Monday, January 5, 2026

युद्धकाण्ड - Yuddhakāṇḍa (भाग - ३ ;;; Part – 3)

 

युद्धकाण्ड - Yuddhakāṇḍa (भाग - ;;; Part – 3)

Sarga number as per Ramayana

Shlokas extracted

No. of shlokas

Cumulative number of shlokas in this Kanda

6

लङ्कायां तु कृतं कर्म घोरं दृष्ट्वा भवावहम् |
राक्षसेन्द्रो हनुमता शक्रेणेव महात्मना |
अब्रवीद्राक्षसान्सर्वान्ह्रिया किं चिदवाङ्मुखः || १||

धर्षिता च प्रविष्टा च लङ्का दुष्प्रसहा पुरी |
तेन वानरमात्रेण दृष्टा सीता च जानकी || २||

प्रसादो धर्षितश्चैत्यः प्रवरा राक्षसा हताः |
आविला च पुरी लङ्का सर्वा हनुमता कृता || ३||

किं करिष्यामि भद्रं वः किं वा युक्तमनन्तरम् |
उच्यतां नः समर्थं यत्कृतं च सुकृतं भवेत् || ४||

मन्त्रमूलं हि विजयं प्राहुरार्या मनस्विनः |
तस्माद्वै रोचये मन्त्रं रामं प्रति महाबलाः || ५||

त्रिविधाः पुरुषा लोके उत्तमाधममध्यमाः |
तेषां तु समवेतानां गुणदोषं वदाम्यहम् || ६||

मन्त्रिभिर्हितसंयुक्तैः समर्थैर्मन्त्रनिर्णये |
मित्रैर्वापि समानार्थैर्बान्धवैरपि वा हितैः || ७||

सहितो मन्त्रयित्वा यः कर्मारम्भान्प्रवर्तयेत् |
दैवे च कुरुते यत्नं तमाहुः पुरुषोत्तमम् || ८||

एकोऽर्थं विमृशेदेको धर्मे प्रकुरुते मनः |
एकः कार्याणि कुरुते तमाहुर्मध्यमं नरम् || ९||

गुणदोषावनिश्चित्य त्यक्त्वा दैवव्यपाश्रयम् |
करिष्यामीति यः कार्यमुपेक्षेत्स नराधमः || १०||

यथेमे पुरुषा नित्यमुत्तमाधममध्यमाः |
एवं मन्त्रोऽपि विज्ञेय उत्तमाधममध्यमः || ११||

ऐकमत्यमुपागम्य शास्त्रदृष्टेन चक्षुषा |
मन्त्रिणो यत्र निरस्तास्तमाहुर्मन्त्रमुत्तमम् || १२||

बह्व्योऽपि मतयो गत्वा मन्त्रिणो ह्यर्थनिर्णये |
पुनर्यत्रैकतां प्राप्तः स मन्त्रो मध्यमः स्मृतः || १३||

अन्योन्यमतिमास्थाय यत्र सम्प्रतिभाष्यते |
न चैकमत्ये श्रेयोऽस्ति मन्त्रः सोऽधम उच्यते || १४||

तस्मात्सुमन्त्रितं साधु भवन्तो मन्त्रिसत्तमाः |
कार्यं सम्प्रतिपद्यन्तामेतत्कृत्यतमं मम || १५||

वानराणां हि वीराणां सहस्रैः परिवारितः |
रामोऽभ्येति पुरीं लङ्कामस्माकमुपरोधकः || १६||

तरिष्यति च सुव्यक्तं राघवः सागरं सुखम् |
तरसा युक्तरूपेण सानुजः सबलानुगः || १७||

अस्मिन्नेवङ्गते कार्ये विरुद्धे वानरैः सह |
हितं पुरे च सैन्ये च सर्वं संमन्त्र्यतां मम || १८||

18

189

Ravana recalls entry and sighting of Seeta by Shri Hanuman and his extra-ordinary display of power in Lanka. He calls for a meeting of his ministers and invites suggestions from them in view of a probable attack by Shri Rama and his army on the City of Lanka.

7

इत्युक्ता राक्षसेन्द्रेण राक्षसास्ते महाबलाः |
ऊचुः प्राञ्जलयः सर्वे रावणं राक्षसेश्वरम् || १||

राजन्परिघशक्त्यृष्टिशूलपट्टससङ्कुलम् |
सुमहन्नो बलं कस्माद्विषादं भजते भवान् || २||

कैलासशिखरावासी यक्षैर्बहुभिरावृतः |
सुमहत्कदनं कृत्वा वश्यस्ते धनदः कृतः || ३||

स महेश्वरसख्येन श्लाघमानस्त्वया विभो |
निर्जितः समरे रोषाल्लोकपालो महाबलः || ४||

विनिहत्य च यक्षौघान्विक्षोभ्य च विगृह्य च |
त्वया कैलासशिखराद्विमानमिदमाहृतम् || ५||

