहतस्त्वयाद्य
इच्छन्विषादं सहसाभ्युपेतः |
स एष रक्षोगणराज मृत्युः
सपुत्रदारस्य तवाद्य युद्धे || ९८||
राघवस्य वचः श्रुत्वा राक्षसेन्द्रो महाकपिम् |
आजघान शरैस्तीक्ष्णैः कालानलशिखोपमैः || ९९||
राक्षसेनाहवे तस्य ताडितस्यापि सायकैः |
स्वभावतेजोयुक्तस्य भूयस्तेजो व्यवर्धत || १००||
ततो
रामो महातेजा रावणेन कृतव्रणम् |
दृष्ट्वा प्लवगशार्दूलं क्रोधस्य वशमेयिवान् || १०१||
तस्याभिसङ्क्रम्य रथं सचक्रं
साश्वध्वजच्छत्रमहापताकम् |
ससारथिं साशनिशूलखड्गं
रामः प्रचिच्छेद शरैः सुपुङ्खैः || १०२||
अथेन्द्रशत्रुं तरसा जघान
बाणेन वज्राशनिसंनिभेन |
भुजान्तरे व्यूढसुजातरूपे
वज्रेण मेरुं भगवानिवेन्द्रः || १०३||
यो
वज्रपाताशनिसंनिपातान्
न चुक्षुभे नापि चचाल राजा |
स रामबाणाभिहतो भृशार्तश्
चचाल चापं च मुमोच वीरः || १०४||
तं
विह्वलन्तं प्रसमीक्ष्य रामः
समाददे दीप्तमथार्धचन्द्रम् |
तेनार्कवर्णं सहसा किरीटं
चिच्छेद रक्षोऽधिपतेर्महात्माः || १०५||
तं
निर्विषाशीविषसंनिकाशं
शान्तार्चिषं सूर्यमिवाप्रकाशम् |
गतश्रियं कृत्तकिरीटकूटम्
उवाच रामो युधि राक्षसेन्द्रम् || १०६||
कृतं
त्वया कर्म महत्सुभीमं
हतप्रवीरश्च कृतस्त्वयाहम् |
तस्मात्परिश्रान्त इति व्यवस्य
न त्वं शरैर्मृत्युवशं नयामि || १०७||
स
एवमुक्तो हतदर्पहर्षो
निकृत्तचापः स हताश्वसूतः |
शरार्दितः कृत्तमहाकिरीटो
विवेश लङ्कां सहसा स्म राजा || १०८||
तस्मिन्प्रविष्टे रजनीचरेन्द्रे
महाबले दानवदेवशत्रौ |
हरीन्विशल्यान्सहलक्ष्मणेन
चकार रामः परमाहवाग्रे || १०९||
तस्मिन्प्रभग्ने त्रिदशेन्द्रशत्रौ
सुरासुरा भूतगणा दिशश् च |
ससागराः सर्षिमहोरगाश् च
तथैव भूम्यम्बुचराश्च हृष्टाः || ११०||
|
No comments:
Post a Comment