मयेन दानवेन्द्रेण त्वद्भयात्सख्यमिच्छता |
दुहिता तव भार्यार्थे दत्ता राक्षसपुङ्गव || ६||

दानवेन्द्रो मधुर्नाम वीर्योत्सिक्तो दुरासदः |
विगृह्य वशमानीतः कुम्भीनस्याः सुखावहः || ७||

निर्जितास्ते महाबाहो नागा गत्वा रसातलम् |
वासुकिस्तक्षकः शङ्खो जटी च वशमाहृताः || ८||

अक्षया बलवन्तश्च शूरा लब्धवराः पुनः |
त्वया संवत्सरं युद्ध्वा समरे दानवा विभो || ९||

स्वबलं समुपाश्रित्य नीता वशमरिन्दम |
मायाश्चाधिगतास्तत्र बहवो राक्षसाधिप || १०||

शूराश्च बलवन्तश्च वरुणस्य सुता रणे |
निर्जितास्ते महाबाहो चतुर्विधबलानुगाः || ११||

मृत्युदण्डमहाग्राहं शाल्मलिद्वीपमण्डितम् |
अवगाह्य त्वया राजन्यमस्य बलसागरम् || १२||

जयश्च विप्लुलः प्राप्तो मृत्युश्च प्रतिषेधितः |
सुयुद्धेन च ते सर्वे लोकास्तत्र सुतोषिताः || १३||

क्षत्रियैर्बहुभिर्वीरैः शक्रतुल्यपराक्रमैः |
आसीद्वसुमती पूर्णा महद्भिरिव पादपैः || १४||

तेषां वीर्यगुणोत्साहैर्न समो राघवो रणे |
प्रसह्य ते त्वया राजन्हताः परमदुर्जयाः || १५||

राजन्नापदयुक्तेयमागता प्राकृताज्जनात् |
हृदि नैव त्वया कार्या त्वं वधिष्यसि राघवम् || १६||

16

205

The demons try to install enthusiasm and confidence in Ravana with the eulogization his army's strength. They recommend that Indrajit alone is sufficient to eliminate the entire army of Vanaras together with Shri Rama.

8

ततो नीलाम्बुदनिभः प्रहस्तो नाम राक्षसः |
अब्रवीत्प्राञ्जलिर्वाक्यं शूरः सेनापतिस्तदा || १||

देवदानवगन्धर्वाः पिशाचपतगोरगाः |
न त्वां धर्षयितुं शक्ताः किं पुनर्वानरा रणे || २||

सर्वे प्रमत्ता विश्वस्ता वञ्चिताः स्म हनूमता |
न हि मे जीवतो गच्छेज्जीवन्स वनगोचरः || ३||

सर्वां सागरपर्यन्तां सशैलवनकाननाम् |
करोम्यवानरां भूमिमाज्ञापयतु मां भवान् || ४||

रक्षां चैव विधास्यामि वानराद्रजनीचर |
नागमिष्यति ते दुःखं किं चिदात्मापराधजम् || ५||

अब्रवीच्च सुसङ्क्रुद्धो दुर्मुखो नाम राक्षसः |
इदं न क्षमणीयं हि सर्वेषां नः प्रधर्षणम् || ६||

अयं परिभवो भूयः पुरस्यान्तःपुरस्य च |
श्रीमतो राक्षसेन्द्रस्य वानरेन्द्रप्रधर्षणम् || ७||

अस्मिन्मुहूर्ते हत्वैको निवर्तिष्यामि वानरान् |
प्रविष्टान्सागरं भीममम्बरं वा रसातलम् || ८||

ततोऽब्रवीत्सुसङ्क्रुद्धो वज्रदंष्ट्रो महाबलः |
प्रगृह्य परिघं घोरं मांसशोणितरूपितम् || ९||

किं वो हनुमता कार्यं कृपणेन तपस्विना |
रामे तिष्ठति दुर्धर्षे सुग्रीवे सहलक्ष्मणे || १०||

अद्य रामं ससुग्रीवं परिघेण सलक्ष्मणम् |
आगमिष्यामि हत्वैको विक्षोभ्य हरिवाहिनीम् || ११||

कौम्भकर्णिस्ततो वीरो निकुम्भो नाम वीर्यवान् |
अब्रवीत्परमकुर्द्धो रावणं लोकरावणम् || १२||

सर्वे भवन्तस्तिष्ठन्तु महाराजेन सङ्गताः |
अहमेको हनिष्यामि राघवं सहलक्ष्मणम् || १३||

ततो वज्रहनुर्नाम राक्षसः पर्वतोपमः |
क्रुद्धः परिलिहन्वक्त्रं जिह्वया वाक्यमब्रवीत् || १४||

स्वैरं कुर्वन्तु कार्याणि भवन्तो विगतज्वराः |
एकोऽहं भक्षयिष्यामि तान्सर्वान्हरियूथपान् || १५||

स्वस्थाः क्रीडन्तु निश्चिन्ताः पिबन्तु मधुवारुणीम् |
अहमेको हनिष्यामि सुग्रीवं सहलक्ष्मणम् |
साङ्गदं च हनूमन्तं रामं च रणकुञ्जरम् || १६||

16

221

All the demons, ie., Prahasta, Durmukha, Vajradamshtra, Nikumbha and Vajrahanu, etc, eulogise their own strengths, and assure Ravana that they can individually kill Shri Rama and his army within a short span of time.

9

ततो निकुम्भो रभसः सूर्यशत्रुर्महाबलः |
सुप्तघ्नो यज्ञकोपश्च महापार्श्वो महोअर् || १||

अग्निकेतुश्च दुर्धर्षो रश्मिकेतुश्च राक्षसः |
इन्द्रजिच्च महातेजा बलवान्रावणात्मजः || २||

प्रहस्तोऽथ विरूपाक्षो वज्रदंष्ट्रो महाबलः |
धूम्राक्षश्चातिकायश्च दुर्मुखश्चैव राक्षसः || ३||

परिघान्पट्टसान्प्रासाञ्शक्तिशूलपरश्वधान् |
चापानि च सबाणानि खड्गांश्च विपुलाञ्शितान् || ४||

प्रगृह्य परमक्रुद्धाः समुत्पत्य च राक्षसाः |
अब्रुवन्रावणं सर्वे प्रदीप्ता इव तेजसा || ५||

अद्य रामं वधिष्यामः सुग्रीवं च सलक्ष्मणम् |
कृपणं च हनूमन्तं लङ्का येन प्रधर्षिता || ६||

तान्गृहीतायुधान्सर्वान्वारयित्वा विभीषणः |
अब्रवीत्प्राञ्जलिर्वाक्यं पुनः प्रत्युपवेश्य तान् || ७||

अप्युपायैस्त्रिभिस्तात योऽर्थः प्राप्तुं न शक्यते |
तस्य विक्रमकालांस्तान्युक्तानाहुर्मनीषिणः || ८||

प्रमत्तेष्वभियुक्तेषु दैवेन प्रहतेषु च |
विक्रमास्तात सिध्यन्ति परीक्ष्य विधिना कृताः || ९||

अप्रमत्तं कथं तं तु विजिगीषुं बले स्थितम् |
जितरोषं दुराधर्षं प्रधर्षयितुमिच्छथ || १०||

समुद्रं लङ्घयित्वा तु घोरं नदनदीपतिम् |
कृतं हनुमता कर्म दुष्करं तर्कयेत कः || ११||

बलान्यपरिमेयानि वीर्याणि च निशाचराः |
परेषां सहसावज्ञा न कर्तव्या कथं चन || १२||

किं च राक्षसराजस्य रामेणापकृतं पुरा |
आजहार जनस्थानाद्यस्य भार्यां यशस्विनः || १३||

खरो यद्यतिवृत्तस्तु रामेण निहतो रणे |
अवश्यं प्राणिनां प्राणा रक्षितव्या यथा बलम् || १४||

एतन्निमित्तं वैदेही भयं नः सुमहद्भवेत् |
आहृता सा परित्याज्या कलहार्थे कृते न किम् || १५||

न नः क्षमं वीर्यवता तेन धर्मानुवर्तिना |
वैरं निरर्थकं कर्तुं दीयतामस्य मैथिली || १६||

यावन्न सगजां साश्वां बहुरत्नसमाकुलाम् |
पुरीं दारयते बाणैर्दीयतामस्य मैथिली || १७||

यावत्सुघोरा महती दुर्धर्षा हरिवाहिनी |
नावस्कन्दति नो लङ्कां तावत्सीता प्रदीयताम् || १८||

विनश्येद्धि पुरी लङ्का शूराः सर्वे च राक्षसाः |
रामस्य दयिता पत्नी न स्वयं यदि दीयते || १९||

प्रसादये त्वां बन्धुत्वात्कुरुष्व वचनं मम |
हितं पथ्यं त्वहं ब्रूमि दीयतामस्य मैथिली || २०||

पुरा शरत्सूर्यमरीचिसंनिभान्
नवाग्रपुङ्खान्सुदृढान्नृपात्मजः |
सृजत्यमोघान्विशिखान्वधाय ते
प्रदीयतां दाशरथाय मैथिली || २१||

त्यजस्व कोपं सुखधर्मनाशनं
भजस्व धर्मं रतिकीर्तिवर्धनम् |
प्रसीद जीवेम सपुत्रबान्धवाः
प्रदीयतां दाशरथाय मैथिली || २२||

22

243

Vibhishana, a younger brother of Ravana, lists out bad omens occurring in the city and advises Ravana to restore Seetha to Shri Rama. He counsels Ravana and others not to underestimate Shri Rama’s dexterity as an archer, who eliminated Khara and other demons in Janasthana in almost one and half a muhurta time period.

इत्यार्षे श्री रामायणे युद्धकाण्डे तृतीय: भाग:

 

Yuddhakāṇḍa Part-2

Yuddhakāṇḍa Part-4

 

No comments:

Post a Comment